परिचयः
सामवेदः संगीतस्य उद्गमः मूलं वा अस्ति । अस्य संकलनं उद्गाते अथवा उद्गातुः कृते अभवत् । अत एव अस्मिन् वेदे केवलम् ऋचाः सन्ति । यासां संख्या (1549) नवचत्वारिंशत्-पञ्चदशशतम् अस्ति । एतासु अधिकाः ऋचाः ऋग्वेदात् सङ्गृहीताः सन्ति । सामवेदस्य केवलं (75) पञ्चसप्ततिः एव मन्त्राः सन्ति , ये स्वतन्त्ररूपेण अस्यैव वेदस्य गण्यन्ते । अस्य द्वौ भागौ भवतः आर्चिकः पूर्वार्चिकः वा , उत्तरार्चिकश्चेति । अस्य उपलब्धशाखाः तिस्रः सन्ति । सामवेदस्य चत्वारः ब्रह्मणग्रन्थाः , द्वौ आरण्यकग्रन्थौ , तिस्रश्च उपनिषदः उपलब्धाः सन्ति ।