संकलिकाः 1.संस्कृतसंकलिकाः-सूची 2.अद्यतनचिन्तनम् अद्यतनचिन्तनम् अस्यां संकलिकायाम् अद्यतनचिन्तनम् इति कृत्वा कथाः स्थापिताः सन्ति । अस्याः संचालनं दीपेशकटीरा करोति । मई 2010 तमे वर्षे एतस्याः आरम्भः कृतः अस्ति । मई 2010 तमे वर्षे अस्मिन् अन्तिमलेखः लिखितः अस्ति । अस्यां बालकथाः, प्रेरककथाः चापि सन्ति । अस्यां संकलिकायां चिन्तनानि सन्ति । चिन्तनाय काचित् लघुबोधकथा कश्चन बोधप्रदः प्रसङ्गः वा प्रदत्तः अस्ति । तत् चिन्तनं जीवनं परिवर्तयितुं शक्नोति इति सञ्चालकस्य मतिः । अतः तादृशानां चिन्तनानां संग्रहः कृतः तेन । लेखनतिथिः —7-8-2012 adyatanachintanam.blogspot.in 3.उपनिषदध्ययनम् उपनिषदध्ययनम् उपनिषदध्ययनम् इत्येषा नामधेया संकलिका 2011 अगस्तमासे आरब्धा वर्तते । संकलिका इयं प्रमुखतया उपनिषदः अध्ययनोद्देश्येन निर्मिता वर्तते । उपनिषद्शब्दस्य परिचयेन साकं देवनागरी रोमनलिपिभ्यां प्रतिपादनं कृतं वर्तते विषयाणामत्र । व्यतुपत्ति-अर्थ-अभ्यासादिमाध्यमेन आरम्भः कृतः अस्ति । आदौ एव आरुणिकोपनिषद् इत्यतः अध्ययनक्रमः सञ्चालितः वर्तते । यत्र षड् सोपानानां कार्यं सम्पन्नमस्ति अद्यावधिः पर्यन्तम् । upanishat.wordpress.com 4.कादम्बरी कादम्बरी चन्द्रापीडचरितशीर्षकान्वितस्य कादम्बरीनामायाः अस्याः संकलिकायाः कार्यारम्भः नवम्बरमासे 2006 तमे वर्षे अभूत् । अस्याः संकलकः श्रीमान् श्रीनिवासमहोदयः वर्तते । 3 फरवरी 2008 पर्यन्तम् एकादशदिनामत्कं कार्यमेतत् कादम्बरीविषयस्य जिज्ञासूनां कृते उपयोगी वर्तते । kaadambari.wordpress.com 5.गीतभारती गीतभारती एतत् संस्कृतगीतानां श्रृङ्खलारूपिणी काचिद् संकलिका(Blog) वर्तते । याजुषीनामधेया काचिद् संस्कृतविदुषी नवम्बरमासे 2006 तमे वर्षे कार्यमेतत् समारभेत् । तदारभ्य कार्यमेतत् सातत्येन प्रवर्तमानं वर्तते । अत्र संस्कृतमयानि सुसरलसरसयुतानि सारपूर्णानि स्वागतगीतानि, देशभक्तिगीतानि, प्रेरणागीतानि, शिशुश्रव्यानि च गीतानि प्रकारान्तरेण प्रतिपादितानि सन्ति । अस्यां संकलिकायां निहितेभ्यः गीतेभ्यः प्रेरणां सम्प्राप्य जनाः उपयोगे आनेष्यन्ति । yaajushi.blogspot.in/ 6.निमित्तमात्रम् ‘निमित्तमात्रं च निमेषमात्रम्’ इत्येतस्य नामधेयस्य संकलिकासंग्रहस्य कार्यारम्भः अगस्त 2007 तमे वर्षे जातः अपि च 2 अप्रैल 2010 पर्यन्तं कार्यं प्राचलत् । अस्यां संकलिकायां 9006 हास्यकणाः सन्ति । कवचिद् सचित्रमपि हास्यकणाः संकलिताः वर्तन्ते । एते हास्यकणाः पठितॄणां जामितमानसानां कृते प्रसादाय मोदाय च महत्त्वपूर्णाः वर्तन्ते । nimittam.blogspot.in