परिचयः
अथर्ववेदः भग्वगिंरसवेदः अथर्वाङिङरसवेदः अथवा ब्रह्मवेदः इत्यादिभिः उपनामभिः ज्ञायते । अस्य केचन मन्त्राः औषधिविषयकाः , केचन यज्ञविषयकाः , केचन च ब्रह्मविद्याविषयकाः सन्ति । अस्मिन् वेदे स्तुति-प्रार्थना-आशीर्वादः विषयकाः मन्त्राः अपि सन्ति । अथर्ववेदसंहितायाः (20) विंशतिः काण्डानि सन्ति एतेषां विभाजनम् (34) चतुस्त्रिंशति प्रपाठकेषु (731) एकत्रिंशदधिकसप्तशते च सूक्तेषु कृतम् अस्ति । अथर्ववेदसंहितायाम् सर्वमाहत्य (5849) नवचत्वारिंशदधिक-अष्टपञ्चाशत् मन्त्राः सन्ति । परम् अत्र प्रपाठकानाम् सूक्तानाम् , मन्त्राणां च संख्यायां विवादः , अनिश्चितता वा अस्ति । अस्य वेदस्य द्वे शाखे , एक च ब्राह्मणग्रन्थः अस्ति ।