स्वातन्त्र्योत्तर-संस्कृतपत्रकारिता स्वातन्त्र्योत्तर-संस्कृतपत्रकारिता लालाशङ्कर गयावालः अस्ति पत्रकारिताः एका विशिष्टा परम्परा । कस्यापि पत्र-पत्रकारिताः मूलमुद्देश्यं वैविध्यपूर्णसमाचाराणां अनेकाषां जनानां समक्षं तथैव प्रचारः प्रसारश्च । प्राक्कालादेव जनाः समाचारं प्राप्तुमनेकविधमुपायं स्वीकृतवन्तः । सर्वप्रथमं मोसोपोटामिय-प्रान्तस्य राज्ञा डेरियसेन स्वसूचना प्रदातुं शिलायामुपरि लेखा उत्कीरिताः । अनन्तरं भारते सम्राडशोकेनाऽपि गफाभित्तिषु, शिलासु, स्तम्भेषु च सर्वजनहिताय स्वसूचना दापयिता । पुनः ताम्रपत्रेषु ताड़पत्रेषु वस्त्रेषु च तथैव लेखिताः लेखाः । एते सर्व एव पत्रिकायाः प्राक्तनं स्वरूपं प्रकटीकुर्वतिं । यद्यपि भारते पत्रिकायाः स्वरूपः मुगलकालतः मन्यते, परमस्य यथार्थज्ञानं ब्रिटिशसाम्राज्यस्य स्थापनान्तरमेव स्वीकारणीयम् । सर्वप्रथमं संस्कृतपत्रिकायाः विविरणम् डा. अर्नेस्टर्होसमहोदयेन प्रदत्तम् । अत्र पत्रिकाद्वयस्य सामान्यपरिचयः मिलति । अनन्तरं मैक्समूलरमहोदयेन स्वकीयेग्रन्थे संस्कृतस्य अध्ययनाध्यापनविषये बृहदुल्लेखः कृतः, तेषां मते-“संस्कृतमेवैका एतादृशीभाषास्ति या अद्यापि देशस्य एकस्मात् प्रदेशात् अन्यप्रदेशं न्यावात् जनैः भाषते अवगम्यते, च ।”1 एल.डी.बर्नेट महोदयेन स्वकीये ग्रन्थे यथाशक्यं पत्र-पत्रिकानां विविरणं प्रदत्तम् । अत्र 1876-1929 वर्षं यावत् प्रकाशितानां पत्र-पत्रिकानां विवरणं मिलति । विद्यावाचस्पति-अप्पाशास्त्रिराशिवडेकरमहोदया एका मासिकपत्रिकां सम्पादयन्ति स्म- “संस्कृत-चन्द्रिका” नाम्नीम् । यस्यां सर्वप्रथम् अनेकाषां संस्कृतपत्रपत्रिकानां विस्तृतं विवरणं समीक्षा च मिलति । 1907 वर्षे विन्टरनित्समहोदयेन संस्कृतपत्रिकानामूल्यं योगदानं समर्थितम् 2 । 1913 वर्षे संस्कृत रत्नाकार नामक मासिकपत्रिकानामूल्यं “वासन्तिक-प्रमोदः” इति शीर्षके अनेकप्राचीनसंस्कृतपत्रिकानां नामोल्लेखः मिलति । अनन्तां गुरुप्रसादशास्त्रिदीनानाथ शास्त्रिसारस्वत-एम.कृष्णामाचारियार – आर. एन. दाण्डेकर – चिन्ताहरण चक्रवर्ती-वी. राघवन् – शंकरलालशर्मा-गणेशरामशर्मा-रामगोपालमिश्र – श्रीधरभास्करवर्णेकर – राधा – वल्लभत्रिपाठिमहोदयानां ग्रन्थे लेखे च संस्कृतपत्र-पत्रिकायाः विस्तृतं विविरणं मिलति ।3 अत्र समेषां मध्ये रामगोपालमिश्रमहोदयेन संस्कृतपत्रकारिता-विषये सर्वाधिकं गवेषणात्मकं कार्यं कृतम् । एतेषां पुस्तके 1960 तमवर्षे यावत् पत्र-पत्रिकानां विस्तृतं विवरणं मिलति । भारते आधुनिपत्रकारितायाः अथ 20 जनवरी, 1780 तः स्वीक्रियते । जेम्स आगस्टस हिक्कीमहोदयस्य सम्पादकत्वे सर्वप्रथमं बंगालगजट नामकम् आङ्गलपत्रं प्रकाशितम् । हिन्दीभाषायां प्रथमं पत्रं 1820 तमवर्षे ‘उदण्ड-मार्तण्ड’ नाम्ना प्रकाशितम् । प्राक्काले भारतेवर्षे समाचारप्रेषणार्थमनेके जनाः कार्यरता आसन् तेषु दूत-चर-भाटप्रभृतयः सन्ति । एतेषां विस्तृतं विवरणं वयं संस्कृतस्य प्राच्यसाहित्येषु पुराणेषु नाटकेषु च प्राप्नुमः । संस्कृतपत्र-पत्रिकानां विकासः मासिकपत्रिकारूपेण प्रारब्धः । काशीविद्यासुधानिधिः संस्कृतस्य प्रथमा पत्रिकासीत् या वाराणसीतः 1 जून 1866 तमवर्षे प्रकाशिता । अस्याः अपरं नाम पण्डित आसीत् । पत्रिकायाः प्रमुखमुद्देश्यम् अप्राप्तानामप्रकाशितानां पुस्तकानां च प्रकाशनम्4 । अत्रानेक प्राचीनप्रामाणिकसंस्कृतग्रन्थानां प्रकाशनं जातम् । स्वतंत्रभारते संस्कृतपत्रिकानां किं स्वरूपम् ? कथं वा पत्रकारितायाः विस्तारः जातः, काः काः नूतनाः पत्रिकाः आविर्भूताः अस्तंगताश्च ताषां सर्वाषां विस्तृतं विवेचनमत्र कालिकरूपेण प्रस्तूयते । सर्वाः पत्रिकाः दैनिक-साप्ताहिक-पाक्षिक-मासिक-द्वैमासिक-त्रैमासिक-चतुर्मासिक-षाण्मासिक-वार्षिकाख्याः । दैनिकं संस्कृतपत्रम् – संस्कृते दैनिकपत्रप्रकाशनं तु सर्वथा कठिनं कार्यम् । त्रिवेन्द्रं केरलात् 1 जनवरी 1907 तमवर्षे ‘जयन्ती’ त्याख्यं प्रथमं संस्कृतदैनिकपत्रं प्रकाशितम् । अस्य सम्पादकौ कोमलमारुताचार्यः लक्ष्मीनन्दनस्वामी च आस्ताम् । वित्तग्राहकाभावात् शीघ्रमेवास्य प्रकाशनं स्थगितम् । विजयः (संस्कृतिः) स्वतंत्रभारतस्य प्रथमं संस्कृतदैनिकपत्रं ‘विजय’ -1961 तमवर्षे पुण्यत्तनात् प्रकाशितं अभूत् । पञ्चदशदिनं यावदस्य नाम विजय आसीदनन्तरम् अस्य नाम संस्कृतिः कृतम् । अस्य सम्पादकः पण्डितबालाचार्यखरावेडकर-महोदय आसीत् । अस्य वार्षिकं मूल्यं पञ्चदशरुप्यकानि प्रत्यङ्कस्य च षङ्पणा आसन् । सोमवासरे पत्रमिदं नैव प्रकाश्यते स्म । पृष्ठद्वयात्मकेऽस्मिन् पत्रे वृत्तसंग्रहे विविध-वृत्तसंग्रहे च समाचाराः प्रकाश्यन्ते स्म । सुधर्मा – संस्कृतस्यापरं दैनिकं पत्रं वर्तते सुधर्मा पत्रमिदं 1970 तमवर्षतः मैसूरतः प्रकाश्यते । अस्यपत्रस्य प्रकाशनसङ्केतः 561, रामचन्द्र अग्रहार, मैसूर-570 004 वर्तते सम्पादकश्च प. काव्लेनडादुरुवरदराज अय्यंगार्यः । रविबासरे पत्रस्यावकाशः । दैनिकपत्रेषु सुधर्मा परमां प्रतिष्ठामप्राप्सीत् । अत्रापि समाचाराः कविता-कथा-लेखाश्च प्रकाश्यन्ते । कालान्तरं सुधर्मापत्रस्य प्रकाशनं प्रभावितं पुनरपि पत्रमिहं सततं प्रवहमानं संस्कृतस्य सेवायां गतिमानं प्रवहमानञ्चास्ति । नवप्रभातम् – 1991 तमवर्षे कर्णपुरतः (कानपुरात्) डा. शिवबालक द्विवेदीमहोदयानां साहसेन चतुर्थ दैनिकसंस्कृतपत्रस्य प्रकाशनं प्रारब्धम् । अस्य पत्रस्य प्रकाशनस्थलम् – 117/81 न्यूशारदानगरं, कानपुरम्, उत्तरप्रदेशः वर्तते । एतत् पत्रमपि वित्तग्राहकलेखकाभावात् स्खलितम्, यदा-कदा एव अस्य प्रकाशनं जायते । यद्यपि अनेक संस्कृतानुरागिनः विद्वासंश्चास्य प्रकाशनाय सहयोगं कृतवन्तः किञ्चित् कालं यावत् क्रमेण प्रकाश्यते स्म पुनरपि मन्दतामप्रात्सीत् । अस्यसम्पादकः स्वयमेव निगदति – “पत्रस्य समक्षं साधनाकवर्गादारभ्य सेवकप्रकल्पपर्यन्तं सर्वं कार्यं प्रसन्नतया साध्नोमि । तत्रापि प्रसन्नतामेव सर्वदा अनुभवामि । यत संस्कृतमातरं संसेवे मन्ये संस्कृतमाता सस्मितं सस्नेह कथयति-वत्स । करणीयमिदं राष्ट्रकार्यं कुरु ‘तया संप्रेरितः तां च संस्मरन् कार्य करोमि ।5 अत्र सुधर्मा एव सुष्ठुरूपेण स्वधर्मं साधयति ।। साप्तहिकम् – स्वातंत्र्योत्तरभारते सर्वप्रथमं साप्तहिकपत्रं सुरभारतीति मुम्बईतः प्रकाशितम् । 1947 तमवर्षे सुरभारती कार्यालय, 116 भूलेश्वर मुम्बईतः श्रीगोविन्दवल्लभ-शास्त्रिमहोदयानां सम्पादकत्वे पत्रमिदं प्रारब्धम् । अस्य पत्रस्य विषये ‘मालवेमयूरे’ एषा व्यवस्थिता सूचना प्राप्यते “विश्वस्मिन् विश्वभारते भारत-भारती-भारतीय-भारतीयतागौरवविवर्द्धिषया प्रसरन्ती संस्कृत- पन्नदोर्लभ्यमपाकुर्वती विद्वज्जनमण्डलसहयोगमुपनयन्ती मोहमयीतः सुरभारतीयं पत्रिका प्रचरति । इयं पत्रिका विद्वद्वरवृन्दलब्धसहायास्ति ।”6 संस्कृतभवितव्यम् – संस्कृतभाषाप्रचारिणीसभानागपुरतः 1951 तमवर्षे अस्य पत्रस्य प्रकाशनं प्रारब्धेम । अस्य सम्पादकाः श्रीधरभास्करवर्णेकरमहोदयाः आसन् । अनन्तरं दि. वी. वराडपाण्डेमहोदयाः, सम्प्रति पत्रमिदं डा. नी. र. वर्हाडपाण्डेमहोदयानां सम्पादकत्वे संस्कृतभवनम् 2, पश्चिमः, उच्चन्यायालयमार्गः, नागपुरम्, 440 001 महाराष्ट्रतः प्रकाश्यते । अस्य वार्षिकं शुल्कं चत्वारिंशत् रुप्यकाणि प्रत्यङ्कस्य च एकरुप्यकमस्ति । साप्ताहिकपत्रेषु पत्रमिदमुत्कृष्टम् अस्ति । अस्य प्रकाशनं सततं जायते । अनेके विशेषाङ्का पत्रस्य विस्तारवैभवं गाम्भीर्यं च प्रदर्शयन्ति । अस्य भाषा सरला सन्धिरहिता चास्ति । डॉ. वी. रागवन्महोदयानुसारं पत्रे प्रकाशित सामग्री शैली चानुपमा वर्तते । 7 Special meniton must be made of the weakly Sanskrit Bhavitavyam of the Sanskrit Pracharini Sabha, Nagpur, which is good in the material presented and the style employed . वैजयन्ती – 1953 तमवर्षे वैजयन्तीकार्यालयः योगमन्दिरं, बागलकोटतः वैजयन्ती साप्ताहिकपत्रं प्रकाशितम् । अस्य संचालकः गलगलीरामाचार्यः सम्पादकश्च पण्ढरीनाथाचार्यश्च आस्ताम् । प्रतिमंगलवासरे पत्रमिंद प्रकाश्यते स्म । त्रुटिरहिता सरलसंस्कृतसम्बलिता बालोद्यानमुता चासीत् । अत्रविमर्शवेदिकास्तम्भे अर्वाचीनपुस्तकानामालोचना प्रकाश्यते । अनन्तरं मुद्रणालयाभावात् धनाभावाच्चास्याः नियतप्रकाशनं बाधितम् बाधितमेव । पण्डित-पत्रिका – अखिलभारतीय पण्डितमहापरिषद् धर्मसंघटुर्गाकुण्डवाराणसीतः 1953 तमवर्षे पण्डित पत्रं प्रकाशितम् । अस्य संरक्षकः पण्डितरामयशत्रिपाठिमहोदयः आसीत् । प्रतिसोमवासरे प्रकाशितस्यास्य पत्रम्य मुख्यमुद्देश्यं धर्मप्रचारमासीत् । धनाभावादेव 1960 वर्षानन्तरं पत्रिकाप्रकाशनं नैव जातम् । भाषा – जुलाई 1955 तमवर्षे 6 अरुण्डेलपेट गुण्टूर-2 स्थानतः भाषा पत्रस्य प्रकाशनं जातम् । अस्य सम्पादकौ गौ. स. श्रीकाशीकृष्णाचार्य सं कौ कृष्णसौमयात्री चास्ताम् । सरला भाषा सम्बलिता प्रतिसोमवासरे पत्रिमिदं प्रकाश्यते । अत्र समाचारा अपि प्रकाश्यन्ते स्म । गाण्डिकम् – 1964 तमवर्षे वाराणसीतः श्रीरामबालकशास्त्रिमहोदयस्य सम्पादकत्वे गाण्डिवम् साप्ताहिकपत्रं प्रकाशितम् । मध्ये किञ्चित्कालं यावत् सम्पूर्णानन्दसंस्कृतविश्वविद्यालयपरिसरतः निरन्तरं प्रकाश्यते । ‘गाण्डिवम्’ स्वीयेन नैरन्तर्यवैशिष्टयेन रुचिकरेण विषयवैभवेन निष्पक्षतयाभावप्रकाशनेन संस्कृतपत्रकारिताक्षेत्रे महत्वमादधाति । यथोत्त्कं श्रीधर्मदत्त चतुर्वेदिमहोदयेन – वृत्तंसंस्कृतमाध्येन सकलं सम्प्रेष्यते भारते । वातां सर्वसमाजयोग्यगुणिनां येनाऽत्र संगृहयते ।। जात्यां वर्गजनेषु भावसमता धर्मेषु च स्थाप्यते । ‘गाण्डिवम्’ सुधियः पठन्ति किल् तत् साप्ताहिकं पत्रम् ।। अस्य पत्रस्य एका विशेषता निर्भीकतया समाचारप्रकाशनम् । अस्य पत्रस्य पञ्चदशविशेषाङ्का उत्कृष्टाः सन्ति तेषु संस्कृतप्रगतिविशेषाङ्क अङ्कन्नयं संस्कृतस्य विशिष्टत्वं प्रतिपादयति । विश्वसंस्कृतसम्मेलनावसरे ‘संस्कृतप्रगति विशेषांक-3 प्रकाशितः । यस्मिन् सम्पूर्णे भारते संस्कृतशिक्षायाः सम्प्रतिके जगति या भूमिकायच्चाऽवदानं प्रत्यङ्कास्य च रूप्यकद्वयम् । युगगतिः – 1982 वर्षतः वक्शीपुरं गोरखपुरतः युगगतिः साप्ताहिकं समाचारपत्रं प्रकाश्यते । अस्य पत्रस्य सम्पादकः राजसाकेती वर्तते । समाचारपत्रमिदं प्रतिसोमवासरे प्रकाश्यते । अत्र समाचारैः सह सम्पादकीयम्-निबंध-लघुकथा-पद्यान्यपि प्रकाश्यन्ते । अस्य विशेषाङ्केषु राष्ट्रियैकताविशेषाङ्कः 1998 तमवर्षे प्रकाशिताः । पत्रस्य वार्षिकं शुल्कं शतरुप्यकानि सन्ति । स्वतंत्रभारते प्रकाशितेषु संस्कृतसाप्तहिकपत्रेषु गाण्डिवम् स्वसमालोचनैः निर्भिकपत्रप्रकाशनेन संस्कृतजगति सविशेषं स्थानं तिष्ठति तत्रापि पत्रस्यास्य प्रकाशनं काशीतः जायते । नागपुरतः प्रकाशितं संस्कृतभवितव्यम् समाचार-सूचनाप्रधानं पत्रमस्ति । अत्र तथागम्भीरता न दृश्यते यथा इतः प्राक् प्रायः सप्तमे अष्टमेदशके प्राप्यते । ‘युगगतिश्च’ समाचारप्रधानं पत्रमस्ति इतः पूर्वं 1977 तमवर्षे सुरजनसिंहतोमरमहोदयेन इटावातः एकसाप्ताहिकपत्रं प्रारब्धं पर्यालोचनमिति तत्तु अस्तंगतमेव । पाक्षिककम् भारतवाणी – स्वतंत्रभारते सर्वप्रथमं पाक्षिकं पत्रं पूनातः प्रकाशितम्-भारतवाणी नामकम् । अस्यपत्रस्य सम्पादकौ डा. गजानन बालकृष्णपलसुले अनन्तगाडगिलश्चास्ताम् । विशेषकालं यावदस्य सम्पादनं डा. वी. जी. राहुरकर-महोदयाः कृतवन्तः । सचित्रपत्रेस्मिन् निबन्धः-कथा-कविता-अनूदित साहित्यानां प्रकाशनं समाचारेण सह भवति स्म । अत्र केचन विशेषाङ्का विशेषेण उत्कृष्टाः । का वार्ताविश्वमण्डले इति शीर्षके विश्वसमाचाराः संक्षेपेण प्रकाश्यन्ते स्म । संस्कृतवाणी – 1958 तमवर्षतः राजमुद्रीतः प्रकाशीतं संस्कृतवाणी पाक्षिकं-पत्रम् । अस्य पत्रस्य सम्पादिका श्रीमती एन. सी. जगन्नाथन् महोदया आसीत् । शारदा – श्रीबसन्तअनन्तडगिलमहोदयस्य सम्पादकत्वे 1959 वर्षे पूनातः प्रकाशितं प्रसिद्धं पाक्षिकं पत्रं शारदा । अस्य प्रकाशनसङ्केतः 425, सदाशिवपेठ पुण्यपत्तनमासीत् । अत्र बालभारतीआन्तरभारती-शिशुभारती-स्तम्भेषु बालानां कृते लेखाः प्रकाश्यन्ते स्म । अस्य भाषातीव सरला सरसा-उपदेशात्मिका च । उदाद्दीयते एवं – प्रसारय संस्कृतध्वजम् । प्रताऽय संस्कृतदुन्दुभिम् । प्रपूरयसंस्कृतशङ्खम् । पठ संस्कृतम् । वदसंस्कृतम् । लिख संस्कृतम् ।9 अस्मिन पत्रे आकाशवाणी समाचार-नाटकचित्र-उत्सवानां विविरण-जीवनचरित-संस्कृतविश्ववार्ता-समालोचनानां च प्रकाशनं भवति । अस्य पत्रस्य प्रकाशनं स्थगितम् । दशमसंस्कृतविश्वसम्मेलनावसरे बेंगलूरे अस्य सम्पादका सम्मेलनस्य विस्तृतं समाचारं प्रकाशयित्वा तत्रैव वितरितवन्तः । पाक्षिकपत्रिकासु शारदा सर्वप्रिया महत्तवपूर्णाचासीत् । अस्य अस्तं गते संस्कृतपाक्षिकपत्रे न्यूनता दृश्यते । हितसाधिका – दिसम्बर 1988 वर्षे यमुनानगरं हरियाणातः प्रकशितं पाक्षिकपत्रम्-‘हितसाधिका’ । अस्य पत्रस्य सम्पादकः प्रो. सत्यदेववर्मास्ति । पत्रमिदं हिमाचल-हरियाणा-पंजाब-चण्डीगढ़-देहली-देशानाम् एकमात्रं प्रतिनिधिसंस्कृतवृत्तपत्रमिति पत्रस्योद्घोषः पत्रचतुष्टयेषु अत्र समाचार-निबधं-सूचनादयः प्रकाश्यन्ते । पत्रस्योद्देश्य विषये अत्र लिख्यते – लेखे व्यवहारे च सरल संस्कृत प्रचालनात् । संस्कृतस्य पुनराप लाकभाषात्व-आपादनम् ।। सिंच्-सिंच् क्षुपान् संस्कृते हितसाधिके । स्युः कालेन युवानस्ते सुपुष्पाः सुफलाऽपि ।। गोरखपुरचर्चा – उत्तरप्रदेशस्य गोरखपुरतः 1990 तमवर्षे गोरखपुर-चर्चा नामकं पाक्षिकं पत्रं प्रारब्धम् । अस्य अनुराग प्रिन्टर्स, बक्षीपुरम् गोरखपुरम् वर्तते, सम्पादिका च श्रीमती गीता श्रीवास्तवास्ति । अष्टपृष्ठात्मेकेऽस्मिन् पत्रे विविधविषयकैः लेखैः सह विस्तृत समाचाराः प्रकाश्यते संस्कृतपाक्षिकसमाचारपत्रस्य विशेषाङ्कोऽपि प्रकाशितः । अस्य वार्षिकशुल्कं पञ्चसप्तातिरुप्यकाणि वर्तन्ते । दिशाभारती – 1994 वर्षत श्रीजीतरामभट्टमहोदयस्य सम्पादकत्वे एकं पाक्षिकं पत्रं दिल्लीतः प्रारब्धम् – दिशा-भारती नाम्नः । अस्य पत्रस्य प्रकाशनं बी. 307 दिल्लीप्रशासनआवास-तिमारपुरम्-दिल्लीतः 110054 भवति स्म । अस्मिन् पत्रे विविधविषयकाः समाचाराः संस्कृतविषयकानां कार्यक्रमाणां विविरणं-लेख-कवितादयः प्रकाशयन्ते स्म । वृहदाकारपृष्ठचतुष्टय समन्वतस्यास्य अङ्कद्वयं विशेषाङ्करूपेण प्रकाशितम् जुलाई 1996 वर्षे नववर्ष विशेषाङ्क जून 1997 वर्षे गणतंत्र दिवसविशेषाङ्कश्च । यदाकदा मध्ये अवसान भवत्येव पत्रस्यान्तिम प्रकाशनं पञ्चमेवर्षे मई 1998 तमे जातम् । अस्य पत्रस्य वार्षिकं शुल्कम् अशीतिरुप्यकाणि वर्तन्ते । एवमेव अन्यानि संस्कृतपत्राणि प्रकाशितानि येषां विषये विस्तृतं विवरणमप्राप्यमस्ति । तेषु वाराणसीनः कृतान्तः मुजफ्फरपुरतः मित्र, कलकत्तातः भक्त्तिसुधा, तिरूपतितः भवन्सजर्नल दिल्लीतः संस्कृतमञ्जूषा पत्रमिदं श्रीकृष्णसेमवालमहोदयेन प्रकाशितम् ‘संस्कृतश्रीः’ वर्तन्ते । पाक्षिक पत्रेषु 1920 तः अयोध्यातः अखिलभारतीयविद्वत् समिते पत्रं अद्यत्वेऽपि प्रकाशतामेति पाक्षिकरूपेण । पाक्षिकपत्रेषु सर्वप्रिया शारदा अस्तंगता एतेन संस्कृतपत्रकारिता जगति एका न्यूनता रिक्तता वा अनुभूयते । हितसाधिका संस्कृतस्य हितसाधिका स्यात् संस्कृतस्य चर्चा गोरखपुरात् सर्वत्र प्रसरेत् । मासिक-प्रत्रिका ब्रह्मविद्या – स्वतंत्रभारतस्य सर्वप्रथमा मासिकपत्रिका 1948 वर्षे कुम्भकोणमतः प्रकाशिता ब्रह्मविद्या वर्तते । एषा पत्रिका कांचीकामकोटिपीठस्य मुखपत्रिकासीत । अस्याः पत्रिकायाः सम्पादकः पण्डितराज एस. सुब्रह्मण्यशास्त्रिमहोदयः प्रकाशकश्च टी. आर. निवासाचार्यश्चास्ताम् । दर्शनप्रधानपत्रिकायाः अस्याः प्रकाशिनं सम्प्रति न भवति । वेदवाणी-1948 वर्षे वाराणसीतः अस्याः पत्रिकायाः प्रकाशनं जातम् । बालसंस्कृतम् – 1949 तमवर्षे बालसंस्कृतम् पत्रिकायाः प्रकाशनं प्रारब्धम् । अस्य प्रकाशानसङ्केतः बालसंस्कृतकार्यालय, आगरा रोड़, घाटकोपर मुम्बई-77 वर्तते । कविराजमस्वरूपशास्त्रि –आयुर्वेदाचार्य-महोदयानां सम्पादकत्वे एषा प्रकाश्यते स्म । बालोपयोगिपत्रिकायामस्यां बालसाहित्यानां विशेषेण प्रकाशनं भवति स्म । पत्रस्योद्दश्यमासीत् – पुरे-पुरे गृहे कुट्यां बाले वृद्धे युस्वपि । संस्कृतस्य प्रचाराय प्रभूयाद् बालसंस्कृतम् ।। मनोरमा – 1949 वर्षे बेहरामतः (गंजागतः) ‘मनोरमा’ पत्रिकायाः प्रकाशनं जातम् । एषा शिरोमणिमुद्रण-बेहरामपुरम्-गंजामतः प्रकाश्यते । अस्याः सम्पादकः श्रीअनन्तत्रिपाठिशर्मामहोदयः आसीत् । पत्रिका सुरुचिपूर्णा शुद्धा साधारणाचासीत् । अत्र प्रथमाङ्के एव द्वितीयाङ्के प्रकाश्यमानाना सूचना भवति स्म । संस्कृतप्रचारकम् – जीवितासु संस्कृतपत्रिकसु प्रचीनतमा संस्कृतप्रचारकम् पत्रिका दिल्लीतः 1950 वर्षे प्रकाशिता । अखिल भारतीय संस्कृतप्रचारकम् एवं शिक्षासमितिदिल्लयाः मुखपत्रिकेयं, 18/550 विजयपार्कः मौजपुरं दिल्लीतः प्रकाश्यते । सम्प्रति एषा पत्रिका डा. नरदेवशास्त्रिमहोदयानां सम्पादकत्वे प्रकाश्यते परं नैरन्तर्यता नास्ति । यदा-कदा एवास्याः प्रकाशनं जायते । पूर्वमस्याः पत्रिकायाः स्थानुमत्तममासीत् । भारती – राजस्थानप्रान्तस्य राजधानीजयपुरतः भारती नाम्नीमासिकपत्रिका 1950 वर्षतः निरन्तरं प्रकाश्यमानास्ति । पत्रिकाया अस्याः प्रकाशन स्थान बी. 15, भारतीभवनम् विजयखन्नानगरम् जयपुरमस्ति । बाबासाहब आप्टेमहोदयानां सम्पादकत्वे गिर्राजशास्त्रिमहोदयानां प्रबन्धसम्पादकत्वे राष्ट्रपतिसम्मानित-श्रीकलानशास्त्रिमहोदयानां सम्पादकत्वे भारती भारते भाति । अत्र सरल संस्कृतेन लेख-कथा-कविता-वार्ता-सुभाषित-समाचाराश्च प्रकाश्यन्ते । अस्याः पत्रिकायाः वार्षिकं शुल्कमशीति रुप्यकानि प्रत्यङ्कस्य च षड्रुप्यकानि वर्तन्ते वर्तन्ते । पत्रिकायाः प्रकाशनं साद्धेत्रिसहस्त्रं भवति । वैदिकमनोहरा – 1950 वर्षतः कांचीतः वैदिकमनोहरा पत्रिका प्रकाशिता । अस्या प्रकाशनं पी. बी. अण्णङाचार्यमहोदयानां सम्पादकत्वे लिटले, कावीतः भवति स्म । वैष्णवदर्शनप्रधानपत्रिकायामस्यां रामानुजीयदर्शन-सम्बंधयः लेखाः प्राप्यन्ते । संस्कृत-प्रतिभा – 1951 वर्षे अपारनाथमठ वाराणसीतः अस्याः पत्रिकायाः प्रकाशनं पं. रामगोविन्दशुक्लमहोदयानां सम्पादकत्वे जातम् । अस्याः प्रकाशनं साद्धैर्कवर्षं यावत् जातम् । संस्कृतसन्देश – 1953 वर्षे संस्कृतसन्देशकार्यालय, काठमाण्डु नेपालतः अस्याः पत्रिकायाः प्रकाशनं जातम् । इतिहासप्रधाना पत्रिका, अत्र शिलालेखानां प्रकाशनं जायते स्म । दिव्यज्योति – हिमाचलप्रदेशस्य राजधानीशिमलातः प्रकाशिता दिव्यज्योति सचित्र मासिकपत्रिका स्वप्रभया दिगदिगन्तं चकास्ति । 1956 वर्षतः प्रकाशिताया अस्या प्रकाशनसङ्केतः आनन्दलॉज-जाखु शिमलास्ति । अस्या प्रमुखद्देश्यं सरल-सरससुबोध-साधनैः सबंस्मिन् संसारे संस्कृतस्य प्रसारः साहित्यान्तर्गतानां सकलकलानां समन्वेषणं संसारस्य हितसम्पादनम् एवं लौकिक अलौकिक स्वातंत्र्यस्य-प्राप्तिः । अस्या आद्यसम्पादकाः राष्ट्रपति-सम्मानिताः आचार्यदिवाकरदत्तशर्माणः सम्पादकाश्चाचार्यकेशवशर्माणः सन्ति । अत्र प्रकाशिता, लेखाः समाचाराः श्लोकाश्च सर्वथा पठनीय भवन्ति । अस्या वार्षिकं शुल्कं पञ्चाशत् रुप्यकाणि वर्तन्ते । प्रतिमासस्य पञ्चदशतारिकायां प्रकाश्यते । अत्र केचन् विशेषाङ्काः प्रकाशिताः । विद्या – 1956 तमवर्षे बेगांवतः विद्या पत्रिकायाः प्रकाशनं जातम् । अस्याः प्रकाशनं विद्याकार्यालय-देशपाण्डेगल्लि 1558 बेलगांवतः श्रीपण्डित वरखेडीनसिंहाचार्यणां तथा पण्डितशिरोमणि गलगलीरामाचार्यमहोदयानां सम्पादकत्वे प्रारब्धमासीत् । अत्र दार्शनिकधार्मिक निबंधाः प्रकाश्यन्ते स्म । वर्षत्रयं यावत् एषा प्रकाशिता । प्रणवपारिजातम् – कालिकातातः 1958 वर्षे प्रणवपारिजातम् पत्रिकायां प्रकाशनं प्राब्धम् । सीतारामवैदिकमहाविद्यालय 7/3 पी. डब्लू. डी. रोड कोलकातास्याः प्रकाशनस्थलमासीत् । श्रीरामरंजनस्य प्रकाशकत्वे एषा प्रकाशयते स्म । अत्र-गीत-गद्य-पद्यात्मककाव्य-अनुवाद-निबंध-स्तुति वन्दना तथा संस्कृत-शिक्षासम्बन्धिनिबंधानां प्रकाशनं भवति स्म । अभिनवसाहित्यस्यापि प्रकाशनं भवति स्म । अमरवाणी – मासिक पत्रिका 1959 तमवर्षे वाराणसीतः प्रकाशिता । अमरवाणी नाम्नैव एकस्या पत्रिकायाः प्रकाशनं इन्दौरतः जाता इत्यपि सूच्यते । दिव्यवाणी – पत्रिकाया सूचना संस्कृत साकेत पत्रस्य 39.12 (1956) वर्षाङ्के मिलति ।10 गीता – 1960 वर्षे उडिपीतः श्री के वेंकटाशवस्य सम्पादकत्वे गीता पत्रिका प्रारब्धा । अस्याः संस्कृतपत्रिकायाः प्रकाशनं कन्नड लिप्यां भवति स्म । सरस्वती सौरभम् – बड़ौदास्थितवेद्धत्सभायाः मुखपत्ररूपेण 1960 तमवर्षे सरस्वती सौरभम् पत्रिकायाः द्वारिकाधीशमन्दिनृसिंह वीथी वटपत्तनमतः प्रारब्धम् । अस्याः प्रधानसम्पादकः जयनारायण रामकृष्णपाठकः आसीत् । अत्र सभाविवरणानां रचनानां च प्रकाशनां भवति स्म । गुरुकुलपत्रिका – गुरुकुलकांगड़ीहरिद्वारतः 1960 वर्षे गुरुकुलपत्रिका पत्रिकेयं 1948 वर्षतः हिन्दीभाषायां प्रकाशितासीत् । अस्या व्ववस्थापका सत्यव्रतविधामार्तण्डमहोदयाः सम्पादकाश्च धर्मदेवविद्यार्माण्डाः । अत्र दार्शनिक-ऐतिहासिक-वैज्ञानिक-सामाजिक-निबन्धाः प्रकाश्यते । सर्व एव निबंधाः गम्भीर रोचक-ज्ञानवर्धकाश्च । जयतु संस्कृतम् – काठमाण्डुतः 1960 वर्ष जयतुसंस्कृतम् कार्यालय रानीपोखटी 10/558 भोटाहिटी काठमाण्डू नेपालतः प्रकाशिता इयं पत्रिका । अत्र नेपाले संस्कृतप्रचार-नेपालीयसंस्कृसाहित्यस्यमूल्यांकणंप्रकाशितं भवति स्म । पत्रिकायां कविता-निबंध-कथा-अनुवाद-नेपालीयविदुषां परिचयात्मकं विविरणं प्रकाश्यते स्म । साहित्यवाटिका – दिल्लीराज्यसंस्कृतविश्वपरिषद् 23, एफ. कमलानगर कोल्हापुररोड़-दिल्लीतः 1960 वर्षे एषा पत्रिका प्रकाशिता । अस्या सम्पादकः यशोदारनन्दभारद्वाज आसीत् । एषा पत्रिका समस्यापूरकासीत् । सम्प्रति अनुपलब्धा । देववाणी – 1960 तमवर्षे एषा पत्रिका बिहारप्रदेशस्य मुंगरनामकात् स्थानात् प्रकाशिता । गैर्वाणी – संस्कृतभाषाप्रचारिणीसभा, चित्तूर-आन्ध्रप्रदेशस्य पत्रिकेयं गैर्वाणी 1962 वर्षतः प्रकाश्यते । पूर्वं पत्रिकैषा त्रैमासिकी आसीत् अनन्तरं मासिकरूपेण सम्प्रति डा. क. वे. रामकृष्णाचार्यस्य सम्पादकत्वे चित्तूरनगरतः प्रकाश्यते । अत्र सभाविवरणं-समाचार-लेख-सुभाषित-पद्यानि सरलसरस-भाषया प्रकाश्यन्ते । अद्यत्वे तेलगुभाषयोऽपि समाचारानां सूचना लेखा वा प्राप्यन्ते । अस्या वार्षिंकं शुल्कं त्रिंशत् रुप्यकाणि सन्ति । पत्रिकायाः सप्तत्रिंशततमो वर्षः । कल्याणी – जयपुरतः 1964 वर्षे कल्याणी नाम्नी मासिका पत्रिका प्रारब्धा । अस्याः प्रकाशनं स्थलं खण्डेलहाउस कल्याणजीकारास्ता चांदपोलबाजारजयपुरमासीत् । श्रीगोविन्दप्रसारदाधीचमहोदयानां सम्पादकत्वे अत्र विविधविषयकाः लेखा-कविता-नाटक-बालकथा-हास्यपद्यानि, महिला आयुर्वेद-व्याकरणस्तम्भेषु च, निबंधाः प्रकाश्यन्ते । अत्र सम्पादकीयं सामयिक विषययानुकूलं स्वभावाभिव्यक्त्तिरूपं भवति स्म । वर्षत्रयं यावदेव अस्याः प्रकाशनं जातम् । मधुमती – मधुमती मासिकपत्रिकायाः प्रकाशनं राजस्थान-साहित्य अकादम्या संस्कृतस्य सर्जनात्मक लेखानां प्रोत्साहनार्थं उदयपुरतः जातम् । अस्याः सम्पादकाः श्री गणेशरामशर्मणः आसन् । अस्याः पत्रिकायाः एकैवाङ्कः प्रकाशिताः 1970 तमवर्षे । सर्वगन्धा – 1976 तमवर्षतः सर्वगन्धा प्रगतिशील संस्कृतमोसिक पत्रिका लक्ष्मणपुरतः प्रकाश्यते । अस्याः प्रकाशनसङ्केतः संस्कृतालयः स्नेहीनगरं ताड़ीखाना सीतापुरमार्गः लक्ष्मणपुरम् (लखनऊ) 226021 उत्तरप्रदेशः वर्तते । पत्रिकायाः सम्पादकौ वीरभद्रः अनीता च । अत्र लोकोन्मुखा राष्ट्रानुरागजनकाः कर्त्तव्यप्रेरकाः लेखाः जनहिताय प्रकाश्यन्ते इति पत्रिकायाः उद्घोषः । परमत्र समाचाराः संस्कृतोन्नति विषयकाः सूचनाऽपि प्रकाश्यन्ते । सम्पादकौ दम्पती स्वगृहत्मेव संस्कृतमयं कृतौ यस्मिन् बालकबालिकाऽपि च संस्कृतं व्यवहरतः । संस्कृतामृतम् – 1978 तमवर्षतः दिल्लीप्रदेशतः प्रकाशिता संस्कृतामृतम् मासिकपत्रिका । अस्याः प्रकाशनं 1418 बाजारगुलियानः दिल्ली 110006 तः भवति सम्पादकश्च ‘प्रभाकर’ रामरत्नशास्त्रिमहोदयः वर्तते । शास्त्रिमहोदयाना निर्देशने प्रधानसंपादने च एषा पत्रिका सम्प्रति दिल्ली प्रदेशस्य उत्कृष्टतमा सर्वजनसुलभा च सञ्जाता शास्त्रिमहोदयाः स्वयमेव संस्कृतसेवातत्पराः संस्कृतानुरागिनश्च, सरलसंस्कृतभाषया बहुविधान लेखान् संपादयन्ति समसामयिकमसम्पादकीयेन संस्कृतपाठकान् मनस्तोषयन्ति । अस्याः पत्रिकाया प्रारम्भः सरस्वती स्नातकमण्डल-खन्नास्थामस्थ प्रयासेन सहयोगेन अभिनन्दनाङ्केन जातः यत्रस्यार्यविश्वनाथशास्त्रिणः । अत्र सम्प्रति सम्पूर्णे देशे जायमानानां संस्कृतकार्यक्रमाणां सुविस्स्तृतं रूपं संस्कृतवृत्तवार्ता इति शीर्षके द्रष्टुं शक्यते । एषा पत्रिका संस्कृतभाषां संवर्धयति प्रकाशयति च । गीर्वाणसुधा – देववाणीमन्दिरस्य मुखपत्ररूपेण गीर्वाणसुधाया प्रकाशनं 1979 वर्षतः जायते । अस्या प्रकाशनसङ्केतः देववाणीमन्दिरम्, केशवस्मृति क्षत्रियसभागृहमार्ग दादर प. मुम्बई 400 028 वर्तते । श्री भि. वेलणकरमहोदयानां संस्थापकत्वे प्रधानसम्पादकत्वे च एषा प्रारब्धा सम्प्रति डॉ. शां-ग-मोघेमहोदयानां सम्पादकत्वे गीर्वाणसुधा स्वसुधावर्षणेन देववाणीमन्दिरसमाचाराश्च विस्तरेण प्रकाश्यन्ते । यदा-कदा विशेषाङ्क सुन्दरेण चित्रेण चित्रितः शोभते । एषा पत्रिका प्रतिमासस्य पञ्चतारिकायां प्रकाश्यते । पत्रिकायाः प्रथम पृष्ठे एषः श्लोकः लिखितः पिलति – यथा पयोधेर्तहरिप्रसूता सुधा सुराणाममृतत्वहेतुः । तथैव गीर्वाणसुधाऽपि भूयात् नवीनसारस्वतवीचिभूतेः ।। श्रीपण्डित- स्व म. प. आचार्यमधुसूदनशास्त्रिमहोदयानां संस्थापकत्वे सम्पादकत्वे च 1980 वर्षे श्रीपण्डित मासिक-पत्रिका वाराणसीतः प्रकाशिता । सम्प्रति अस्याः पत्रिकायाः सम्पादको चन्द्रोदयमिश्रिभाल-चन्द्रपाण्डेयौ स्तः । अस्यां पत्रिकायां प्रायः गवेषणात्मकलेखाः पद्यानि समाचाराश्च प्रकाशिता भवन्ति । शोधच्छात्राणां कृते एषा पत्रिका सर्वथा पठनीया । अस्या वार्षिकं शुल्कं पञ्चत्रिंशत् रुप्यकानि सन्ति । पत्रिका यदा-कदा संयुक्त्ताङ्करूपेणाऽपि प्रकाशितां । पारिजातम् – 1982 वर्षतः मासिकं सुरभारतीपत्रम् पारिजातम् कानपुरतः प्रारब्धम् । पत्रिकाया अस्याः प्रकाशनं 105/194 प्रेमनगरम् कर्णपुरम् उत्तरप्रदेशतः निरन्तरं जायते । अस्याः प्रधानसम्पादकः प्रबन्ध सञ्चालकश्च डॉ. प्रकाशमित्रशास्त्रिमहोदयः वर्तते सम्पादकौ आचार्यसोमदत्त वाजपेयी डा. विद्याशंकरदीक्षितौ स्तः । मासिकपत्रिकासु एषा पत्रिका विशिष्टतां भजते । अत्र सामयिकचिन्तनम्-वेदवाणी-संस्तवः साहित्यसरणि- हास्यव्यंग्यम्-सामान्यज्ञानं-वातायनादिप्रभागेषु रुचिकराः मनस्तोषकाः ज्ञानवर्द्धकाश्च लेखाः प्रकाश्यन्ते । अस्मदीयमिति शीर्षके सूक्त्तीनामाधारीकृत्य लिखितं सम्पादकीयं सर्वथा सरलसंस्कृतेन पठनीयम् अस्याः पत्रिकायाः वार्षिकं शुल्कं चत्वारिशत् रुप्यकाणि सन्ति । चन्दामामा – चन्दामामाप्रकाशक चन्दामामाभवन चेन्नईद्वारा प्रकाशिता विभिन्न-भाषाविषयका पत्रिका चन्द्रमामा नाम्नेति । तत्र चन्दामामा संस्कृतमासपत्रिकायाः प्रकाशनं 1983 वर्षतः जायते । सचित्रकथा प्रधानपत्रिकायमत्र विविधविषयकाः बालमनोरञ्जिनी कथाः प्रकाश्यन्ते । अन्यासु भाषाष्वपि एषा पत्रिकातीव लोकप्रिया सर्वजनग्राह्या चास्ति । अस्या सम्पादकः नगरेड्डिमहोदयः परं कर्गजाभावात् 1998 वर्षस्य नई मासतः एषा पत्रिकास्तंगता प्राय ।11 एतेन एकस्याः मनोरम-सुन्दर-ललित सरसभाषाऽप्लावितायाः पत्रिकायाः अवसानम् अनुभूयते । लोकसुश्री – लोकभाषाप्रचारसमितिः बड़ओडियामठ-पुरी-उडीसातः प्रकाश्यते । एषा राधा-वल्लभमठाधीशः श्रीकृष्णचरणदासमहाराज्ञः संरक्षकत्वे प्रकाशतामेति । अस्यां पत्रिकायां सरलसंस्कृतभाषया लेखाः कविता कथाः भवन्ति सहैव संस्कृतभाषायाः प्रचाराय प्रसाराय कृतभूमिश्रमिश्रमस्थ लोकभाषा प्रचारसमितेः सम्पूर्णे विश्वे आयोजितानां संस्कृतकार्यक्रमाणां शिविरविवरणानां सविस्तरं विवरणं भवति । अस्या संस्थायाः शाखा सम्पूर्णे देशे वर्तते एव तत्र नेपाल-इण्डोनेशिया-मारिशस-हांगकांग प्रभृतिदेशेषु समितेः प्रचारकाः संस्कृतस्य प्रचारं कुर्वन्तुः सन्ति । अस्याः सम्पादकाः समितेः सचिवाः श्रीसदानन्ददीक्षितमहोदयाः संस्कृप्रचाराय संलग्नाः सन्ति । अस्याः पत्रिकायाः वार्षिकं शुल्क विंशतिरुप्यकाणि सन्ति । सत्यानन्दम् – श्रीसत्यानन्ददेवायतनम् संस्थायाः संस्कृतपत्रिका सत्यानन्दम् । आई. पी. रोड़ यादवपुरम् कलिकातातः 1987 वर्षतः प्रकाश्यमानास्ति । अस्याः उपदेष्ट्रमण्डल्यां सत्यानन्दमानसकन्या श्रीअर्चना पुरीमाता अन्ये च विख्याता विद्वांसः । अस्याः सम्पादकौ श्री मृगानन्दः डॉ. कुमारनाथभट्टाचार्यश्च भास्करनाथभट्टाचार्यः सहसम्पादकः वर्तते । अस्याः पत्रिकाया मुख्यमुद्देश्यं साधारणजनानां मध्ये सरलसंस्कृतस्य प्रसारमाध्यमेन संस्कृतं प्रति सुप्तानुरागस्य पुनर्जागरणम् । सरलसंस्कृतभाषया हिन्दूधर्मस्य संस्कृतेश्च प्रचारमाध्यमे उच्चत्तरमूल्यबोधस्य जागृतिः तथा दिव्य जीवनचर्चायाः दिङ्गनिर्देशः । व्यवहारिकभाषारूपेण संस्कृतस्य प्रयोगमाध्ययेन गृहे-गृहे शान्तेः तथा आनन्दस्य वाणीवितरणम् । तथाहि – संस्कृतात् सत्यमानन्दम् विन्दमानाः शिवास्पदम् । श्रीगुरुं संस्कृतात्मानं सत्यानन्दं भजामहे ।। सम्प्रति पत्रिकेयं हरिसत्यानन्दचैरिटिबलट्रस्टस्य स्वामीहीरानन्दस्य संरक्षकत्वे प्रकाश्यते । अभिनवसंस्कृतम् – पुनरपि लसतु संस्कृतं गृहे-गृहे इत्युद्घोषेण डा. शिवबालकद्विवेदी-महोदयानां संस्थापकत्वे निदेशकत्वे च 3/129 विष्णुपुरी, कर्णपुरम्, उत्तरप्रदेशतः अभिनवसंस्कृतम् मासिकपत्रिका प्रकाश्यते । अस्याः पत्रिकायाः प्रकाशनं 1992 वर्षतः डॉ. सुमनमिश्रा श्रीमती पुष्पाजोशीमहोदययोः सम्पादकत्वे जायते । अस्यां शोधपूर्ण लेखा-समाचाराः तया कस्याप्येकस्याः पत्रिकायाः सविस्तर विवरण मिलति । पत्रिकायां चतुर्विशेषाङ्काः प्रकाशिता । अस्याः वार्षिकं शुल्कं 131 रुप्यकाणि सन्ति । सम्भाषणसन्देशः – प्रकाश्यमानासु सर्वासु मासिकपत्रिकासु सम्भाषणसन्देशः स्वसरलसंस्कृतभाषया, सुन्दरमनोहरसङ्गाणतमुद्रितेन आकर्षकसाजसज्जया विविधवर्णवर्णितया लेखादिवैशिष्टयेन विशिष्टं स्थानं भजते । अरक्षम् 8 क्रास 11 फेज गिरिनगरम् बेंगलूरतः प्रकाशितं पत्रिकेयं 1994 वर्षतः सततं वर्द्धमानास्ति । अस्याः पत्रिकायाः सम्पादकः विश्वासः निर्वाहकसम्पादकश्च जनार्दनहेगड़े वर्तते । अत्र संस्कृतभाषाप्रचारार्थं हितसाधनार्थञ्चविशेषलेखाः-कथा-बालमोदिनी-धारावाहिनी-स्थिरशीर्षकेषु मनोहरा रुचिपूर्णा ज्ञानात्मकाश्च लेखाः प्रकाश्यन्ते । संस्कृतभाषां प्रतिजनरुचिवर्धिका बालाभिरुचिसंवर्द्धिकाश्च कथा-आख्यानिका व्यङ्गलेखा प्रहेलिका सचित्रं प्रकाश्यते । अस्याः विशेषांङ्क सोत्साहेन पाठकैः पठ्यते । सम्पूर्णेराष्ट्रे अद्यत्वे संस्कृतमासिकपत्रिकासु एषा पाठकानां संख्यादृष्ट्या प्रकाशनदृष्ट्या प्रसिद्धिदृष्ट्या च प्रथमं स्थानमवधारयति । नूनमेषा पत्रिका स्वीकरणीया । अस्या वार्षिकंशुल्कं अशीति रुप्यकानि प्रत्युङ्कस्य च सप्तरूप्यकाणि वर्तन्ते । रावणेश्वरकाननम् – बिहारप्रदेशसांस्कृतिकराजधानी वैद्यनाथधामतः प्रकाशिता रावणेश्वरकाननम् मासिक पत्रिका 1996 वर्षतः प्रो. मोहनानन्द मिश्रमहोदयानां सम्पादकत्वे निरन्तरं प्रकाश्यते । श्री अभयकुमारशर्राफ महोदयस्य संरक्षकत्वे एषा चिताभूमि चन्द्रदत्तद्वारीरोड, पो.टी.बिलासी-814117 बैद्यनाथधाम, देवधर बिहारतः प्रकाशिता । अस्यां वैदुष्यपूर्ण सम्पादकीय-विविधलेखाः-पद्यानि-हास्यव्यङ्गवार्ता-संस्कृतपाठाश्च प्रकाश्यन्ते । अस्यां पत्रिकायां सरलमाध्यमेन संस्कृतभाषा शिक्षणार्थमेका सरणि प्रारब्धा वर्तते यस्यां संस्कृतभाषायाः ज्ञानं सम्यक् प्रकारेण कार्यते । संस्कृतजिज्ञासूनां कृते नूनमेषा पत्रिका संग्रहणीया । अस्याः पत्रिकायाः वार्षिकं शुल्कं चत्वारिंशत रुप्यकाणि सन्ति । अमृतभाषा – डॉ. रामकुमारचन्द्रमिश्रमहोदयस्य सम्पादकत्वे हल्दीपरा बालेश्वर उड़ीसातः प्रकाश्यमानां अमृतभाषा संस्कृतस्य मासिकपत्रिका वर्तते या 1998 वर्षतः प्रकाश्यते । पत्रिकायाः कलेवरेण समाचारपत्रवत् प्रतिभाति यस्यां राजनीतिविषयानां समाचारः सरलसंस्कृतभाषया भवति । अमृतभाषा हि संस्कृतमित्युद्घोषेणेयं संस्कृतं राष्ट्रभाषां कत्तु, संस्कृतं पाठ्यक्रमे बाध्यतामूलकं मा भवतु, सर्वेसंस्कृतज्ञाः संस्कृतं वदन्तु, संस्कृतमाध्यमेन पाठयन्तु, संस्कृतस्य प्रचारं प्रसारञ्च करोति । अस्याः पत्रिकायाः वार्षिकं शुल्कं चतुर्विंशति रुप्यकाणि प्रत्यङ्कस्य रुप्यकद्वयम् अस्ति । पत्रिकायाः घोषः वर्तते एकसहस्त्रं रुप्यकाणि दत्वा अमृतभाषायाः प्रतिष्ठात् सदस्याः भवन्तु अमृतभाषां दैनिकपत्रं दैनिकपत्रं कर्त्तुं साहाय्यं कुर्वन्तु इति । आर्षज्योतिः – श्रीमद्दयानन्दवेदविद्यालयस्य मासिकं पत्रं आर्षज्योतिः तमसो मा ज्योतिर्गमय इत्युद्घोषेण एषा मासिक पत्रिका, 119, गोतमनगरम् नव दिल्लीताः – 110049 प्रकाश्यत । अगस्त 1998 वर्षतः प्रकाशिताया अस्याः पत्रिकायाः संस्थापक आचार्यहरिदेवः संरक्षश्च दिल्लीसंस्कृताकादम्याः सचिवः श्रीकृष्णसेमवालः । अस्याः प्रधानसम्पादक डॉ. नारायणः वर्तते । पत्रिकाया लक्ष्यमस्ति संस्कृतं व्यवहारपदं प्रापयितुं सरलोपायेन प्रयासः । अनुपलब्ध प्राचीनसंस्कृतसाहित्यस्य अन्वेषणम् । वैदिकसिद्धान्तानां वैज्ञानिकरीत्वा उपादेयत्वं साधयित्वा वेदविज्ञानयो सामञ्जस्य स्थापनम् । पत्रिकेयं प्रतिमासं पञ्चविंशतितारिकायां प्रकाश्यते । अस्याः वार्षिकं शुल्कं पञ्चाशत् रुप्यकाणि प्रत्यङ्कस्य च पञ्चरुप्यकानि वर्तन्ते । अस्यामार्य जीवनदर्शनं गुरुकुलीय पद्धत्या वैशिष्ट्यं सम्यक् प्रकारेण द्रष्टुं शक्यते । संस्कृतपत्रिकाया अद्य मासिकपत्रिकारूपेणैव जातम् । स्वतंत्र भारते अनेका मासिकीपत्रिकाः प्रकाशिताः तासु काश्चनस्तंगता काश्चन् नूतनाऽऽविर्भूताः । सम्प्रति वींशतीसंस्कृतस्य मासिकपत्रिकाः प्रकाश्यन्ते । ताषु भारती, संस्कृतामृतम्, पारिजातम् , सम्भाषणसन्देशः रावणेश्वर-काननम् प्रभृतयः अन्यतमाः सन्ति । नूनं संस्कृतज्ञैः एताः पत्रिकाः संरक्षणीया । स्वरचनाभिः अभिव्यक्त्तिभिः पत्रिकायाः ग्राहकत्वं स्वीकृत्वं च । एतेन संस्कृतपत्रकारिता चिरस्थायी भविष्यन्ति । स्वतंत्रभारते 1910 वर्षे हरिद्वारतः प्रकाशिता भारतोदयः 1924 वर्षे वाराणसीतः प्रकाशिता सूर्योदयश्च भारतस्य उदयद्वयं सूर्यचन्द्रं चोदयतः अद्यापि स्वप्रभया भारतं भारतं करोति संस्कृतपत्रकारिता जगति चकास्तः । इमे द्वे पत्रिके पत्रकारितायाः आधारभूते ये स्वतंत्रतायाः पूर्वम् उत्तरं च योजयतः । द्वैमासिकम् मालवमयूरः – अस्याः पत्रिकायाः प्रकाशनं श्रीरुद्रदेवत्रिपाठिमहोदयानां सम्पादकत्वे मन्दसौरः मध्यप्रदेशतः जातम् । 1946 वर्षतः प्रकाशिता इयं पत्रिका मासिक आसीत् अनन्तरं द्वैमासिकरूपेणस्याः प्रकाशनं जातम् । भारतीविद्या – स्वामीचिन्मयानन्दमहोदयानां सम्पादकत्वे मकरन्दनगर फतेहगढ़त भारतीविद्या द्वैमासिकपत्रिकायाः प्रकाशनं 1950 वर्षतः प्रारब्धम् । मधुरवाणी-पत्रिकायां सूचना मिलति अस्याः पत्रिकायाः प्रकाशनस्य । पियंवदा – एषा-द्वैमासिक-पत्रिका प्रकाशनसङ्केतः संस्कृतभवनं लोकनायकमार्गः पुरी उड़ीसा वर्तते । पत्रिकायाः प्रकाशनं 1988 वर्षतः जायते अस्याः सम्पादकौ श्रीमरेकृष्णमहापात्र प. श्री गदाधरदाशौ आस्ताम् । अत्र सरलसंस्कृतनिबंधाः सुरुचितंक्षिप्ताश्च समाजोपयोगिलेखाः शास्त्रचर्चा व्यङगपद्यादि रचनाः – कथाः प्रकाश्यन्ते । अस्याः एकाविशिष्टतासीत् यदत्र समस्यापूर्ति शीर्षके जनाः सरुचिं भागं गृहणान्ति । ‘मनोरथे मे रथि एव राजते’ तथा ‘भक्त्तौ सदैव रमतां हृदयं महीयम्’ इत्यादयः समस्यापूर्तिश्लोकांशाः प्रदत्तासन् पत्रिकायाः वार्षिकशुल्कमेकेविंशतिरुप्यकाणि सन्ति । प्रियवाक् – 1992 नमवर्षतः प्रियंवदा द्वैमासिकपत्रिकायाः नामपरिवर्तितं प्रियवाक् इति जातम् । सम्प्रति एषा पत्रिका MIG-5 केन्द्रीयविद्यालयस्य पृष्ठे पुरीतः प्रकाश्यते । परिचालनसंस्थापकः प्रकाशकश्च डॉ. नागवरप्रसाद-रावचन्द्रपाटि वर्तते । आर्थिकहानिरपि जायते चेत् पत्रिकायाः प्रकाशनं भवति । भारतमुद्रा – पुरनाकुट्टुरा त्रिपुरनगरं केरलतः प्रकाशिता द्वैमासिकपत्रिका ‘भारतमुद्रा’ सम्प्रत्यपि निरन्तरं प्रकाश्यते । अस्याः पत्रिकायाः प्रकाशनं 1993 वर्षतः अशोकनपुरनाटुक्रामहोदयस्य सम्पादकत्वे जायते । अस्यां प्रबंधाः नाटकं-कविता-नावले-वार्तादिकाः सरल संस्कृतभाषया प्रकाश्यन्ते । सम्पादकीयमतीव सरलं सुन्दरं च भवति – वार्तासु विशेषेण संस्कृतकार्यक्रमाणां संस्कृतविदुषां विषये विस्तरं विवरणं मिलति । अस्याः पत्रिकायाः वार्षिकं शुल्कं व्यक्त्तीनां कृते त्रिंशत् रुप्यकाणि संस्थानां कृते च पञ्चचत्वारिशंत् रुप्याकाणि वर्तत्ते । स्वतंत्रभारते अन्या द्वैमासिकपत्रिकाः वर्तते ताः कानपुरतः प्रकाशिता वेदान्तसंदेशः मुजफ्फरपुरतः प्रकाशिता संस्कृतदर्शनञ्च । 1987 वर्षतः एरनल्लूरतः प्रकाशिता कामधेनुः बंगसंस्कृतयुता वर्तते । अत्र भारतमुद्रा एव सततं प्रकाशमानास्ति । त्रैमासिकम् विद्यालयपत्रिका – 1951 तमवर्षतः चातुर्वेदसंस्कृतविद्यालय, मथुरातः स्वतंत्रभारतस्य प्रथमा त्रैमासिकापत्रिका विद्यालय-पत्रिका प्रारब्धासीत् । अस्याः सम्पादकः प. पुरुषोत्तमशर्माचतुर्वेदीमहोदय आसीत् । विद्यालयस्य प्राध्यापकानां विद्यार्थीनाञ्चेयंपत्रिका अनियतकालिकासीत् । श्रीरविवर्म-संस्कृतग्रंथावली – त्रिपुन्नुरासंस्कृतविद्यालयसमितेः त्रैमासिकपात्रिकेयम् । अस्याः प्रकाशनं 1953 वर्षे त्रिपुनिथुरातः जातमासीत् । अत्राप्रकाशितानां ग्रन्थानां प्रकाशनं भवति स्म संस्कृतभाषाया तत्कालीनस्वरूपोपरि लेखा यत्रकुत्रापि अङ्के प्रकाशिताः । पत्रिकायाः सम्पादकः श्री सी. के. रामन् नाम्बियार आसीत् । संस्कृत प्रभा – भारती प्रस्थानस्यनुसन्धानपत्रिका त्रैमासिकी संस्कृत-प्रभा अस्याः प्रकाशनं 1960 वर्षे भारती प्रतिष्ठान् 34 आनन्दपुरी मेरठतः आचार्यद्विजेन्द्रनाथशास्त्रिमहोदयस्य सम्पादकत्वे जातम् । पत्रिकायाः प्रकाशनं प्रथमे वर्षे एव स्थगितम् । गैर्वाणी – संस्कृतभाषाप्रचारिणीसभाचित्तुरतः 1962 वर्षे गैर्वाणी त्रैमासिक-पत्रिकायाः प्रकाशनं प्रारब्धम् । अस्या सम्पादकः एम. वरदराजनपन्तुल्महोदयः आसीत् । अत्र सभाविवरम-सुभाषित-आंध्रसंस्कृत-परीक्षासूचना-भाषणादि प्राकश्यन्ते स्म । सम्प्रति एषा पत्रिका क. वे. रामकृष्णामाचार्यस्य सम्पादकत्वे प्रकाशिता भवति । सागरिका – 1962 तमवर्षतः सागरिका समिति सागरविश्वविद्यालय सागर म.प्र.तः सागरिका नाम्नी त्रैमासिकसंस्कृतशोधपत्रिका प्रारब्धा । प्रतिवर्षस्य जुलाई-अक्टूबर-जनवरी-अप्रैलमासेषु प्रकाश्यते एषा पत्रिका । सम्प्रति प्रकाशितासु सर्वासु शोधपत्रिकासु सागरिका स्ववैदुष्यपूर्ण-तर्कसंगत प्रौढ़ लेखप्रकाशनार्थं संस्कृतमनीषाणां जीवनचरितार्थ नवीनसाहित्य प्रकाशनार्थञ्च स्मर्यते । अस्या विशेषाङ्क-विश्वसंस्कृतसम्मेलन विशेषाङ्क-कालिदास-ज्योतिष-नाट्यवेद-प्राचीन भारतीयसमाजदर्शन-मनुस्मृति विशेषाङ्काः प्रमुखाः सन्ति । सम्पादका अस्याः पत्रिकायाः रामजीउपाध्यायराधाबल्लभत्रिपाठिमहोदयाः सन्ति । पत्रिकायाः वार्षिकं शुल्कं त्रिंशद्रुप्यकाणि वर्तत्ते । संस्कृतशोधच्छात्राणां कृते एषा पत्रिका सर्वथा पठनीया सङ्ग्रहनीया च । विश्वसंस्कृतम् – 1995 वर्षे विश्वेश्वरानन्दवैदिकशोधसंस्थानम् साधुआश्रमहोशियारपुरम् – 146021 पंजाबतः विश्वसंस्कृतम् त्रैमासिकशोधपत्रिका प्रकाश्यते । अस्या संस्थापकसम्पादकाः श्रीमन्तः विश्वबंधु महोदयाः आसन् । सम्प्रति एषा प्रो. एस. भास्कन् नायरमहोदयास्य प्रबंधसम्पादकत्वे क. र. डा. श्यामदेवपाराशास्यच सम्पादकत्वे प्रकाशतामेति । पत्रिकेयं स्वभाषागाम्भीर्येण परिष्कृतप्रौढ़शोधनिबन्धेन मौलिकरचना प्रकाशनेन प्रसिद्धा वर्तते । अत्र विशेषाङ्काऋ सविशेषं स्थानं भजत । एषा प्रतिवर्षं चैत्र-आषाढ़-आश्विन्-पौषमाषेषु प्रकाश्यते । पत्रिकायाः वार्षिक शुल्कं चत्वारिंशत् रुप्यकाणि वर्तन्ते । संस्कृत सम्मेलनम् – विहारराज्यसंस्कृतसाहित्यसम्मेलनस्य त्रैमासिकं मुखपत्रं-‘संस्कृतसम्मेलनम्’ । एषा पत्रिका श्रीरामनिरंजनंमुरारका-संस्कृत महाविद्यालय-चौकपटनानगरात् 1764 वर्षतः प्रकाश्यते । अत्र विविध विषयसम्बद्धाशोधलेखाः कविता-संस्कृतवृत्ताश्च प्रकाश्यन्ते । सम्प्रति अस्याः प्रकाशनं श्रीचन्द्रदीपशुक्लमहोदयानां सम्पादकत्वे जायते । अस्या अनेकेविशेषाङ्काः यदा-कदा पकाशिताः । संगमनी- प्रयागस्थ संस्कृतसाहित्यपरिषदः प्रकाशनं वर्तत्ते संगमनी त्रैमासिकशोधपत्रिका । अस्याः प्रकाशनं 1964 वर्षतः दारागंज प्रयागतः निरन्तरं जायते । एषा संस्कृतवाङ्गमयस्य संस्कृतभाषायाः प्रचाराय प्रसाराय गवेषणापूर्णलेखानां परिचर्यानाम् अप्रकाशितानां पाण्डुलिपिनां प्रकाशनं करोति । आचार्य-महामण्डलेश्वर-श्री महेशानन्दगिरिमहोदयानां संरक्षकत्वे डॉ. प्रभातशास्त्रिणः प्रधानसम्पादकत्वे संगमनी संस्कृतस्य निःस्वार्थसेवायां रता वर्तते । अत्र साहित्ये-गतानुसंधानलेखा सविशेषेण पठनीया वर्तते पत्रिकायाः वार्षिकं शुल्कं पञ्चविंशतिरुप्यकाणि सन्ति । संविद – भारतीयविद्याभवनस्य संस्कृतत्रैमासिकी पत्रिका ‘संविद’ 1964 वर्षतः कुलपतिमुंशी मार्गः मुम्बईतः प्रकाश्यते । अस्याः पत्रिकायाः सम्पादकाः श्रीमन्तः जयन्तकृष्ण हरिकृष्णदवेमहोदयाः च सह सम्पादकौ भाई शंकरपुराहितसुरेश उपाध्यायौ च । सुचित्रेण सुन्दरेण लेखलिपिभिः सज्जितायामस्यां पत्रिकायां प्रार्थन-सम्पादकीयम्–लेखा-सुभाषित-लब रूपक-संस्कृत समाचारपाठकानां प्रतिक्रिया च प्रकाश्यन्ते । अस्यां पठनसामग्रयः समीचीना पठनीया मनोरञ्जनीया च भवन्ति । अस्याः वार्षिकं शुल्कं षष्ठिरुप्यकाणि वर्तन्ते । विद्याभवनस्य संरक्षणे एषा पत्रिका उत्तरोत्तरं वर्धमानास्ति । गुञ्जारवः – संस्कृतत्रैमासिकपत्रिका गुञ्जारवः 1996 वर्षतः गीतायनम् सर्व्है नं. 39/1/11-अ प्लाट नं. 7 नरहरिनगरसमीपे, गुलमोहर पथः अहमदनगरतः प्रकाश्यते । अस्याः सम्पादकः डा. देवीप्रसादख्रंडीकरमहोदयः वर्तते । पत्रिकैषा अहमदनगरस्थया सनातनधर्मसभया पुरस्कृता वर्तते । संस्कृत-संस्कृति विषयमधिकृत्य अस्यां लेखा-नूतन कविता पद्य-समाचार-परितोषपत्राणि च प्रकाश्यते । अस्या विशेषाङ्केषु ज्ञानेश्वर-रामदास-रौप्यमहोत्सवीयाः प्रमुखा वर्तन्ते । अस्याः पत्रिकायाः वार्षिकं शुल्कं पञ्चाशत् रुप्यकाणि वर्तते । हितकारिणी – त्रैमासिक पत्रिकायाः प्रकाशनं 1964 वर्षे जबलपुरम म. प्र. जातमासीत् । ऋतम्भरम् – 1964 वर्षे अहमदाबादतः ऋतम्भरम् पत्रिका प्रकाशिता । मधुमती – 1964 तमवर्षे अस्याः पत्रिकायाः प्रकाशनं राजस्थान साहित्य अकादमी-उदयपुरतः जातम् । पत्रिकायाः सम्पादकः श्रीगणेशरामशर्मा महोदयः आसीत् । अस्याः पत्रिकायाः केवलम् एकाङ्क एव प्रकाशिता । कामेश्वरसिंह संस्कृतविद्यालय – त्रैमासिकीपत्रिकायाः प्रकाशनं 1964 वर्षतः दरभंगानगरतः जातम् । अमृतलता – अस्याः पत्रिकायाः प्रकाशनं त्रैमासिक रूपेण पारडी गुजराततः 1964 वर्षे जातम् । केचन् पत्रिकामिमां मासिकपत्रिकारूपेण स्वीकुर्वन्ति । 12 संस्कृतस्त्रोतस्विनी – अस्याः प्रकाशनं 1964 वर्षे आगरातः जातम् । संस्कृतसुधा – श्री उमेशशास्त्रिनः सम्पादकत्वे अस्याः त्रैमासिकपत्रिकायाः प्रकाशनं 1964 वर्षे जयपुरतः जातम् । अस्याः प्रकाशनस्थलं डी. 282 मीरामार्गः बनीपार्क जयपुरमासीत् । श्रीयोधराजसारस्वत अस्या प्रबन्ध सम्पादक आसीत् । अस्याः पत्रिकाया मुख्यमुद्देस्यमासीत् विचारात्मकानां गवेषणात्मकानां भारतीयसंस्कृतविषयानां निबंधानां प्रकाशनम् । वर्षत्रये अस्या अष्टाङ्का एव प्रकाशिताः । सनातन धर्मशास्त्रम् – कलकतातः प्रकाशिता इयं पत्रिका, धार्मिक पत्रिका रूपेण स्वीक्रियते । अस्याः प्रकाशनं 1964 वर्षे जातम् । मालविका – भोपाल मध्यप्रदेशतः मालविका त्रैमासिकपत्रिकायाः प्रकाशनं 1964 वर्षे जातम् । पाटलश्री – पाटलिपुत्रतः प्रकाशिता पाटलश्री एका त्रैमासिकशोधपत्रिका आसीत् । अस्याः प्रकाशन पूर्वराज्यपाल श्री अनन्तशयनअयङ्गरमहोदयस्य प्रयासेन प्रारब्धम् । स्वर-मङ्गला – रामस्थानसाहित्यसंगमस्य त्रैमासिकशोधपत्रिका-स्वरमंगलायाः प्रकाशनं उदयपुरनगरात् 1975 तमवर्षे प्रारब्धम् । प्रतिवर्षे अङ्कचतुष्टयेषु प्रकाश्यमाना एषा सम्प्रति राजस्थानसंस्कृतआकादमी वीरेश्वर भवनम् – गणगौरी बाजार-जयपुरतः प्रकाश्यते । इयं पत्रिका नवलेखकानां गद्य-पद्य लेखपराणां विदुषां विविधभावभरितानां शोधात्मकलेखानां । नव्यकाव्यरचनानाञ्च निरन्तरं प्रकाश्च संस्कृत-संस्कृति सौरभ्य प्रसारमे संलग्ना वर्तत्ते । अत्र प्रकाशितासु विशेषाङ्काः अत्युच्चगवेषणात्मकनिबंधयुताः सन्ति तेषु-राधाकृष्णन्-नेहरू-भट्मथुरानाथशास्त्रि-राजन्द्रप्रसाद- पं. गिरधर शर्मा चतुर्वेदि-म. म. गोपीनाथकविराज गुलेरी-बालाङ्काः वेद-व्याकरणदर्शन धर्मशास्त्रिदि अङ्काः स्वशोधलेखैः सुसज्जिताः सन्ति । अस्याः पत्रिकायाऋ वार्षिकं शुल्क चत्वारिंशत् रुप्यकाणि सन्ति । परमार्थसुधा – संस्कृतभाषायाः सेवायां तत्परं वाराणसीस्थ सार्वभोमसंस्कृत प्रचारसंस्थानतः श्रीसत्यनारायणशर्ममहोदमानां सम्पादकत्वे श्रीवासुदेवशास्त्रि श्रीविद्याधरद्विवेदिमहोदययोऋ उपसम्पादकत्वे परमार्थसुधा त्रैमासिकपत्रिका प्रकाश्यते स्म । अस्याः प्रकाशनं 1976 वर्षतः हौजकटोरावाराणसी संस्थानतः एव प्रकाशतामेति । अस्यां विमर्शात्यका अनुसन्धानात्मकाश्च शास्त्रीया अप्रकाशितपूर्वा उच्चस्तरीयाः मौलिकलेखाः काव्यनाटक-चरित्रवर्णन व्यङ्गसम्बन्द्धाः नव्याः कृतयः प्रकाश्यन्ते स्म । अजस्रा – अजस्रा नाम्नी त्रैमासिकी पत्रिका अखिलभारतीयसंस्कृत परिषदलखनउतः 1977 वर्षे प्रारब्धा । अस्याः पत्रिकायाः प्रकाशनं महात्मागांधी मार्ग हजरतगंजः लखनऊ उत्तरप्रदेशमस्ति । पत्रिकायाः सम्पादक श्री अशोककुमारकालियास्ति । संस्कृतसम्पदासंरक्षणं विभिन्न पद्धतिजुषां रचनां संवर्द्धनम् प्रातिभनूतनकृतीनां संसर्जनञ्च अस्या उद्देश्यं । अत्र कथा-लेख-कविता-नाटक-शोधप्रधान-निबंधाश्च प्रकाश्यन्ते । अस्याः पत्रिकायाः वार्षिकं शुल्कं त्रिंशत् रुप्यकाणि एकप्रतेश्चाष्ट रुप्यकाणि सन्ति । अर्वाचीन-संस्कृतम् – डॉ. रमाकान्तशुक्लमहोदयानां सम्पादकत्वे देववाणीपरिषद्-आर. 6, वाणीविहारदिल्लीतः अर्वाचीन-संस्कृतम् नाम्नी त्रैमासिकी अर्वाचीना-पत्रिका प्रकाशनं भवति । अस्याः मुख्यद्देश्यमपि अर्वाचीनानां साहित्यानां प्रकाश्नम् । नूतनानां रचनानां च सज्जीकरणम् ।13 अद्यत्वे सम्पूर्णे विश्वे प्रवर्तमानायाः कारगिलचर्चायाः विषये कारगिल-विशेषाङ्कः पत्रिका स्वनामसार्थकी कुर्वती अस्ति । अत्र कारगिलविषये लिखिताः रचनाः विशेषेण हृदिगम्याः सन्ति । अनेके विशेषांकः पत्रिकाया अर्वाचीनसाहित्यानामाकरः प्रतिभाति । अस्याः वार्षिकं शुल्कं चत्वारिंशत् रुप्यकाणि सन्ति । संस्कृत-सञ्जीवनम् – बिहारसंस्कृतसञ्जीवनसमाजः 211 पाटलिपुत्र कॉलोनी पटनातः 1982 वर्षतः प्रकाश्यते । संस्कृतसञ्जीवनसमाजः त्रैमासिक पत्रिका । अस्याः पत्रिकायाः प्रधानसम्पादिका श्रीमति मिथलेशकुमारीमिश्रा महोदया सम्पादके हरिप्रपन्नद्वेदीविनाओझामहोदये । अत्र सम्पादकीयम् विविधनिबंधाः कविताश्च प्रकाश्यन्ते । अनेके विशेषाङ्का प्रकाशिताः वर्षान्ते एकः विशेषाङ्क अवश्यमेव प्रकाश्यते । पत्रिकायाः वार्षिकं शुल्कं पञ्चाश्त रुप्यकाणि सन्ति । व्रजगन्धा – व्रजमण्डलस्यैकमात्रं संस्कृतत्रैमासिकपत्रिका व्रजगन्धा 1985 वर्षतः रामाकृष्णपुरी-मधुरी-उत्तरप्रदेशतः निरन्तरं प्रकाश्यते । अस्याः पत्रिकायाः सम्पादकः डा. वासुदेवकृष्णचतुर्वेदिमहोदयः वर्तत्ते । ‘वन्दे व्रजवसुन्धराम्’ इति आदर्शोक्त्तिं वहत्ति एषा पत्रिका ब्रजक्षेत्रस्य प्रतिनिधित्व विदधति । गोलोकवासी पुण्यश्लोकानां प. श्री श्रीवरशास्त्रिणां स्मृतौ प्रकाशितायामस्यां पत्रिकायां लेख-कविता-हास्यपद्य-शोधनिबंधा-प्रकाश्यन्ते । पाठकानां पत्राणि पत्राणि पुस्तकानां समीक्षाऽपि प्रकाशिता भवति । पत्रिकायाः वार्षिकं शुल्कं पञ्चाशत् रुप्यकानि सन्ति । लोकसंस्कृतम् – संस्कृतकार्यालयः श्रीअरविन्दाश्रमः पाण्डिचेरीतः लोकसंस्कृतम् त्रैमासिकपत्रिकायाः प्रकाशनं 1985 वर्षे प्रारब्धम् । सम्पादकमण्डल्यां चिन्मयीमाहेश्वरी-नरेन्द्रश्च वर्तते । अत्र बालरचना-कथा-कविता-विविधलेखस्तम्भेषु नवीनरचनाः प्रकाश्यन्ते । शोधविषयकानां निबंधानां कृते एषा लोकप्रियास्ति । पत्रिकाया अष्टचत्वारिंशत् अङ्काः प्रकाशिताः । सम्प्रति संयुक्त्ताङ्करूपेण वर्षे वारद्वयं प्रकाशितं भवति फब्रुअरी मासे अगस्तमासे च पत्रिकायाः वार्षिकं शुल्कं विंशतिरुप्यकाणि सन्ति । दूर्वा – दूर्वा त्रैमासिकी पत्रिका मध्यप्रदेशसंस्कृतअकादमी-सिविललाईन-भोपाल, मध्यप्रदेशतः 1986 वर्षतः प्रकाश्यते । डा. राधावल्लभ त्रिपाठिमहोदयानां सम्पादकत्वे प्रकाशितायाम् अस्यां पत्रिकायां गवेषणात्मक-निबंधाः नूतनकाव्यसर्जनपद्यानि, नाटकानि-कथाः-चिन्तनानि-समीक्षाः प्रकाश्यते । पत्रिकायाः अनेके विशेषाङ्काः अस्याः विशेषं प्रकटयति तेषु-पाटलसुरभी-विश्वकविता-संस्कृतकुम्भकलि-बालसाहित्य स्वर्णिमस्वतंत्रता-कारगिलविजय-विशेषाङ्काः प्रमुखाः सन्ति । पत्रिका इयं नूतनसाजसज्जया संवलिता सुन्दरलिपिभिः रम्या नयनाभिरामा प्रतिभाति । पत्रिकायाः वार्षिकं शुल्कं चत्वारिशंत् रुप्यकाणि विंशति रुप्यकानि डाकव्ययार्थञ्च स्वीक्रियन्ते । पत्रिकायाः केचन् प्राक्तनाङ्काः स्वमधुरमनोहर-सरसपद्यप्रकाशनैः विशिष्टतां भजते । विश्वभाषा – विश्वसंस्कृतप्रतिष्ठानस्य मुखपत्रम् विश्वभाषा अन्तर्राष्ट्रीय त्रैमासिकसंस्कृतपत्रिका वर्तते । या 1986 वर्षतः काशीराज श्रीविभूतिनारायणसिंहशर्मदेवस्याध्यक्षे पं. गुलामदस्तगीर अब्बास अलिविराजदारमहोदयस्य प्रधानसम्पादकत्वे निरन्तरं प्रकाश्यते । अस्यां विभिन्न विषयकानां निबंधै सह स्थायिस्तम्भे बालजगत्-युवमंच-रसवतीत-अक्षरबंध-ग्रन्थसमीक्षा-ज्ञानशिविर-योगासन-प्रतिष्ठानवार्ता-संस्कृतवार्तादिशीर्षकेषु लेखाः समाचाराश्च प्रकाशयन्ते । पत्रिकायाः वार्षिकं शुल्कं त्रिंशत् रुप्यकाणि सन्ति । पत्रिकायाः प्रकाशनं विश्वसंस्कृतप्रतिष्ठानं-रामनगरदुर्गम् वाराणसीतः जायते । बुद्धपूर्णिमा-स्वातंत्र्यदिवसः दीपावलिगणतन्त्रदिवसश्च प्रकाशनदिनाङ्कः वर्तते पत्रिकायाः अस्याः निरन्तरमेषा पत्रिका संस्कृतसंस्कृति-संरक्षणे तत्परा वर्तते । उज्जयिनीसिंहस्थमहापर्वणि आयोजितस्य विश्वसंस्कृतसम्मेलनस्यवसरे मध्यप्रदेशाङ्क विशेषाङ्कः प्रकाशिता ।14 अनादिवाक् – संस्कृतसेवासंस्थानस्य त्रैमासिकं मुखपत्रम् अनादिवाक् । अस्याः पत्रिकायाः प्रकाशनं 1988 वर्षे आ. रामदयालु महोदयानां सम्पादकत्वे प्रारब्धम् । प्रकाशनस्थलं 59/8 मध्यमार्गः तुगलकाबाद विस्तारः नवदिल्ली वर्तते । संस्कृतभाषाभावयोः प्रचाराय प्रसाराय चेयं पत्रिका प्रारब्धा । द्वितीय वर्ष एव एषा संयुक्त्तङ्करूपेण प्रकाश्यता प्रायः अस्तंगता सम्प्रति । संस्कृतमञ्जरी – दिल्लीसंस्कृतअकादम्याः सचिव श्रीकृष्णसेवालमहोदयानां सम्पादकत्वे संस्कृतमञ्जरी त्रैमासिकशोधपत्रिकायाः प्रकाशनं 1995 वर्षतः जायते । सम्प्रति एषा पत्रिका दिल्लीसंस्कृत-अकादम्याः नवकार्यालयात् पूर्व आर्यमहिलाविद्यालय प्लाट नं. 5 झण्डेवालान करौलबाग दिल्लीतः प्रकाश्यते । संस्कृतसेवातत्परसेमवालमहोदयस्य सम्पादकत्वे नूनमेषा पत्रिका उत्तरोत्तरं प्रगतिपथमनुधावति । अस्यां पत्रिकायां विविधशोधनिबन्धाः कथा-पद्यानि अकादमीकार्यक्रमाणां विस्तृतं विविरणानि संस्कृतजगत् वार्ताऽपि सुविस्तृतं प्रकाश्यते । अत्र भारतस्य प्रसिद्धविदुषां सर्जनधर्मिसाधकानां नवोदितप्रतिभानां मानवसंवेदनानां सशक्तलेखनीनां संयुक्ता संस्कृतिः दृश्यते । अस्याः विशेषाङ्काः, सवरैव पठनीया संग्रहनीया च वर्तन्ते तासु ज्ञानविज्ञानविशेषाङ्कः, शासनप्रबंधनपद्धतिविशेषाङ्कः – संस्कृतशिक्षण-व्यवस्थाङ्कश्च अस्याः पत्रिकायाः प्रौढ़पाण्डित्यं प्रकटीकरोति । अस्याः पत्रिकायाः वार्षकमूल्यं शुल्कं वा द्वात्रिंशत् रुप्यकाणि वर्तन्ते । सुन्दरेण कर्गजेन सुलेखेन सुरम्या इयं पत्रिका नूनं धारणीया पठनीया चास्ति । अमृतवाणी – मानवसेवासंस्थानस्य त्रैमासिकीसंस्कृतपत्रिका अमृतवाणी 1996 वर्षतः रमेशचन्द्रशाहामहोदयस्य प्रधानसम्पादकत्वे जा. कुमारचन्द्रमिश्रमहोदयस्य च सम्पादकत्वे बालेश्वरम् ओड़िसातः प्रकाश्यते । अस्याः पत्रिकायाः मुख्यं लक्ष्यं संस्कृतस्य लौकिकरूपं जनानां समक्षे स्थापनीयम् । आधुनिकपत्रिकाप्रकाशनप्रणालीमनुसरन्ती एषा विविधसाजसज्जिताधुनिकी पत्रिकाइव प्रतिभातिं । अत्र विविधविषयकाः समाचाराः राजनीतिका सांस्कृतिकाश्च वार्ताः कथा पद्यानि सुन्दरचित्रैः सह चित्रितानि प्रकाशितानि च । अत्राभिनेताभिनेतृणां च चित्राणि प्रकाशितानि । पत्रिकायाः वार्षिकं शुल्कं चत्वारिंशत् रुप्यकाणि वर्तन्ते । स्वातंत्र्योत्तर भारते शोधपत्रिकासु सर्वप्राचीना सर्वजनप्रिया च सारस्वती-सुषमा 1942 वर्षतः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः प्रकाश्यते यस्यां प्रौढ़विद्वत्पूर्णशोधनिबन्धाः विविधविषयसंवलिता प्रकाशिताः वर्तन्ते । अस्या विशेषाङ्केषु द्वादशविशेषाङ्क विभिन्नानां शास्त्राणां सारग्राहकाः सन्ति । प्रकाशितासु पत्रिकासु काश्चन् एव त्रैमासिकपत्रिका शोधपत्रिका वक्तुं शकयन्ते यासु शोधप्रधाननिबन्धा प्रकाश्यन्ते तासु अन्यतमा सागरिका, विश्वसंस्कृतम्, स्वरमंगला, लोकसंस्कृतम्, अर्वाचीन संस्कृतम्, दूर्वा, संस्कृतमञ्जरीति । अन्या अपि त्रैमासिकपत्रिका सन्ति तासु राउलकेलातः उत्कलोदयः, भद्रकतः जनभारती, लखनऊतः प्रभातम्, पुरीतः दिग्दर्शिनी, इलाहाबादतः मनीषासूत्रम्, दरभंगातः विश्वमनीषा, (कामेश्वरसिंहदरभंगा विश्वविद्यालयस्यशोधत्रैमासिकी) दिल्लीतः ‘श्रेयः’, मुजफ्फरपुरतः परमार्थसुधेति । एतासां विस्तृतं विविरणमप्राप्तमेव । चातुर्मासिक-पत्रिका सारस्वतम् – राष्ट्रपतिसम्मानितानां श्रीचन्द्रदीपशुक्लमहोदयानां प्रधानसम्पादकत्वे ‘सारस्वतम्’ नाम्नी चातुर्मासिकी पत्रिका प्रकाश्यते । अस्याः पत्रिकायाः प्रकाशनं बाहरी बेगमपुर-पटनासिटी-पटना बिहारमस्ति । पत्रिकायाः प्रकाशनं 1997 वर्षतः जातम् । अत्र विविधविषयका लेखाः पद्यानि-समाचाराः अथ चान्ते सम्पादकीयं प्रकाश्यते । पत्रिकायाः वर्षद्वयस्य अङ्कत्रयं भारतीयास्वधीनता – स्वर्णजयन्तीवर्षे प्रकाशितम् । तमसो मा ज्योतिर्गमय इति शीर्षकमाद्धाना एतेन श्लोकेन संवलिता पत्रिकेयं । एकछत्रं चातुर्मासिकं गौरवं विदधति – देवन्द्रवाक् प्रसरताज्जगतीह नित्यम् । लोकाः बुधाः सुकृतिनः सुयशोलभन्ताम् ।। सारस्वतं विजयताम् विबुध प्रयासैः । सद्भावना भारतमस्तु सदा हि लोके ।। इतः पूर्वं 1906 वर्षे केरलग्रन्थमालानाम्नी चतुर्मासिकपत्रिका कालीकूटतः तथा 1930 वर्षे प्रकाशिते श्रीचित्रा त्रावणकोरतः प्राप्येते । षाण्मासिकम् – याः का अपि षाण्मासिकपत्रिका प्रारब्धा वाः सर्वाः स्वतंत्रभारत एव । संस्कृतप्रतिभा – साहित्यअकादमी-रवीन्द्रभवनम् नईदिल्लीतः संस्कृत-प्रतिभा नाम्नी षाण्मासिकशोधपत्रिका 1959 वर्षतः प्रारब्धा । पत्रिकायाः आद्यसम्पादकः डा. वी. राघवन् महोदयः आसीत् । विशुद्ध संस्कृतार्वाचीनप्रकाशनयुतायामस्यां प्रथमभागे सम्पादकीयम्, द्वितीयभागे अर्वाचीनखण्डकाव्यानि तृतीयभागे गद्यप्रबन्धाः, चतुर्थेभागे रूपकानि पञ्चमेभागे चानुवादाः प्रकाश्यन्ते । अन्तिमे पृष्ठे लेखकानां परिचयः मिलति । पत्रिकायाः सम्पादकाः मूर्धन्याः विद्वांसः भवन्ति । प्राक्तनाङ्केषु तदानीन्तनसम्पादकानां मौलिकाऽनुसन्धानप्रतिभायुता निबंधाः प्रकाशिताः सन्ति । सम्प्रति एषाऽपि पत्रिका अक्रमा जाता । मागधम् – 1976 वर्षे बिहारराज्यस्य आराप्रदेशात् मागधम् नाम्नी पत्रिका प्रारब्धा । अस्याः पत्रिकायाः सम्पादकाः श्रीनेमीचन्द्रशास्त्रिमहोदया आसन् । अस्या प्रत्यङ्कः उदय इति नाम्ना सम्बोधितोऽस्ति । पत्रिकायां अर्वाचीन साहित्यकाराणां कवीनां च लेखाः पद्यानि प्रकाशितानि । अस्या पत्रिकायाः प्रत्यङ्कः शोधप्रबंधायते । पत्रिकैषा आगरानगरस्थ हरप्रसाददाजैन महाविद्यालयस्य संस्कृतप्राकृतविभागस्य तत्त्वावधाने प्रकाशितास्ति । अध्ययनमाला – श्री लालबहादुरशास्त्रीविद्यापीठस्यनुसंधानप्रकाशनमासीत् षाण्मासिकी अध्ययनमाला पत्रिका । यस्यां विद्यापीठेऽध्यापरतानां विदुषामध्ययनरतानाञ्च छात्राणां शोधविषयकनिबंधप्रकाशनेन सहैव भारतस्य विभिन्नभागेषु वर्तमानानामनुसन्धान विद्यापारंगतानां शोधकर्मरतानाञ्च निबंधाः प्रकाश्यन्ते । प्रथमं कुसुमञ्च अध्ययनमाला नाम्ना एव प्रकाशिताभूत । ततः परं स्व. म.म. श्रीपरमेश्वरानन्दशास्त्रिस्मृतिग्रन्थः, जीवनपरिमल-भारतभूषण-राघवान्हिक-रसमीमांसेति ग्रन्थरूपेण श्रीमहावीरचरितामृत ग्रन्थरूपेण प्रकाशिताः । अस्यैव प्रकाशनस्य षष्ठ सप्तकुसुमयोः विशेषाङ्करूपेण अन्वेषणा नाम्ना प्रकाशिताः । पत्रिकायाः सम्पादकाः विद्यापीठस्य प्राचार्या भवन्ति । अस्याः प्रकाशनं 1972 वर्षतः जातमासीत् । सम्प्रति प्रकाशनमस्याः स्थगितम् । संस्कृत-विमर्शः – राष्ट्रीयसंस्कृतसंस्थानम् देहल्याः षाण्मासिकी शोधपत्रिका वर्तते । अस्याः पत्रिकायाः प्रकाशनं 1973 तमवर्षतः जातम् । अत्र विशुद्धशोधप्रधान-गवेषणात्माकाः लेखाः प्रकाश्यन्ते । यस्यां परम्परागत पाण्डित्य शैल्यां व्याकरणं दर्शन-मीमांसा-साहित्य-वेद-ज्योतिष-धर्मशास्त्र-विषयका अनुसन्धानात्मकाः लेखाः प्रकाशिताः वर्तन्ते । अस्याः मुख्यसम्पादकाः संस्थानस्य मान्याः निदेशकाः भवन्ति । 1997 तमवर्षे बेंगलूरनगरे समायोजिते दशमविश्वसंस्कृतसम्मेलनस्य अवसरे । श्री कमलाकान्तमिश्रमहोदयानां प्रधानसम्पादकत्वे पत्रिकायाः विशिष्टाङ्कः प्रकाशितः । इतः पूर्वमप्यनेके विशेषाङ्काः पत्रिकायाः प्रौढ़पाण्डित्यं प्रकटयति । सम्प्रतिं एषा संयुक्त्ताङ्करूपेण संस्थानात् नवभवनात् 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नवदिल्लीतः प्रकाशमानस्ति पत्रिकायाः वार्षिकं शुल्कं पञ्चाशत् रुप्यकाणि सन्ति । भारस्वती – काशीविद्यापीठस्य संस्कृतविभागात् भास्वती नाम्नी शोधपत्रिकायाः प्रकाशनं 1976 तमवर्षे जातम् । अस्याः सम्पादकः श्री अमरनाथपाण्डेयमहोदयः आसीत् । अत्र विद्यापीठछात्रानां अध्यायकानाञ्च गवेषणात्मका शोधनिबंधा प्रकाश्यन्ते स्म । पत्रिकेयं 1982 पर्यन्तं प्रकाशिताऽभूत । संस्कृत-वीणा – 1986 वर्षतः संस्कृत-वीणा षाण्मासिकपत्रिकायाः प्रकाशनं कुरुक्षत्रेतः भवति स्म । पत्रिकायाः डा. चित्तरंजनदयाल कौशलः । पत्रिकेयं 73/4 आचारवीथी कुरुक्षेत्रं हरियाणाप्रदेशात् प्रकाश्यते स्म । लध्वाकारयुता-पृष्ठ चतुष्टययुता पत्रिका नैव सततं प्राप्यते । परिशीलनम् – उत्तरप्रदेशसंस्कृतसंस्थानस्य षाण्मासिकक्यनुसंधानप्रधान पत्रिकेयं वर्तते । पत्रिकैषा ‘संस्कृतभवनम्’ नयाहैदराबाद लखनऊ उत्तर-प्रदेशतः संस्थानकार्यालयात् प्रकाशतामेति । 1990 वर्षतः पद्मभूषण बलदेव उपाध्यायमहोदयानां प्रथमसम्पादकत्वे प्रारब्धा यस्यां अनुसन्धानात्मिकाः श्रेष्ठा अप्रकाशिताः लेखाः प्रकाश्यन्ते । शोधच्छात्राणां कृते नूनमेषा पत्रिका सङ्ग्रहणीया पठनीया च । अस्या वार्षिकं शुल्कं विंशतिरुप्यकाणि एव वर्तन्ते । आरण्यकम् – संस्कृतप्रचारपरिषदः षाण्मासिकशोधपत्रिका आरण्यकम् आरातः डॉ. गोपबन्धु मिश्रमहोदयानां सम्पादकत्वे प्रकाश्यते । 1992 वर्षतः प्रकाशितायाः अस्याः प्रकाशन सङ्केतः मारुतिमन्दिरम्-प्रकाशपुरी-आरा-विहार अस्ति । अस्यां पत्रिकायां विमर्शात्मका अनुसन्धानात्मकाश्च शास्त्रीय अप्रकाशितपूर्वा मौलिकनिबन्धाः प्रकाश्यन्ते । काव्य-नाटक-चरित्रवर्णन-हास्य-व्यङ्गयसम्बद्धाः नव्याः रचनाश्च पत्रिकायां स्थानं प्राप्नोति । पत्रिकायाः वार्षिकं शुल्कं त्रिंशत् रुप्यकाणि सन्ति । प्रत्यङ्कस्य च पञ्चदशरुप्यकाणि । छन्दस्वती – “जीयात्सा ध्वनिभावरीतिमहिता छन्दस्वती भारती” इत्युद्घोषेण षाण्मासिकी-पद्यपत्रिका छन्दस्वती 1997 वर्षतः प्रारब्धा । पत्रिकायाः प्रकाशनं छन्दस्वतीप्रकाशनं 188, कल्याणवीथी, मेलुकोटे कर्नाटकम् 571 431 वर्तते । अस्याः सम्पादकः विद्वान् उमाकान्तभट्टः सह-सम्पादकश्च विद्वान् भा.वं. रामप्रियः । अत्र सम्पादकस्यात्मनिवेदनासौ पद्ये एव वर्तते । ततश्च पत्रिकायां काव्यपादः शास्त्रपादः विमर्शपादः प्रकीर्णपादश्च स्तम्भेषु पद्यानि प्रकाशितानि भवन्ति । पद्यपूरणी समस्यार्तिः अत्र रमणीयानि मनोहरणानि सुन्दरपद्यानि प्रकाशितानि । अत्र पाठका अपि स्वमन्तव्यं पद्ये एवं प्रेषयन्ति । पत्रिकायाः वार्षिकं शुल्कं चत्वारिशंत् रुप्यकाणि प्रतयङ्कस्य च विंशति रुप्यकाणि वर्तन्ते । प्रख्या – सागरविश्वविद्यालयस्य संस्कृतविभागस्य षाण्मासिकी शोधपत्रिका वर्तते प्रख्या । अस्याः पत्रिकायाः प्रकाशनं 1992 तमवर्षे प्रारब्धम् । त्रयः एव अङ्काः प्रकाशिता । सम्प्रति संस्कृतविभागाध्यक्षस्य डा. राधावल्लभत्रिपाठिनः सम्पादकत्वे प्रकाशमानाऽस्ति । पत्रिकायाः अङ्कः शोधायते । शोधप्रभा – श्रीलालबहादुरशास्त्रिसंस्कृतविद्यापीठस्य वर्तते शोधपत्रिका ‘शोधप्रभा’ पूर्वं एषा निरन्तरं प्रकाशिता भवति स्म । अत्र शोधपूर्णगवेषणात्मकताः लेखा पद्यानि भाषणानि प्रकाश्यन्ते । 1998 तमवर्षस्य ‘राष्ट्रीयचेतना-विशेषाङ्क’ कुलपति श्रीवाचस्पति उपाध्यायमहोदयानां सम्पादकत्वे प्रकाशितम् । एष विशेषाङ्क अप्रैल 1997 वर्षानन्तरं प्रायः प्रकाशितम् । प्राच्य ज्योति – कुरुक्षेत्रविश्वविद्यालयस्य संस्कृतविभागस्य शोधपत्रिका प्राच्य-ज्योति अति प्राचीना वर्तते । अत्र शोधपूर्ण लेखानां गवेषणात्मक निबन्धानां सारांशः प्रकाश्यते स्म । प्रायः सम्मेलनादिषु पठित शोधपत्रस्य सारः अत्र मिलति । एषा पत्रिका शोध-छात्राणामतीव उपयोगयुता । अत्र भाषावैज्ञानिकं साहित्यविषयकं दर्शन-वेद-धर्मशास्त्रविषयकानां लेखानां संक्षिप्तं रूपं मिलति । एवमेव विभिन्नविश्वविद्यालयस्य संस्कृत विभागतः षाण्मासिकी पत्रिका प्रकाश्यत एव तासु विद्यापीठ पत्रिका (प्रयाग) इतिहास चयनिका ऋतम् (लखनऊ), पुराणम् भारतीयविद्या (मुम्बई) प्रभृतयः पत्रिकाः स्वशोधलेखैः विदुषां मनांसि रञ्जयन्ति । वार्षिकपत्रिका – प्रायः भारतस्य विभिन्नेभ्यः विश्वविद्यालयेभ्यः तत्रत्यः संस्कृतविभागेभ्यः एका वार्षिका पत्रिका प्रकाश्यते । इयं परम्परा प्राक्तना वर्तते । परम्परेयं न तथा जीवति अद्यत्वे, वतः प्रकाशनामेति स्म तदपि स्थगितमेव नूतन प्रकाशनमत्र नैव प्राप्यते । अत्र काश्चित् प्राचीनप्रकाशितानां सूचना वर्तते तस्याः प्रवाहः शुष्कः जातः । तरङ्गिनी – 1958 वर्षे उस्मानियाविश्वविद्यालयस्य संस्कृतविभागस्य वार्षिकी पत्रिकेयम् । अस्याः प्रकाशनं संस्कृतविभागाध्यक्षस्य डा. आर्येन्द्रशर्मणः प्रधानसम्पादकत्वे प्राब्धम् । अत्र तत्रत्यानामेव छात्राणां प्राध्यापकानां वा लेखाः रचनाः प्रकाश्यन्ते स्म । संस्कृतरङ्ग – डॉ. वी. राघवन् महोदयानां सम्पादकत्वे संस्कृतरङ्गः 1958 वर्षे प्रकाशिता । अत्र राघवन्महोदयानां नाटकानि लेखा प्रकाशिताः वर्तन्ते अन्येषां विदुषामपि लेखाः प्रकाश्यन्ते स्म । ज्ञानवर्धिनी – लखनऊविश्वविद्यालयस्य ज्ञानवर्धिनीसभातः 1959 वर्षे डॉ. सत्यवतसिंहमहोदयानां सम्पादकत्वे पत्रिकेयं प्रारब्धा । अत्रापि विश्वविद्यालयीय छात्राणामेव रचनाः प्रकाशिता । पत्रिकाया एकाङ्क एव प्रकाशिता । सुरभारती – 1959 वर्षे काशीहिन्दूविश्वविद्यालयीय संस्कृत-महाविद्यालयस्य मुखपत्रिकेयं हस्तलिखिता च । प्राचार्यविश्वनाथशास्त्री सम्पादक आसीत् । अत्र प्राचीनभारतीयविद्यासम्बद्धाः लघुनिबंधाः प्राध्यापकानां च प्रौढ़लेखाः वर्तन्ते । धनाभावे अस्याः हस्तलिखितरूपेण जातं पंचप्रतयः एव प्रकाश्यन्ते स्म । मेधा – रायपुरस्थ राजकीयदूधाधारीसंस्कृतविद्यालयस्य वार्षिक पत्रिकेयम् । 1961 वर्षतः प्रकाशितायाः पत्रिकायाः सम्पादकः प्राचार्य भवति स्म । विद्यालयस्य प्राध्यापकानां शोधनिबंधाः प्रकाशिताः । अत्र प्रकाशिताः केचन् निबंधाः महन्महत्वं स्वीकुर्वन्ति । सुरभारती – बटोदरसंस्कृतमहाविद्यालयस्य मुखपत्रिकेयम् सुरभारती । अस्याः प्रकाशनः बड़ौदातः 1962 वर्षे प्रारब्धम् । अत्र तत्रत्यानां छात्राणां प्राध्यापकानां च लेखाः प्राप्यन्ते । पत्रिकायाः प्रकाशनं बटोदरसंस्कृतम् महाविद्यालय, मांडवी वेंकटरोड, बड़ौदा, गुजरातः आसीत् । ‘प्रतिभा’ ‘प्राची’ च – संस्कृतविश्वविद्यालयवाराणस्या वार्षिकशोधपत्रिके प्रतिभा प्राची चेति । अत्र विश्वविद्यालयस्य शोधच्छात्राणां शोधलेखाः प्राध्यापकानां च गवेषणात्मक प्रौढ़ लेखाः प्रकाश्यन्ते स्म । मनीषा – श्रीलालबहादुरशास्त्री-केन्द्रीयसंस्कृतविदयापीठस्य वार्षिक पत्रिकायाः प्रकाशनं 1875 तमवर्षे जातम् । स्नातकोत्तरविभागस्यास्यां पत्रिकायां छात्राणां लेखाः प्रकाशिताः सन्ति सहैव प्राध्यापकानामपि । विद्यापीठादेव ‘ज्ञान-रश्मि’ नाम्ना वार्षिकपत्रिका 1978 तमवर्षे प्रकाशिता । वैजयन्ती – राजस्थानसंस्कृतसंविद् संस्थया 1976 तमवर्षे एका वार्षिकी पत्रिका प्रारब्धा वैजयन्ती । अस्याः पत्रिकायाः प्रकाशनं यद्यपि शीघ्रमेव समाप्तम् । परमस्याः प्रत्यङ्कः विशेषाङ्करूपेण प्रकाशितः-प्रतिदर्शाङ्कः (1976) वेदाङ्कः (1977) इतिहासांक (1978) ज्योतिषांक (1979) आदयः । मेधा – राजस्थानसंस्कृतविश्वविद्यालयस्य ‘संस्कृतविभागात्’ अस्याः पत्रिकायाः प्रकाशनं 1973 वर्षे प्रारब्धम् । विभागीयप्राध्यापकानां वित्तीय साहाय्येन एषा प्रकाश्यते । यदा-यदा अर्थाभावे अद्वयं सहैव प्रकासितम् । ज्ञानाञ्जलि – राजस्थानीयसंस्कृतशिक्षणसंस्थासु अन्यतमः जयपुरस्थ दादूसंस्कृतमहाविद्यालयः, तस्यैव वार्षिकी पत्रिका वर्तते ज्ञानाञ्जलिः यस्याः प्रकाशनं 1983 वर्षे प्रारब्धम् । अस्याः सम्पादकौ श्रीबक्षीरामस्वामी श्रीराम देव साहूचास्ताम् । पत्रिकायां प्रतिभावतां छात्राणां विदुषां च व्याकरण साहित्यसंस्कृत-भाषाविषयकाः लेखाः प्रकाश्यन्ते । पत्रिकायाः प्रकाशनं वित्तसाहाय्येन भवति । श्यामला – हिमाचलकलासंस्कृतिभाषा अकादम्याः वार्षिकपत्रिका श्यामला अस्याः पत्रिकायाः प्रकाशनं 1989 वर्षतः डॉ. वंशीरामशर्मनः प्रबन्धसम्पादकत्वे प्रारब्धम् । योग्यविदुषाम् अनुसन्धानपूर्णान् गम्भीरविषयान् सरलीकृत्य लेखाः लिखिताः वर्तन्ते । अत्र हिमाचलप्रदेशीयानां विदुषां छात्राणां च लेखाः अधिकाः भवन्ति । जयन्ती – केन्द्रीयसंस्कृतविद्यापीठम् जयपुरस्य वार्षिकपत्रिकायाः जयत्याः प्रकाशनं 1989 वर्षे प्रारब्धम् । अत्र विद्यापीठापाच्छाणां विदुषां च लेखाः प्रकाशिताः अपि च, वाराणसी-दिल्लीस्थाविदुषामपि लेखाः प्रकाशिताः । व्याकरण-साहित्य-दर्शनविषयकाः लेखाः स्वगाम्भीर्यं प्रकटयति अत्र । आदर्श – गुरुकुलकांगड़ीविश्वविद्यालयस्य संस्कृतविभागस्य वार्षिक-पत्रिका आदर्श । अस्याः प्रकाशनं 1988 तमवर्षे हरिद्वारतः जातम् । अत्रापि विभागीयानां छात्राणां प्राध्यापकानां लेखाः प्रकाशितः । लोकप्रज्ञा – लोकभाषाप्रचारसमितेः वार्षिकशोधप्रत्रिका लोकप्रज्ञा । अस्याः प्रकाशनं पुरीतः 1990 तमवर्षतः प्रारब्धम् । अत्र देशस्य विभिन्नविदूषां शोधलेखाः प्रकाश्यन्ते । पत्रिकायाः तृतीयोऽङ्का किञ्चित् विलम्बने श्रीवासुदेवशास्त्रीसम्माने प्रकाशितः । विमर्श – लखनऊविश्वविद्यालयस्य संस्कृतप्राकृतभाषाविभागस्य शोधविमर्श गोष्ट्याः वार्षिकपत्रिका विमर्श नाम्ना 1993 वर्षतः प्रकाश्यते । अस्याः प्रथमाङ्कत्रयं विमर्श नाम्नाप्रकाशिता चतुर्थाङ्कतः पत्रिकाया नाम परिवत्यं वाङ्मयींति विहितम् । पूर्वं तावत्पत्रिकायामस्यां केवलं शोधच्छात्राणामेव शोधपत्राणि प्रकाश्यन्ते स्म, किन्तु अङ्काचतुष्टयात् विभागीयाध्यापकानां शोधवैज्ञानिकानां चापि महत्त्वपूर्णानि उच्चस्तरीय शोधपत्राणि प्रकाश्यमुपनीतानि । स्वतंत्रभारते अनेकाः संस्कृतवार्षिकपत्रिकाः प्रकाशिताः । तासु सर्वप्राचीना बेंगलूरतः प्रकाशिता अमृतवाणी वर्तते । अस्याः प्रकाशनं सेण्टजोसफमहाविद्यालयस्य संस्कृतसभया विद्वान् एम. रामकृष्णभट्टस्य सम्पादकत्वे प्राब्धा । अत्र उच्चकोटेः शोधलेखा अर्वाचीनरचनाः प्रकाशिताः । पत्रिकायाः प्रकाशनं 1941 तः 54 वर्षं यावत् जातम् । भारतस्य प्रायः विभिन्नविश्वविद्यालयस्य संस्कृतविभागतः वार्षिकपत्रिका प्रकाश्यते । काश्चन् अद्यत्वेऽपि प्रकाश्यन्ते, काश्यन् अस्तंगताः तासु दिल्लीविद्यापीठ्स्य शिक्षा ज्योतिः बेंगलूरतः प्रज्ञालोकः, महाराजसंस्कृत-कॉलेजमैसूरतः चन्द्रिका दिल्लीतः युगप्रभा, मद्रासतः संस्कृतरङ्गा वृहद्गुजरातसंस्कृतपरिषदः सामनस्यम् प्रमुखाः सन्ति । सामनस्यम् पत्रिकायाः प्रकाशनमपि सम्प्रति संस्कृतगुजरातीभाषयां भवति । स्वातंत्र्योत्तरभारते अनेकाः संस्कृतस्य पत्र-पत्रिकाः प्रकाशिताः । तासु काश्चन स्वतंत्रतायाः पूर्वं प्रकाशिताः प्रवहमानाः जाताः काश्चन अवरुधाः तासां स्थानं नूतनप्रकाशनेन पूरिताः । काश्चन् स्वतंत्रभारते प्रारब्धाऽपि गत्वां सत्यामपि । सम्प्रति शून्यंगता दृश्यन्ते, अथ च अद्यत्वे नूतना पत्रिका प्रकाशतामेति । उनविंशतिशताब्द्यां पत्र-पत्रिकाप्रकाशनस्य यन्मूलमुद्धेश्यमासीत् तत्तु विंशतिशताब्द्यां परिवर्तितं, तत्रापि स्वातंत्र्योत्तर भारते तस्य विकसितं रूपं वयं पश्यामः । संस्कृतपत्र-पत्रिकानामूलमुद्देश्यं संस्कृतभाषायाः संरक्षणं प्रचारः प्रसारश्च । संस्कृतं नाम अद्भुतं ज्ञानं समाजे विश्वे च तस्य ज्ञानस्य प्रसारः स्यात् येन मानवाः झटिति मानवमनः प्रभवन्ति । अत्र च येकेऽपि संस्कृतं मृतभाषा कथयन्ति तेषां मतं विमतं करोति एताः प्रकाशिताः संस्कृतस्य पत्र-पत्रिकाः दैनिकादारेभ्यः वार्षिकपर्यन्ताः । यथा विन्टरनित्समहोदयाः कथयन्ति15 – “Sanskrit is not a ‘dead language’ even today. There are still at the present day a number of Sanskrit periodicals in India. To this very day poetry is still composed and works written in Sanskrit.” मैक्समूलरमहोदया मृषाऽपवादं मर्षयन् कथयन्ति16 – “संस्कृतमद्यापि सर्वत्र जनैः उच्यते । क्याकुमारीतः कश्मीरं यावत् कच्छतः कामरूपपर्यन्तं संस्कृतं येनकेनाऽपि प्रकारेण जनसाधारणानां भाषास्ति” । संस्कृतस्य पत्र-पत्रिकानां प्रकाशनं संस्कृतं प्रति निष्ठायै लोकजागरणाय, समाजहिताय, विश्वशांतिमूलाय, संस्कृतशिक्षणाय, धर्मचाराय, दर्शनप्रचाराय, साहित्यसर्जनाय, अर्वाचीनग्रन्थप्रकाशनाय, संस्कृतप्रचाराय, गवेषणात्मक- निबन्धप्रकाशनाय, समाचारप्रकाशनाय सर्वजनहिताय च वर्तते । परं पुनरपि संस्कृत-पत्रिका सम्पादकानां महती समस्या वर्तते । अद्यत्वे प्रायः ताः एव संस्कृतपत्रिकाः अवरोधरहिताः निरन्तरं प्रकाश्यन्ते याः सर्वकारीयसंरक्षणेन संरक्षिताः सन्ति । यासां पार्श्वे विपुलग्राहक-संख्यावर्तन्ते ताश्च । याः सर्वकारीयमनुदानं न प्राप्नुवन्ति तत्र अनवस्था दृश्यन्ते । एतासां समक्षं मुख्यसमस्या लेखकानान्यमनस्कता, पाठकानाम् अरुचिः विज्ञापनानां च अप्राप्तिः । अनेकाः अर्थसङ्कटयुता लेखक-ग्राहक-पाठकाभावात् अस्तंगताः । वस्तुतः संस्कृतभाषा न जनभाषा वर्तते न वा प्रान्तभाषा; प्राचीननेयं भाषा, यस्यां वर्तते सर्वविधं ज्ञानं संस्कारः संस्कृतविश्च । संस्कृत्या संस्कारिता एव जनाः ज्ञानयुक्त्ताः गरिमापूर्णाः भवन्ति । संस्कारार्थं संस्कृतिज्ञानमावश्यकं तत्तु संस्कृतेनैव जायते । पुनश्च सम्पूर्णे भारते नाऽधिकाः जनाः संस्कृतं व्यवहरन्ति न वा भाषन्ते; अत्र संस्कृतज्ञाः एव कारणम् । तैः निष्ठया कृतज्ञतया च संस्कृतं संस्कतं संस्कृतिं रक्षयितुं सततं यतनीयम् । पत्रिकानां संवर्द्धनीय ग्राहकत्वं स्वीकारणीयम् अन्यान् च प्रेरणीयम् । स्वसमवायैः सह संस्कृतभाषणं करणीयम् । अत्र न्यूनता एव पत्रिकोत्कर्षघातका । प्रति संस्कृतज्ञैः कस्या अपि एकस्या पत्रिकायाः अवश्यमेव सदस्याः भवेयुः । पुनः पत्रिकाप्रकाशकैः परिम्परामिमां जीवयितुं आधुनिकसन्दर्भे प्रतिस्पर्धा कार्या । स्वच्छ-शुद्ध-प्राञ्जललिपिभिः नयनाभिरामचित्राङ्कणैः पाठकापेक्षित-मनस्तोषसामग्रिभिः एव पत्रिका लोकप्रिया भवितुं शक्नोति तथैव भाव्यम् । एतासु प्राचीन-पत्र-पत्रिकासु प्रकाशितानां साहित्यानां प्रकटीकरण-मावश्यकमस्ति । विद्वद्भिः लुप्तासु पत्रिकासु लिखिताः लेखाः रचनाश्च सङ्ग्रहणीया । यया संस्कृतस्य विपुलं ज्ञानं साहित्यं च वर्धिष्यते ।