1.मनसा सततम् — एकलगीतम्
मनसा सततं समरणीयम्
मनसा सततम् स्मरणीयम् वचसा सततम् वदनीयम्
लोकहितम् मम करणीयम् ॥धृ॥
न भोग भवने रमणीयम् न च सुख शयने शयनीयम्
अहर्निशम् जागरणीयम् लोकहितम् मम करणीयम् ॥१॥
न जातु दुःखम् गणनीयम् न च निज सौख्यम् मननीयम्
कार्य क्षेत्रे त्वरणीयम् लोकहितम् मम करणीयम् ॥२॥
दुःख सागरे तरणीयम् कष्ट पर्वते चरणीयम्
विपत्ति विपिने भ्रमणीयम् लोकहितम् मम करणीयम् ॥३॥
गहनारण्ये घनान्धकारे बन्धु जना ये स्थिता गह्वरे
तत्र मया सन्चरणीयम् लोकहितम् मम करणीयम् ॥४॥
2.पठत संस्कृतम् – लिखितम् देवनागरीलिप्या
पठत संस्कृतम्
पठत संस्कृतम्, वदत संस्कृतम्
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि।। पठत्
ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरर्जितम्।
कीर्तिरर्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभि: पठत्
स्थान मूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम्।
यद्विना जना नैव विजानते
भारतीयसंस्कृतिं सनातनाभिधां वराम्।। पठत्
जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम्।
जयतु संस्कृतम्, जयतु मनुकुलम्
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ।। पठत्

3.सुरससुबोधा विश्वमनोज्ञा(Surasa Subodhaa Vishwa Manojnyaa)
अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com