संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » मुखस्थे रन्ध्रे शलाकाचिकित्सा

मुखस्थे रन्ध्रे शलाकाचिकित्सा

shalachikitsa

मुखस्थे रन्ध्रे शलाकाचिकित्सा

गोसन्ततिः (धेनुः, वृषभः, महिषी, महिषः इत्यादयः ) केन वा न ज्ञायेत् ? क्षीरीदिकं विना असमाकं दैनन्दिनं जीवनमेव न प्रचलेत् । पञ्चामृत-पञ्चगव्यादिकं विना धार्मिकविधयः न प्रवर्तेन् । गोसन्ततिं विना कृषिः कष्टसाध्या । एवम् अस्माकं जीवनस्य गोसन्ततेः च दृढतरः कश्चन सन्बन्धः ।

गोजातीयानां मुखस्य अन्तः ऊर्ध्वभागे (यत्र ताल्वादीनि स्थानानि भवेयुः तत्र) सुक्ष्मं रन्ध्रद्वयं भवति इत्येतत् किं ज्ञायते भवद्धिः ? नासारन्ध्रविषयः न उच्यते अत्र । नासारन्ध्रद्वयं तु सर्वैः विदतमेव । तत् मुखात् बहिः भवति । अत्र उच्चमानं रन्ध्रद्वयं तु मुखस्य अन्तर्भागे भवति, अतिसूक्ष्मं च भवति । रन्ध्रे अशुष्का नारिकेलशलाका यदि प्रवेश्येत तर्हि सार्धद्विपाददैर्घ्यं यावत्, प्रायः मस्तिष्कर्यन्तम् अपि प्रवेशयितुं शक्या । गोसन्ततेः मुखस्थे रन्ध्रे अशुष्कनारिकेलशलाकायाः प्रवेशस्य आवश्यकता का इति पृच्छेयुः भवन्तः । सा च क्रिया क्रियते चिकित्साङ्गतया । गोसन्ततेः पुरोभागस्य कश्चन पादः यदा भुजात् पृथग्भवेत् तदा सन्धौ अस्थिसंयोजनाय एषा चिकित्सा क्रियते इति श्रूयते ।

एषा अस्ति ग्राम्यचिकित्सा । आधुनिके पशुचिकित्साग्रन्थे क्कापि अस्याः उल्लेखः न कृतः एव । प्राचीने आयुर्वेदशास्त्रे  अपि क्कापि एतादृश्याः चिकित्सायाः उल्लेखः स्याद्वा न वा इति तु च ज्ञायते । न कस्याञ्चिदपि संशोधनपत्रिकायामपि एतस्याः चिकित्सायाः उल्लेखः दृश्यते । ‘विजयवाणी’ नामिकायां कन्नडदिनपत्रिकायां स्तम्भलेखकः मान्यः महालिङ्गवर्यः एतम् अशं कस्मिश्चित् लेखे सचित्रं विवृणोति । ततः एव अयम् अंशः उद्धृतः ।

महालिङ्गवर्यः एतस्याः चिकित्सायाः मूलविषये लिखत- ‘’मम सुहृत् कश्चन पशुवैद्यः एतां चिकित्सां करोति । ‘कुन्दापुर’- नगरपरिसरे ‘रट्टाडि’नामके ग्रामे स्थितात् डा. दिनकरशेट्टिनामकात् पशुवैद्यात् तेन एषः चिकित्साक्रमः ज्ञातः अनुस्त्रियमाणश्च वर्तते । दिनकरशेट्टिवर्यः एतं चिकित्साक्रमम् ‘अमासेबैलु’ ग्रामे निवसतः लक्ष्मीनारायणभागवतात् अजानाम् । ल. ना. भागवतः च वृद्धात् अग्रजात् रामकृष्णभागवतात् एतत् अजागत् । रामकृष्णभागवतस्य पुत्रौ श्याम-स्कन्दगोपालौ पितृव्यात् एतां चिकित्सां ज्ञात्वा अद्यापि अनुवर्तयतः । सर्वमूलभूतः रामकृष्णभागवतवर्यः कुतः एतां विद्यां ज्ञातवान् इति विवरणं न उपलभ्यते” इति । ग्राम्यचिकित्सा पारम्परिकी भवति प्रायः । अतः रामकृष्णभागवतवर्यः पितुः पितामहस्य वा (अन्यस्य गुरोः वा ) सकाशात् तां ज्ञातवान् स्यात् इति तर्कणीयम् अस्माभिः ।

सन्धौ अस्थ्नोः वियोगः मानवानामिव पशूनामपि भवति एव । तादृशे प्रसङ्गे पशवः खञ्जन्ति । पशुषु अस्थ्नोः मध्ये चत् अन्तरं समुद्भवेत् तत् अङ्गुलिमानेन निर्दिश्यते ग्रामकोविदैः । द्वयङ्गुलं, त्र्यङ्गुलं, चतुरङ्गुलं वा अन्तरं दृश्यते इति वदन्ति ते अङ्गुल्या परिमाय । यदि एतत् अन्तरम् अधिकं भवेत् तर्हि सः पशुः चलने अपि कष्टम् अनुभवेत् ।

एवं पादसन्धौ अस्थियोगपीडां यः पशुः अनुभवेत् तस्य चिकित्सार्थम् एषा ‘शलाकाचिकित्सा’ अनुस्त्रियते । अस्थिवियोगानन्तरं दिनाभ्यन्तरे एषा चिकित्सा क्रियेत चेत् परिणामः अपि दिनाभ्यन्तरे एव दृश्येत । सप्ताहाभ्यन्तरे चिकित्सा क्रियेत चेत् परिणामदर्शनाय सप्ताहः एव आवश्यकः स्यात् । यदि वामभागस्थे पादसन्धौ अस्थिवियोगपीडा स्यात् तर्हि दक्षिणरन्ध्रे शलाका प्रवेश्यते । दक्षिणभागे सा पीडा चेत् वामरन्ध्रे शलाका प्रवेश्यते । शरीरस्य मस्तिष्कस्य वामार्धं दक्षिणभागः, दक्षिणर्धं मस्तिष्कस्य वामभागः च नियन्त्रयतः इत्यतः एवं क्रियेत किम् इति तु न स्पष्टम् ।

सजीवस्य पशोः मुखस्थे लघुरन्ध्रे शलाकाप्रवेशनं न सामान्यं कार्यम् । विशेषपरिणतिः, कौशलं, पशुविषये प्रीतिः इत्यादिभिः युक्तः समर्थः वैद्यः एव एतादृशं कार्यं कुर्तुम् अर्हति ।  सामान्याः तु पशोः मुखस्य विकासस्य सम्पादने, दृढतया ग्रहणे, एतादृशेषु अन्येषु कार्येषु च साहाय्य कर्तुम् अर्हन्ति । अशुष्कनारिकेलशलाकायाः प्रवेशात् पशोः न कोऽपि अपायः , न कापि पीडा वा । शलाका प्रवेशानन्तरं कस्मिश्चित् दिने पशुः क्षौति निरन्तरम् । एतदवसरे सन्धिपीडायुक्तं पादमपि उन्नीय अप्रयत्नेन चालयति सः । तदैव सन्धिस्थं पादस्थि यथास्थानं निवेशितं भवति । तदनन्तरं तस्य पशोः सञ्चता समाप्ता भवति ।

शलाकाप्रवेशनं क्षुतस्य उत्पादनमात्रे परिणमति, उत मस्तिष्कभागे मर्मणि विशेषप्रचोदनं किमपि करोति इत्यादिकं तु न ज्ञायते । रन्ध्रे प्रवेशिता नारिकेलशलाका पशुशरीरे तथैव  तिष्ठति । सा न अपनीयते । तथापि पशोः तु न कापि हानिः इति वदति वैद्यः ।

सर्वमेतत् विवृत्य महालिङ्गवर्यः लिखति – “मया मम सुहृत् पशुवैद्यः पृष्टः – ‘ग्राम्यचिकित्साङ्गवतः अयं क्रमः अधीतविज्ञानैः भवद्धिः शास्त्रीग्रन्थस्य प्रामाणयस्य अभावे अपि कथम् अङ्गी क्रियते ?’ इति । यदा तेन वैद्येन उक्तम् – “फ्रिम्बियेनामकम् एतत् रन्ध्रं पशुशरीरे किमर्थं भवति इति पशुवैद्यलोकः अपि न जानति । पादसन्धौ अस्थ्नोः मध्ये अन्तरं यदा दृश्यते तदा तु वयं प्रायः वेदनाहरम् औषधं दद्मः । पशुः तु एतया अस्मच्चिकित्सया वेदनानुभवं न प्राप्नुयात् चेदपि आजीवनं खञ्चेत् एव । सामान्यतां कृषिकाणां पशूनां विषये अन्यः चिकित्सापरिहारः नास्ति अस्मत्समीपे । एषा विशिष्टा शलाकाचिकित्सा तु पशोः खञ्जतां निवार्य तं स्वस्थं करोति, तत्स्वामिनं च निश्चिन्तं करोति । एवं स्थिते एषः चिकित्साक्रमः कुतो वा न आद्रियेत ?’ इति ।“

चिकित्साक्षेत्रे वस्तुतः ग्राम्यनगरभेदः गौणः स्यात् । चिकित्सार्थी यतः लाभं प्राप्नुयात् सः क्रमः अवश्यमेव आदर्तव्यः । अन्यथा ‘शलाकाचिकित्सादयः’ अपूर्वाः अपि ग्राम्यचिकित्साक्रमाः विलयं गच्छेतुः । ततः हानिः तु चिकित्साक्षेत्रस्य एव ननु ? अतः आधुनिकाः पशुवैद्याः अपि डा. दिनरशेट्टिः इव एतस्मिन् क्रमे आस्थां प्रदर्श्य एतदुपयोगेन चिकित्सां कुर्युः । तदा एव लोकस्य हितं सिद्धयेत् । मूकजीविनः वक्तुं सामर्थ्ये असत्यपि आधमर्ण्यं तु अवश्य वहेयुः ।

सौजन्यं स्रोतश्च——सम्भाषण- सन्देशः

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​