परिचय
भक्तिप्रधानानि गीतिकाव्यानि स्तोत्रकाव्यानि इति उच्यन्ते । विविधानां देवतानां आचार्याणां अथवा तीर्थाणां स्तुतिं कर्त्तुं विविधानि स्तोत्राणि लिखितानि । विभिन्नेषु देवेषु भारतीयानाम् अचला श्रद्धा अखण्डविश्वासश्च । तेषां देवानां स्तुत्या एव अधिकतराणां जनानां दिनचर्यायाः प्रारम्भः । स्तोत्राणि तत्र देवनां स्तुतिसाधनमिति वयं जानीमः एव । पूर्वपूर्वमनीषिभिः महता परिश्रमेण श्रद्धया गेयानि स्तोत्राणि विरचितानि । तेषां स्तोत्राणां गानं कथं करणीयमिति अस्माकं जिज्ञासा भवत्येव । जिज्ञासाशान्त्यै, स्तोत्राणां गानेन च ईश्वरानुकम्पायै आनन्दप्राप्त्यै च शिवस्तोत्राणि, विष्णुस्तोत्राणि, दुर्गास्तोत्राणि इत्यादिरूपेण विशेषेण विभज्य गानस्वरपूर्वकं चलचित्ररूपेण अत्र स्तोत्राणि प्राप्तुं शक्यानि ।