परिचयः
“उप “नि” इत्युसर्गपूर्वकात् “सद्” इति धातोः क्विप्- प्रत्यये कृते “उपनिषद्” इति शब्दः व्युत्पन्नः भवति । अत्र सद्-धातुः अनेकार्थकः अस्ति । अस्य विशरण-गत्यवसानादयः अनेके अर्थाः भवन्ति । अत्र त्रयोऽपि अर्थाः सङ्ग्ताः भवन्ति । उपनिषदिति सर्वानर्थकर-संसारं विनाशयति, संसारकरणभूतामविद्यां च शिथिलयति ब्रह्म च गमयति इति “उपनिषद्” । अथवा व्यवधान-रहितस्य सम्पूर्णज्ञानस्य प्रतिपादिकाः एव उपनिषदः अथवा गुरोः समीपमुपविश्य यत् ज्ञानं प्राप्येत् तद् ज्ञानमेव उपनिषद् इति । एवं अनेकैः विद्वद्भिः “उपनिषद्” इत्यस्य अनेके अर्थाः विहिताः सन्ति । वस्तुतः येन सांसारिकाज्ञानस्य नाशः भवेत् ब्रह्मज्ञानस्य च प्राप्तिः भवेत् सा एव “उपनिषद्” इति कथ्यते । सम्प्रति प्रायः विंशत्यधिकद्विशतम् (220) संख्याकाः उपनिषदः प्राप्यन्ते तासु द्वादश (12) उपनिषद्ग्रन्थाः मुख्याः सन्ति ।