परिचयः
समारोहाणाम् उत्सवानाम् आयोजनस्य अस्माकं भारतीयानां बहुप्राचीना परम्परा अस्ति । तेषु आयोजनेषु जनानाम् आह्वाहनायाः निमन्त्रणपत्रप्रेषणस्य परम्परा अपि तथैव प्राचीना वर्तते । येषां जनानां यां भाषां प्रति अभिमानः भवति तेषां निमन्त्रणपत्राणि तया एव भाषया लिखितानि भवन्ति। एतेन पुटकेन वयं संस्कृतज्ञानां स्वाभिमानं जागरयितुम् इच्छामः । अस्माकं निमन्त्रणपत्राणि संस्कृतमाध्यमेन एव मुद्रितानि स्युः। अस्माकम् एषः कश्चन लघुयत्नः संस्कृतस्य प्रचारोपायरूपेण भवितुं शक्नोति । अस्मिन् पुटके कानिचन निमन्त्रणपत्राणि आदर्शरूपेण स्थापितानि सन्ति ।