सूक्तानि 1.श्रीसूक्तम् (ऋग्वेदः)(ससङ्गीतम्) श्री सूक्त ( ऋग्वेद) हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ।१। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।२। अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ।३। कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।४। चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।५। आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ।६। उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे ।७। क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ।८। गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।९। मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ।१०। कर्दमेन प्रजाभूतामयि सम्भवकर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ।११। आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे । निचदेवीं मातरं श्रियं वासय मे कुले ।१२। आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।१३। आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् . चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह .. १४.. तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् . यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् .. १५.. यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् . सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् .. १६.. पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे . तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् .. १७.. अश्वदायी गोदायी धनदायी महाधने . धनं मे जुषतां देवि सर्वकामांश्च देहि मे .. १८.. पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि . विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व .. १९.. पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् . प्रजानां भवसि माता आयुष्मन्तं करोतु मे .. २०.. धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः . धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते .. २१.. वैनतेय सोमं पिब सोमं पिबतु वृत्रहा . सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः .. २३.. न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः . . भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् .. २४.. सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे . भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् .. २५.. विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् . लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् .. २६.. महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि .तन्नो लक्ष्मीः प्रचोदयात् .. २७.. श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते . धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः .. २८.. ऋणरोगादि दारिद्य पापंक्षुदपमृत्यवः . भयशोकमनस्तापा नश्यन्तु मम सर्वदा .. श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु . श्रियं वसाना अमृतत्वमायन् भजन्ति सद्यः सविता विदध्यून् .. श्रिय एवैनं तच्छ्रियामादधाति . सन्ततमृचावषट् कृत्यंसंधत्तं सधीयते प्रजया पशुभिः .. ॐ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि . तन्नो लक्ष्मीः प्रचोदयात् …. ॐ शान्तिः शान्तिः शान्तिः .. 2.श्रीसूक्तम् (ऋग्वेदः) ॥ श्रीसूक्त (ऋग्वेद) ॥ ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मादेवीर्जुषताम् ॥ ३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीगं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥ कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥ यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् । श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥ 3. पुरुषसूक्तम् ॥ पुरुषसूक्त ॥ अथ पुरुषसूक्तम् ॥ ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीही स्वस्तिरस्तु नः । स्व॒स्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदेहे । शं चतुष्पदे । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । ॐ सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । १ पुरुष एवेदम सर्वमं । यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानः । यदन्नेनातिरोहति । २ एतावानस्य महिमा । अतो ज्यायाहाश्च पूरुषः । पादोहोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । ३ त्रिपादूर्ध्व उदैत्पुरुषः । पादोहोऽस्येहाऽऽभवात्पुनः । ततो विश्वङ्व्यक्रामत् । साशनानशने अभि । ४ तस्माहाद्विराडजायत । विराजो अधि पूरुषः । स जातो अत्यरिच्यत । पश्चाद्भूमिमथो पुरः । ५ यत्पुरुषेण हविषाहा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मः शरद्धविः । ६ सप्तास्यासन्परिधयः । त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन्पुरुषं पशुम् । ७ तं यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्च ये । ८ तस्माहाद्यज्ञात्सर्वहुतः । सम्भृतं पृषदाज्यम् । पशूउस्ताहश्चक्रे वायव्यान् । आरण्यान्ग्राम्याश्च ये । ९ तस्माहाद्यज्ञात्सर्वहुतः । ऋचः सामानि जज्ञिरे । छन्दागंसि जज्ञिरे तस्माह्त् । यजुस्तस्मादजायत । १० तस्मादश्वा अजायन्त । ये के चो॑भयादतः । गावो॑ ह जज्ञिरे तस्माहात् । तस्माहाज्जाता अजावयः । ११ यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य कौ बाहू । कावूरू पादावुच्येते । १२ ब्राह्मणोऽस्य मुखमासीत् । बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः । पद्भ्या शॉद्रो अजायत । १३ चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च । प्राणाद्वा॒युरजायत । १४ नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्राहात् । तथा लोकाह अकल्पयन् । १५ वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन् यदास्तोहे । १६ धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । १७ यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र पूर्वे साध्याः सन्ति देवाः । १८ अद्भ्यः सम्भूतः पृथिव्यै रसाहाच्च । विश्वक॑र्मणः समवर्तताधि॑ । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रेहे । १ वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः॒ परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेयऽनाय । २ प्रजापतिश्चरति गर्भे अन्तः । अजायमानो बहुधा विजायते । तस्य धीराः परिजानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेधसः । ३ यो देवेभ्य आतपति । यो देवानां पु॒रोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये । ४ रुचं ब्राह्मम् जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन् वशेहे । ५ ह्रीश्च ते लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् । इष्टम् मनिषाण । अमुं मनिषाण । सर्वम् मनिषाण । ६ ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीहीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदेहे । शं चतुष्पदे । ॐ शान्तिः शान्तिः शान्तिः ।