स्वायत्ता
‘संस्कृतविश्वम्’ इत्याख्ये जालपुटेऽस्मिन् यत्किमपि प्रदर्श्यते तत्सर्वमपि संस्कृतभाषायाः हिताय अपि च संस्कृतानुरागिणां हिताय च अस्ति। अस्य जालपुटस्य सम्पूर्णं विषयं क्वचिदपि प्रकाशयितुम्, अनुवादं कर्तुं यथावत् उपयोक्तुं स्वीकर्तुं च शक्यते। जालपुटस्यास्य नामोल्लेखस्य अपेक्षा नास्ति। परं यदि कश्चन नामोल्लेखं चिकीर्षुः अस्ति तर्हि कृपया सूचयित्वा उल्लिखन्तु इति विनिवेद्यते। अस्मिन् बहुशः विषयाः अन्यान्यजालपुटद्वारा कृतज्ञतापूर्वकं प्रदर्श्यमानाः वर्तन्ते। वयं तेषां जालपुटानां संस्कृतकार्यं प्रशंसयन्तः तेषां जालपुटस्य विज्ञप्तिरूपेण तेषां संस्कृतकार्यं प्रदर्शयितुकामाः स्मः। अतः प्रत्येकं प्रयोक्ता यथा “भारतीय-बौद्धिक-सम्पदा-अधिनियम”स्य उल्लङ्घनं न भवेत् तथा अस्य जालपुटस्य विषयान् अन्यत्र उपयुज्यताम्।
विषयप्रामाणिकता
जालपुटेऽस्मिन् सर्वाः अपि विषयाः बहुधा परिशील्य एव स्थापिताः सन्ति। यद्यपि वयं विषयानां प्रामाणिकतायाः परिशुद्धतायाः च विषये विशेषावधानं महत्त्वं च दद्मः तथापि जालपुटमिदं बहुशः विषयान् अन्यान्यजालपुटात् सङ्गृह्णातीत्यतः तत्तद्विषयकप्रामाण्यम् तत्तज्जालपत्राणि एव वहन्ति। एवं सत्यपि कस्यचिदपि विषयस्य प्रामाणिकतायाः परिशुद्धतायाः विषये आपत्तिः भवतां समक्षे आयाति तर्हि कृपया सम्पर्कपृष्टद्वारा अस्मान् सूचयन्तु। तस्य यथायोग्यसमाधानं यथाशीघ्रं कर्तुं वयं प्रयतामहे।
अस्मिन् जालपुटे वयं बहून् लेखान् प्रकटयामः यस्मिन् चिकित्सासम्बद्धलेखाः अपि अन्तर्गताः भवन्ति। तेषां लेखानां विषये वयं एतत् स्पष्टीकुर्मः यत् ते लेखाः केवलं विषयज्ञानार्थं सन्ति, वयम् आश्वासनं न दद्मः यत् ते शतप्रतिशतं प्रामाणिकाः सन्ति इति। अत्र ये चिकित्साप्रकाराः दत्ताः ते सामान्याः सन्ति। एते व्यवसायिकचिकित्साप्रकाराः भवितुं नार्हन्ति। अत्र दत्ताः चिकित्साविधाः केवलं ज्ञानाय सन्ति। अस्य उद्धरणं क्वचित् चिकित्सासूचनाय चिकित्साव्यवसायाय वा न उपयोक्तव्याः।
Removal –
भारतीय-बौद्धिक-सम्पद्-अधिनियमस्य उल्लङ्घनं न कदापि अस्माकम् उद्देश्यमस्ति। तथापि कस्याश्चिदपि व्यक्तेः संस्थायाः वा दृष्टौ यदि अस्मिन् जालपुटे कश्चन अपि विषयः स्वत्वाधिकारसीमां अतिक्रम्य प्रदर्शितः इति, प्रतिलिपि-अधिनियमम् उल्लङ्घ्य प्रदर्शितः इति, स्वव्यावसायिकहिताय हानिः अस्ति इति वा भाति तर्हि कृपया अनुक्षणं सप्रमाणम् अस्मभ्यम् अधः विद्यमानकोष्ठकद्वारा सूचयन्तु। वयं भवताम् आक्षेपान् परिशील्य 48 होरान्तर्गततया भवन्तं संपर्च्य भवतः स्वपरिचयं दृढीकृत्य यथाशीघ्रं यथायोग्यं व्यवहरामः।
नाम—
संस्थानाम—
पदनाम—
विषयशीर्षकम्—
विभागः—
कारणम्—
Telephone—
दूरभाषा—
e-mail—