केन्द्रिय-संस्कृत-आयोगाः
1 अक्तूबर 1956 ई0 मध्ये भारतसर्वकारेण केन्द्रिय– संस्कृत –आयोगस्य स्थापना कृता । एषः आयोगः माननीय -मौलाना -अब्दुलकलाम -आजादस्य मन्त्रित्वकाले स्थापितः । एतस्य अध्यक्षः डॉ0 सुनीतिकुमारचैटर्जी (बङ्गाल) सदस्याः च जुगपतराय ह0 दुबे (बम्बई), प्रो0 वी0 राघवन् (मद्रास) प्रो0 एस0 के0 दे0 कलकत्ता, प्रो0 टी0 आर0 वी0 मूर्तिः (वारामसी), पण्डितराजः वी0 एस0 रामचन्द्रशास्त्री (बंगलोर), प्रो0 विश्वबन्धुशास्त्री (होशियारपुर) प्रो0 आर0 एन0 दाण्डेकरः (पूना) आसन् । 30 नवम्बर 1957 ई0 आयोगेन निजविवरणं प्रस्तुतम् । 20 फरवरी, 1959 ई0 वर्तमानेन शिक्षामन्त्रिणा डॉ0 कालूरामः श्रीमालीमहोदयेन तस्य विवरणस्य संक्षिप्तरूपरेखा सदने प्रस्तुता । 1958 ई0 सम्पूर्णं विवरणम् प्रकाशितम् ।
आयोगेन निजविवरणेन स्थापितानां मतानां संक्षिप्तवर्णनम् –
- माध्यमिकविद्यालयेषु संस्कृतस्य शिक्षा अनिवार्या भवेत् तेन सार्धं मातृभाषां क्षेत्रीयभाषां च पाठयेत् । केन्द्रिय -संस्कृतमण्डलम् अपि एतद् स्वीकरोति । केन्द्रिय-शिक्षासलाहकारमण्डलेनापि मान्यता दत्ता अस्ति ।
- परम्परागतरीत्या संस्कृताध्यापनप्रणाल्याः संरक्षणं स्यात् संस्कृतस्य च विद्यालयेषु पाठ्यक्रमस्य पुर्नगठनं भवेत् ।
- संस्कृतस्य आध्यापकनां कृते अध्यापनस्य प्रशिक्षणस्य व्यवस्था भवेत् विश्वविद्यालयेषु च एष विषयः स्वीकृतः स्यात् ।
- विद्यालयनां विद्यार्थिनः अनुसन्धानं कर्तुं प्रोत्साहनं भवेत् पाठशालासु अनुसन्धान- -विभागस्य व्यवस्था भवेत् ।
- संस्कृतसम्बन्धी भारतीय – विद्यासम्बन्धी च अनुसन्धाने संलग्नाभ्यः गैरसर्वकारैः संस्थाभ्यः आर्थिकानुदानस्य व्यवस्ता भवेत् ।
- संस्कृतस्य पाण्डुलिपीनाम् अन्वेषणम्, संरक्षणम्, संग्रहणं कर्तुं तासां च सूचीं निर्मातुं केन्द्रिय -पाण्डुलिपिः सर्वे “इत्यस्य स्थापना भवेत्” ।
- आयुर्वेदस्य च ग्रन्थानाम् अध्ययनस्य प्रोत्साहनं भवेत् ।
- मन्दिरेभ्यः मठेभ्यः अन्यश्च संस्थानेभ्यः संस्कृतस्य वेदानां च अध्ययनार्थम् अनुसन्धानार्थं संरक्षाणि च यथानुदानं दीयते तदर्थं सर्वकारः उचितं नियमं स्थापयेत् ।
- संस्कृत -शिक्षायाः व्यवस्थायै सर्वकारः प्रथमनिर्देशालयं स्थापयेत् ।
10 संस्कृतस्य प्रचारप्रसार्थं निजपरीक्षाणां उन्नत्यै संस्कृतस्य नाटकानां कृते, संगीतायोजनानां कृते वादविवादप्रतियोगितानां कृते विशिष्टम् आयोजनं स्यात् ।