संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » तन्त्रांशः » अक्षरविन्यासकः(Akshrvinyaska)

अक्षरविन्यासकः(Akshrvinyaska)

      •   “देवनागरी अस्ति चेत् वयं स्मः”यदि भवतां संस्कृतं प्रति स्नेहः वर्तते तर्हि देवनागरीम् आत्मसात्कुर्वन्तु, स्वकीयायाः भाषायाः ध्वजवाहकाः भवन्तु…। एतादृशाः बहवः उपकरणानि (tools) अपि च अनुप्रयोगाः (applications) सन्ति, येषां साहाय्येन भवन्तः स्वकीयस्य सङ्गणकस्य उपरि देवनागरीलित्यां कार्यं कर्तुं शक्नुवन्ति, मेल् कर्तुं शक्नुवन्ति। एतावदेव न अपितु देवनागर्या सन्देशानाम् आदानं प्रदानञ्च कर्तुं शक्नुवन्ति। तान्त्रिकक्षेत्रे संस्कृतेन व्यवहरन्तु अपि च गौरवेण आत्मानं परिचायन्तु..।सङ्गणके दूरवाण्या वा देवनागरीलिप्याः पठनेन भवतां महती आनन्दानुभूतिः भवेत्। जालपत्रेषु अपि देवनागर्यां टङ्किताः कथाः वार्तापत्राणि वा प्रायेण भवन्तः शीघ्रं पठेयुः। परं यदा लेखितुम् उद्युक्ताः भवामः तदा अणुपत्रे (e-mail) पत्रलेखनं, सामाजिकसञ्जालेषु (social network) टिप्पणीलेखनम्, विद्युत्फलके (tablet) लेखनम् इत्यादिषु अवसरेषु अत्र विवशीभूय रोमनमाध्यमेन लेखनीयं भवति प्रायेण। परन्तु अधुना एतादृशाः उपकरणानि (tools) अपि च अनुप्रयोगाः (applications) आगताः सन्ति येषां माध्यमेन आत्मानुभूतिं दूरवाण्या, सङ्गणकमाध्यमेन, विद्युत्फलकद्वारा (tablet) वा सरलतया आत्मसात्कर्तुं शक्नुवन्ति।

        किम् अस्ति Unicode?

        ‘Unicode’ इत्यस्यार्थः वर्तते ‘समानरूपेण मता सङ्केतलिपि’ इति। एते Open Type Fonts इत्यपि कथ्यन्ते। एताः लिपयः (fonts) अङ्कीयाः (digital) भवन्ति। भवद्भिः दृष्टं स्यात् यत् एकस्मिन् सङ्गणके आङ्ग्लभाषया सज्जीकृतां सञ्चिकाम् अपरस्मिन् सङ्गणके पठितुं क्लेशः न भवति। परं देवनागर्या सज्जीकृतां सञ्चिकां यदि सा लिपिः (font) यस्मिन् सङ्गणके नास्ति तस्मिन् उद्घाटयामः चेत् तदा सञ्चिकायां नष्ठाक्षराणि (junk characters) दृश्यन्ते। एतादृश्यां परिस्थितौ सङ्गणके लिपिनियोजनेन (font install) विना पठनम् असम्भवं वर्तते। भवद्भिः केषुचित् जालपत्रेषु एवं सूचितं दृष्टं स्यात् यत् अत्र यदि देवनागर्या टङ्कितां सामग्रीं द्रष्टुं न शक्ष्यन्ति तर्हि इतः लिपीः (fonts) अवचीयताम् इति। एवम् तस्मात् भवति यस्मात् देवनागरीयुतसञ्चिका Unicode लिप्यां सज्जीकृता नास्ति। यदि Unicode लिप्याम् अभविष्यत् तर्हि एषा समस्या न अभविष्यत्।

        भवन्तः स्वसङ्गणके एतां सुविधां क्रियान्वयितुं (activate) शक्नुवन्ति। Windows-7 मध्ये इयं सुविधा अन्तर्निहिता (inbuilt) वर्तते। तदैव Windows XP मध्ये एषा एतस्य सान्द्रमुद्रिकाद्वारा (C.D) सक्रिया (activated) करणीया भवति।

        Windows-7 मध्ये देवनागरीलिप्याः संस्थापनम् –

        Windows XP इत्यस्यापेक्षया Windows-7 मध्ये देवनागरीलिप्याः उपकरणपट्टिकायाः (toolbar) क्रियान्वयनं (activate) सरलं वर्तते। एतस्य क्रियान्वयननिमित्तम् Programs Menu > Control Panel > इत्यत्र नुदन्तु। पुनः नवीनपटले (window) Adjust Your Computer Setting Window इत्यस्योपरि नुदन्तु। तत्र Clock, Language Region इत्यस्योपरि नुदन्तु अपि च Region and Language Tab > Change Keyboard and Other Input Language > Change Keyboard इति पिञ्जस्योपरि नुदन्तु। इतः परं Text Service and Input Languages Window इत्यत्र Add इति पिञ्जस्योपरि नुदन्तु। इतः परम् एकं नवीनपटलम् (window) उद्घटिष्यति। एतस्मिन् Add Input Language मध्ये Sanskrit (India) इति भाषां चित्वा तत्र + चह्नोपरि नुदन्तु। तत्र keyboard इति दृश्यते। अत्रापि + चिह्नोपरि नुदन्तु। तत्र Devanagari – INSCRIPT, US, Shoe More… चेत्यादिविकल्पाः दृश्यन्ते। एषु कमपि चेतुं शक्नुमः।

        Windows XP इत्यस्मिन् देवनागरीलिप्याः संस्थापनम् –

        Windows XP मध्ये यदि देवनागरीं क्रियान्वयीकर्तुम् इष्यते तर्हि Windows XP इत्यस्य सान्द्रमुद्रिकाम् (C.D) अवश्यमेव रक्ष्यताम् अथवा सान्द्रमुद्रिकायाः i386 इति सञ्चिकां अन्विश्य कस्याँश्चित् स्मृतिशलाकायां (Pen drive) रक्ष्यताम्। अधुना Start > setting > control panel > date, time, language and Regional options > regional and language > options>languages tab > install files for complex scripts > apply button इत्येवं क्रमेण नोदनं कुर्मः। झटिति कर्तुं कीलस्य (shortcut) प्रयोगम् अपि कर्तुं शक्नुमः। यथा – Windows key+R नुदन्तु, अनेन कश्चन अन्वेषकः (Run box) आगमिष्यति, तस्मिन् Intel.cbi@r,v इति टङ्कयित्वा Enter इत्यस्य नोदनं करणीयम्। तत्र Languages Tab उपरि नुदन्तु। अपि च supplemental languages support इति शीर्षकस्य अधः Install files for complete & script and right to left languages (inculudingthai) इत्यस्य विकल्पोपरि नुदन्तु। अत्र Ok इत्यत्र नुदन्तु। अधुना सङ्गणकं Windows XP इत्यस्य सान्द्रमुद्रिकायाः अपेक्षां करिष्यति। अधुना सान्द्रमुद्रिकायाम् उत स्मृतिशलाकायां (Pen Drive) वा 1386 इति सञ्चिकायाः अन्वेषणं कुर्वन्तु। ततः पश्चात् सङ्गणकं स्वयमेव सञ्चिकारक्षणस्य आरम्भं करिष्यति। अन्ते च सङ्गणकं पुनः प्रवर्तयितुं आदेशः दृश्यते। अधुना भवतां सङ्गणकं देवनागरीलिप्यां अन्यभारतीलिप्यां वा कार्यं कर्तुं समर्थं वर्तते। कीलफलकं (keyboard) संस्थापयितुं (install) installed services इत्यस्य दक्षिणभागे स्थिते Add पिञ्जस्योपरि नोदनीयम्। पुनः Input Language इत्यस्य पतत्सूच्यां (drop down menu) संस्कृतचयनं करणीयम्। अधोभागे keyboard layout/IME इत्यस्यां सूच्यां sanskrit traditional आगमिष्यति। पुनः Add नोदनेन अनुक्रमणिकायां (sequence) Devanagri – INSCRIPT, PHONETIC एवञ्च REMINGTON प्रयोक्ता hindi indic IME एवञ्च Language in put tool इत्यत्र नोदनं कृत्वा Add कुर्वन्तु। अधुना सङ्गणकपटले दक्षिणभागे अधः कार्यशलाकायां (taskbar) कीलपटलेन (keyboard) साकं Language Bar इति विकल्पः द्रक्ष्यते। तत्र नोदनेन निवेशितव्यभाषां (Input language), निवेशितव्यकीलपटलं (keyboard input) च चयनं कर्तुं शक्नुवन्ति। Alt+Shift नोदनेन पुनः निवेशितव्यभाषापरिवर्तनं कर्तुं शक्नुमः।

        देवनागर्याः टङ्कणप्रकाराः –

        (1) रेमिंगटन-टङ्कणपद्धतिः (Remington Typing) – एतस्य शिक्षणाय ‘Typewriter’ इत्यस्योपरि देवनागरीटङ्कणस्य शिक्षणस्य आवश्यकता अस्ति।

        (2) इनस्क्रिप्ट-टङ्कणपद्धतिः (Inscript Typing) – अयं विधिः सर्वाधिकः प्रसिद्धः वर्तते अपि च अतीव सरलः अस्ति। एतस्य शिक्षणार्थं ildc.in/inscriptlayout.html इत्यस्मात् देवनागर्याः कीलपटलविन्यासं (keyboard Layout) अवचित्य (Download) मुद्रयित्वा अभ्यासस्य आरम्भं कर्तुं शक्नुमः।

        (3) फोनेटिक्-टङ्कणपद्धतिः (Phonetic Typing) – अयम् अपि देवनागरीटङ्कणस्य सरलः विधिः अस्ति। यथा कीलपटले आङ्ग्लटङ्कणं भवति तथैव देवनागरीटङ्कणम् अपि भवति। यथा – यदि भवान् ‘मम नाम रामः’ इति लेखनम् इच्छति तर्हि भवता ‘mama naama raamah’ इति लेखनीयं भविष्यति। अत्र यथा उच्यते तथैव लिख्यते।

        सम्पृक्तसेवायां देवनागरीटङ्कणस्य उपकरणानि (Online Devanagari Typing Tool)

        यदि स्वीये सङ्गणके देवनागरीटङ्कणोपकरणम् (Devanagari Typing Tool) अवचेतुं (Download) न इच्छन्ति तर्हि सम्पृक्तटङ्कणोपकरणस्य (Online Typing Tool) साहाय्यं स्वीकर्तुं शक्नुवन्ति। अत्र आङ्ग्लेन विलिख्य देवनागर्यां परिवर्तनं कर्तुं शक्यते। सम्पृक्तोपकरणसाहाय्यात् (Online Tools) सम्पृक्ते (Online) एव विलिख्य ततः प्रतिकृतिं (Copy) कृत्वा सङ्गणकसञ्चिकायां लेपितुं (Past) शक्नुमः।

        www.google.com/transliterate

        www.quillpad.in

        www.hindi.changathi.com

        www.libikaar.com

        www.indiatyping.com

        वियुक्तसेवायां देवनागरीटङ्कणस्य उपकरणानि (Offline Devanagari Typing Tool)

        यदि भवन्तः वियुक्ते (offline) टङ्कयितुं इच्छन्ति तर्हि वियुक्तोपकरणानि (offline tools) अर्थात् IME (Input Method Editor) windows मध्ये उक्तप्रकारेण संस्थापयितुं शक्नुवन्ति। अवचयनानन्तरं तस्मात् कस्मिन्नपि विण्डोज-एप्लीकेशन, यथा MS Word, Internet Explorer, G-Talk इत्यादिषु देवनागर्या लेखितुं शक्यते। Microsoft इत्यस्य www.bhashaindia.com इति जालपत्रतः download पिञ्जं नुत्वा इण्डिक-इनपुट (indic input) अवचित्यापि सङ्गणके संस्थापयितुं (Install) शक्यते।

        निम्नलिखितेषु जालपत्रसङ्केतेष्वपि भवन्तः उपकरणानि प्राप्तुं शक्नुवन्ति –

        www.google.comiinbuttools/windows/index.html

        www.vishalon.net/download.asbx

        www.bhashaindia.com

        www.itbix.com/catehinditool

        निःशुल्कानि देवनागर्याः उपकरणानि (Free Devanagare Tools)

        यदि देवनागरी-यूनिकोड-लिपयः (fonts), देवनागरी-अक्षरसंशोधकः (spell checker), ओपन आफिस (open office), देवनागरी-सन्देशवाहकः (Messenger), लिप्यन्तरणसाधनम् (transliteration), इत्यादीन् बहून् देवनागरी-तन्त्रांशान् (soft wears) निःशुल्केन इच्छन्ति तर्हि भारतसर्वकारस्य टी.डी.आई.एल माहितितन्त्रज्ञानस्य (T.D.I.L Information Technology) जालपत्रं – www.ildc.bov.in तथा www.ildc.in इत्यत्र पञ्जीकरणं (Registration) कारयित्वा निःशुल्केन देवनागर्याः तन्त्रांशस्य (software) सान्द्रमुद्रिकां (C.D) याचयितुं शक्नुवन्ति।

        लिपिपरिवर्तकः (Font converter)

        कदाचित् सञ्चिकाः (documents) कस्मिंश्चित् अपरस्मिन् लिप्यां भवन्ति। यदि यूनिकोड्-उपयोगं कुर्वन्तः सन्ति तर्हि ते पठने परिष्करणे च कष्टम् अनुभवन्ति। एतस्यां परिस्थितौ सङ्गणके लिप्याः संस्थापनं (install) विना सञ्चिकायाः पठनम् असम्भवं वर्तते। एनन्निवारणाय बहवः ईदृशाः सम्पृक्तसेवायां (online) परिवर्तकाः (converters) सन्ति, येषां साहाय्येन कस्मिंश्चिदपि लिप्यां लिखितविषयं यूनिकोडे परिवर्तायितुं शक्नुमः।

        www.Utillties.webdunia.com/dataconversion.php

        www.pravakta.com/hizndi-font-converter

        www.sites.google.com/site/hindifontconverters/files

        https://www.sites.google.com/site/hindifontconverters/files/Agra%2Bfont%2Bto%2Bunicode%2Bconverter03.htm?attredirects=0&d=1


            • बरहतन्त्रांशः

            बरह इत्युक्ते ‘लेखनम्’ इत्यर्थः भवति । अत्र वयं अनूच्चारणकुञ्चिकापटलम् (phonetic keyboard) इत्यस्य उपयोगं कर्तुं शक्नुमः यत्र च वयं यां कामपि भारतीयभाषां सामान्य-आङ्ग्ल-कुञ्चिकापटलम् (standard English keyboard) उपयुज्य लेखितुं शक्नुमः । अत्र प्रयोक्तारः लेखनावसरे अनानुकूल्यं न अनुभवन्ति । वास्तवरूपेण अस्मिन् तन्त्रांशे लेखनं बहु सुलभं यतोहि, तत्र यथा आङ्ग्लभाषायां अस्माकं नाम लिखामः तथैव कन्नडहिन्दि-आदिभाषायामपि लिखामः । यथा –
            वदतु संस्कृतम् । जयतु भारतम् ।
            vadatu saMskRutam | jayatu bhAratam |
            बहवः भारतीयभाषिकतन्त्रांशाः True Type Fonts (ANSI encoding) इत्यस्य आधारेण निर्मिताः सन्ति । बहु वर्षेभ्यः प्राक् Windows/Linux इत्यादिसंस्थाः Open Type Fonts (Unicode encoding) इत्यस्य परिचयं कारितवन्तः । अद्यत्वेऽपि भारतीयभाषिकतन्त्रांशाः अधिकतया True Type उपयुज्य एव निर्मीयन्ते अपि च अत्यधिकतया प्रकाशनेषु, online प्रकाशनेषु च ANSI आधारितानि True Type Fonts एव उपयुज्यते । एवं सति, बरहतन्त्रांशः अत्र ANSI अप्पि च UNICODE इत्यनयोर्मध्ये विद्यमानं दूरतां निवारयति । वयं इमं तन्त्रांशमुपयुज्य सुलभतया ANSI मध्ये विद्यमानं लिखितम् UNICODE मध्ये परिवर्तयितुं शकोति । उदाहरणार्थम्- कस्मिंश्चित् यन्त्रे यत्र UNICODE आश्रितं नास्ति तत्र यदि किञ्चन UNICODE मध्ये लिखितं mail प्राप्नोति तर्हि सः तत् ANSI मध्ये परिवर्त्य पठितुं शक्नोति ।
            बरहतन्त्रांशः विविधभाषासु विद्यमानलिपिभिन्नतामपि दूरीकरोति । एषः सर्वभाषां एकस्मिन्नेव सङ्केते (code) आनीतवान् अस्ति । अतः अत्र एकस्याः भाषायाः लिप्या लिखितं लेखं अपरस्याः भाषायाः लिप्यां परिवर्तयितुं शक्यते । उदाहरणार्थं, कश्चन द्रविडः यः हिन्दीं जानाति सः हिन्दीभाषया किञ्चन mail प्राप्तवान् । यदि सः देवनागरीलिपिं पठितुमक्षमः अस्ति तर्हि सः सुलभतया तां देवनागरीलिपिं द्रविडलिप्यां परिवर्त्य पठितुं शक्नोति ।
            एवं प्रयोक्ता अत्र सुलभतया स्वेच्छां भाषालिपिं टङ्कयितुं शक्नोति अपि च कतिपय-नोदनेनैव बहुविधपरिवर्तनानि अपि कर्तुं शक्नोति ।
            अधिकविवरणार्थं अधोनिर्दिष्टं जालपुटं पश्यन्तु –
            http://www.baraha.com/about.htm

            http://baraha.com/download/BarahaSetup.exe

                • FontConvert in Baraha वरह तन्त्राशे अक्षरपरिवर्तन-विधिः in English


Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​