गुरुकुल-महाविद्यालय-ज्वालापुरम्,हरिद्वारम् (उत्तराखण्डम्)
संस्थायाः सक्षिप्तपरिचयः- भारतीयसंस्कृतेः तत्त्ववेतुः आर्यसमाज संस्थापकस्य महर्षेः दयानन्दः सरस्वतिनः समकालीनेन, वीतरागिणा तार्किकेन शिरोमणिना स्वामिदर्शनान्देसरस्वतिना सन् 1907 तमे ईस्वीये शताब्दे गुरुकुलमहाविद्यालय-ज्वालापुरस्य स्थापना कृता । महाविद्यालयसभा-ज्वालापुरम् 1907 तमवर्षारभ्य सातत्येन गुरुकुलस्यास्य सञ्चालनं कुर्वती अस्ति । पञ्जाबविश्वविद्यालयस्य – लाहौरस्य, एवञ्च काशी-हिन्दू-विश्व-बहुमुखीप्रतिभायाः धनी डा0 सूर्यकान्तः, वाराणसी-संस्कृतविश्वविद्यालयस्य पूर्वकुलपतिः डा0 मङ्गलदेवशास्त्री, दर्शनशास्त्रस्य उद्भटविद्वान् आचार्य उदयवीरशास्त्री, उत्तरप्रदेशस्य प्रथमविधानसभायाः देहरादूनक्षेत्रस्य निर्वाचितः सदस्यः आचार्य-पण्डित श्री नरदेवशास्त्री, स्वतन्त्रतासंग्रामसेनानी एवञ्च हिन्दीसंस्सकृतयोः आशुकविः काव्यतीर्थः डा0 श्रीहरिदत्तशास्त्री, हिन्दीसाहित्यस्य प्रमुखः कविः पद्म श्रीक्षेमचन्द्रसुमनः, प्रखरप्रवक्ता सांसदश्च प0 प्रकाशवीरशास्त्री, वेदानां प्रकाण्डविद्वान् पद्मश्री डा0 कपिलदेवद्विवेदी, राजस्थानस्य पूर्वशिक्षामन्त्री डा0 गौरीशङ्कराचार्यः तथा च आर्यसमाजस्य प्रमुखः नेता स्वामिरामानन्दशास्त्री इत्येते सर्वेऽपि शिक्षाविदः संस्थायाः अस्याः यशस्विनः छात्राः आसन् । महाविद्यालयसभाद्वारा प्रबन्धकर्तृसभायाः निर्वाचनं पञ्चवार्षिकः भवति । प्रधानः उपप्रधानः, मन्त्री, उपमन्त्री, कोषाध्यक्षः, कुलपतिः, आचार्यः एवञ्च मुख्याधिष्ठाता इत्येतेसभायाः पदाधिकारिणः भवन्ति । प्रबन्धकर्तृसभाद्वारा विद्यासभासंस्थायाः सर्वासां परीक्षाणां व्यवस्था क्रियते । संस्थायाः आचार्यः अस्याः प्रधानाः कुलसचिवाश्च अस्याः मन्त्रिणः भवन्ति ।
गुरुकुलस्य उद्देश्यं भारतीय-किशोराणां गुरुशिष्यपरम्परया शारीरिक-बौद्धिकीञ्च शक्तिं सम्पाध सुशिक्षितकरणं वर्तते । एतन्निभित्तं गुरुकुलमिदं निरन्तरं प्रयत्मानं वर्तते । वर्तमानकाले 500 शिक्षार्थिनः (22) द्वाविंशति-अध्यापकानाम् अनुशासने शिक्षां प्राप्नुवन्तः सन्ति । अत्र आसन-प्राणायाम-यज्ञ-सन्ध्या-वन्दनपूर्वकवेदः – दर्शन-विविधशास्त्र-गणित-विज्ञान-आङ्गल-संगणादिविषयाणाञ्च पाठनस्य व्यवस्था वर्तते । एतदतिरिच्य संस्थायां कृषिः, गौशाला, भण्डारणम्, प्रशासनं , शिक्षा-परीक्षा, नलकूपः विद्युत, सुरक्षा, स्वच्छताश्च इत्येते आश्रमविभागाः सन्ति । येषु प्रायश 65 कर्मचारिणः कार्यरताः वर्तन्ते ।
शैक्षिकदृष्ट्या गुरुकुलं संस्कृतविभागः, गुरुकुलविभागश्च रूपद्वये सञ्चाल्यमानं वर्तते । संस्कृतविभागे प्रथमारभ्य आचार्यपर्यन्तम् अपि च गुरुकुलविभागे षष्ठयारभ्य स्नातककक्षापर्यन्तं विद्याभूषणं (कक्षा-8), विद्यारत्नम् (कक्षा-10), विद्यानिधिः (कक्षा-12), विद्याभास्कश्च (त्रिवर्षीयस्नातकः) शिक्षा प्रदीयमाना वर्तते । एताः सर्वाऽपि परीक्षाः भारतसर्वकारेण मान्याः वर्तन्ते ।
संस्थायाः आयस्रोतांसि प्रमुखतया कृषिऋ सामाजिकदानं, भारतसर्वकार-प्रदेशसर्वकारयोश्च आर्थिकम् अनुदानं वर्तते । संस्थायाः सकाशे 300 बीघा भूसम्पतिः वर्तते । यस्यां शतबीघाभूभागे विविधभवनानि क्रीडास्थलानि च, अपि च द्विशतबीघाभूभागे कृषिकार्यं भवति । गुरुकुलं यज्ञाशाला, व्यायामशाला, क्रीडा एवञ्च योगः, साधनास्थलं विशालपुस्तकाया-दीनाञ्च सञ्चालनं करोति ।
1918 तमे ईस्वीये शताब्दे स्थापितम् गुरुकुल-महाविद्यालय-ज्वालापुरमिति (फार्मेसी) 2004 तमवषरिभ्य पूर्णतः विकसितं कृतं वर्तते । शास्त्रीयानुभूत-योगम् एवञ्च विशिष्ट-औषधीः च निर्मापयित्वा । निर्माप्य विपणिं प्रति प्रेष्यमाणाः सन्ति । एतेन एव साकं छात्राणां रोगनिवारणार्थं चिकित्सालयः अपि संस्थायी सञ्चालितः वर्तते ।
भारतसर्वकारद्वारा गुरुकुल-महाविद्यालय-ज्वालापुरम् अखिलभारतीयस्तरीमान्यतया संस्तुतं वर्तते । संस्थेयं 2004 तमवर्षारभ्य यू0जी0सी0 धारा 2 एफ् एवञ्च 12 बी. इत्येतस्मिन् विकासानुदानम् अवाप्तुं मान्यताप्राप्ता वर्तते ।
संस्थायां स्थितं पद्मसिंह-अनुसन्धा-भवनं, यस्य आधारशिला तत्कालीनेन प्रधानमन्त्रिणा श्रीमान् प0 जवाहरलाल-मेहरूमहोदयेन संस्थापिता आसीत्, तस्मिन् अनुसन्धानभवने हेमवती-नन्दन-बहुगुणा गढवालविश्वविद्यालयः श्रीनगरम्, गढवालसम्वद्धः एम0 ए0 (संस्कृतम्) एवञ्च पी0 जी0 डिप्लोमा इत्येतेषां यौगिकविज्ञानस्य पाठ्यक्रमाः सञ्चालिताः सन्ति । 2006 तः संस्था एन0 सी0 टी0 ई0 जयपुरात् बी0 एड्0 पाठ्यक्रमस्य सञ्चालनाय अनुमतिं प्राप्तवती ।
संस्थायामस्यां प्रविष्टवतां छात्राणां कृते गुरुकुलीयपरम्परानुसारं छात्रावासस्य पूर्णव्यवस्था वर्तते । छात्राणां सर्वाङ्गीण-विकासाय पाठ्यक्रमातिरिच्य कम्प्यूटर-विविधक्रीडा-योग-आसन्-प्राणायाम-जूडो करटादीनाञ्च व्यवस्था वर्तते । तथा च संस्थायाम् एन.एस.एस. ‘एवञ्च स्काव्ट’ इत्यस्य प्रशिक्षणस्य पूर्णव्यवस्था वर्तते ।