भारतस्य वैज्ञानिकेतिहासः
लेखकः – डा० मुरलीमनोहरजोशी
वैज्ञानिककार्याणि तत् तस्य देशस्य मनोभावं स्वभावं च आधारीकृत्य भवेयुः । अन्यथा न कोऽपि देशः वैज्ञानिकपरम्पराम् अभिवर्धयितुं शक्नोति । किन्तु दौर्भाग्यं नाम भारते स्वातन्त्र्योत्तरकालस्य वैज्ञानिककार्येषु भारतत्वं न द्द्श्यते । स्वातन्त्र्योत्तरकालस्य वैज्ञानिककार्याणां मुख्यलोपः नाम तैः प्राचीनभारतीयपरम्परातः भिन्नः एव मार्गः अश्रितः ।
सामान्यतः परिभाव्यते यत् वैज्ञानिकमनोभावः वैज्ञानिकपरम्परा वा पश्चात्त्या एव भवति इति ।
भारतं गणितशास्त्रक्षेत्रे उन्नतस्थाने अस्ति । युक्तम् एतत् । कृषिक्षेत्रे अपि भारतस्य सिद्धिः उल्लेखाहां अस्ति । अभिमानास्पदम् एतत् । किन्तु तन्त्रज्ञानादिक्षेत्रे…..? यदा तन्त्रज्ञानाभिवृद्धिः वैज्ञानिकप्रयोगशीलता च प्रस्तूयते तदा वयं तूष्णीकाः भवामः । भारते वैज्ञानिकी प्रयोगशीलता, संशोधनम्, आविष्कारः च किं पूर्वम् आसीत् ? तन्त्रज्ञानक्षेत्रे पूर्वजानां सिद्धिः किं निदर्शनयोग्या कापि अस्ति ? भारतीयानां वैज्ञानिकी तान्त्रिकी च द्द्ष्टि. ज्ञानं वा किम् आसीत्- इत्यादयः प्रश्नाः श्रूयन्ते लोके । देशस्य वैज्ञानिकमित्रैः सह सम्भाषणसमये एताद्द्शाः प्रश्नाः सम्मुखीक्रियते मया यदा तदा ।
बहुवः भारतीयवैज्ञानिकाः विज्ञानच्छात्राः च अस्मत्प्राचीनवैज्ञानिकपरम्पराविषये किमपि न जानन्ति एव ।
वैज्ञानिकप्रयोगः प्रयोगशीलता वा गतेषु त्रिशतवर्षेषु चतुश्शतवर्षेषु वा प्रवृद्धाः इत्यस्ति जनानां विश्वासः । गेलिलियोतः न्यूटन् वा पाश्चात्त्यदेशेषु प्रयोगात्मकाविज्ञानस्य आरम्भः जातः इति जनाः परिभावयन्ति ।
काचिद कुतूहलकारिणी घटना मम स्मृतिपथम् आयाति । १६६२ तमे वर्षे ‘रायल्सोसैटी’ स्थापिता । राबर्ट्बाय्, हूक् इत्यादयः प्रख्यातनामधेयाः तस्याः सदस्या आसन् । तस्याः संस्थायाः सभायां कदाचित् सप्ताहं यावत् गभीरा चर्चा प्रवृत्ता । चर्चायाः विषयः आसीत् – ‘जीवन्मीनस्य भारः अधिकः, उत मृतमीनस्य -’ इति । सप्ताहात्मकचर्चायाः अनन्नरम् अपि तत्रत्यैः उत्तरं तु न प्राप्यम् । वस्तुतः तु जीवन्मीनं कश्चित् आनीय तस्य भारं द्द्ष्टा, तमेव मारयित्वा पुनः तस्य भारः द्द्ष्टः चेत् सर्वं निर्णीतम् अभविष्यत्! किन्तु तदेव न कृतं तत्रस्यैः प्रयोगः कथं करणीयः इति चर्चायाः आरम्भः यदा जातः तद्द्शे काले (१६६२ तमे वर्षे )प्रयोगात्मक विज्ञानस्य ईद्द्शी स्थितिः आसीत् । सर्वे जनाः एताद्द्शान् रायल्सोसैटीसदस्यान् एव ‘महानप्रयोगशीलान्’, ‘विज्ञानप्रयोगनिरतान्’ च मन्यन्ते स्म । तेषु दिनेषु विज्ञानं पाश्चात्त्यदेशीयम् एव, तत्रापि इंग्लेण्ड्देशीयं मन्यन्ते स्म । ‘नैसर्गिकतत्त्वशास्त्रम्’ इति तस्य नाम आसीत् ।
१६६२ तमे वर्षे प्रयोगात्मकविज्ञानस्य स्थितिः एषा । भारते तदेव विज्ञानं पूर्व कथम् आसीत् इत्येतत् ज्ञापयितुम् अहं भारतीय रसायनशास्त्र ( केमेस्ट्री) परम्पराम् अधिकृत्य ख्यातवैज्ञानकेन आचार्येण पि. सि राय्वर्येण मद्रास्नगरे कृतस्य भाषणस्य भागम् अत्र उद्धरामि-
“… नागार्जुनप्रभूतीनां प्राचीनानां विषयम् इदानीम् अहं न वदामि । १३ शतकीयान् वैज्ञानिकान् अधिकृत्य किश्चित् वदामि । यशोधरेण ‘रसप्रकाशसुधाकर ‘नामकः गन्थः लिखितः अस्ति । रामचन्द्रनामकेन अपि ताद्द्शः एव अपरः ग्रन्थः लिखितः अस्ति । उभयत्र अपि तौ वदतः ‘एतस्मिन् ग्रन्थे ये प्रयोगाः सिद्धान्ताः च उक्ताः तेषां युक्तत्वं प्रयोगपुरस्सरं द्द्ढीकृत्य एव ते अत्र उल्लिखिताः ‘इति ।
‘यः शिक्षकः भवितुम् इच्छति सः रसायनशास्त्रप्रयोगान् छात्राणां पुरतः कृत्वा प्रदर्शयितुं समर्थः स्यात् । ताद्द्शं सामर्थ्यं यस्यय न भवति सः वस्तुतः न शिक्षकः अपि तु शिक्षकपात्रं निर्वहन् नटः एव’ इति रामचन्द्रः वदति ।….”
रामल्सोसैचीसंस्था यदा निर्मिता ततः त्रिशताधिकवर्षेभ्यः पूर्वम् एव लिखितेषु ग्रन्थेषु भारतस्य प्रयोगशीलताविचारः उल्लिखितः द्द्श्यते इति तु निर्विवादास्पद- विषयः । पाश्चात्त्यदेशेषु प्रयोगः नाम कः , सः कथं कर्तव्यः इत्यादिषु विषयेषु यदा चर्चा आरब्धा ततः त्रिशताधिकवर्षेभ्यः पूर्वम् ए व भारते शिक्षकैः अपरिहार्यतयाः प्रयोगः प्रदर्शनीयः भवति स्म!
केभ्यश्चित् वर्षेभ्यः पूर्वं ‘वृक्षायुर्वेद ‘नामकः ग्रन्थः लब्धः कुत्रचित् । ‘युनेस्को ‘संस्थानाः कस्यचित् अधिकारी संस्कृतमयीं मूलप्रतिकृतिं कथश्चित् प्राप्तवान् । तस्यय पठनात् ज्ञातं यत् एषः ग्रन्थः कृषिसम्बन्धी इति । तस्य आंग्लानुवादस्य पठनार्थं मया कदाचित् अवसरः लब्धः । तस्मिन् पुस्तके बीजनिर्माणं, स्सयकणेषु प्लास्मा-नामकांशस्य स्थितिः, फोटो सिंन्थेसिस्, वृक्षेभ्यः अनिलानाम् उत्पत्तिक्रमः, वृक्षैः पर्णानां द्वारा क्रियमाणः त्याज्यविसर्जनस्य क्रमः इत्यादयः निरूपिताः आसन् । सर्वस्य दर्शनात् मया अत्याश्चर्यम् अनुभूतम् ।
तस्मिन् ग्रन्थे वृक्षसस्यादीनां विभागः कृतः द्द्श्यते । तत्तद्विभागस्य बिवरणम् अपि तत्र अस्ति । वृक्षस्य विविधाङ्गानां क्रियाः अपि तत्र सुस्पष्टम् उल्लिखिताः । परागस्पर्श-मिश्रपरागस्पर्शादयः विषयाः अपि तत्र निरुपिताः । महर्षिः पराशरः एतस्य ग्रन्थस्य रचयिता । महाभारतकालिकं पराशंर प्रकृतं वयं विस्मराम तावत् । पाश्चात्त्यसंशोधकानां मतम् अनुसृत्य चिन्तयामः चेदपि एतत् तु स्तुष्टं यत् एषः ग्रन्थः प्रथमे क्रिस्तपूर्वशतके (क्रि.पू. १००) लिखितः इति । तस्मात् एतत् अपि सुस्पष्टं यत् क्रिस्तात् शताधिकवर्षेभ्यः पूर्वम् एव भारते ‘फोटोसिन्थेसिस् ‘विषयः ज्ञातः आसीत् इति । वृक्षस्य विविधाः क्रियाः, पूर्णैः क्रियमाणाः प्रकाशनिस्सारणक्रिया, पर्णस्य अवान्तरभागाः, तेषां क्रियाः च पूर्वजैः ज्ञाताः एव आसन् । एषः असामान्यः अपूर्वः च शोधः । पर्णकणेषु स्थितः ‘प्लास्मा’ –अंशः तैः ज्ञातः आसीत् इत्यतः एतत् द्द्ढीभवति यत् तत्काले सूक्ष्मदर्शकं ( मैक्रोस्कोप् ) आसीत् इति ।
एतस्मिन् ग्रन्थे उक्ताः सर्वे विषयाः साधाराः निर्दुष्टाः च सन्ति । ग्रन्थस्य प्रामाण्यम् अपि सुस्पष्टम् अस्ति । युनेस्कोसंस्थया एतस्य ग्रन्थस्य मान्यता पुरस्कृता अस्ति । १९९२ तमे वर्षे मे-मासे जबलपुरे जीवराशि विज्ञानम् ( एण्डेमिक् सायन्स् ) अधिकृत्य प्रवृत्तायां चर्चागोष्ठयां मया एतस्मिन् ग्रन्थे उक्तस्य अंशस्य विषये प्रश्नः कृतः । किन्तु दौर्भाग्यं नाम तत्र भागं गृहीतवत्सु कोऽपि तस्य ग्रन्थस्य नाम अपि न श्रुतवान् आसीत् । एवं वयम् अस्मदीयवैज्ञानिकपरम्परायाः विषये सर्वधा अज्ञानिनः सन्तः कथं वा विज्ञानक्षेत्रे अग्रमिन्यतां प्राप्तुं शक्नुयाम + यावत् वयं स्वशक्तिविषये पूर्णविश्वासं न प्राप्नुमः तावत् वैज्ञानिकपरम्परां प्रतिभां वा योग्यमार्गेण अग्रे नेतुं न शक्नुयाम ।
अस्मद्देशीयषु विश्वविद्यालयेषु, महाविद्यालयेषु, अन्यविद्यालयेषु वा आचार्यास्य पि.सी. राय्वर्यस्य जगदीशचन्द्रस्य वा भारचित्रं मया अद्यावधि कुत्रापि न द्द्ष्टम् । नागार्जनः, वराहमिहिरः, आर्यभटः, कणादः भारद्वाजः. गार्गः इत्यादीनां विषयः दूरे तिष्ठतु नाम, जगजीशचन्द्रबोसादीनां विषये अपि वयम् अज्ञानिनः । अस्माकं विद्यालयानां पाठयपुस्तकेषु न भवन्ति तेषाम् उल्लेखाः । पि.सि. राय्वर्यस्य नाम कति वा जनाः श्रुतवन्त + तेन लिखितस्य ‘हिन्दुकेमेस्ट्रि ‘नामकस्य ग्रन्थस्य विषये कति वा जनाः जानन्ति + बूजेन्द्रशीलवर्यस्य ‘हिन्दुफिसिक्स्’ ग्रन्थं कति जनाः श्रुतवन्तः+ ए. एन्. सिङ्वर्यस्य ‘हिन्दुगणित’ नामकं पुस्तकम् अस्ति इति वा कति जनाः जानन्ति + एतेषु पुस्तकेषु निरूपितानां सिद्धिनां विषये अस्माक्म असम्मतिः, अनङ्गीकारः वा भवतु नाम, तथापि ग्रन्थस्य अस्तित्वस्य विषये अज्ञानं तु सर्वधा दूषणम् एव । विज्ञानक्षेत्रे असम्मत्यादयः सहजाः । सर्वेऽपि सिद्धान्ताः तावत् स्थिराः, यावत् अन्यः तं खण्डयित्वा तस्य परिष्कारं सयुक्तिकं न प्रतिपादयति । परिष्कारः सदा स्वागतविषयः भवति ।
वेदगणितक्षेत्रे इदानीं किश्चित्प्रमाणेन आसक्तिः परिद्द्श्यते गतेषु केषुचित् वर्षेषु एथत्क्षेत्रे किञ्चित्कार्यं क्रियमाणं द्द्श्यते अपि । एतस्मात् ऋते भारतविज्ञानक्षेत्रे प्राप्तानाम् अपूर्वसिद्धिनां विषयम् अस्मासु कति जनाः जानन्ति +
अत्र अहं काञ्चित् घटनाम् उदाहरामि, या च भरतमुनिकृते नाटयशास्त्रे विवृता अस्ति । मम विद्यार्थी कञ्चित् संस्कृते आसक्तिमान् आसीत् । केषाञ्चिच् वैज्ञानिकसिद्धान्तानां विषये तस्य अभ्यासः प्रचलति स्म अपि । कदाचित् अहं तम् उक्तवान् – “भोः, नाटयशास्त्रे वयं शब्दप्रामाण्यचर्चा श्रृणुमः । शब्दप्रामाण्यस्य अस्तित्वं कथम् आगतम् इति किञ्चित् परिशीलयाम । शब्दः स्थिरः, उत क्षणिकः + सम्भाषणसमये शब्दः वायौ प्लवते । प्रतिध्वनिविज्ञानम् अधिकृत्य प्राचीनपुस्तकेषु किम् अस्ति इति परिशीलयाम तावत् “ इति । सः च्छात्रः भरतमुनेः नाटयशास्त्रस्य अध्ययनं कृतवान् । तत्र सङ्गीतस्य विविधध्वन्युत्पादनक्रमान् अधिकृत्य विवरणं दत्तम् आसीत् ।
प्रतिध्वनिविज्ञानस्य तत्सिद्धान्तस्य च ज्ञानम् अन्तरा सङ्गीतसाधनानां निर्माणम् असाध्यम् । तन्त्रीणां कम्पननियमज्ञानम् अन्तरा वीणासंरचनम् अशक्यम् । यावत् चर्मकम्पननियमाः पूर्णतः आत्मसात् न भवन्ति तावत् मृद्ङगादिरचना असम्भवा । भारते कम्पनविज्ञानस्य अभिवृद्धिः कथं जाता – मम च्छात्रः एतं विषयम् अधिकृत्य विशेषाध्ययनं कृतवान् । न केवलं तावत्, भरतमुन्युक्तानि प्रमाणानि आधुनिकैः डयाटानिक्प्रमाणैः तोलयित्वा परीक्षितवान् अपि सः ।
सर्वस्य परिशीलनस्य अनन्तरं केचन प्रश्नाः अद्धताः । मृदङ्गरचनायाम् एतत् एव चर्म उपयैक्तव्यम् इति, कस्य वाद्यस्य निमित्तं किं चर्म उपयोक्तव्यम् इति च भरतेनं कथं निर्णीतम् – रन्ध्रप्रधानानां वेण्वादीनां सङगीतवाद्यानां निर्माण कथं वा जातं स्यात् ? ताद्द्शवाद्यानां निर्माणतः पूर्व केचन प्रयोगाः कृताः स्युः एव खलु? ते कुत्र कदा केन कथं कृताः ?
नाटयशास्त्रस्य कस्मिंश्चित् विभागे एतत् रहस्यम् उद्धिन्नम् अस्ति । स्वातिनामकः मुनिः कदाचित् महत्या पिपासया पीडीतः अभवत् । समीपे कुत्रापि जलं न आसीत् । अतः सःजलमूलम् अन्विष्यन् ततः प्रस्थितः । अग्रे गमनसमये आह्लादकरः कश्चन शब्दः तेन श्रुतः । शब्दम् अनुसृत्य सः अग्रे गतः । कुत्रचित् पर्वतात् पतन्तः जलबिन्दवः तेन द्द्ष्टाः । ते यदा शुष्कपर्णानाम् उपरि पतन्ति स्म तदा श्रुतिमधुरः शब्दः उत्पद्यते स्म । शुष्कपर्ण-जलबिन्दुपतसंयोगः मधुरं सङगीतं जनयति स्म । एतत् अवगत्य प्रेरितः सः पिपासां विस्मृत्य वेगेन आश्रमम् आगतवान् । सङ्गीतसाधनेषु प्रतिध्वन्युत्पादनार्थं यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः । ततः ऐदम्प्राथम्येन कम्पनसाधनं सः निर्मितवान् । तस्य नाम एव ‘मृदङ्गम्’ इति ।
एताद्द्शं संशोधनम् एव नाटयशास्त्रस्यापि मूलम् । प्रयोगस्फूर्तिः संशोधनोत्साहः च एतस्य हेतुः । विविधक्षेत्रेषु यदि गभीराध्ययनं क्रियेत तर्हि अस्मत्पूर्वजानां प्रयोगशीलतायाः प्रमामकर्तारः बहवः अंशाः अवश्यं लभ्येरन् ।
वेदसाहित्ये वीणायाः उल्लेखः द्द्श्यते । वीणा किञ्चिन सूक्ष्मं साधनम् । तस्याः निर्माण न सुलभसाध्यम् । वेदे तस्याः उल्लेखः आसीत् इत्यतः स्फुटं यत् वेदकाले एवे अस्मत्पूर्वजाः तन्त्रीकम्पननियमानां पूर्णज्ञानं प्राप्तवन्तः आसन् इति । एतस्मात् एतत् अपि स्फुटं यत् आ प्राचीनकालात् भारते संशोधनप्रवृत्तिः प्रयोगशीलता च अक्षुण्णतया आसीत् इति । कृतस्य संशोधनस्य क्रियान्वयनार्थम् अपेक्षिता साहसप्रवृत्तिः अपि आसित् अस्मत्पूर्वजानाम् । गभीरम् अध्ययनं, कृतस्य अध्ययनस्य व्यवस्थितः उल्लेखः नित्यजीवने तस्य अन्वयार्थं प्रयत्नः च प्राचीनकाले सुव्यवस्थित्म आसीत् । नैसर्गिकनियमानां स्पष्टपरिज्ञानं विना एताद्द्शानाम् उपकरणानां रचनम् अभिवृद्धिः च न सम्भाव्यते एव ।
एताद्द्शाः विषयाः संस्कृतसाहित्ये उपलभ्यन्ते । किन्तु तस्य भूयान् भागः हस्तलिखितग्रन्थरूपेण एव तिष्ठति अद्यापि । अतः संस्कृतस्य पठनार्थं लेथनार्थं च यावत् ज्ञानम् आवश्यकं तावत् सम्पाद्य भारतीय विज्ञानविद्यार्थिनः सानुरोधं प्रार्थये । एतत् कार्यं यावत् सम्पन्नं न भविष्यति तावत् अस्मद्देशीयस्य विज्ञानतन्त्रज्ञानाभिवृद्धेः भव्यः इतिहासः प्रकाशितः न भविष्यति ।
अस्माकं पाठयक्रमाः स्वदेशीयत्वस्य प्रतिहिम्बाः स्यु । एतस्मिन् क्षेत्रे करणीयं बहु अस्ति । ममैव एकम् अनुभवम् अत्र निरूपयामि ।
उत्तरप्रदेशस्य प्रौढशालास्तरीयाणां तदूर्ध्वक्ष्यीयाणां च विज्ञानपाठय- पुस्तकानां निर्माणसमितेः सदस्ययः आसम् अहं दशवर्षाणि यावत् । रेखागणितस्य २९ तमः सिद्धान्तः अस्ति पैथागोरस्सिद्धान्तः । वस्तुतः स च सिद्धान्तः बोधायनाचार्येण केभ्यश्चित् शतकेभ्यः पूर्वम् एव शुल्बसूत्रेषु इत्येषः विषयः १९६३ तमे वर्षे मया समितौ उपस्थापितः । समितेः अङ्गीकारं प्राप्तुं मया पञ्चषाणां वर्षाणां परिश्रमः कृतः । भारते बहुपूर्वम् एव तं सिद्धान्तं प्रतिपादितवतः बोधायनाचार्यस्यय नाम्नः उल्लेखम् अकृत्वा अनन्तरकाले उत्पन्नस्य पैथागोरस्य नाम उल्लिख्यते यत् तत् अनुचितम् इति प्रतिपादयन् अहम् आवश्यकानि प्रमाणानि अपि समितेः पुरतः उपस्थापितवान् । शूल्बसूत्राणाम् अर्थस्य विवरणम् अपि मया कृतम् । अन्ते समित्या महता कष्टेन अङ्गीकृतं यत् स च सिद्धान्तः ‘बोधायनपैथागोरस्सिद्धान्तः ‘ इति पाठयपुस्तके निर्दिश्यते इति । उत्तरप्रदेशे मच्छिष्यः एव कश्चित्त यदा विद्यासचिवः जातः तदा पैथागोरस्नाम परित्यक्तं जातम् । अतः स च सिद्धान्तः पैथागोरस् सिद्धान्तनाम्ना एव उल्लेथनीयः इति तत्र शासनस्य आज्ञा अस्तीति श्रूयते ।
‘बोधायनेन ताद्द्शः अपूर्वः सिद्धान्तः अन्विष्टः स्यात्’ इति अंशम् एव अस्माकं मानसं न अङ्गीकरोति । ‘रेखागणितस्य मूलं ग्रीक्देशः । एवं स्थिते ताद्द्शं कठिनातिकठिनं सिद्धान्तं भारतीयः कश्चित् कथं वा प्रतिपादयितुं शक्नुयात्’ इति अस्ति अस्माकं चिन्तनरीतिः । भारतस्य वैज्ञानिकैः भोतशास्त्रं, रसायनशास्त्र, गणितशास्त्रं , तन्त्रज्ञानक्षेत्रम् इत्यादिषु एकैकं क्षेत्रं चित्वा तत्र गभीराध्ययनं कृत्वा तत्क्षेत्रे भारतीयैः प्राप्ताः अपूर्वसिद्धयः सप्रमाणं निरूपणीयाः । ‘आग्लेयाः यावत् भारते पदं स्थापितवन्तः ततः बहुपूर्वम् एव भारते तन्त्रज्ञानं तावत् उत्कृष्टम् आसीत् यत् ब्रिचन्देशे अपि तदा ताद्द्शं तन्त्रज्ञानं न आसीत्’ इत्येषः अंशः न विस्मरणीयः आस्माभिः ।
त्रिशताधिकवर्षेभ्यः पूर्वं पाश्चात्त्याः तन्त्रज्ञानं नाम किम् इत्येव न जानन्ति स्म । इदानीं यानि तन्त्रज्ञानानि श्रूयन्ते तानि सर्वाक्षि गतेषु त्रिशतवर्षेषु विकसितानि । तत्रापि बहूनि २० तमे शतके एव अन्विष्टानि । अष्टादशे सप्तदशे वा शतके पाश्चात्त्यदेशेषु किं वा आसीत् +
‘जतु’नामकः (zinc) लोहः यदा फ्रेञ्च्जनैः ज्ञातः तदाते तं रजतस्य परिष्कृतं रूपं भावयन्ति स्म । स्वतन्त्रलोहभूतं पारदं ते ‘किक् सिल्वर्’ इति निर्दिष्टवन्तः आसन् । यावत् पाश्चात्त्याः एताद्द्शसलोहानां परिचयम् एव न प्राप्तवन्तः आसन्, ततः सहस्त्राधिकवर्षेभ्यः पूर्वम् एव भारते औषधनिर्माणक्षेत्रे लोहशास्त्रस्य मिश्रलोहस्य च उपयोगः क्रियते स्म । एतयोः उभयोः अफि लोहयोः उपयोगार्थं यत् तन्त्रज्ञानम् आवश्यकं तत् सम्यक् जानाति स्म नागार्जुनः । फ्रेञ्च्सर्वकारस्य प्राचीननाल्लेखाः मया परिशीलिताः सन्ति । तत्र लिखितम् अस्ति यत् रजतस्य एव अवान्तर रूपयोः जतुपारदयोः उपयोगे विशेषजागरूकता आश्रयणीता इति । भारतात् आनीतानां पारदयुक्तानाम् औषधानाम् उपयोगः सामान्यवैद्यैः न करणीयः, अपि तु विशेषानुमतकिं प्राप्तवद्धिः परिणतवैद्यैः एव करणीयः इति फ्रेञ्च्सर्वकारेण नियमः अपि कृतः आसीत् । एवं भारतं प्रति आंग्लानाम् आगमनात् पूर्वम् एव विज्ञानस्य सर्वेषु अपि क्षेत्रेषु अस्मत्पूर्वजानां तन्त्रज्ञानं उत्कृष्टतमम् एव आसीत् । ततः त्रिशतवर्षाभ्यन्तरे इदानीं वयं तन्त्रज्ञानक्षेत्रे निम्नस्तरे स्मः । एतस्य कारणं किमपि स्यात् एव खलु + किं तत् कारणम् +
आंग्लेयैः कृता महती वञ्चना नाम अस्माकं देशस्य पाठयक्रमात् देशीयतन्त्रज्ञान-विज्ञानसिद्धिनाम् उल्लेखस्य अपाकरणम् । भारतीयानां सिद्धेः उल्लेखः एकोऽपि पाठयपुस्तकेषु यठा न स्यात् तथा तैः सुविचिन्तित क्रः अनुष्ठितः तैः निर्मितः पाठयक्रमः एवः गतानुगतिकतया अस्माभिः अनुस्त्रियते अद्यापि । एषा स्थितिः परिवर्तनीया । एतदर्थं गभीरा सुविचिन्तिया योजना आरचनीया । युगपत् एव सर्वेषु अपि क्षेत्रेषु कार्यकरणं क्लेशाय स्यात् कदाचित् । किन्तु सुलभलभ्याः उल्लेखाः यत्र प्राप्यन्ते तेषु वा क्षेत्रेषु अग्रेसरणं न हि कठिनतरम् । एवम् एकैकक्षेत्रशः संशोधनं कृत्वा देशीयः पाठयक्रमः निर्मातु शक्यते निश्चयेन । विज्ञानतन्त्रज्ञानसिद्धान्ताः काले काले परिवर्तन्ते । तावता अस्मत्पूर्वजानां सिद्धिः विस्मर्तव्या इति तु नास्ति खलु + पूर्वजानां सिद्धेः अध्ययनम् एव प्रगतेः सोपानम् ।
अन्यम् अपि कञ्चन अंशम् अहम् अत्र उल्लेखितुम् इच्छामि श्रीमद्धागवतपुराणम् अहं पठन् आसं पूर्वं कदाचित् । पठनसमये स्वभावसहजतया वैज्ञानिकतोलन् अपि कुर्वन् आपम् । भागवते परीक्षित् जनमेजयश्च एकैकं प्रश्नम् उत्थापयतः । तौ प्रश्नौ अहं परीक्षित्पश्रः जनमेजयप्रश्नः चेत् एव निर्देष्टुम् इच्छामि । तौ च प्रश्नौ काल भूगोलविस्तारसम्बन्धिनौ स्तः ।
प्रश्नः अस्ति- ‘अत्यल्पकाल-अतिदीर्घकालयोः किं स्वरूपम् भूगोलस्य विस्तारः च कः +’ इति
तस्य उत्तरं तावत् – ‘त्रसरेणु’ भागस्य क्रमणार्थं सूर्यदिवस्य रथेन यः कालः स्वीक्रियते सः एव अत्यल्पकालः । सः एव आधुनिकैः ‘मैक्रो टैम्’ इति निर्दिश्यते । एषः त्रसरेणुः नाम कः + ‘अन्धकारमये प्रकोष्ठेसूच्चग्रमितात् लघुरन्ध्रात् यः प्रकाशः निस्सरति, तेन प्रकाशेन द्रष्टुं योग्य अतिलघुवस्तु एव ‘त्रसरेणुः’ इति विवरणम् अस्ति तत्र । आधुनिकैः सः एव ‘कोलैडल् पार्टिकल्’ इति उच्यते ।
एतस्य त्रसरेणोः अपि विभागः शक्ययः इति तत्र उक्तम् अस्ति । वस्तुनः अतिलघुरूपम् एव परमाणुः नाम । द्वयोः परमाण्वोः संयोगात् द्वयणुकम् त्रयाणां द्वयणुकानां योगात् त्रसरेणुः सिद्धयति । ‘त्रसरेणोः परिमाणं ज्ञातुं शक्यम् ।प्रकाशवेगः तु ज्ञायते । अतः तावद्दूरं गमनार्थम् अपेक्षितः कालः गण्यताम्’ इति उक्वा तस्य कालस्य नाम ‘त्रुटिः’ इत्यापि निर्दिष्टम् अस्ति । ततः अग्रे, निमिषः, पलः, घटी, वर्षम् इति विवरणम् उक्वा परार्धपर्यन्तः कालः अपि विवृतः अस्ति ।
मया एतत् विवरणम् आश्रित्य गणना कृता । तदनुगुणं त्रुटिः १०/१८ सेकेण्ड्परिमिता भवति । ‘नानो सेकेण्ड्स’ इत्येषा कालगणनापद्धतिः अत्याधुनिकी । मैक्रो सेकेण्ड्स्, मिलिसेकेण्ड्स् इत्यादयः विषयाः पाश्चात्त्यैः १८ शतके, १९ शतके वा न ज्ञाताः आसन् । एवं स्थिते जागतिकविस्तारविषये कालविषये च भागवते यत् विवरणं द्द्श्यते तत् कुतो वा आश्चार्याय न भवेत् +
‘अत्रास्ति जगतः परिमाणम् । एतत् परिमाणम् अस्माकं सौरव्यूहस्य एतस्याः आकाशगङ्गातः बहिः अन्या आकाशगङ्गा अस्ति । … एताद्द्शानि अनेकब्रह्माण्डानि सन्ति । अये, जनमेजय ! यावत् अहं जानामि तावत् उक्तं मया’ इति तत्र विवरणं द्द्शयते ।
अस्मत्प्रदेशे यत्र कुत्रापि भागवतप्रवचनं प्रचलति चेत् वयं गत्वा भकत्या फलुष्पादिकं समर्प्य पूजां समाप्य प्रत्यागमिष्यामः ततः मोक्षः प्राप्यते इति अस्माकं विश्वासः । मोक्षप्राप्तिः भवतु नाम, एतस्य ब्रहाण्डस्य सूक्ष्मातिसूक्ष्माः बहवः विचाराः अपि सन्ति इत्यत्र अस्माकम् अवधानम् एव न भवति ।
केभ्यश्चितं वर्षेभ्यः पूर्वम् अहं केनचित् जर्मनूपण्डितेन मिलितवान् । अस्माकं पुराणेतिहासानाम् अध्ययने तस्य विशेषासक्तिः आसीत् । एतं भूखण्डं सौरव्यूहं च अधिकृत्य पुराणेषु ये अनेके आश्चर्यजनकाः विषयाः उक्ताः तान् मत्पुरतः निरूपितवान् आसीत् सः ।
दौर्भाग्य नाम, संस्कृते विद्यमानं सर्वं वयं प्राच्यवस्तुविषयकं भावयामः । धर्मशास्त्र-पुराणादीनि जातिवादीनि इति मत्वा विज्ञानविचारं निराकुर्मः । तेषां स्पर्शः अपि पाषाय इति मन्वानाः विचारप्रियाः मतनिरपेक्षवादिनः बहवः सन्ति अस्माकं देशे । ताद्द्शाः एव शासनस्य उच्चस्थानानि अलङ्कुर्वन्तः सन्ति अपि ! एव तन्त्रज्ञानविज्ञानसम्बन्धिनी अस्मत्पूर्वजानां ज्ञानसम्पत्तिः इदानीं सर्वथा उपेक्षापात्रतां गता अस्ति । तद्विषये अस्माकं विद्यार्थिनः न किश्चिदपि जानन्ति । इदानीम् अपि वयं बोधयामः यत् ज्योतिश्शास्त्रं चीनादेशे बेबिलोनियादेशे वा ऐदम्प्राथम्येन विकसितम् इति । इदं तु व बोधयामः यत् १०,००० वर्षेभ्यः पूर्वम् एव भारतं तद्विषये उच्चस्थाने आसीत् इति । हर्गन् जाकोबियन्, जान् प्लेकार्ड् इत्यादयः लिखितवन्तः सन्ति यत् – यान् वयं निरूपितवन्तः ते सर्वे अंशाः भारतीयानां शोधतः प्राप्ताः इति ।
आकाशकायान् (धूमकेतून्) अधिकृत्य लिखिताः ग्रन्थाः मत्सविधे सन्ति । पाश्चात्त्याः तावत् आकाशकायानां विषये एषु दिनेषु ज्ञातवन्तः । ह्यालीधूमकेतुप्रभृतयः आधुनिकैः अन्विष्टा इति तु सत्यम् एव । चीनाजनैः अपि आकाशकायाः अन्विष्टा स्ति । किन्तु अस्मत्पूर्वजैः लिखितेषु ग्रन्थेषु आकाशकायानां रमणीयं विवरणं द्द्श्यते यत् तद्विषये कुतः उपेक्षा ‘धूमकेतुः’ इति शब्दः एव परमरमणीयः । आकाशकास्यय स्वभावं गुणं च स्वयं विवृणोति स च शब्दः । आंग्लभाषीयः ‘ Comet’ शब्दः न ताद्द्शः स च आकाशकायस् रूपमात्रं निर्दिशति । ‘पुच्छसद्द्शं वस्तु’ इत्येतावान् एव अर्थः तस्य पदस्य । धूमकेतुशब्दः तावत् विशालम् अर्थं बोधयति, न तु पुच्छमात्रम् । सः केतुप्रकाशः एषः प्रकाशः धूमतः निर्गच्छति । धूमः अनिलस्य रूपान्तरम् । अनिलस्य ज्वलनात् एव प्रकाशस्य उत्पत्तिः । अतः धूमकेतुः नाम वस्तूनां समवायरूपं लोहात्मकं वस्तु इति अर्थः सिद्धयति ।
अस्मत्प्राचीनैः विज्ञानविषये यत् कृतं तस्य विवरणे किं वयं समर्थाः स्मः + यदि न, तर्हि तद्विषये यत्नः विधेयः । भारतीयपाठयपुस्तकेषु अपेक्षितं परिवर्तनम् आनेतुं प्रामाणिकप्रयत्नः अपि विधेयः ।
कलनस्यय आविष्कर्ता न्युटनः इत्येतं विषयं जर्मन्जनाः न अङ्गीकुर्वन्ति । ते वदन्ति- एतस्य अन्वेष्टा लैब्रजः इति । रशियन्पाठयुस्तकेषु न ऐनस्टिनस्य प्राशस्त्यम् । एरकोव्, सासाकोव्, वाप्लोव् इत्यादयः तत्र उल्लिखिताः भवन्ति ।
अस्मत्सम्प्रदायविषये उच्चपरम्पराविषये च अस्माकम् अज्ञानं यथा अनुवर्तेत तथा कर्तुं विज्ञानक्षेत्रे विशेषप्रयत्नाः क्रियमाणाः द्द्श्यन्ते । वैज्ञानिकक्षेत्रे प्रगतिं साधयितुं भारतीयाः अनर्हाः ‘इत्येवं भावं वर्धयितुं वयम् अज्ञानान्धकारे स्थाप्यमानाः स्मः ।
केभ्यश्चित् मासेभ्यः पूर्वम् अहं केरल-देशस्य ‘आरन्मूला ‘ग्रामं गतवान् आसम् । तत्रं अहं लोहदर्पणनिर्माणतन्त्रज्ञानं द्द्ष्टवान् । मया सह विद्यमानेभ्यः विज्ञानसमितिसदस्येभ्यः अहं तत् दर्शितवान् । तत् करनिर्मितम् इत्यत्र तै विश्वासः एव न कृतः आदौ । सहस्त्राधिकवर्षेभ्यः तत् लोहदर्पणनिर्माणकार्यं तत्र प्रचलति । देशे सर्वत्र विदेशेषु च तस्य विक्रयणं प्रचलति अपि ।
एतत्सर्वं प्रत्यक्षसिद्धम् अस्ति । इदानीम् अपि तत् तन्त्रज्ञानम् अवलम्ब्य जीवन्ति । हस्तेन एव लोहे चाकथक्त्यता प्रतिफलनक्षमता यत् जन्यते तत् तन्त्रज्ञानम् अधिकृत्य वयं छात्रान् नैव बोधयामः । कानिचन एव कुटुम्बानि इदानीं तत् तन्त्रज्ञानं जानन्ति । अहं तानि गृहाणि गत्वा अभिनन्दनम् उक्वा आगतवान् । तत्कुटुम्बजनानाम् आयः न अधिकः । कष्टेन जीवनं यापयान्ति ते, तथापि पूर्वजैः आश्रिता वृत्तिः तैः न परित्यक्ता । पारम्परिककलाविषये अभिमानं वहन्ति ते । यदि एतासां परिरक्षणविषये परिवर्धनविषये वा वयम् अवधानं न दद्याम तर्हि एताः कलाः अचिरात् एव अद्द्श्यतां गच्छेयुः ।
भारतस्य तन्त्रज्ञानामेतिहासः अस्ति । प्राचीनभारतीयतन्त्रज्ञानपरम्परा अत्युत्कृष्टा आसीत् अपि । एतत् जगत् जानीयात् । मानवीयमौल्ययुक्तं पर्यायतन्त्रज्ञानम् अस्मत्समीपे अस्ति । तत् जनशोषणावलम्बि न । प्रत्युत मानवानां सेवामनोभावनया अभिवर्धितम् अस्ति । अस्माकं जीवनद्द्ष्टेः अनुगुणं तदपि सर्वहिताय सर्वसुखाय च अस्ति ।
(१९९४ तमे वर्षे अक्टोबर्मासे हैदराबादनगरे विज्ञानभारत्या द्विदिवसीया चिन्तननगोष्ठी या आयोजिता आसीत् तत्र कृतस्य समारोपोपन्यासस्य संस्कृतानुवादः एषः ।)
( विज्ञानभारतीप्रदीपिकाकृपातः