आधुनिकयन्त्रयुता: संस्कृतशिक्षका:
ओहो ! आप संस्कृत शिक्षक हैं आप को तो English और computer आता नहीं होगा ? एता: पङ्क्तय: बहुवारं श्रुता: स्यु: संस्कृतशिक्षकै: । एतस्मिन् वाक्ये श्रुते सति कश्चनापि संस्कृतशिक्षका: प्रत्युत्तरितुं प्रयासं तु न कुर्वन्ति स्म । तेषां मनस्सु उद्भूतेन कष्टेन साकं दु:खम्, विवशता, संस्कृतं प्रति अप्रीति: इत्यादय: नकारात्मका: विचारा: एव तदा तदा उद्भवन्ति स्म ।
अप्सार्य,विवशताया: शमनं कृत्वा, संस्कृतप्रीतिं उत्क्रम्य स्वस्य विस्मारितं तेजं सम्मानं च प्राप्नुवन्त: सन्ति। ये जना: तान् भर्त्स्यन्त: आसन् तान् जनान् अपि संस्कृतशिक्षका: पाठयन्त: सन्ति । तेषां संस्कृतपठनं नूतनपद्धत्या संस्कृतशिक्षकेण क्रियते । येन तेषां सम्यक् अवबोधनं भवेत् एतदाधारीकृत्य एव संस्कृताभिमानिन: शिक्षका: संङ्णकशिक्षकम्, आङ्लशिक्षकम्, जर्मनशिक्षकम्, फ्रेन्चशिक्षकं च संस्कृतं सरलभाषमाध्यमेन पाठयन्त: सन्ति।
आधुनिक संस्कृतशिक्षकाणां निर्माणम् –
सम्प्रति ये संस्कृताभिमानिन: शिक्षका: क्रियाशीला: दृश्यन्ते तेषु आधिक्येन सर्वकारीयेतरे शिक्षका: । येषां निर्माणे महत्य: समस्या: आयान्ति । परन्तु तेषां कार्य दृष्ट्वा एवं भाति यथा जर्मन्- फ्रेन्च् शिक्षकाणाम् अपेक्षया संस्कृतशिक्षकाणाम् उत्साह: न कदापि न्यून: । एतादृशाणां शिक्षकाणां निर्माणं कुर्वत्य: सन्ति आधुनिकस्तरीया: बह्व्य: संस्कृतसंस्था: । तासु प्रामुख्येन कार्यं कुर्वत्यौ स्त: सर्वकारीयेतरे संस्थे द्वे । तयो: नाम – संस्कृतभारती संस्कृतसंवर्द्धनप्रतिष्ठानं च ।
पूर्वारभ्य संस्कृतोन्नयने न्यूनते द्वे – जनस्य अन्यविधसंसाधनस्य च । सम्प्रति एते न्यूनते अपि अपगते । यतो हि संस्कृतभारती ददाति जनान्, संवर्द्धनप्रतिष्ठानं ददाति आधुनिकसंसाधनानि। एवं द्वयो: संस्थयो: मेलनेनैव सिद्ध्यति संस्कृतशिक्षकनिर्माणम् । अभ्यर्थी-शिक्षकै: संस्थाप्रवेशसमये परीक्षा,साक्षात्कार: च दातव्य: भवति तदनन्तरमेव शिक्षकनिर्माणम् आरभते । शिक्षकनिर्माणसमयेऽपि शिक्षकस्य दायित्वं न्यूनं न भवति अपितु पुन: पुन: तस्य परीक्षणं भवति । सम्प्रति एतादृशाणां शिक्षकाणां सङ्ख्या वर्धमाना अस्ति । एतेषां शिक्षकाणां सर्वेषु विषयेषु गति: भवतु तदर्थं आङ्ग्लम्, संङ्गणकम् अन्ये आवश्यकाधुनिकविषया: समये समये पाठ्यन्ते एतेषां विशिष्टशिक्षणमपि भवति यथा शिक्षकप्रशिक्षणवर्ग:,काव्यव्याकरणवर्ग: इत्यादय: ।
संस्कृतशिक्षकाणां मुख्यकार्याणि –
शिक्षका : विभिन्न परियोजनायां कार्यं कुर्वन्त: सन्ति । तासु “विद्यालयेषु संस्कृतम्, सरलसंस्कृतपाठ्योजना” प्रमुखे स्त:।
विद्यालये संस्कृतं संस्कृतमाध्यमेन् पाठयन्त: शिक्षका: संस्कृतपरिवेषनिर्माणाय अपि कार्यं कुर्वन्त: सन्ति । विद्यालयात् आगत्य ते भिन्न-भिन्न संगणककार्याणि यथा- vedioes, Tutorial , p.p.t , आधुनिकयन्त्र माध्यमेन कुर्वन्ति । शिक्षका: संस्कृतच्छात्रान् अवबोधनसमये “सङ्गणकस्य अधिकाधिकं प्रयोगं कुर्वन्तु” इति वारं वारं बोधयन्ति । सङ्गणक-अन्तरजाले –मेनियर् शब्दकोश:, आप्टेशब्दकोश:, संस्कृतविकीपीडिया ( विश्वकोश: ) व्याकरणशिक्षणम्, अमरकोषादय: बहवा: विषया: उपस्थापयन्त: प्रेरयन्त: च शिक्षका: संस्कृतच्छात्रेषु रुचिम्,आत्मविश्वासं च उत्पादयन्ति ।
एतान् विषयान् श्रुत्वा छात्रा: अत्युत्साहित: सन् स्वजीवने संस्कृतगतिमानेतुम् आङ्ग्लसाहाय्येन, सङ्गणकसाहाय्येन संस्कृतमातु: सेवायां प्रयत्नशीला: दृश्यन्ते ।