भारतस्य वैज्ञानिकपरम्परा
लेखकः वि. नागराजः
नवीयसंसकृतेः विशेषकासः दृश्यते स्म प्राचीने अस्मत्-पूर्वजाः लौकिकेषु तात्तिवकेषु च क्षेत्तेषु बहुधा चिन्तंन कृतवन्तः आसन् । भारते याद्द्शं चिन्तनं प्रवृत्तं ताद्द्शं चिन्तंन प्रायः जगति अन्यत्र न प्रवृत्तम् । अन्यत्र संसकृतेः बीजावापः अपि यदा न जातः आसीत् तदा भारते संस्कृतिः सुविकसिता आसीत् । तस्याः संस्कृतेः अनुगुणं व्यवहरन्तः स्वजीवनम् सार्थक च कृतवन्तः आसन् अत्रत्याः । किन्तु दौर्भाग्यं नाम ताद्द्शस्य उत्कृष्टचिन्तनस्य समग्रः भागः इदानीं न उपलभ्यते । धार्मिके तात्त्विके च क्षेत्रे यत् चिन्तंन प्रवृत्तं तस्य कश्चन भागः तु प्राथान्येन अप्राप्तप्रायम् एव अस्ति इति वदामः चेत् न तत्र अतिशयोक्तिः । वैज्ञानिकक्षेत्रीयाः ये अत्पल्पाः अंशाः प्राप्ताः ते अपि प्रचाराभावात् अज्ञाताः एव तिष्ठन्ति लोके ।
प्रथमे द्वितीये च क्रिस्तशके भारते भौतिकशास्त्रस्य बह्वयः शाखाः- रसायनशास्रं,खगोलशास्त्रं, गणितं, वनस्पतिशास्त्रम् इत्यादयः- विकासं गताः आसन् एव । न केवलं ताः प्रगतिम्, अपि तु प्रगतेः पराकाष्ठाम् एवं प्राप्तवत्यः आसन् । तथापि दौर्भाग्यवशात् एवं हि श्रूयते यत् विज्ञानस्य प्रारम्भः विकासः च पश्चिमदेशेषु जातः इति ! अहो विसङ्गतिः !!
जना अपि एताद्द्शेषु मिथ्यावचनेषु विश्वासं कुर्वन्तः द्दश्वन्ते । अस्माकं विद्यासंस्थाःअपि एतम् एव मिथ्यांशं बोधयन्ति । वैज्ञानिकक्षोत्रे भारतीयं चिन्तनं यत् अस्ति तत् आधुनिकैः अधिकाधिकं ज्ञायेत । तदा एव एस्मिन् आदरः वर्धते । प्रकृतः लेख तत् भारतीयं चिन्तनं स्थूलतया परिचाययति ।
गणितम्
भारतीयगणितज्ञानस्य आरम्भः अस्माभिः द्रष्चव्यः चेत् वेदकालपर्यन्तम् अनुधावनं करणीयम् । वेदेषु तत्कालिकेषु अन्यग्रन्थेषु अन्यग्रन्थेषु च गणितीयानाम् अंशानाम् अल्लेखः विशेषचः दृश्यते । समग्रे विश्वे पण्डितण्डते एषा मान्यता अस्ति यत् बहूनां गणितीयांशानाम् आरम्भः भारते एव जातः इति । जनाः बहूनां गणितीयविषयाणां ज्ञानं भारतात् एव प्राप्तवन्तः द्द्श्यन्ते । तत्रापि अङ्कगणितक्षेत्रे, बीजगणितक्षेत्रे, भूमितिक्षेत्रे, त्रिकोण-मितिक्षेत्रे च बहूनि अपूर्वाणि मूलभूतानि अनुसन्धानानि भारते एव कृतानि आसन् ।
इदानीं दशमाङ्कपद्धपिः लोके व्यवहारे अस्ति । एतस्यां पद्धतौ १-९ अङ्काः शून्यं च उपयुज्यन्ते । स्थानकारणतः अङ्कानां मूल्ये परिवर्तनम् अपि अङ्गीक्रियते । एषा दशमाभङ्कपद्धतिः द्विसहस्त्राधिकवर्षेभ्यः पूर्वम् एव भारते आसीत् । अङ्कानां क्रमिकविकासः कथं जातः इत्येतम् अंशम् अधस्तनं चित्र ज्ञापयति ।
क्रि. श. ९०० पर्यन्तम् एषा अङ्कपद्धपिः अरबजनैः युरोपीयजनैः वा न ज्ञाता आसीत् । अरबदेशीयः गणितविद्वान् अल्खवारिस्मी ( A I – Khowarizmi ) ( क्रि. श. ७८०- ८५० ) ऐदम्प्राथम्येन स्वकीये पुस्तके एतान् हिन्दु-अङ्कान् , स्थानाधारितमूल्यनिश्चयक्रमम् , एतदाधारितान् अन्यान् बहून् गणितप्रक्रियांशान् च उपयुक्तवान् द्द्श्यते । तदनन्तरकाले एते सर्वे अंशाः लोके सर्वत्र प्रसूताः अभवन् । तत्कारणतः पश्चिमयुरोपप्रदेशेषु एतस्य गणितीयविचारस्य प्रचारः जातः । अतिप्राचीनः युरोपीयः हस्तलिखितग्रन्थः नाम – ‘CONDEX VIGILANUS’ इति । एषः अल्बेल्डो-आश्रमसम्बन्द्धः । एतस्मिन् ग्रन्थे १-९ अङ्कानाम् अल्लेखः कृतः दृश्यते । तत्रैव एतान् अङ्कान् अधिकृत्य एवं लिखितं द्दश्यते –
गणितीयचिह्नानाम् उपयोगसमये अस्माभिः एतत्सम्बन्धितया एतत् अपि ज्ञातव्यं यत् प्राचीनहिन्दुजनानाम् अतिव्यापिका कुशाग्रबुद्घिता आसीत् इति । गणनकलाविषये, भूमितिक्षेये, अन्येषु स्वतन्त्रशास्त्रेषु च अन्यराष्ट्रजनाः हिन्दुनाम् अनुयायिनः ,सन्ति । ( अग्रगण्याः तावात् हिन्दवः एव ) नवानाम् अङ्कानाम् उपयोगः, स्थानबलात् अङ्कानां मूल्यस्य निश्चयः इत्यादयः अंशाः अत्र प्रमाणभूताः सन्ति ।
शून्यम्
अङ्कस्थानाधारिता मूल्यनिश्चयपद्धतिः एव शून्यस्य अन्वेषणे मूलम् ।
‘ZERO’ इत्येतत् कस्यचित् चिह्नस्य नाम । तच्च चिह्नं ‘नास्तित्यं ‘द्योतयति । संस्कृतभाषायां नास्तित्वं सूचयति ‘शून्य’शब्दः । ‘झिरो’ इत्यस्य मूलं तावत् शून्यशब्दः एव । संस्कृतभाषीयः एषःशून्यशब्द एव । संस्कृतभाषीयः एषः शून्यशब्दः अरबभाषां प्रविश्य निर्गत्य ल्याटिन् भाषां चापि प्रविश्य निर्गत्य ‘झीरो’ इति नामान्तरं प्राप्नोत् । तद्यथा-
संस्कृतम् अरेबिक् ल्पाटिन्
शून्यम् सिफर् झिप्रे/ सिफ्रे झीरो
Shunya Sifer Ziffre/Ciffre Zero/Cipher
दशकादिस्थलाधारितायाः मूल्याङ्कपद्धतेः निर्माणात् उपयोगात् च बह्वयः गणितप्रक्रियाः निर्मिताः अभवन् । अद्यापि ताः रक्षिताः उपयुज्यमानाश्च सन्ति ।
वर्गमूलं धनमूलं च
अपेक्षितसंख्यायाः वर्गमूलस्य घनमूलस्य च प्राप्त्यर्थम् आधुनिके गणिते काचित् पद्धतिः अनुस्त्रियते । वस्तुतः एषा पद्धतिः पञ्चमशतकीयेन(४९९ A D) आर्यभटेन अन्विष्चा आसीत् ।
आर्यभटीयः नियमः एवम् आसीत् –
भाग् हरेद्वर्गात्रित्यं द्विगुणेन वर्गमूलेन ।
वर्गागद्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम् ।। इति ।
एपा पद्धतिः १६१३ वर्षपर्यन्तं युरोपीयजनैः अज्ञातपूर्वा एव आसीत् । एवं सर्वप्रथमं बहुभ्यः वर्षेभ्यः पूर्वम् एव भारीतयेन अन्विष्टायाः एतस्याः पद्धते विषये इदानीम् अपि एवं बोध्यते यत् एषा पद्धतिः विदेशीयैः अन्विष्टा इति । वस्तुस्थितिं जानद्धिः अपि अस्माभिः तत्र विश्वासः क्रियते ! अहो अभिमानशून्यता अस्माकम् !
त्रैराशिकनियमः व्यस्तत्रैराशिकनियमञ्च अङ्कगणितक्षेत्रस्य सुवर्ण-नियमत्वेन अङ्गीक्रियते । तै च नियमो भारते पूर्वकाले एव व्यवहारे उपयुज्यमानौ आस्ताम् । अतः बहवः पण्डिताः भावयन्ति यत् एतौ नियमौ अपि भारतात् एव पञ्चिमदेशान् प्रति गतौ स्याताम् इति ।
बीजगणितम्
बीजगणितस्य आरम्भः वेदाङ्गभूतेषु शुल्बसूत्रेषु एव अस्ति इते ज्ञायते । रूपरेखायाः समाधानं यौगपद्यिक समीकरणं इत्येचौ उभौ अपि विषयौ भारतियबीजगणितक्षेत्रे चर्चितौ एव । विभिन्नप्रकारिकाणं यज्ञवेदीनां निर्माणसमये एतत्सम्बद्धाः निषयाः चर्चिताः । यज्ञवेदीनिर्मीणकार्यद्वारा बीजगणितक्षेत्रीयाः बह्वयः प्रक्रियाः विकासं गताः द्द्श्यन्ते । ब्रह्मगुप्तकाले बीदगणितं गणितक्षेत्रे स्वतन्त्रविषयरुपेण प्रवृद्धम् अभवत् । तच्च कुट्टकगणितं, बीजगणितम्, अव्यक्तगणितम् इत्यादिभिः नामभिः व्यवह्रियते स्म ।
वर्गींयसमीकरण्
A + bx+=0- इत्येतादृशानां वर्गीयसमीकरणानां समाधानम् आर्यभटः (प्रथमः)
, ब्रह्मगुप्तः इत्यादयः जानन्ति स्म । वर्गींयसमीकरणस्य समाधानं प्राप्तुम् इदानीं या प्रक्रिया आश्रीयते सा श्रीधरार्येंण ( दशमे शतके स्थितेन ) दत्ता अस्ति । तदीयः श्लोकः तावत् –
चचुराहतवर्गसमैः उक्तौ पक्षौ ततो मूलम् ।। इति ।
क्रमयोजनं संयोचनं च
क्रमयोजनसम्बद्धा संयोजनसम्बद्धा च पद्धतिः बहुप्राचीनकालात् एव भारते उपयुज्यमाना आसीत् । एतत् पद्धतिद्वयम् आधिक्येन काव्यनिर्माणे, वास्तुशास्वान्वये, सङ्गीतशास्त्रे, औषधक्षेत्रे च उपयुज्यते स्म ।
N Cr = n(n+1) ( n-2)……(n-r+1)
1 2 3 ……..r
इत्येतस्य साधारणनियमस्य निर्माणं वराहमिहिराचार्येण कृतं, यञ्च आचार्यः नवमे शतके कर्णाटकराज्ये गणितज्ञत्वेन सुविख्यातः आसीत् ।
वराहमिहिराचार्यः पूर्वोक्तं नियमम् एवं श्लोकन विवृणोति –
एकोद्येकोत्तरतः पदमूर्ध्वाधर्यतः क्रमात्क्रमशः ।
स्थाप्य प्रतिलोमघनं प्रतिलोमघनेन भाजितं सारम् ।। इति ।
ज्यामितिः
वेदेकाले विभिन्नानां यज्ञवेदीनां निर्माणे क्वचित् समस्याः उत्पद्यन्ते स्म । तत्काले समस्यानिवारणार्थं ज्यामितेः उपयोगः क्रियते स्म । तत्कारणतः बहवः ज्यामितिक्षेत्रसम्बद्धाः विषयाः निरूपिताः भवन्ति स्म ।
बोधयनसूत्रम्
पैथागोरससिद्धान्तनाम्ना इदानीं यः नियमः व्यवह्रियते स च पैथागोरसात् सहस्त्राधिकवर्षेभ्यः पूर्वम् एव भारतीयैः निर्मितः आसीत् । महामुनिः बोधायनः कात्यायनश्च एतं नियमं प्रतिपाद्य यथायोग्यं विवरणम् अपि दत्तवन्तौ द्द्श्येत् ।
बोधायनः एवं वदति-
“दीर्घचतुरस्त्रस्याक्ष्णया रज्जुः पार्श्वमानी तिर्यग्मानी यत्पृथग्भूतै कुरुतः तदुभयं करोति” इति ।
विभिन्नाकारिकाणां यज्ञवेदीनां निर्माणे एतस्य सिद्धान्तस्य उपयोगः कृतः द्द्श्यते । चतुरस्त्रवेदी, समकोणवेदी, समद्विभुजाकृतिवेदी, विषमचतुर्भुजाकृतिवेदी इत्यादीनां निर्माण क्रियते स्म अस्मत्पूर्वजैः ।
मूल्यम्
पै () इत्यनेन नाम्ना निर्दीश्यमानस्यय मूल्यं प्रथमेन आर्यभटेन निर्णीतम् आसीत् । तेन निर्णितं मूल्यं ३. १४१६ अस्ति । आधुनिकं मूल्य तावत् = ३. १४१६९२६ इति ।
एतद्विषये आर्यभटीयः श्लोकः एवम् अस्ति –
चतुरधिकं शतम् अष्टगुण
द्वाष्ष्टिस्तथा सहस्त्राणाम् ।
आयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः ।।
त्रिकोणितिः
भारतेन विश्वाय दत्तेषु विषयेषु अन्यतमः अपूर्वः विषयः नाम ‘त्रिकोणमितिः’ । त्रिकोणमितिक्षेत्रे भारतीयैः ज्या, कोचिज्या इति शबदद्वयं यत् उपयुज्यते स्म तदेव यूरोपीयभाषायां सैन्, कोसैन् इति निर्दिश्यमानं सत् व्यवहारक्षेत्रे इदानीं द्द्श्यते । प्रथमेन आर्यभटेन ज्याकोष्टकं रचितम् आसीत्, यत्र च ०-९० ०परिमितेः क्षेत्रे विद्यमानस्य गोलखण्डस्य रेखाः निर्दीष्टाः आसन् । भारतीयखगोलशास्त्रे ग्रहाणां स्थानस्य निश्चयसमये त्रिकोणमितेः बहवः अशाः उपयुज्यन्ते स्म ।
थातुशास्त्रम्
भारते येषु उत्कृष्टा सिद्धिः प्राप्ता आसीत् ताद्द्शेषु अन्यतमं क्षेत्रम् अस्ति धातुशास्त्रक्षेत्रम् । वैदिकसाहित्ये सुवर्णं, रजतं, ताम्रं, त्रपुः, अयः इत्यादीनां धातूमाम् उल्लेखः कृतः अस्ति । तेषां विविधाः उपयोगाश्चापि वर्णिताः सन्ति । सुवर्णं कण्ठहारकङ्कणादीनाम् आभरणानां निर्माणे विशेषतः उपयुज्यते स्म । मोहञ्जोदारो-उत्खनने महता कौशलेन निर्मितानि सुन्दराणि सुवर्णाभरणानि प्राप्तानि
सन्ति । विज्ञानिनः अभिप्रयन्ति यत् एतानि आभरणानि ५००० वर्षेभ्यः पूर्व निर्मितानि आसन् इति । एवं हि श्रूयते यत् कर्णाटकस्थाया ‘हट्टी’– प्रदेशस्थायां सुवर्णखन्यां २००० वर्षेभ्यः पूर्वम् एव सुर्वर्णें प्राप्यते स्म इति ।
ताम्रस्य, तज्जन्ययोः कांस्य- पित्तलयोः च उपयोगः वेदकालात् एव क्रियते स्म । ताम्रमय्यः कांस्यमय्यः च प्रतिमाः बहुधा निर्मीयन्ते स्म प्राचीने काले । अस्मत्पूर्वजाः जानन्ति स्म यत् एते धातसः उत्कृष्टप्रतिमादिनिर्माणे उपकारकाः इति, एतैः धातुभिः निर्मिताः प्रातिमादयः चिरकालं स्थास्यनति इति च ।
बिहारराज्ये सुल्तानगञ्ज्प्रदेशे जीर्णे कस्मिंञ्चित् बुद्धालये भगवतः बुद्धस्य विग्रहः
बुद्धस्य विग्रहः (क्रिं. श. ५०० वर्षे निर्मितः ) प्राप्तः अस्ति । विग्रहस्य औन्नत्यं ७.६, भारश्च टन्परिमित स्यात् । एतस्य वैशिष्टयं नाम एतदीयं धातुनिर्मितं वस्त्रावरणं पारदर्शकम् अस्ति ! ताम्रधातुशास्त्रक्षेत्रे भारतेन साधितायाः अत्याश्चर्यकर्याः प्रगतेः द्योतकः अस्ति एषः विग्रहः ।
अयः
अयसः ( Iron) श्वेतायसः ( Steel ) क्षेत्रे अपि भारतस्य प्रगतिः अल्लेखार्हा एव अस्ति । देहलीनगरे ‘महरोली’ इत्यत्र स्थितः अयोमयः स्तम्भः अत्र उदाहरणम् । प्रसिद्धः एषः अयःस्तम्भः तत्कालिक्याः उत्कृष्टकार्यशैल्याः द्योतकः अस्ति । एषः स्तम्भः ९६०० वर्षेभ्यः पूर्वम् एव निर्मितः । किन्तु सः दीर्घकालिकान् वातावरणपरिणामान् सहमानः अल्पाम् अपि हानिन् अप्राप्नुवन् यथापूर्वम् अक्षतरूपेण तिष्ठन् भारतस्य श्रेष्ठतां ख्यापयति ।
उत्तमजातीयस्य चित्रायसः निर्माणे दक्षिणभारतं सुविख्यातम् । चित्रायो रूपेण अयसः परिवर्तनार्थं प्राचीनैः अन्धमूषापद्धतिः ( बकयन्त्रम् ) उपयुज्यते स्म । अयसः द्द्ढीकरणे अङ्गाराम्लस्य प्राधान्यं भवति इति प्राचीनाः लोहकाराः जानन्ति स्म । अतः ते पिहितस्य मूत्तिकाबकयन्त्रस्य अन्तः अयसः लघुखण्डान् स्थापयित्वा तत्र अङ्काराम्लम् अपि संयोज्य उष्ठीकुर्वन्ति स्म । ततः चित्रायसः निर्माणं भवति स्म ।
प्रसिद्धस्य ‘दमास्कम् ‘खड्गस्य अयसः नाम ‘वूटूस’ इति । एषः शब्दः कन्नडभाषायां स्थितस्य ‘उक्कु’ इत्येतस्य अपभ्रंशः एव इति भाषाशस्त्रिणां निर्णयः अस्ति ।
कुप्यातुः ( ZINK )
खनिजधातुभ्यः कुप्यातोः प्राप्तर्थं या सन्धानपद्धतिः अनुस्त्रियते स्म तस्याः कारणतः भारतं निश्चयेन अभिनन्दपात्रीभूतम् अस्ति । राजस्थान राज्ये क्रि. पू. ५०० वर्षे स्थितकाः कुप्यातुखन्यः समासादिताः सन्ति । किन्तु खनिजेभ्यः कुप्यातोः प्राप्तर्थम् अपेक्षितं तन्त्रज्ञानं १८ शतकपर्यन्तम् अपि युरोपदेशेषु अज्ञातम् एव आसीत् । १७४८ तमे वर्षे विलियं चाम्मियन् युरोपदेशेषु एतस्याः पद्धतेः परिचयं कारितवान्, व्यवहारपथम् आनीतवान् च ।
एवम् अस्मत्प्राचीनैः विज्ञानस्य विविधक्षेत्रेषु बहुविधसिद्धयः सम्पादिताः सन्ति । तत्रापि भारतीयानां वैशिष्टयं नाम ते आधुनिकोत्कृष्ट साधनानाम् अभावे सत्यपि. पाश्चात्त्येषु एताद्द्शक्षेत्रेषु प्रवेशम् एव कर्तुम् असमर्थेषु, स्वप्रतिभाविलासेन अपूर्वान् बहून् अंशान् निर्दुष्टतया प्रकटितवन्तः तैः उक्तानाम् अंशानां वैज्ञानिकता निर्दुष्टता च इदानीम् अपि अक्षुण्णा एव अस्ति । अस्म्त्प्राचीनैः साधितायाः अपूर्वसिद्धे कारणतः किम् अस्माभिः अभिमानः प्राप्तव्यः नास्ति ? प्राचीनानां सिद्धयः किं प्रचुरीकरणीयाः न सन्ति ? प्राचीनानां विषये यथायोग्यम् आदर किं प्रदर्शनीयः नास्ति ?