वृत्तपत्रेषु संस्कृतम्
अस्मिन् काले यस्मात् अस्माभिः न्यूनातिन्यूनं मूल्येन ज्ञानं सूचना च प्राप्यते तत् तु समाचारपत्रमेव । तत्रैव अस्माभिः देशस्य विदेशस्य च सूचनानां भाण्डागारं प्राप्यते तत्र सर्वविधाः वार्ताः भवन्ति । वर्तमानसमये संस्कृतवार्ताः अपि पत्रेषु दृश्यन्ते । वस्तुतः अस्य कारणमेतत् वर्तते यत् संस्कृतवार्ताः इदानीं नूतनं स्वरूपं स्वीकृत्यः सन्ति । अधुना संस्कृतविभागेषु संस्कृतविषये यदि काऽपि समस्या भवति । तदपि समाचार-पत्रेषु दृश्यते । तस्य च रक्षणम् आवश्यकं भवति । अधुना अपि कानिचन संस्कृतवृत्तपत्राणि प्रकाश्यन्ते । यथा सुधर्मा संस्कृतवर्तमानपत्रम् च । अनयोः द्वयोः मध्ये सम्पूर्णा संस्कृतवार्ता प्रकाश्यते । अतः अस्माभिः वृत्तपत्रेषु या संस्कृतवार्ताः भवन्ति तासु कासाञ्चित् वार्ताः अस्माभिः अत्र अस्मिन् पुटके स्थापनस्य प्रयासः कृतः । अस्मिन् पुटके भारतीयवृत्त-पत्रेषु यत् संस्कृतवार्ता अस्ति । तस्य तु विवरणं विद्यते एव । तेन सार्धम् अन्यत्र अर्थात् वैदेशिकवृत्तपत्रेषु या संस्कृतवार्ता अस्ति, तस्याः पृथक्तया पुटकस्य निर्माणं कृत्वा अस्माभिः स्थापनस्य प्रयासः कृतः ।