विश्वसंस्कृतसम्मेलनम् – २००१
५-९ अप्रैल, विज्ञानभवनम्, नवदेहली
स्वीकरणार्थं निवेदिताः प्रस्तावाः
१) संस्कृतभाषया न केवलम् आधुनिकभारतीयभाषाणां विकासाय, अपितु बह्वीनाम् एशियाभाषाणां यूरोपीयभाषाणां च विकासाय महत्तमम् अवदानं कृतमिति पूर्वपश्चिमयोः भारतीयविद्याविदः पौनः पुन्येन प्रत्यपादयन् । एतद् वैशिष्ट्यकारणाद् विश्वभाषासु संस्कृतभाषायाः विशिष्टं किञ्चित् स्थानं भवेदिति विश्वसंस्कृतसम्मेलनमिदं साग्रहं प्रस्तौति ।
२) अस्माभिः सर्वैः ज्ञायते एव यद्
अद्य प्रौद्यौगिक्याः विकासेन समग्रं विश्वमेव महता वेगेन सङ्कुचितं भवद् विश्वगृहं जायमानं वर्तते । एतद् मनसि निधाय संस्कृतं विश्वभाषा भवेदिति विश्वसंस्कृतसम्मेलनमिदं प्रस्तौति ।
३) सङ्गणकयन्त्रेषु व्यवहाराय उपयुज्यमानासु सहजभाषासु संस्कृतम् अत्यन्तमुपयुक्ता भाषेति समग्रविश्वेऽपि सङ्गणकविशेषज्ञाः दृढं प्रतिपादयन्ति । सम्पर्कभाषात्वेन, भाषाणामनुवादार्थं यन्त्रानुवादे सहजभाषामाध्यमत्वेन च अस्याः भाषायाः महत्त्वपूर्णा भूमिका अस्तीति सुष्ठु अङ्गीकृतं सत्यम् । तस्मात् सङ्गणकयन्त्रेषु अभिक्रमितभाषारूपेण (Programming Language) संस्कृतविकासार्थं विशिष्टशोधयोजनाः स्वीकरणीयाः ।
किञ्च एतदर्थम् अपेक्षितं साहाय्यं वैज्ञानिकसंस्थाभिः, प्रौद्योगिसंस्थाभिश्च करणीयमिति सम्मेलनमिदं प्रस्तौति ।
४) भारतं बहुभाषाभाषिदेशः । बहुभाषाणां पठनसामर्थ्येन भाषाधिगमनकौशलानि वर्धन्ते । एतदर्थं सर्वाभ्यः भारतीयभाषाभ्यः काचित् समाना मानकभूता लिपिः भवेत् । अतः वैज्ञानिकाः तन्त्रज्ञानविदः च कामपि समानमानकलिपिं सॉफ्टवेयरप्रकियां च वर्धयेयुः इति सम्मेलनमिदं साग्रहं प्रस्तौति ।
५) संस्कृतवाङ्मयं नाम अमूल्यं सुदूरपरिणामजनकं, ज्ञानभाण्डागारम् । एतस्य उचितं परिपोषणं प्रसारणञ्च भारतीयनागरिकाणां भारतीयशासनस्य च अनिवार्यं कर्त्तव्यम् । तस्माद् अधोनिर्दिष्टानि कर्त्तव्यानि भारतसर्वकारस्य सन्तीति सम्मेलनमिदं प्रस्तौति ।
1) संस्कृते निहितायाः ज्ञानसमृद्धेः गवेषणं, मानवतां प्रति तस्याः प्रापणम् ।
2) संस्कृताध्ययनार्थं “यूनेस्को” संस्थायाः साहाय्येन अन्ताराष्ट्रियस्तरीयसंस्थायाः प्रतिष्ठापनम् ।
3) संस्कृतस्य सर्वविधसहयोगः करणीयः इति राष्ट्रिय-अन्ताराष्ट्रियस्तरीयसंस्थाभ्यः निवेदनम् ।
६) साम्प्रतं भारतं ज्ञानस्य अभिनवरूपाणाम् आविष्करणे समर्थानि मानवसंसाधनानि नितराम् अपेक्षते । एतेषाम् उपलब्धौ परम्परागतज्ञानस्य पुनरन्वेषणम् आधुनिकविज्ञान-प्राविधिकशास्त्राभ्यां तस्य संयोजनं च एकः मार्गः । एतदर्थं संस्कृतज्ञानाधारस्य अवबोधसामार्थ्यम् अपेक्षितम् । एतद् दृष्टौ निधाय द्वादशकक्ष्यापर्यन्तं सर्वस्तरेषु संस्कृताध्ययनम् अनिवार्यं करणीयमिति, उच्चस्तरेषु छात्रान् संस्कृताध्ययने प्रेरयितुं तेषां कृते छात्रवृत्ति-शोधवृत्तीनां व्यवस्था करणीया चेति सम्मेलनमिदं प्रस्तौति ।
७) पाठ्यक्रमस्य भागत्वेन अध्ययनार्थं संस्कृतं स्वीकर्त्तुं छात्रान् सम्प्रेरयितुं संस्कृतस्नातकानां जीविकावसराः संवर्धनीयाः । एतत्सम्पादनाय केन्द्र-राज्यसर्वकाराधीनेषु शिक्षा-संस्कृति-पर्यटन-कला-पुरातत्व-युवसम्बद्ध-सङ्ग्रहालयादिविभन्नविभागेषु संस्कृतस्नातकानां कृते प्राथम्याधारेण जीविकाव्यवस्था समुपकल्पनीया इति सम्मेलनमिदं प्रस्तौति ।
८) प्राथमिकस्तरीयाणां छात्राणां कृते संस्कृतभाषाम् आमोदयोग्यां सम्पादयितुम् आधुनिक-शैक्षणिकप्रविधीनां साहाय्येन भाषेयं सरला सम्पादनीयेति, किञ्चेयं नियतरूपेण संस्कृतमाध्यमेनैव पाठनीयेति सम्मेलनमिदं प्रस्तौति ।
९) युगेभ्यः संस्कृतं भाषितभाषा आसीत्, इदानीमपि अस्ति । एतस्याः भाषितभाषात्वं सम्प्रवर्तयितम् अपेक्षितानाम् अनेकेषां विभिन्नानाञ्च कार्यक्रमाणां महत्त्वं देयमिति च सम्मेलनमिदं प्रस्तौति ।
१०) संस्कृतं सर्वदैव जाति-पन्थादीनां सर्वविधां सीमां प्रतिबन्धञ्च उल्लङ्घ्य सर्वदा सर्वानपि अन्तर्भावयन्ती सर्वानपि समाश्लिष्यन्ती राराज्यते । भारतीयसंविधानस्य जनकैः डा0 अम्बेडकरमहोदयैः संविधानसमितेः समक्षं वाद-प्रतिवाद-प्रसङ्गे प्रदत्तानां संस्कृतसम्बद्धानां विचाराणां यथासम्भवं व्यापकः प्रचारः करणीयः इति सम्मेलनमिदं दृढं प्रस्तौति । (The Sunday Hindustan Standard-September 11th, 1949)
११) संस्कृतविकाससम्बद्धेषु विषयेषु सामूहिकचिन्तनस्य महती अपेक्षा विद्यते । एतदपि नितान्तमपेक्षितं यत् संस्कृतस्य समसामयिकविकाससम्बन्धिन्यः सूचनाः संस्कृतविद्वद्भ्यः, संस्कृते रुचिं दधानेभ्यश्च प्रदेयाः । उद्धेश्यस्यास्य पूर्तये देशस्य विविधेषु भागेषु यथाक्रमं प्रतिवर्षम् अखिलभारतीयं संस्कृतसम्मेलनमायोजनीयम् । अपि च वर्षे एकवारम् अन्ताराष्ट्रियस्तरीयं संस्कृतसम्मेलनं समायोज्यम् इति सम्मेलनमेतत् प्रस्तौति ।
१२) शिक्षा वास्तविकं प्रयोजनं समधिगच्छेत्, सा मूल्याधारिता च स्यात् । अपि च सा सर्वेषां नागरिकाणां चरित्रस्य आचारस्य च उन्नयनार्थम् उपयुज्येत । सन्दर्भेऽस्मिन् संस्कृतस्य भूमिका, सामर्थ्यञ्च विशिष्य प्रकाशनीयम् इत्यपि इदं सम्मेलनं प्रस्तौति ।
१३) संस्कृतस्य विकासः वातावरणस्य आनुकूल्यमपेक्षते । अतः एतन्निवेद्यते यत् संस्कृतप्रेमिणां समुदायः संस्कृतविकासकार्यक्रमैः सह परिचितः भवेत्, पूर्णसमर्पणभावेन च तान् अनुसरेद् इति इदं सम्मेलनं प्रस्तौति ।
१४) सामयिकयुगेऽपि संस्कृताध्ययनं प्रासङ्गिकम् इति महतां बुद्धिजीवीनाम् एतद्राष्ट्रस्य नायकानां च सर्वसम्मतः विचारः । एतच्च संस्कृताध्ययनस्य समकालिकवैज्ञानिकविकासस्य च मध्ये अधिकाधिकं सम्बन्धं स्थापयित्वैव स्फुटं प्रदर्शयितुं शक्यम् । अतः संस्कृतविद्वद्भिः वैज्ञानिकसमुदायेन च संस्कृतज्ञानाधारस्य समकालिकस्य सर्वविधवैज्ञानिकविकासस्य च संयोजनाय सर्वविधाः प्रयासाः करणीयाः इति सम्मेलनमिदं प्रस्तौति ।
१५) गतवर्षे विश्वविद्यालयानुदानायोगेन बहवः उपक्रमाः स्वीकृताः, ये दूरगामिकालं यावत् संस्कृतस्य अतिशयेन विकासाय सहकारित्वेन कल्पिष्यन्ते । तेषु केचन अधोनिर्दिष्टाः सन्ति –
१. “वेदव्यास” नाम्ना संस्कृताध्यापकाय वार्षिकपुरस्कारस्य स्थापनम् ।
२. विश्वविद्यालयेषु तत्सम्बद्धमहाविद्यालयेषु च भाषितसंस्कृतकेन्द्राणाम् उद्घाटनम् ।
३. ज्योतिर्विज्ञानपाठ्यक्रमस्य परिचयः ।
४. संस्कृतमाध्यमेन संस्कृतशिक्षणम् ।
अतः संस्कृतसमुदायः एतेभ्यः कार्यक्रमेभ्यः बौद्धिकं शैक्षणिकं कार्यान्वयनात्मकं प्रबलं समर्थनं कुर्याद् इति सम्मेलनमिदं प्रस्तौति ।
१६) वर्तमानकालिके समाजे भाषाणां प्रचारणे जनसञ्चारमाध्यमानां प्रभावोत्पादिका भूमिका विद्यते । एतल्लक्ष्यं मनसि निधाय दूरदर्शनेन आकाशवाण्या च संस्कृतस्य विभिन्नकार्यक्रमाः प्रसारणीयाः इति इदं सम्मेलनं प्रस्तौति ।
१७) यतो हि गणितं, विज्ञानं, सामाजिकविज्ञानम् इतिहासः इत्यादयः आधुनिकविषयाः यया कयापि आधुनिकभारतीयभाषया पाठ्यन्ते । अतः संस्कृतमाध्यमेन एतेषां विषयाणाम् अध्यापनार्थं संस्कृतमाध्यमविद्यालयाः स्थापनीयाः । एतेभ्यः विद्यालयेभ्यः भारतशासनेन पर्याप्तं साहाय्यं प्रदातव्यमिति सम्मेलनमिदं प्रस्तौति ।
१८) संस्कृतमन्त्रालयेन विहितस्य अध्ययनस्य अनुसारं भारते पञ्चाशल्लक्षसङ्ख्यातः अधिकाः पाण्डुलिपयः अप्रकाशिताः सन्ति । अतः पाण्डुलिपीनां संरक्षणप्रकाशनान्दोलनाय अधिकं महत्त्वं प्रदेयमिति सम्मेलनमिदं प्रस्तौति । एतदर्थं वैज्ञानिक-प्रौद्यौगिकसंस्थानां सहयोगेन समुचितप्रौद्यौगिक-विधयः विकासनीयाः ।
१९) संस्कृते भूरिशः आधुनिकसाहित्यनिर्माणाय साहाय्यमाचरणीयमिति सम्मेलनमिदं प्रस्तौति ।
२०) विद्यालयस्तरीयाः अध्यापकाः संस्कृताभिवृद्धेः मेरुदण्डभूताः सन्ति । माध्यमिकस्तरे समुचितशिक्षाप्रदानेन वास्तविकः आधारः स्थिरो भवति । तेषां सहभागित्वं योगदानं च अद्वितीयं निर्विकल्पं च स्तः । तेषां विचाराः श्रोतव्याः ते च यथोचितं प्रेरणीयाः । अतः सुस्थिरस्य दृढस्य आधारस्य निर्माणाय प्रतिवर्षं जनपदस्तरे, राज्यस्तरे, राष्ट्रियस्तरे च विद्यालयस्तरीयाणां संस्कृताध्यापकानां सम्मेलनमायोजनीयमिति सम्मेलनमिदं प्रस्तौति ।
२१) एतस्य ऐतिहासिकस्य विश्वसंस्कृतसम्मेलनस्य आयोजने सर्वविधसमर्थनं कृतवद्भ्यः भारतशासनस्य माननीयप्रधानमन्त्रिमहोदयेभ्यः श्रीमद्भ्यः अटलबिहारिवाजपेयी- महोदयेभ्यः, माननीयेभ्यः मानवसंसाधनविकासमन्त्रिमहोदयेभ्यः श्रीमद्भ्यः डा0 मुरलीमनोहरजोशीमहोदयेभ्यः, शिक्षासचिवेभ्यः श्रीमद्भ्यः महाराजकृष्णरावमहोदयेभ्यश्च सम्मेलनमिदं कृतज्ञताम् आविष्करोति ।
संस्कृतस्य राष्ट्रियाः अन्ताराष्ट्रियाः च संस्थाः
अखिलभारतीय-संस्कृत-साहित्य-सम्मेलनम् ।
अखिलभारतीय – प्राच्यविद्यासम्मेलनम् ।
प्राच्यविद्याप्रेमकर्तॄणाम् अन्ताराष्ट्रिय-महासभा ।
संस्कृतविश्वपरिषद् ।
संस्कृतसाहित्यस्य सम्मेलनानि
1970 वि0 1914 ई0 मध्ये अखिलभारतीय -सम्मेलनस्य जन्म जातम् । यैः विचारवद्भिः विद्वद्भिः सम्मेलनस्य प्रतिष्ठा जाता तेषु महामहोपाध्यायः पं0 शिवकुमारशास्त्री, पञ्चाम्बुभूषणः पं0 बुलाकीरामशास्त्री, महामहोपाध्यायः पं0 हरनारायणशास्त्री, पं0 सूर्यनारायणशास्त्री महामहोपाध्यायः पं0 गिरधरशर्मा इत्यादिनां नामानि उल्लेखनीयानि सक्रीययोगदानिनः डॉ. सतीशचन्द्रभूषणः, म0 म0 डॉ0 हरप्रसादशास्त्री, डॉ0 टी0 गणपति- शास्त्री, डॉ0 प्रमथनाथभट्टाचार्यः, महामना मदनमोहनमालवीयः, महामान्यः सररङ्गास्वामी आयङ्गारः, महामान्यः ए0 सी0 बुल्नरः, पं0 कुप्पूस्वामिशास्त्री, श्रीनरमरिविष्णुगाडगिलः, डॉ0 चिन्तामणिद्वारकनाथदेशमुखः, डॉ सम्पूर्णनन्दः पं केदारनाथशर्मा सारस्वतादयः आसन् ।
(अन्ताराष्ट्रियप्राच्यविद्या महासभा)
अखिलभारतीय- प्राच्य- विद्या- सम्मेलनस्य (All India Oriental Confrence) प्रथमम् अधिवेशनं 1919 ई0 सर रा0 गो0 भण्डारकर -महोदयस्य वटलरमहोदयस्य संयुक्तप्रयत्नेन संयोजकत्वे च शिमलायां जातम् ।
द्वितीयमधिवेशनं 1922 ई0 कलकत्तास्थाने सम्पन्नम् ।
तृतीयमधिवेशनं महामहोपाध्याय डॉ0 गङ्गानाथ- झामहोदयस्य सभापतित्वे मद्रासे सञ्जातम् । चतुर्थमधिवेशनम् 1926 ई0 प्रयागे जातम् । यस्य कर्णधारः संयोजकश्च शम्स-उल-उलेमा डॉ0 जीवनजी ,जमशेदजी -मोदीमहोदयाः आसन् । अस्मिन्नेव अधिवेशनिर्णयं कृतं यत् प्रतितृतीय- वर्षे अधिवेशनं भविष्यति ।
एतस्य निर्णयानुसारमेव 1928 ई0 पञ्चममधिवेशनं महामहोपाध्यायः डा0 हरप्रसाद-शास्त्रीमहोदयस्य अध्यक्षतायां लाहौरे, षष्ठमधिवेशनं 1930 ई0 रायबहादुरबाबु- हीरालालस्य अध्यक्षतायां पट्टनायां, सप्तमधिवेशनं च 1932 ई0 बडौदायां जातम् ।
नवममधिवेशनं 1936 ई0 अन्ताराष्ट्रिय -प्राच्यविद्यामहासभायाः नवमम् अधिवेशनं जातम् । यस्य अध्यक्षः डा0 एफ0 डब्लयू0 टामसः आसीत् ।
अन्यसंस्थानां जन्म –
भारतीय -दार्शनिक -कान्फ्रेन्स -1925 ई0 ग्रियर्सनस्य लिंग्वस्टिक् -सोसायटी -ऑफ इण्डिया 1926 भारतीय – इतिहास-कांग्रेस 1936 च इत्यादिसंस्थाः प्रादुर्भूताः (संस्कृतविश्वपरिषद्) संस्कृतभाषायाः संरक्षणार्थं राष्ट्रिय – एकतायै च अन्ताराष्ट्रिय –विचार- सम्बन्धानां दिशायाम् अधिकां जागरुकतां आनयितुं 11मई 1951 पाटणे सौराष्ट्रे संस्कृत- विश्वपरिषदः (वल्ड अकादमी ऑफ संस्कृत) स्थापना जाता । एतस्य परिषदः समुचिद् संचालनं कन्हैयालालः
माणिकलालः मुन्सीमहोदयः वल्लभभाई-पट्टेल- महोदयः च कृतवन्तौ । अन्यः सहयोगिनः नवलरायदैबरः , राजर्षिपुरूषोत्तमदासटण्डनः देशरत्नः डॉ0 राजेन्द्रप्रसादः तीरुकोचेः महाराजः श्रीपद्मनाभदासबालारामवर्मामहोदयः इत्यादयः उल्लेखनीयाः सन्ति ।
विश्वसंस्कृतपरिषदः भारतस्य विभिन्ननगरेषु एतानि अधिवेशनानि जातानि । क्रमशः पाटणे (सौराष्ट्रे) 1951, वाराणस्यां 1952, नागपुरे 1954, तिरुपतौ 1955, कुरुक्षत्रे 1956, जगन्नाथपुर्यां 1959 ।
रघुवंशम् – डॉ0 वीराघवन् , मद्रासविश्वविद्यालयः मद्रासः ।
।। पुराणेतिहासः ।।
खण्डः 1 ( वेद-ब्राह्मण-सूत्रादि )
सम्पादकः – आचार्य -विश्वबन्धुः डॉ0 वी0 सूर्यकान्तः च ।
खण्डः – 3 ( प्राचीनसाहित्यम् )
सम्पादकः – डॉ0 वासुदेवशरणः अग्रवालः डॉ वी0 राघवन्
खण्डः 4 ( जैनसाहित्यम् )
सम्पादकः – डॉ0 हीरालालः जैननागपुरम् ।
खण्डः 6 ( शिलालेखः )
सम्पादकः – डॉ0 बहादुरचन्दछावड़ा केन्द्रियपुरातत्वविभागः देहली
खण्डः – 7 ( सुभाषितसङ्ग्रहः )
सम्पादकः – डॉ0 वी0 राघवन् प्रो0 के0 ए0 एस0 एयरः च ।
संस्कृतस्य पुस्तकानां सूचिः
तिलकचरितम् – श्री के0 वी0 चित्तले ।
प्रतिराजसूयम् – श्रीवाई -महालिङ्गशास्त्री ।
श्री मन्ननारायणीयम् – श्री के0 कृष्णमहोदयः ।
पतञ्जलिमहाभाष्यम् – डॉ0 पी0 एस0 सुब्रह्मण्यशास्त्री ।
वाल्मीकिरामायणम् – श्रीबल्लातोलमेमनः ।
अकादमीपक्षतः डॉ0 राघवनमहोदयस्य संपादकत्वे जून 1959 आकाशवाणीद्वारा प्रायशः 20 केन्द्रैः संस्कृतस्य रुचिकरकार्यक्रमाणां प्रसारणस्य व्यवस्था कृता ।
।।कण्टेपरेरी इण्डियन -लिटरेचर।। (अद्यतनं भारतीयसाहित्यम्)
अकादमिद्वारा मान्यताप्राप्तसंस्थाः
केन्द्रियसर्वकारस्य साहित्याकादमी संस्कृतस्य कार्यार्थं संस्कृतकार्यं कुर्वद्भ्यः संस्थाभ्यः आर्थिकानुदानं दत्वा प्रोत्साहितं करोति । 1959-60ई0 अन्वेषणानुसारं 21 संस्थानां नामावली ‘संस्कृतसाहित्य का इतिहास’ पुस्तकस्य 39-40 पृष्ठयोः सन्ति ।
संस्कृतपुस्तकानां प्रमुख प्रकाशनसंस्थानानां नामावली तत्रैव 40-41 पृष्ठयोः सन्ति ।
सम्मेलनानन्तरं राष्ट्रियसंस्कृतसंस्थानेन स्वीकृताः कार्यान्विताश्च योजनाः
१०.१ राष्ट्रियसंस्कृतसंस्थानेन वर्तमानसत्रे (२०००-२००१) संस्कृताध्ययनक्षेत्रे संस्कृतप्रचारप्रसारक्षेत्रे बहव्यः विकासपरकयोजनाः स्वीकृताः कार्यान्विताश्च विद्यन्ते ।
तद्यथा –
१०.१.१ ध्वनिमुद्रिकाणां लोकार्पणकार्यक्रमः (Releasing of Cassettes)
२७.६.२००० दिनाङ्के संस्थानेन संस्कृतपाठसम्बद्धध्वनिमुद्रिकाणां लोकार्पणकार्यक्रमः आयोजितः । विद्यालयच्छात्रेभ्यः पूरकपाठ्यक्रमरूपेण अध्ययनार्थं संस्थानेन ४० पाठाः १० ध्वनिमुद्रिकासु समायोजिताः । एतासां ध्वनिमुद्रिकाणां प्रतिकृतयः २०,००० विद्यालयेभ्यः वितरणीयाः इत्यस्ति योजना ।
१०.१.२ विद्यापीठेभ्यः संगणकयन्त्राणि (Computers for vidyapeethas)
विद्यापीठेषु संगणकमाध्यमेन अध्ययनार्थं विभिन्नशोधपरियोजनानां परिचालनार्थं च सत्रारम्भे एव प्रतिविद्यापीठं चत्वारि संगणकयन्त्राणि संस्थानेन उपकल्पितानि ।
१०.१.३ संस्थानस्य परीक्षासु सर्वेभ्यः स्वतन्त्रपरीक्षार्थित्वावकाशः (To appear in Sansthan exams as Private candidates)
नियमिताध्ययनं विनाऽपि सर्वासु संस्थानपरीक्षासु उत्सुकाः छात्राः स्वतन्त्रपरीक्षार्थिरूपेण भागं ग्रहीतुं शक्नुयुः इति ९.८.२००० दिनाङ्के भारतसर्वकारस्य शिक्षासचिवानां श्रीमतां महाराजकृष्णराव- महोदयानाम् आध्यक्ष्ये संस्थानगतिविधीनां पुनरीक्षणगोष्ठ्यां निर्णयः स्वीकृतः ।
१०.१.४ परीक्षाविधाने परिवर्तनम् (Changes in examination pattern)
निबन्धात्मकपरीक्षाविधानं परिवर्त्य अस्मादेव सत्रात् नूतनपरीक्षाप्रणाली स्वीकृता यस्यां मूल्याङ्कनप्रविधौ उपयुज्यमानानां नूतनपरिवर्तनानां वस्तुनिष्ठप्रश्नविधानानां च समावेशनं कृतम् ।
१०.१.५ विद्यावारिधि-शोधकार्यक्रमे परिवर्तनानि (Changes in Ph.D Programme)
शोधकर्मणि गुणवत्तासमासादनार्थ विविधपरिवर्तनानि कृतानि । यथा –
१. विद्यावारिधिशोधोपाध्यर्थं प्रवेशनाय ‘विद्यावारिधिप्रवेशपरीक्षाः’ आयोजयिष्यन्ते ।
२. सर्वे शोधच्छात्राः ‘शोधविधिः तथा च पाण्डुलिपिज्ञानम् इति ’, विषये त्रिसप्ताहात्मकं प्रशिक्षणं प्राप्य तद्विषयकपरीक्षामपि उत्तरेयुः ।
३. सर्वैः शोधच्छात्रैः शोधप्रबन्धस्य समर्पणात् प्राक् स्वशोधविषये न्यूनातिन्यूनं द्वे शोधपत्रे प्रस्तोतव्ये । विद्यावारिध्युपाध्यर्थं वाक्परीक्षा सार्वजनीना भविष्यति ।
१०.१.६ दूरस्थसंस्कृतशिक्षणकार्यशाला (workshop on Sanskrit teaching through distance Education)
दूरस्थशिक्षामाध्यमेन व्यापकरूपेण संस्कृतशिक्षणार्थं कार्यक्रमसंघटनाय ४.८.२००० दिनाङ्के शासिपरिषदुपवेशने अनुमोदनं प्राप्तम् । तदनुसारं पाठ्यक्रमरचनार्थं २५.९.२००० तः २९.९.२००० पर्यन्तं संस्थाने कार्यशाला आयोजिता । दूरस्थशिक्षामाध्यमेन संस्कृताध्ययनाय पञ्चस्तरात्मकपाठ्यक्रमः रचनीयः इत्यस्ति प्रस्तावः । प्रत्येकस्मिन् स्तरे पाठ्यपुस्तकेन सह अभ्यासपुस्तकं, शब्दकोशः, व्याकरणनियमज्ञापकपुस्तकानि च भवेयुः । पञ्चस्तराणाम् अध्ययनानन्तरं छात्रः स्वतन्त्ररूपेण संस्कृतसाहित्यग्रन्थानामध्ययने अर्थावगमने च समर्थः भवेदिति लक्ष्यमस्ति । अस्मिन्नेव क्रमे २३.२.२००२ तः २८.२.२००२ पर्यन्तं द्वितीया कार्यशाला बेङ्गलूरुनगरे समायोजिता ।
१०.१.७ विद्यापीठभवनस्य शिलान्यासकार्यक्रमः (laying foundation stone of the vidyapeetha)
२६.१०.२००२ दिनाङ्के माननीयाः केन्द्रीयमानवसंसाधनविकासमन्त्रिणः श्रीमन्तः डॉ0 मुरलीमनोहरजोशिमहोदयाः लखनवस्थ केन्द्रियसंस्कृतविद्यापीठस्य भवननिर्माणाय आधारशिलां स्थापितवन्तः ।
१०.१.८ सङ्गणकशिक्षा (Computer Education)
संस्थानान्तर्गतप्राक्शास्त्रिपाठ्यक्रमे अतिरिक्तविषयरूपेण ‘सङ्गणकशिक्षा’ सम्मेलिता । श्रीमतां प्रो. जी.बी.सिंहमहोदयानामाध्यक्ष्ये संघटितमित्या पाठ्यक्रमस्य निर्माणं कृतम् । लखनव-विद्यापीठभवनस्य शिलान्यासकार्यक्रमे १६.१०.२००० दिनाङ्के माननीयाः केन्द्रीय-मानव-संसाधनविकासमन्त्रिणः श्रीमन्तः डॉ0 मुरलीमनोहर जोशी महोदयाः अस्य संगणकशिक्षापाठ्यक्रमस्य शुभारम्भं विहितवन्तः ।
१०.१.९ सूचनाजालस्य स्थापना (Launching of website)
२३.११.२००० दिनाङ्के भारतसर्वकासस्य शिक्षासचिवमहोदयैः श्रीमद्भिः महाराज कृष्ण काव् महोदयैः संस्थानस्य विषये शतपृष्ठात्मक-सूचनाः संगणकसूचनाजाले स्थापिताः । कालान्तरे संगणक-अन्तर्जालमाध्यमेन (Internet)
संस्कृतशिक्षणं संस्थानस्य लक्ष्यमस्ति ।
१०.१.१० ‘संस्कृतसूचनातन्त्र’-विषये प्रस्तावः (Sanskrit Informatics)
संस्थानेन संगणकक्षेत्रे सूचनाप्रौद्योगिकी क्षेत्रे च संस्कृतज्ञानविज्ञानयोः प्रवेशनाय सूचनामन्त्रालयस्य (Ministry of Information Technology) समक्षं व्यापकं प्रस्तावपत्रं प्रस्तुतम् ।
१०.२ अग्रिमाः कार्ययोजनाः
१०.२.१ दूरस्थशिक्षामाध्यमेन संस्कृतशिक्षणम्
संस्थानेन दूरस्थशिक्षामाध्यमेन संस्कृतशिक्षणाय पञ्चस्तरीयपाठ्यक्रमस्य सञ्चालनमभीप्सितम् । पञ्चस्तराणां शिक्षणानन्तरम् अध्येतारः संस्थानस्य शास्त्रिपाठ्यक्रमे प्रवेशार्हाः भवेयुः इति योजना । तथैव विस्तारशिक्षाकार्यक्रमे देशस्य विभिन्नभागेषु अन्यान्यकर्मरतानां सामान्यजनानां कृते अवकाशकालेषु संस्कृताध्ययनाय पाठ्यक्रमाः सञ्चालयिष्यन्ते ।
१०.२.२ संस्कृते नूतनपाठ्यसामग्रीणां स्वयं-शिक्षण-सामग्रीणां च निर्माणम्
सर्वासु संस्कृतसंस्थासु प्रायः प्राचीन-पारम्परिक-ग्रन्थानां माध्यमेनैव शिक्षणं प्रचलति । परम् आधुनिकशिक्षणपद्धत्यनुकूला सामग्री नोपलभ्यते । अतः तादृशसामग्रीणां निर्माणयोजना संस्थानेन स्वीकरिष्यते ।
१०.२.३ सरलसंस्कृतशिक्षणसामग्री
भारतीयभाषासु प्रयुज्यमान-संस्कृत-तत्सम-तद्भव-शब्दावल्या आधारेण सरलरीत्या संस्कृताध्ययनाय दृश्यश्रव्यसामग्रीणां, संगणकमाध्यमेन शिक्षणसामग्रीणां च निर्माणम् अस्यां योजनायां लक्षितमस्ति ।
१०.२.४ संस्कृतशिक्षकेभ्यः पुनश्चर्यापाठ्यक्रमाः
सम्प्रति केन्द्रियसंस्कृतविद्यापीठेषु आदर्शसंस्कृतमहाविद्यालयेषु अन्यासु च संस्कृतसंस्थासु विद्यमानानां संस्कृतशिक्षकाणां कृते पूर्वाधीतस्य पुनर्नवीकरणाय न काऽपि व्यवस्था विद्यते । अतः एतदर्थम् मासात्मकाः पुनश्चर्यापाठ्यक्रमाः देशस्य विभिन्नभागेषु सञ्चालनीयाः इति सङ्कल्पः ।
१०.२.५ शिक्षाचार्यपाठ्यक्रमः (M.Ed)
संस्थानान्तर्गतविद्यापीठेषु सम्प्रति शिक्षाशास्त्रि (B.Ed) प्रशिक्षणानन्तरम् अग्रे अध्ययनपाठ्यक्रमः न विद्यते । अतः अचिराद् एकवर्षात्मकशिक्षाचार्यपाठ्यक्रमस्य स्वीकृतिर्देया इति संस्थानेन निवेदितमस्ति ।
१०.२.६ भारतीयभाषासु विद्यमानानां ग्रन्थानां संस्कृते अनुवादः
संस्कृतसाहित्यमधिकृत्य बहवः विमर्शात्मकाः शोधग्रन्थाः विविधभारतीयभाषासु प्रकाशिताः सन्ति । तेषां ग्रन्थानां संस्कृते अनुवदनं संस्कृतविदुषां लाभाय कल्पते । तथैव विविधभारतीयभाषासु वैविध्यपूर्णाः साहित्यरचनाः प्रकाशिताः सन्ति । एतेषां ग्रन्थानां संस्कृतेन अनूदनेन संस्कृतसाहित्यं विपुलं, वैविध्यपूर्णम्, आधुनिकविषयसम्पन्नं च भविष्यति ।
१०.२.७ प्रमुखशास्त्रीयग्रन्थानां सरलशिक्षणविध्यनुगुणं पुनर्लेखनम्
आधुनिकसंस्कृतच्छात्राणां कृते सरलतया अवबोधनाय स्वयं शिक्षणाय पदच्छेद- सरलान्वयादिविधिना च प्रमुखशास्त्रीयग्रन्थाः पुनर्लेखयित्वाः प्रकाशयिष्यन्ते ।
१०.२.८ अन्तर्जालमाध्यमेन संस्कृतशिक्षणाय अनुसन्धानाय च व्यवस्था अद्यत्वे संगणकमाध्यमेन सूचनाप्रविधेः आश्रयणेन च शिक्षणस्य प्राचुर्यं दृश्यते । संस्कृतशिक्षणेऽपि अन्तर्जालस्य (Internet) प्रयोगः करणीयः । अन्तर्जालमाध्यमेन संस्कृतशिक्षणाय प्रविधिः उपयोगः वक्तव्यः । अनुसन्धानसौकर्याय अन्तर्जाले शब्दकोशाः, विश्वकोशाः, पाण्डुलिपिविषयकसूचनाः, धातुरत्नाकरः इत्यादयः अंशाः स्थापयिप्यन्ते ।
१०.२.९ मुद्रितशास्त्रीयग्रन्थानां विषयकोश (index) निर्माणम्
बहवः शास्त्रीयग्रन्थाः पूर्वापरसूचनारहिताः कालकवलिताः नष्टाः भवन्ति । तेषां सर्वेषां विषयानुगुणं सूचीबन्धनं संगणकमाध्यमेन करिष्यते ।
१०.२.१० व्यावहारिकसंस्कृतशब्दकोशः
संस्कृते व्यावहारिकशब्दानां कोशस्य रचना करणीया । प्राचीननाटकादिसाहित्यग्रन्थेभ्यः संगृह्य कोशेऽस्मिन् समावेशनीयाः, येन संस्कृतव्यवहारः प्रामाणिकः भवेत् ।
१०.३ आगामिषु पञ्चवर्षेषु संस्कृतप्रचारस्य कार्यक्रमाः
सामान्यजनेषु संस्कृतानुरागस्य वर्धनाय संस्कृते सम्भाषणकौशलसम्पादनाय संस्कृताध्ययने तेषां प्रवर्तनाय च संस्थानेन सर्वकारसमक्षं विविधकार्यक्रमाः प्रस्ताविताः । तद्यथा-
१०.३.१ दशदिनात्मकसंस्कृतसम्भाषणशिबिराणां स्वैच्छिकसंघटनानां सहयोगेन देशस्य कोणे कोणे आयोजनीयानि ।
१०.३.२ संस्कृतसम्भाषणशिबिराणां सञ्चालनाय स्नातक-स्नातकोत्तरकक्षाछात्राणां कृते दशदिनात्मकाः आवासीयाश्च संस्कृतसम्भाषणशिक्षकप्रशिक्षणवर्गाः आयोजनीयाः ।
१०.३.३ संस्कृतसम्भाषणशिबिराणां सञ्चालनार्थं विद्यालय-महाविद्यालयादीनाम् अध्यापकानां कृते पञ्चदिनात्मकाः अभिमुखीकरणवर्गाः आयोजनीयाः –
१०.३.४ विविधसंस्थासु ‘सान्ध्यसंस्कृतशालाः’ स्थापनीयाः
१०.३.५ संचारमाध्यमैः संस्कृतप्रचारार्थम् आकाशवाणी-दूरदर्शन-संगणक-अन्तर्जालादीनां द्वारा संस्कृतकार्यक्रमाः प्रसारणीयाः ।
१०.३.६ संस्कृतप्रचाराय पूर्णकालिकसंस्कृत…….. नियोजनं कारणीयम् ।
१०.३.७ प्राचीनसंस्कृतग्रन्थेषु विद्यमानानां सामाजिक-वैज्ञानिक-प्रौद्यागिक-मनोवैज्ञानिक-सौन्दर्यात्मक-विधिशास्त्रीय-सभ्यतापरकतत्त्वानां विषयेषु विचारगोष्ठयः कार्यशालाश्च आयोजनीयाः ।
१०.३.८ संस्कृतपरम्परागृहाणि स्थापनीयानि । एकं राजधान्यां देहल्याम् न्यूनातिन्यूनं प्रतिराज्यम् एक इति क्रमेण तानि स्थापनीयानि ।
१०.३.९ संस्कृतज्ञानविज्ञानयोः विषयाणां प्रकाशनाय सचलप्रदर्शनीनाम् आयोजनम् । एवं प्रकारेण संस्कृतस्य अभ्युन्नत्यै व्यापकप्रचाराय च राष्ट्रियसंस्कृतसंस्थानेन सततं कार्यक्रमाः प्रस्ताविताः कार्यान्विताश्च ।