परिचयः
शब्दकोशानां निर्माणं वैदिकयुगात् एव प्रचलति । वैदिकशब्दसंग्रहं निघण्टुः इत्युच्यते । अस्मिन् कोशे पर्यायवाचिशब्दानां सङ्कलनं वर्तते । काले-काले विविधानां कोशानां रचना भारते जायमाना अस्ति ।
अध्ययनानुसन्धानयोः क्षेत्रे कोशग्रन्थानां महती भूमिका वर्तते। ज्ञानाधिगमप्रक्रियायां वेगमवाप्तुम् अपाततः त्वरितं जिज्ञासितमर्थं ज्ञातुं सन्दर्भं ज्ञातुं, दिग्दर्शनार्थं च अनुसन्धित्सवः बहुधा कोशग्रन्थानेव शरणमुपयान्ति। वेदकालतः आरभ्य अद्य यावत् बहुविधाः कोशाः बहुभिः विद्वद्भिः रचिताः। तेषु कतिचन वैदिकाः शास्त्रीयाः पारिभाषिकाः, कतिचित् तु शब्दार्थनिरूपणपराः सन्ति। विषयदृष्ट्या समानकोटिकशब्दानां पृथक् पृथक् वर्गं कृत्वा तत्पर्यायवाचिपदानां वर्गशः संकलनात्मकाः कोशाः इत्येकः प्रकारः यथा अमरकोशादयः। शब्दानाम् अकारादिवर्णक्रमेण व्यवस्थापिताः कोशाः इत्यपरः प्रकारः यथा वाचस्पत्यादयः। अस्मिन् जालपत्रे अत्र तेषां विविधानां कोषानां प्रयोक्तृसुविधार्थं वर्गीकरणं कृत्वा प्रदर्शनम् अस्ति ।