1.प्रतिक्षणं परिवर्तयेत् (रूपं हि जीवनम्)
छायावद् कदा कदाsतपं हि जीवनम् ।
प्रतिपलमिह जीवेदशेषम्, दृष्यं यदत्र श्व: स्यात् न वा ॥
१)
कामयेत् हि यस्त्वां पूर्णमनसा,प्राप्यते स: महत्प्रयासै: ।
ईदृशस्तु कोsपि कुत्राsपि, सोsयमेव सर्वेषु रम्य: ।
हस्तौ तदीयौ, करयो: गृहाण, सोsयं दयालु: श्व: स्यात् न वा ॥१॥
२)
पक्ष्मणां गृहीत्वा छायां, सन्निधौ य: कोsपि आयायात् ।
लक्षवारमवेक्षितं वातुलहृदयम्, हृदयं स्पन्देतैव ।
मन्यस्व एवम् अस्मिन् क्षणे या, सेsयं कथा श्व: स्यात् न वा ॥२॥
गेयतानुकूल- संस्कृतानुवादक:
राजेन्द्र भावे
गायक: – श्रीरंग भावे
हर घड़ी बदल रही है रूप ज़िंदगी
छाँव है कभी, कभी है धूप ज़िंदगी
हर पल यहाँ जी भर जियो
जो है समाँ कल हो न हो
चाहे जो तुम्हें पूरे दिल से
मिलता है वो मुश्किल से
ऐसा जो कोई कहीं है
बस वो ही सबसे हसीं है
उस हाथ को तुम थाम लो
वो मेहरबाँ कल हो न हो
हर पल यहाँ…
पलकों के ले के साये
पास कोई जो आये
लाख सम्भालो पागल दिल को
दिल धड़के ही जाये
पर सोच लो इस पल है जो
वो दास्ताँ कल हो न हो
हर घड़ी बदल रही है…
2.दीने न चेद् दयालुता
दीने न चेद् दयालुता , हृदयेन तेन किम् ।
मधुरं न यस्य भाषितं , वदनेन तेन किम् ?
विहिता न भक्तिरीश्वरे , न च साधुसंगतिः ।
भूभारतुल्यमूर्तिना , मनुजेन तेन किम् ?
वचनोपदेशपालनैर्विनये न सेवया ।
पितरौ न येन तोषितौ , तनयेन तेन किम् ?
गृहमागतस्य दुःखिनो , नितराम्बुभुक्षया ।
उदरौ न जातु पूरितौ , धनिकेन तेन किम् ?
3.प्रथमोन्मदः प्रथममधुमदः
किमपि यदि त्वमकथयः, श्रुतं मया
यत्प्रीतिसहचरी, त्वयाऽहं चिता।
चिता त्वयाऽऽ ,श्रुतं मया।
प्रथमोन्मदः प्रथममधुमदः,नवप्रणयः, नवप्रतीक्षा ।
कुर्वीय कां मे गतिम्, हे मनो व्याकुल ।
मम मनो व्याकुल ,त्वं हि वद ।।
उत्पतन् संचरेयम्, इह वायौ कुत्रचित्,
अथवाऽन्दोलयेऽहं मेघदोलायां क्वचित्।
एकीकुर्यां नभो महीम् ,
सुहृदः! करवाणि किं, किं न हि ।।
अमुना भाषितं रीत्यैव सह मया ,
स्वप्नान् दत्तवान् सहस्रशः रङ्गिन:।।
विहता हि स्यामहं यथा,
स च चुम्बेत्प्रीतिमान्,मां मुदा ।।
4.इयं जनताऽस्ति जनता…. (ये पब्लिक है सब जानती है)
अयि! श्रीमन्! इयं जनताऽस्ति जनता
येयं जनता सर्वं जानाति जनतेयम्।
येयं जनता…..।।
अयि! किमभ्यन्तरे , अयि! किं बहिरङ्गे
किमभ्यन्तरे किं बहिरङ्गे
इयं सर्वमभिजानाति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्….. ।।
अयि! किमभ्यन्तरे , अयि! किं बहिरङ्गे
किमभ्यन्तरे किं बहिरङ्गे
इयं सर्वमभिजानाति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्….. ।।
चेदियमिच्छेन्मूर्ध्नि स्थापयेद्
अधः पातयेदथवा
चेदियमिच्छेन्मूर्ध्नि स्थापयेद्
अधः पातयेदथवा
प्रथमं पश्चाद् धावति परतः, कामयेद्धि अनुगमनम् ।
अयि! भग्नाशा चेद् अयि रुष्टेयं चेद् ।
भग्नाशा चेद् रुष्टेयं चेद्
हन्त! पुनर्नहि तुष्यति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्…..।।
हीरकमुक्तास्त्वया निगूढाः
ततो न किमप्यभाषि ।
यतो निगूढं चूर्णतण्डुलं
क्षुधिता मुखरा जाताः ।
अयि भिक्षां नेच्छति
अयि ऋणं च नेच्छति ।
भिक्षां नेच्छति, ऋणं च नेच्छति
अधिकारं स्वं वाञ्छति ।
जनतेयं सर्वं जानाति जनतेयम्
येयं जनता सर्वं जानाति जनतेयम्…..।।
अयि! किमभ्यन्तरे , अयि! किं बहिरङ्गे ।
किमभ्यन्तरे किं बहिरङ्गे
इयं सर्वमभिजानाति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्…..।।
5.नो मया ज्ञातं…..(हम न समझे थे…)
चलचित्रम् – गर्दिश (१९९३)
गीतस्य संस्कृत-शब्दावली (Song Lyrics)
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।
कामये स्माSहं, तत्परं प्रापम्,
ज्योतिषा सह, न्वागता छायाः,
छाया गम्भीरा, ज्योतिरुत्तानम्।।
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।1।।
निर्जने वर्ते, दीन एकाकी,
जीवनेनाSहं, कुत्र सन्नीतः?
हा मया भ्रष्टः, सेवितः पन्थाः।।
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।2।।
कस्य विक्रयणं, कस्य वा दानम्,
अंचले मे वै, कण्टकाः कीर्णाः।
आपणा अन्याः, पूरिताः पुष्पैः।।
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।3।।
नो मया ज्ञातं…..(हम न समझे थे…) 20/02/2016
चलचित्रम् – गर्दिश (१९९३)
गीतस्य हिन्दी शब्दावली (Song Lyrics)
हम न समझे थे, बात इतनी सी,
ख्वाब शीशे के, दुनियां पत्थर की।।
आरजू हमने, की तो हम पाए,
रोशनी साथ, लाई थी साए।
साए गहरे थे, रोशनी हल्की।।
हम न समझे थे, बात इतनी सी,
ख्वाब शीशे के, दुनियां पत्थर की।।1।।
सिर्फ वीरानी, सिर्फ तनहाई,
जिन्दगी हमको यह कहां लाई?
खो गई हमसे, राह मंजिल की।
हम न समझे थे बात इतनी सी,
ख्वाब शीशे के दुनियां पत्थर की।।2।।
क्या कोई बेचे, क्या कोई बांटे,
अपने दामन में सिर्फ हैं कांटे।
और दुकानें हैं, सिपर्फ फूलों की।
हम न समझे थे बात इतनी सी,
ख्वाब शीशे के दुनियां पत्थर की।।3।।
6.जातमुग्धः जातमुग्धः रे (Yad lagla)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
7.शनैः शनैः (dheere dheere se)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
8.आर्द्रे मार्गेस्मिन् (Sanama Re Sanam Re)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
9.इमे मोह मोह (Ye Moh Moh Ke Dhaage)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
10.पक्षे यवति! (Cheap Thrills)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
11.अलबेला सुजन आगतो (albela sajan)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
12.हृद् हूम्-हूम् कुरुते (Dil Hoom Hoom Kare)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
13.एहि प्रिये एहि प्रिये (Aaja mahi aaja mahi aa soniya )
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
14.देशिजटकः ऽ ऽ ऽ (Punjabi Bhangra)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
15.किम् एतत् (Kolavaridi)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
16.सखि नृत्यं नृत्यं नृत्यम् (Punjabi Giddha Song)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
17.निशा व्येति नैति (Raina Beeti jaaye)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
18.तन्तून् त्रोटयामि तारकाभ्यः कान्तेः (Bol na halke halke)
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com