चलचित्राणि
वर्त्तमानेऽस्मिन् चलचित्राणि न केवलं मनोरञ्जनसाधनभूतानि एव अपितु ज्ञानार्जसाधनानि अपि । नूतनानां विषयाणां शिक्षणं प्राप्तुमपि अद्यत्वे एतेषां पर्याप्तरूपेण प्रयोगं कुर्मः एव । देशान्तरस्थितानां ज्ञानं चलचित्रमाध्यमेन अस्माकम् उपकाराय यथा भवेत् तन्निमितम् अत्र विषयविशेषज्ञैः तत्तद्विषयम् अधिकृत्य कृतानि ज्ञानवर्धकानि मनोरञ्जकानि चलचित्राणि गीतानि नाटकानि इत्यादिषु विविधवर्गेषु विभज्य प्रदत्तानि ।