‘मनोगतम्-४४’ ‘मन की बात’ – ४४ (44वीं कड़ी)
प्रसारण-तिथि: 27.05.2018
[“मन की बात”- “मनोगतम्” – इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
– बलदेवानन्द-सागरः
नमस्कारः ! ‘मन की बात’-प्रसारणस्य माध्यमेन पुनरेकवारं भवतः सर्वान् मेलितुम् अवसरम् अवाप्नवम् | नूनं, भवन्तः सर्वे सम्यक्तया स्मरन्ति यन्नौ-सेनायाः षण्णां महिलाधिपानां वृन्दमेकं विगतेभ्यः कतिपयेभ्यः मासेभ्यः समुद्रयात्रा-निरतम् आसीत् | ‘नाविका-सागर-परिक्रमा’ – इति, अस्य विषये किमपि वक्तुमिच्छामि | भारतस्य एताः षट् तनयाः, आसां वृन्दं प्रायेण सार्ध-द्वि-शताधिकानि दिनानि यापयित्वा समुद्रमाध्यमेन INSV- तारिणी-द्वारा अशेष-जगतः यात्राम् विधाय मासेsस्मिन् एकविंशति-तमे दिने भारतं प्रत्यागतम्, सम्पूर्णोsपि देशः आसां वीर-पुत्रिकाणां सोत्साहं स्वागतमकरोत् | एताः विभिन्नानां महासागराणां कतिपयानाञ्च समुद्राणां यात्रां कुर्वन्त्यः प्रायेण द्वाविंशति-सहस्रस्य nautical miles-इति नाविक-क्रोशकानाम् अन्तरालं प्रपूरितवत्यः | अशेष-जगति स्वप्रकारिका प्रप्रथमेयं घटना अवर्तत| विगत-बुधवासरे आसां सर्वासामपि पुत्रिकाणां मेलनस्य, आसाञ्च अनुभव-श्रवणस्य अवसरं प्राप्नवम् | आसां दुहितॄणां साहस-प्रदर्शनार्थं, नौसेनायाः प्रतिष्ठा-वर्धनार्थं, भारतस्य मान-सम्मान-सम्वर्धनार्थं, विशेषेण च सम्पूर्णमपि विश्वमिदं जानीयात् यत् भारतस्य कन्यकाः न्यूनतराः नैव सन्ति – इति सन्देश-प्रापणार्थञ्च भूरि भूरिशो अभिनन्दनानि पुनरेकवारम् अर्पयामि | Sense of adventure- इति साहस-भावं को नाम नैव जानाति? यदि वयं मानव-जातेः विकासयात्रामवलोकयेम, तदानुभवामः यत् कस्यचिदपि साहसस्याङ्कादेव प्रगतिः सञ्जातास्ति | विकासस्तु पराक्रमस्य अङ्के एव जायते | किञ्चित्-करणस्य समीहा, किञ्चित्-विशिष्टानुष्ठानस्य चेष्टा, किञ्चिद् असामान्याचरणस्य साहसम्, अहमपि किमपि कर्तुं शक्नोमि – एतादृक्-भावानुभविनो भवन्तु नाम न्यूनतमाः, परञ्च युग-युग-पर्यन्तं, कोटि-कोटि-जनाः प्रेरणामवाप्नुवन्ति | विगतेषु दिनेषु भवन्तः दृष्टवन्तः स्युः, Mount Everest-शिखरम् अधिरूढवतां विषये कानिचन नूतनानि तथ्यानि प्रकाशितानि, तथा च, शताब्देभ्यः Everest-शिखरं मानवजातिं समाह्वयत् आस्ते, साहसिकाश्च तत्-समाह्वानमपि स्वीकुर्वन्तो वर्तन्ते |
मासेsस्मिन् षोडशे दिनाङ्के महाराष्ट्रस्य चन्द्रपुरस्य आश्रम-विद्यालयस्य– मनीषा-धुर्वे, प्रमेश-आले, उमाकान्त-मडवी, कविदास-कातमोड़े, विकास-सोयाम–चेति पञ्चानां जनजातीयच्छा- त्राणाम् – अस्माकं आदिवासि-बालकानां वृन्दमेकं जगतः उच्छ्रित-तमं शिखरम् अध्यारोहत् | आश्रम-विद्यालयस्य एते च्छात्राः विगते वर्षे ऑगस्ट्-मासे प्रशिक्षणमारभन्त | वर्धा-हैदराबाद-दार्जिलिंग-लेह-लद्दाखेत्यत्र एतेषां प्रशिक्षणं सम्पन्नम् | एते युवानः ‘मिशन-शौर्य’-इति कार्यक्रमान्तर्गतं चिताः आसन् तथा च, नामानुरूपम् Everest-शिखरम् अधिरुह्य ते कृत्स्नस्य देशस्य गौरवं वर्धितवन्तः | अहं चन्द्रपुरस्य विद्यालयीय-सदस्यान्,एतानि च, कनिष्ठानि मित्राणि भूरि भूरि हार्दिकानि वर्धापनानि वच्मि | नातिचिरं षोडश-वर्षीया शिवाङ्गी-पाठकः, नेपाल-पक्षतः Everest-विजयित्रीषु अल्पवयस्का भारतीया महिला सिद्धा | तनया शिवाङ्गी भूरिशो वर्धाप्यते |
अजीत-बजाजः तस्य तनया च दीया Everest-शिखरारोहिषु पुत्री-पित्रोः प्रथमः भारतीय-युगलः सम्वृत्तः| न केवलं युवानः एव, Everest-शिखरारोहणं कुर्वन्ति | सङ्गीता-बहलः मासेsस्मिन् ऊनविंशे दिने Everest-शिखरम् आरूढवती, सा च पञ्चाशद्-वर्षाधिकायुष्मती वर्तते | Everest-शिखरारोहिषु केचन तादृशाः अपि सन्ति, ये हि प्रदर्शितवन्तः यत्तेषां पार्श्वे न केवलं कौशलमस्ति, परञ्च ते सम्वेदनशीलाः अपि सन्ति | नातिचिरं ‘स्वच्छ-गङ्गाभियान’स्य अन्तर्गतं सीम-सुरक्षा-बलस्य समूहः Everest-शिखरारोहणम् अकरोत्, परञ्च सम्पूर्णोsपि समूहः Everest-शिखरात् विपुलम् अवकर-चयं चित्वा आत्मना साकमेव भूतलमानयत् | कार्यमिदं नूनं प्रशंसनीयम्, युगपदेव स्वच्छतां प्रति, पर्यावरणं प्रति च तेषां प्रतिबद्धतामपि प्रदर्शयति | Everest-शिखरारोहिणः सर्वेsपि सफलाः साहसिकाः वीराः विशेषेण च पुत्रिकाः भूरि भूरि हृदयेन वर्धाप्यन्ते |
मम प्रियाः देशवासिनः, विशेषेण च मम युवानः सखायः! प्रत्यग्रं, मास-द्वय-पूर्वं यदा अहं fit India- इति स्वस्थ-भारताभि- यानस्य प्रस्तावम् उपस्थापितवान्, तदा नाहं चिन्तितवान् यत् एतदर्थम् एतादृक् समीचीनम् उत्तरम् अवाप्स्यते इति | इयत्यां विपुलायां संख्यायां प्रत्येकमपि क्षेत्रस्य जनाः एतत् समर्थयिष्यन्ति | यदाहं fit India- इति स्वस्थ-भारताभियानम् अधिवच्मि तदेदं स्वीकरोमि यत् यावद् वयं क्रीडिष्यामः, तावदेव देशः क्रीडिष्यति | सामाजिक-सञ्चार-माध्यमेषु जनाः fit India- इति स्वस्थ-भारताभियान-विषयकाणि समाह्वानानि अभिलक्ष्य दृश्य-सान्द्रिकाः सम्विभाजयन्ति, तेषु मिथः अङ्कनं कृत्वा परस्परं समाह्वयन्ति | साम्प्रतं Fit India–अभियानेन साकं सर्वोsपि जनः आत्मानं संयोजयति | भवन्तु नाम ते चलचित्र-जगतो जनाः, क्रीडा-सम्बद्धाः वा देशस्य सामान्य-नागरिकाः, भवन्तु ते सैनिकाः, आहोस्वित् विद्यालयीयाः शिक्षकाः, परितः एकमेव निनाद-गुञ्जनं श्रूयते– ‘हम fit तो India fit’- वयं स्वस्थाश्चेत् भारतं स्वस्थम् | मम कृते प्रसन्नतायाः विषयोsयं यद् भारतीय-क्रिकेट्-वृन्द-नायको विराट्-कोहली-वर्यः मामपि समाह्वयत्, तथा चाहं तस्य समाह्वानमिदं स्वीकृतवान् | मन्ये यदेतादृशं भद्रत्वाय कल्पते, एतादृक् समाह्वानं अस्मान् अपरान् च सततं स्वस्थता-सन्धारणार्थं प्रोत्साहयिष्यति |
मम प्रियाः देशवासिनः! ‘मन की बात’-कार्यक्रमे नैकधा क्रीडा-सम्बद्धाः, क्रीडक-सम्बद्धाः, केचन ईषद्-विषयाः च भवन्तो मम मुखात् श्रुतवन्तः एव तथा च, विगते प्रसारणे तु, राष्ट्र-मण्डलीय-क्रीडास्पर्धानां अस्मदीयाः नायकाः, निज-मनोगतानि, अस्य कार्यक्रमस्य माध्यमेन अस्मान् वर्णयन्ति स्म –
“नमस्कारः, महोदय! अहं छवि-यादवः नोएडा-तः वदामि, अहं भवतः ‘मन की बात’-प्रसारणस्य नियमिता श्रोत्री, तथा चाद्य भवन्तं नैजं मनोगतं श्रावयितुमिच्छामि. अद्यत्वे ग्रीष्मावकाशः आरभत तथा च, मातृरूपेण पश्यामि यत् बालाः अधिकांशतया इन्टरनेट्-games-इति अन्तर्जालीयाः क्रीडाः क्रीडन्तः एव कालं यापयन्ति, परञ्च यदा वयं किशोराः आस्मः तदा प्रायेण traditional games-इति पारम्परिकाः क्रीडाः क्रीडन्तः आस्मः, एताः प्रायेण गृहेभ्यः बाह्याः भवन्ति स्म | सप्तानां प्रस्तर-खण्डानां क्रीडा, खो-खो-क्रीडा-प्रभृतयः चाद्यत्वे विलुप्ताः प्रतीयन्ते | ममेदं निवेदनं यत् भवान् अद्यतनान् युव-किशोर-जनान् पारम्परिक-क्रीडा-विषये प्रबोधयतु, येन हि तेषामपि अभिरुचिः एतदर्थं प्रवर्धेत, धन्यवादः |”
छवि-यादव-महाभागे, भवत्याः दूरभाषाकारणायाः कृते भूरिशो धन्यवादाः | सत्यमिदं यत् याः क्रीडाः कदाचित् प्रतिवीथी, प्रत्येकमपि बालस्य जीवनस्य अङ्गत्वेन अवर्तन्त, ताः सम्प्रति न्यूनीभवन्ति | एताः क्रीडाः विशेषेण ग्रीष्मावकाशस्य अङ्गत्वेन भवन्ति स्म | कदाचित् मध्याह्ने, कदाचिच्च रात्रौ भोजनानन्तरं निश्चिन्तं बालाः सुदीर्घ-कालं यावत् क्रीडन्ति स्म, तथा च, काश्चन क्रीडास्तु तादृश्यः आसन् यदशेष-कुटुम्बं युगपदेव क्रीडति स्म – कश्मीरतः कन्याकुमारीं यावत्, कच्छतः कामरूपं यावत् एताः अपरिमिताः क्रीडाः प्रत्येकमपि जनस्य शैशवस्य अङ्गत्वेन भवन्ति स्म | अस्तु, सम्भाव्यते, यदेताः क्रीडाः विविधेधु स्थलेषु पृथक्-पृथक्-नाम्ना अभिज्ञायन्ते स्म, यथा ‘पिट्ठू’ इति खेला विविधैः नामभिः परिज्ञायते | कश्चन एनां ‘लागोरी’, अपरः ‘सातोलिया’, इतरः ‘सात-पत्थर’, अन्यः ‘डिकोरी’, परश्च ‘सतोदिया’ न जाने, कति कति नामानि सन्ति एकस्याः एव खेलायाः | अस्माकं देशस्य विविधतायाः पृष्ठ-भूमौ निहिता एकता एतासु क्रीडासु अपि अवलोकयितुं शक्यते | एका एव क्रीडा भिन्न-भिन्नेषु स्थानेषु, नाना-नामभिः अभिज्ञायते | अहं गुर्जरीयः, जानामि यत् गुजराते एका खेलास्ति, या हि ‘चोमल-इस्तो’ इति निगद्यते | खेलेयं प्रायेण प्रत्येकमपि राज्ये क्रीड्यते स्म | कर्नाटके एषा ‘चौकाबारा’, मध्यप्रदेशे ‘अत्तू’, केरळे ‘पकीड़ाकाली’, महाराष्ट्रे ‘चम्पल’, तमिलनाडौ ‘दायाम’ वा ‘थायाम’, राजस्थाने च ‘चंगापो’ इति न जाने, कियन्ति नामानि आसन् परञ्च खेलनानान्तरम् अवगम्यते यत् प्रत्येकमपि राज्यवासी, विनैव भाषाज्ञानं कथयितुमर्हति स्म – अहो बाढम् ! वयमपि खेलामेनां क्रीडन्तः स्मः | अस्मासु को नाम तादृशो भविता येन शैशवे ‘गिल्ली-दण्डा’-इति खेला न खेलिता | ‘गिल्ली-दण्डा’-इति क्रीडा लघु-ग्रामेभ्यः आरभ्य महानगरेषु अपि क्रीड्यमाना खेलास्ति | देशस्य नानाभागेषु एषा विविधैः नामभिः अभिज्ञायते | आन्ध्रप्रदेशे ‘गोटिबिल्ला’ अथवा ‘कर्राबिल्ला’, उड़ीसा-राज्ये ‘गुलिबाड़ी’, महाराष्ट्रे ‘वित्तिडालू’ चेत्यादिभिः विविधैः नामभिः क्रीडैषा निगद्यते | यदा वयं खेलामः, अस्मासु ये अनुपमाः गुणाः सन्ति, तान् वयम् उन्मुक्ततया प्रकटयितुं शक्नुमः | स्यात् भवन्तः दृष्टवन्तः यत् केचन बालाः ये लज्जालवः सन्ति, परञ्च क्रीडावसरे ते अतिचञ्चलाः भवन्ति, स्वं प्रकटयन्ति, ज्येष्ठाः ये गम्भीराः प्रतीयन्ते, खेलावसरे तेषु प्रच्छन्नः बालः बहिरागच्छति | पारम्परिकाः खेलाः किञ्चित् एतादृश्यो वर्तन्ते यत् शारीरिक-क्षमतया साकमेव ताः अस्मदीयां तार्किक-विचारणां, एकाग्रताम्, अवधानतां, स्फूर्तिञ्चापि सम्वर्धयन्ति | तथा च, क्रीडाः न केवलं क्रीडाः एव भवन्ति, ताः अस्मान् जीवन-मूल्यानि शिक्षयन्ति | केन प्रकारेण लक्ष्यं निर्धारणीयम्, दृढ़ता केन प्रकारेण अवाप्तव्या, Team spirit- इति समूहभावः केन प्रकारेण समुत्पादनीयः, परस्परं सहयोगः कया रीत्या च सम्वर्धनीयः? विगतेषु दिनेषु अहं पश्यन्नासं यत् व्यवसाय-प्रबन्धनेन सम्बद्धेषु प्रशिक्षण-कार्यक्रमेषु अपि समग्र-व्यक्तित्व-विकासस्य अन्तःसम्बन्ध-कौशलस्य च सम्वर्धनार्थमपि अस्मदीयाः पारम्परिक्यः क्रीडाः अद्यत्वे उपयुञ्ज्यन्ते, तथा चातिसरलतया समग्र-विकासार्थं अस्माकं पारम्परिक्यः क्रीडाः समुपयोगिन्यो भवन्ति | बालाः भवन्तु वा पितामहो वा पितामही, आहोस्वित्, मातामहो वा मातामही, यदा सर्वे मिलित्वा खेलन्ति तदा युगान्तरालं सहसा विलुप्यते | युगपदेव, वयं स्वीयां संस्कृतिं परम्पराश्चापि सम्यक्तया अवगच्छामः | काश्चन क्रीडास्तु अस्मान् समाज-पर्यावरणादि-विषये जागरूकान् विदधति | कदाचिच्च चिन्ता भवति यत् अस्मदीयाः एताः क्रीडाः कर्हिचित् विलुप्ताः नैव स्युः, एवं जाते सति, न केवलं क्रीडाः, अपि तु, शैशवमपि विलुप्तं भविता, तथा च, पुनः वयं ताः कविताः शृण्वन्तो भविष्यामः –
यह दौलत भी ले लो
यह शौहरत भी ले लो
भले छीन लो मुझसे मेरी जवानी
मगर मुझको लौटा दो बचपन का सावन
वो कागज की कश्ती, वो बारिश का पानी …
गीतमिदमेव वयं शृण्वन्तो भविष्यामः, अत एव, एताः पारम्परिकाः खेलाः न कथमपि विलोपनीयाः सन्ति, अद्यत्वे नूनमिदम् आवश्यकं यत् विद्यालयाः, वीथ्यः वसतयश्च युवमण्डलानि च पुरोभूत्वा एताः क्रीडाः विवर्धयेयुः|आसां क्रीडानां दृश्याङ्कनं विधाय सान्द्र-मुद्रिकाः विरचयितुं शक्यन्ते, यासु क्रीडानां नियमाः, खेला-पद्धतयश्च प्रदर्शनीयाः स्युः | Animation- इति रेखा-वार्णिक-चलचित्राणि विनिर्मातुं शक्यन्ते येन अस्मदीयाः नूतनाः सन्ततयः, एताः वीथी-वसति-क्रीडाः द्रक्ष्यन्ति, खेलिष्यन्ति, विकसिष्यन्ति च |
मम प्रियाः देशवासिनः! आगम्यमाने जून-मासीये पञ्चमे दिने अस्माकं देशः भारतम् अधिकृतरूपेण विश्व-पर्यावरण-दिवसस्य आतिथेयत्वं विधास्यति | एषा हि भविष्यति भारतस्य कृते अतितरां महत्वपूर्णा उपलब्धिः, तथा च, जलवायु-परिवर्तनस्य न्यूनीकरण-दिशायां जगति भारतस्य वर्धमानाय नेतृत्वाय अपि स्वीकृति-प्राप्तेः परिचायिका अस्ति | ऐषमः क्रमे विषय-वस्तु वर्तते ‘Beat Plastic Pollution’- अभिघट्य-प्रदूषणस्य पराभवः | ममेदं विनिवेदनं यत् भवन्तः सर्वे अस्य विषय-वस्तोः, भावं, महत्वञ्च अवगम्य वयं सर्वे सुनिश्चितं करवाम यत् वयं polythene, low grade plastic-इति अभिघट्य-वस्तूनि नैव उपयुञ्ज्युः, तथा चास्माकं प्रकृतौ वन्य-जीवने स्वास्थ्योपरि च जायमानम् अभिघट्य-प्रदूषणस्य नकारात्मकं प्रभावं न्यूनीकर्तुं, प्रयतेम | भवन्तः World Environment Day-इत्यस्य website wed-india2018-इत्यत्र गत्वा तत्र रोचक-रीत्या प्रदत्तान् अनेक-विधान् परमर्शान् पश्यन्तु, अवगच्छन्तु, तान् च निज-दैनन्दिने जीवने क्रियया अन्वेतुं प्रयतेरन् | यदा भीषणः निदाघो भवति, जलाप्लावनं जायते | अनारतं वर्षा भवति | असह्यं शैत्यमापतति तदा सर्वेsपि विशेषज्ञाः भूत्वा global warming, climate change चेति जागतोष्णता-ऋतुपरिवर्तन-विषयान् सततं कथयन्ति परञ्च केवलं कथन-मात्रेण एव किं कार्यं सेत्स्यति? प्रकृतिं प्रति संवेदनशीलत्वं, प्रकृतेः संरक्षणञ्च अस्मदीयः सहजः स्वभावः स्यात्, अस्माकञ्च संस्कारेषु भवेत् | weather pattern- इति ऋतु-पद्धतिषु परिवर्तन-कारणात् विगतेषु केषुचिद्दिनेषु देशे तीव्र-प्रभञ्जन-वात्या-चक्राणि दुरापन्नानि, महती च जन-धन-क्षतिः जाता, अस्मदीया संस्कृतिः, अस्माकं परम्पराश्च नास्मान् प्रकृत्या संघर्षणम् अशिक्षन्त | प्रकृत्या साकं सद्भावेन स्थेयम्, प्रकृत्या सह आत्मानं संयोज्य वर्तितव्यमिति वयं भारतीयाः शिक्षिताः स्मः | महात्मगान्धी तु आजीवनं पदे पदे साग्रहं तथ्यमिदम् उपास्थापयत् | साम्प्रतं भारतं climate justice-इति विषयम् उपस्थापयति | Cop21-Paris-सन्धिषु भारतेन प्रमुखा भूमिका निर्व्यूढास्ति | यदा वयम् international solar alliance-इति आन्ताराष्ट्रिय-सौर-संयुति-माध्यमेन अशेष-विश्वं संयुक्तम् अकुर्म तर्हि एतेषां सर्वेषां मूले आसीत् – महात्मगान्धिनः तस्य स्वप्नस्य प्रपूरणस्य भावः | अस्मिन् पर्यावरण-दिवसे वयं सर्वे विषयमेनं विचारयेम यत् स्वीयं पृथ्वी-ग्रहं स्वच्छं हरितञ्च सन्धारयितुं वयं किं किं कर्तुं शक्नुमः? केन प्रकारेण वयमस्यां दिशि अग्रेसर्तुं शक्नुमः? किं किञ्च नवाचारं कर्तुं पारयामः? वर्षर्तुः आसन्न-प्रायः, अस्मिन् क्रमे वयं वृक्षारोपणस्य आभिलेख्यं लक्ष्यं सुनिश्चेतुं शक्नुमः, तथा च, न केवलं वृक्षारोपणमेव, परञ्च तेषां सम्वर्धन-पर्यन्तं तेषां सन्धारण-व्यवस्थापि करणीयास्ति |
मम प्रियाः देशवासिनः, विशेषेण च, मम नव-युवानः सखायः! भवन्तः जून-मासस्य एकविशं दिनं सुस्मरन्ति, न केवलं भवन्तः, न च केवलं वयम्, अशेष-विश्वं जून-मासस्य एकविशं दिनं सुस्मरति | अशेष-जगति जून-मासस्य एकविशं दिनम् आन्ताराष्ट्रिय-योग-दिवस-रूपेण आयोज्यते, तथा चेदं सर्व-स्वीकृतं जातं जनाश्च नैक-मासेभ्यः प्रागेव पूर्व-सज्जाः आरभन्ते | एतेषु दिवसेषु वृत्तानि अधिगम्यन्ते यत् कृत्स्नेsपि जगति जून-मासस्य एकविशे दिने आन्ताराष्ट्रिय-योग-दिवसमायोजयितुं बहव्यः सज्जाः क्रियन्ते | yoga for unity- इत्यस्य harmonious society-इत्यस्य च अयं सन्देशोsस्ति यो हि जगति विगतेभ्यः कतिपयेभ्यः वर्षेभ्यः पौनःपुनिकम् अनुभूतः | संस्कृत-वाङ्मयस्य महाकविः भर्तृहरिः शताब्देभ्यः पूर्वं नैजे शतकत्रये अलिखत् –
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी,
सत्यं सूनुरयं दया च भगिनी भ्राता मनः संयमः।
शय्या भूमितलं दिशोSपि वसनं ज्ञानामृतं भोजनम्,
एते यस्य कुटुम्बिनः वद ! सखे कस्माद् भयं योगिनः।।
– शताब्देभ्यः पूर्वम् उक्तस्य कथनस्य सरलार्थोsयमेव यत् नियमित-योगाभ्यास-करणेन केचन समीचीनाः लाभप्रदाः गुणाः ज्ञाति—सम्बन्धिभिः मित्रैश्च तुल्याः भवन्ति | योभ्यासेन साहसं समुत्पद्यते यद्धि सदा पितृ-तुल्यं सत् अस्मान् संरक्षति | क्षमाभावः उत्पद्यते यथा मातुः निज-बालान् प्रति भवति तथा च, मानसिकशान्तिः अस्मदीयं स्थायि-मित्रं सम्पद्यते | भर्तृहरिः कथयति यत् नियमित-योगाचरणेन सत्यमस्माकं सन्ततिः, दया अस्मदीया भगिनी, आत्मसंयमः अस्माकं भ्राता, स्वयं धरणी चास्माकं शय्या, ज्ञानञ्च अस्मदीयं क्षुधा-तृप्तिकरं भोजनं भवति | यदा एते सर्वे गुणाः कस्यचन सखायो भवेयुश्चेत् योगी सर्व-वधं भयं विजयते |पुनरेकवारं सर्वान् अपि देशवासिनो विनिवेदयामि यत्ते योगस्य स्वीयं रिक्थम् अग्रेसारयेयुः तथा च, स्वस्थस्य, प्रसन्नस्य, सद्भावपूर्णस्य च राष्ट्रस्य निर्माणं कुर्युः |
मम प्रियाः देशवासिनः! अद्य मई-मासस्य सप्तविंशो दिवसोsस्ति | अद्य भारतस्य प्रथम-प्रधानमन्त्रिणः पण्डित-जवाहरलाल-नेहरु-वर्यस्य पुण्यतिथिरस्ति | अहं पण्डित-वर्यं प्रणमामि | अस्य मई-मासस्य स्मृतिः अपरेण एकेन वृत्तेनापि संयुक्तास्ति, तदस्ति वीर-सावरकरस्य स्मरणम् | अष्टादश-शताब्दे सप्त-पञ्चाशत्तमे वर्षे अयमेव मई-मासः आसीत्, यदा भारतवासिनः आङ्ग्लान् विरुध्य स्वीयां शक्तिं प्रदर्शितवन्तः | देशस्य अनेकेषु भागेषु अस्मदीयाः युवानः कृषकाश्च निज-शौर्यं प्रदर्शयन्तः अन्यायं विरुध्य उत्तिष्ठितवन्तः | अयं वीर-सावरकरः एवासीत्, यो हि निर्भयम् अलिखत् यत् अष्टादश-शताब्दे सप्त-पञ्चाशत्तमे वर्षे यत्किमपि घटितं सः कथमपि विद्रोहो नासीत् अपि तु, स्वतन्त्रतायाः प्रप्रथमं युद्धमासीत् | सावरकर-वर्येण साकं लण्डनस्थितस्य India House-इत्यस्य वीराः अस्य संग्रामस्य पञ्चाशत्तमां वर्ष-पूर्तिं सोल्लासं सोत्साहञ्च आयोजितवन्तः | अयमपि अद्भुत-संयोगः एव, यदस्मिन् मासे स्वाधीनतायाः प्रथमः स्वतन्त्रः संग्रामः आरभत, तस्मिन्नेव मासे वीर-सावरकर-वर्यस्य जन्म अभवत् | सावरकर-वर्यस्य व्यक्तित्वं हि विशेषता-सम्भरितमासीत्; असौ शस्त्रस्य शास्त्रस्य च उपासकः आसीत् | सामान्यतया वयं वीर-सावरकर-वर्यं तस्य साहसार्थं आङ्ग्ल-शासन-विरोधि-संघर्षार्थञ्च जानीमः परञ्च एतदतिरिच्य सः अनन्यः ओजस्वी कविः समाज-परिष्कारकोsपि आसीत्, यो हि सदा सद्भावनाम् एकताञ्च प्रतिष्ठापयितुं प्रायतत | सावरकर-वर्यस्य विषये एकम् अद्भुत-वर्णनम् अस्माकम् आदरणीयेन अटल-बिहारि-वाजपेयिना कृतमस्ति | अटल-महोदयः अकथयत् – सावरकरोsर्थात् तेजः, सावरकरोsर्थात् त्यागः, सावरकरोsर्थात् तपः, सावरकरोsर्थात् तत्वम्, सावरकरोsर्थात् तर्कः, सावरकरोsर्थात् तारुण्यम्, सावरकरोsर्थात् शरः, सावरकरोsर्थात् खड्गः | कियत् समुचितमिदं चित्रणमकरोत् अटल-बिहारि-वाजपेयि-महोदयः | सावरकर-वर्यः कवितां क्रान्तिञ्च सहैव स्वीकृतवान् | सम्वेदनशील-कविः सन् युगपदेव असौ साहसिकः क्रान्तिकारी अप्यासीत् |
मम प्रियाः भ्रातरो भगिन्यश्च! अहं दृश्य-वाहिन्याम् एकां कथाम् अवलोकयन्नासम् | राजस्थाने सीकरस्य लघु-वसतीनां निर्धन-पुत्रिकाणाम् एषा कथासीत् | अस्मदीयाः एताः दुहितरः, याः कदाचित् अवकर-चयनार्थं प्रतिगृहं भिक्षाटनार्थञ्च विवशाः आसन् – साम्प्रतमेताः सीवनम् अभ्यस्य निर्धनानां देहावरणार्थं वस्त्राणि सीव्यन्ति | अत्रत्याः एताः पुत्रिकाः, साम्प्रतं नैजानि निज-कौटुम्बिकानि च वस्त्राणि अतिरिच्य, सामान्यानि विशिष्टानि च वस्त्राणि अपि सीव्यन्ति | एताः अमुना कार्येण सहैव कौशल-विकासस्य प्रशिक्षणमपि अवाप्नुवन्ति | अस्मदीयाः इमाः दुहितरः अद्य आत्मनिर्भराः सम्वृत्ताः, ससम्मानं निज-जीवनं यापयन्ति, अपि च, स्व-स्व-कुटुम्बार्थं शक्तिरूपेण प्रतिष्ठिताः सन्ति | आशा-विश्वासभ्यां सम्भरितानाम् एतासाम् अस्मदीय-पुत्रिकाणाम् उज्ज्वल-भविष्यत्कृते शुभकामनाः व्याहरामि | एताः सुसिद्धं कृत्वा प्रदर्शितवत्यः यत् किञ्चित्करणार्थं यदि समुत्साहः दृढ-सङ्कल्पः भावश्चास्ति चेत् सत्स्वपि विविधेषु विघ्नेषु सफलता-प्राप्तिः नूनं शक्यास्ति, तथा च, नैषा केवलं सीकरस्य कथास्ति, हिन्दुस्थानस्य प्रत्येकमपि कोणे भवन्तः एतत्सर्वम् अवलोकयितुमर्हन्ति | भवतः परितः, पार्श्ववर्तिषु च स्थलेषु यदि पश्यन्ति चेत् जनाः केन प्रकारेण काठिन्यानि पराभावयन्ति इति दृष्टि-गोचरं भविष्यति |
भवन्तः अनुभूतवन्तः स्युः यत् चाय-पानार्थं कदाचित् वयं चायापणं गच्छामः, तत्र चाय-पानानन्देन साकमेव कैश्चित् जनैः सह चर्चा-विचार-विमर्शादिकमपि भवति | एतत्सर्वं कदाचित् राजनीतिकमपि, सामाजिकं वा, चलचित्र-विषयकञ्च, क्रीडा-क्रीडक-सम्बद्धम् आहोस्वित्, देशस्य विविध-समस्या-विषयकमपि भवति – परञ्चैतत्सर्वं चर्चामात्रमेव भवति, तथापि केचन जनाः तादृशाः सन्ति, ये निज-कार्यैः, निज-श्रमोत्साहाभ्यां च परिवर्तन-दिशि अग्रेसरन्ति, विचारितं परिचर्चितं च सर्वं क्रियया अन्वेतुं परिनिष्ठित-भावेन प्रयतन्ते | अन्येषां स्वप्नान् आत्मसात्-कृत्वा तान् पूर्णयितुं च निजोत्सर्गं क्रियमाणानां केषाञ्चन तादृशी एव कथा उड़ीसा-राज्ये कटक-नगरे कुटीर-वसतौ निवसतः डी.प्रकाश-रावस्य अस्ति | गतदिने एवाहं डी.प्रकाश-रावेण मेलन-सौभाग्यम् अलभम् | श्रीमान् डी.प्रकाश-रावः विगतेभ्यः पञ्चभ्यः दशकेभ्यः नगरे चाय-विक्रयं करोति | भवन्तः इदं विज्ञाय आश्चर्यम् अनुभविष्यन्ति यत् सामान्यः कश्चन चाय-विक्रेता, सप्तत्यधिक-बालानां जीवनानि शिक्षया प्रकाशयति | असौ मलिन-वसति-वास्तव्यानां बालानां कृते ‘आशा-आश्वासन’- नाम्ना विद्यालयमेकम् उदघाटयत् | एतदर्थं चाय-विक्रेतायं निज-धनागमस्य प्रतिशतं पन्चाशन्मितं भागं व्ययीकरोति | असौ विद्यालयम् आगम्यमानस्य प्रत्येकमपि बालकस्य कृते शिक्षा-स्वास्थ्य-भोजनानां पूर्णां व्यवस्थां करोति | डी.प्रकाश-रावस्य कठोर-श्रमस्य, समर्पित-निष्ठायाश्च कृते निर्धन-बालानाञ्च जीवन-समुन्नयनाय भूरि भूरि वर्धापनानि वदामि | ‘तमसो मा ज्योतिर्गमय’- इति वेद-वाक्यं हि को नाम न जानाति परञ्च डी.प्रकाश-रावः वेद-वाक्यमिदं जीवित्वा एतेषां निर्धन-बालानां तमोमयं जीवनं ज्योतिर्मयम् अकरोत् | एतस्य जीवनमस्मभ्यः सर्वेभ्यः, समाजस्य समग्र-देशस्य च कृते प्रेरणाप्रदं वर्तते | भवतां परिपार्श्व-वर्तिषु स्थलेष्वपि, एतादृश्यः प्रेरक-घटना-शृङ्खलाः सम्भवेयुः | अगणिताः घटनाश्च स्युः | आगच्छन्तु ! वयं सकारात्मिकताम् अग्रेसारयेम |
जून-मासे निदाघः तावान् उग्रो भवति यज्जनाः वर्षाम् आतुरतया प्रतीक्षन्ते, तथा च, आशान्विताः सन्तः नभसि मेघान् निर्निमेष-दृशा अवलोकयन्ति | इतः परं कतिपय-दिनानन्तरं जनाः चन्द्रमसमपि प्रतीक्षिष्यन्ते | चन्द्रमसो दर्शनमर्थात् ईद्-पर्वणः आयोजनं शक्यं भविता | रमज़ान-मासावधौ मासात्मकस्य उपवासस्य अनन्तरम् ईद्-पर्व समुत्सवारम्भस्य प्रतीकत्वेन वर्तते | दृढं विश्वसिमि यत् सर्वेsपि ईद्-पर्व सोत्साहमायोजयिष्यन्ति | अवसरेsस्मिन् बालाः विशेषेण ईदीति विशिष्टोपहारमपि लभन्ते | आशासे यत् ईद्-समुत्सवः अस्माकं समाजे सद्भाव-बन्धनं दृढतरं विधास्यति | सर्वेभ्यो भूरिशो मङ्गल-कामनाः विलसन्तुतराम् |
मम प्रियाः देशवासिनः! भवतां सर्वेषां कृते कोटिशो धन्यवादाः | पुनरेकवारम् आगामिनि मासे ‘मन की बात’-प्रसारणावसरे मेलिष्यामः |
नमस्कारः !
*****
—– भाषान्तर-कर्ता – डॉ.बलदेवानन्द-सागरः
दूरभाषः – ९८१० ५६२२ ७७
ईमेलः – baldevanand.sagar@gmail.com
मनोगतम् – ४२ ‘मन की बात’ (42वीं कड़ी) प्रसारण तिथि: 25.03.2018
[“मन की बात”- “मनोगतम्” – इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
– भाषान्तर-कर्ता – बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः! नमस्कारः |
अद्य रामनवमी – इति पावनं पर्व वर्तते | रामनवम्याः पवित्र-पर्वणि देशवासिनां कृते मम अनेकाः शुभकामनाः | पूज्य-बापू-वर्यस्य जीवने ‘राम-नाम्नः’ शक्तिः कियती आसीद्- इति तस्य जीवने प्रतिपलं सुसिद्धम् | विगतेषु दिनेषु जान्युआरि-मासे षड्-विंशे दिनाङ्के यदा [ASIAN]आसियान-देशानां सर्वे प्रतिनिधि-महानुभावाः अत्र आसन्, तदा स्वीयानि सांस्कृतिक-वृन्दानि सहैव आनीतवन्तः तथा च विषयोsयम् अतितरां गौरवास्पदं यत् तेषु अधिसंख्यं देशाः रामायणमेव अस्माकं समक्षं प्रस्तुवन्ति स्म | अर्थात् रामः रामायणञ्च, न केवलं भारते अपितु विश्वस्य अस्मिन् भूभागे ASIAN-देशेषु च, अद्यापि तावतीमेव प्रेरणां तावन्तमेव च प्रभावमुत्पादयतः | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः रामनवम्याः शुभकामनाः व्याहरामि |
मम प्रियाः देशवासिनः ! प्रति-वारमिव साम्प्रतमपि अहं भवतां सर्वेषां बहूनि पत्राणि, email-सन्देशान्, phone-call-इति दूरभाषाकारणाः, विविधाश्च टिप्पणीः प्राप्तवान्|
कोमल-ठक्कर-जी ! MyGov-इत्यत्र संस्कृतस्य on-line courses-इति सद्यस्कः पाठानाम् आरम्भार्थं भवतः निवेदनम् अहं पठितवान् | भवान् IT professional – इति सूचना-प्रविधि-व्यवसायी, युगपदेव, संस्कृतं प्रति भवतः प्रेमाणं दृष्ट्वा मोमुद्यते मम मानसम् | अस्यां दिशि विधीयमानानां प्रयासानां विषये भवन्तं सूचयितुम् अहं सम्बद्ध-विभागं निरदिशम् | ‘मन की बात’- प्रसारणस्य श्रोतारः ये संस्कृत-विषये कार्यरताः सन्ति, तान् अपि अनुरुन्धे यत् तेsपि विषयमेनं परिशीलयन्तु परामर्शयन्तु च यत् केन प्रकारेण कोमल-ठक्कर-महोदयस्य परामर्शस्य कार्यान्वयनं भवेदिति|
बिहार-राज्यस्य नालन्दा-जनपदस्य बराकर-ग्रामतः श्रीमान् घनश्याम-कुमारः Narendra- ModiApp- इत्यत्र निज-विचारान् अलिखत्, तान् अहम् अपठम्| भूम्यन्तः अपचीयमानं जल-स्तरम् अधिकृत्य भवता या चिन्ता प्रकटिता, सा निश्चित-रूपेण अतितरां महत्वपूर्णास्ति |
कर्नाटकतः श्रीमान् शकल-शास्त्री-जी, भवान् शब्दानां सुतरां सुन्दर-सामञ्जस्येन अलिखत् यत् ‘आयुष्मत् भारतम्’ तदैव भविष्यति यदा ‘आयुष्मती भूमिः’ भविता, तथा च, ‘आयुष्मती भूमिः’ तदैव भविता यदा वयं भूमौ निवसतां प्रत्येकमपि प्राणिनां विषये चिन्तयिष्यामः| ग्रीष्मर्तौ पशु-पक्षिणां कृते जल-पात्राणि स्थापयितुमपि भवान् सर्वान् साग्रहं निवेदितवान् | शकल-महोदय ! भवतः एताः भावनाः सर्वेभ्यः श्रोतृभ्यः ज्ञापितवान्|
श्रीमान् योगेश-भद्रेश-जी, भवतः आग्रहः अस्ति यद् अस्मिन् क्रमे अहं यूनां स्वास्थ्य-विषये तैः सम्भाषणं कुर्याम् | सः आमिनोति यत् एशिया-राष्ट्रैः साकं तुलनां करवाम चेत्, अस्मदीयाः युवानः शारीरिक-दृशा दुर्बलाः सन्ति | योगेश-जी ! विचारयामि यत् साम्प्रतं स्वास्थ्य-विषयम् अधिकृत्य विस्तरेण सर्वैः सम्भाषेय – Fit India-विषये च संवदेयम् | तथा च, भवन्तः सर्वे नव-युवानः सम्भूय Fit India- इति अभियानमपि प्रचालयितुं शक्नुवन्ति|
विगतेषु दिनेषु France-राष्ट्रपतिः काशी-यात्राम् अकरोत् | वाराणस्याः श्रीमान् प्रशान्तकुमार-मिश्रः अलिखत् यत् तस्याः यात्रायाः सर्वाण्यपि दृश्यानि, मनोहराणि प्रभावकराणि चासन् | तथा चासौ, तानि सर्वाणि चित्राणि, दृश्य-मुद्रिकाश्च, social media- इति सामाजिक-सञ्चार-माध्यमेषु प्रचारयितुं साग्रहं न्यवेदयत् | प्रशान्त-जी ! भारत-प्रशासनं तानि चित्राणि तस्मिन्नेव दिने सामाजिक-सञ्चार-माध्यमेषु NarendraModiApp-इत्यत्र च सम्विभाजितवत् | इतः परं भवान् like-re-twit – इति प्ररोचनं पुनःस्फुरणं च करोतु, निज-मित्रेभ्यः अपि प्रेषयतु |
Chennai-तः अनघा, जयेशः अपरे च बालाः Exam Warrior- इति पुस्तकस्य पृष्ठ-भागे मुद्रितानि gratitude cards-इति कृतज्ञता-पत्राणि आलक्ष्य स्वीयान् हार्दिकान् विचारान् लिखित्वा मह्यमेव प्रेषितवन्तः | अनघे! जयेश! अहं भवतः सर्वान् बालान् ज्ञापयितुं वाञ्छामि यत् एतेषां भवत्-पत्राणां कारणात् मदीया दिन-व्यापिनी श्रम-क्लान्तिः झटिति व्यपगच्छति | एतावन्ति पत्राणि, एतावत्यः दूरभाषाकारणाः, भूयस्यः टिप्पण्यः चैतासु यत्किमपि पठितवान्, यत्किमपि श्रोतुम् अपारयम्, अत्र चानेके बिन्दवः मम हृदय-स्पर्शिनः वर्तन्ते – तेषु केवलं कान्श्चन अन्यतमान् बिन्दून् आलक्ष्य एव वदानि चेत् तथापि, स्यात् अनेक-मास-पर्यन्तं मया सततं किञ्चित् किञ्चित् कथनीयमेव भविष्यति|
अद्यतन-क्रमे पत्राणाम् अधिसंख्यं बालानामेव वर्तते ये हि परीक्षा-विषये अलिखन्| ते च अवकाश-दिनानां स्वीय-कार्यक्रमान् सम्विभाजितवन्तः| ग्रीष्मर्तौ पशु-पक्षिणां पेय-जल-विषयिणीं चिन्तां प्रकटितवन्तः| कृषक-मेलकानि कृषिञ्च आधृत्य यानि कार्याणि अशेष-देशे प्रवर्तन्ते, कृषक-भगिनी-भ्रातॄणां पत्राणि प्राप्तानि| जल-संरक्षण-विषयकाः केचन परामर्शाः सक्रिय-नागरिकैः प्रेषिताः सन्ति | यदा प्रभृति वयं मिथः ‘मन की बात’-प्रसारणस्य माध्यमेन सम्भाषणं कुर्मः, तदा प्रभृति निदर्शमेकम् अहम् अवालोकयं यत् ग्रीष्मर्तौ प्रायेण पत्राणि, ग्रीष्म-विषय-सम्बद्धानि भवन्ति| परीक्षातः पूर्वं विद्यार्थि-मित्राणां चिन्ता-सम्भरितानि एतानि पत्राणि भवन्ति | festival season- इति पर्वर्तौ अस्माकं पर्वाणि, समुत्सवान्, अस्मदीयां संस्कृतिं, अस्माकीनाः परम्पराश्च अभिलक्ष्य तद्-विषयकाणि इमानि पत्राणि समायान्ति| अर्थात् मनोगतानि ऋतुना साकमपि परिवर्तन्ते तथा च, स्यात् इदमपि सत्यं यत् अस्मदीयानि मनोगतानि, कदाचित् कस्यचित् जीवने ऋतुमपि परिवर्तयन्ति | अपि च, कथन्न एवं भवेत् ? भवन्-मनोगतेषु, एतेषु भवदनुभवेषु, एषु भवदुदाहरणेषु, एतावती प्रेरणा, तावती ऊर्जा, एतावत्प्रकारकम् आत्मीयत्वञ्च, राष्ट्रस्य कृते किमपि नूनं रचनात्मकं करणीयमिति भावो भवति, भाव-सम्भृतानि एतानि मनोगतानि भवन्ति| एतानि तु अशेष-राष्ट्रस्यापि ऋतुं परिवर्तयितुं प्रभवन्ति| यदा अहं भवत्-पत्राणि पठित्वा जानामि यत् केन प्रकारेण असम-राज्यस्य करीमगंजस्य रिक्शा-चालकः अहमद-अली स्वीयेन इच्छाशक्ति-बलेन नव-संख्याकान् विद्यालयान् निर्मितवान् – तदा अस्य देशस्य अदम्यायाः इच्छाशक्तेः दर्शनं भवति| यदाहं कानपुरस्य डॉक्टर-अजीत-मोहन-चौधुरिणः कथाम् अशृणवम् यत् सः footpath-इति पाद-मार्गेषु गत्वा निर्धनानां निःशुल्कम् उपचारं करोति, निःशुल्कञ्च औषधिमपि ददाति – तदा अस्य देशस्य बन्धु-भावम् अनुभवितुं अवसरो लभ्यते | त्रयोदश-वर्ष-पूर्वं, काले समुपचारः नैव लब्धः, एतस्मात् कारणात् Kolkata-नगरस्य भाटक-यान—चालकस्य सैदुल-लस्करस्य (Saidul Laskar) भगिनी मृता – सः चिकित्सालयस्य निर्माणार्थं दृढतया संकल्पितवान् येन न कश्चन निर्धनः उपचारस्य अभाव-कारणात् म्रियेत| सैदुलः स्वीय-संकल्प-पूर्त्यर्थं गृहस्य आभूषणानि विक्रीतवान्, दान-माध्यमेन धनं संगृहीतवान्| तस्य Cab-इति भाटकित-कार-यानेन यात्रा-कर्तारः अनेके यात्रिणः उदारतया दानम् अकुर्वन् | एका अभियन्त्री पुत्री तु स्वीय-प्रथम-वेतनस्य समग्रामपि राशिं प्रादात् | एवं रीत्या धन-संग्रहं कृत्वा द्वादश-वर्षाणाम् अनन्तरम्, अन्ततोगत्वा सैदुल-लस्करः यं भागीरथं प्रयासमकरोत्, सः साकारीभूतः तथा च, साम्प्रतं तस्य कठोर-परिश्रम-कारणात्, तत्-संकल्प-बलेन कोलकाता-पार्श्वे पुनरी-(punri)-ग्रामे प्रायेण त्रिंशत्-शायिकानां क्षमतायुतः चिकित्सालयः निर्मितो जातः | एषा अस्ति New India – इति नूतन-भारतस्य शक्तिः ! यदा उत्तरप्रदेशस्य काचित् महिला अनेकेषु संघर्षेषु सत्सु सपाद-शतं शौचालयान् विनिर्माति तथा च, निजाधिकार-प्राप्त्यर्थं महिलाश्च प्रेरयति – तदा नूनं मातृ-शक्तेः दर्शनं भवति| एतादृशाः अनेके प्रेरणा-पुलकाः मम देशस्य अभिज्ञानं कारयन्ति | अद्यत्वे कृत्स्नेsपि जगति भारतं प्रति मन्तव्य-संधारणस्य दृष्टिः परिवर्तितास्ति | साम्प्रतं यदा, भारतस्य नाम सुबहु सम्मान-पुरस्सरं आधीयते, तदा एतत्-पृष्ठ-भूमौ मातुः भारत्याः एतेषां पुत्री-पुत्राणां परमो हि पुरुषार्थः गुप्तः सन् विराजते| अधुना सम्पूर्णेsपि देशे, युव-जनेषु, महिलासु, पश्चवर्तिषु, निर्धनेषु, मध्यम-वर्गीयेषु, प्रतिवर्गीयेषु च जनेषु विश्वासोsयं जागृतः यत् नूनं ! वयम् अग्रे गन्तुं शक्नुमः, अस्मदीयोsयं देशः अग्रेसर्तुं पारयति| आशाभिलाष-सम्भरितस्य आत्मविश्वासस्य सकारात्मकः परिवेशो विवर्धितोsस्ति| अयमेव आत्मविश्वासः, इयमेव च रचनात्मिका प्रवृत्तिः नूतन-भारतस्य अस्मदीयं संकल्पं साकारीकरिष्यति, स्वप्नञ्च सुसिद्धं विधास्यति |
मम प्रियाः देशवासिनः, भाविनः केचन मासाः कृषक-भगिनी-भ्रातॄणां कृते अतितरां महत्वाधायिनः सन्ति | अत एव अनेकानि पत्राणि, कृषि-विषयकाणि मया प्राप्तानि| अस्मिन् समये अहं दूरदर्शनस्य DD Kisan Channel- इत्यत्र कृषकैः साकं याः चर्चाः विधीयन्ते, तासां दृश्याङ्कन-मुद्रिकाः अपि आहृत्य अवालोकयम् तथा चानुभवामि यत् प्रत्येकमपि कृषकः दूरदर्शनस्य DD Kisan Channel-इति वाहिकया नूनं सम्पृक्तः स्यात्, सः नूनमेनां पश्येत् तथा च, एतान् प्रयोगान् निज-क्षेत्रेषु क्रियान्वितान् विदध्यात्| महात्म-गान्धितः आरभ्य भवतु नाम श्रीलाल-बहादुर-शास्त्री, लोहिया-महोदयः वा चौधरी-चरण-सिंहो भवतु वा चौधरी- देवीलालः – सर्वेsपि कृषिं कृषकान् च देशस्य अर्थव्यवस्थायाः जन-जीवनस्य च अनन्यतम-महत्वपूर्णाङ्गत्वेन स्वीकृतवन्तः| मृत्तिका, क्षेत्राणि यवखलाः कृषकाः चैतैः साकं महात्म-गान्धिनः कियती प्रसक्तिः आसीत् – तद्-विषयकाः भावाः तस्य अस्यां पंक्तौ प्रतिबिम्बायन्ते – ‘To forget how to dig the earth and to tend the soil – is to forget ourselves.’
अर्थात्, धरण्याः खननं मृत्तिकायाः च परिरक्षणं यदि वयं विस्मरामः चेत्, इदन्तु आत्म-विस्मरण-तुल्यं भविता| एवमेव, श्रीलाल-बहादुर-शास्त्री पादप-वृक्ष-वनस्पतीनां संरक्षणस्य समीचीन- कृष्याधार-स्वरूपस्य चावश्यकतां सर्वदैव सबलं ख्यापयन् आसीत्| डॉ० राममनोहर-लोहिया अस्मदीय-कृषकाणां कृते समीचीनम् आयं, भद्रतराणि सेचन-सौविध्यानि च सुनिश्चेतुं खाद्यानि दुग्धोत्पादनानि च विवर्धयितुं व्यापिन्याः जन-जागृतेः आवश्यकताः व्याहरत् | विगते शताब्दे ऊनाशीति-तमे वर्षे व्याहृतेsभिभाषणे चौधरी-चरण-सिंहः नूतनं प्रविधिं प्रयोक्तुं, अभिनवाचारान् अङ्गीकर्तुं च तद्विषयकावश्यकतायै कृषकान् साग्रहं अध्यार्थयत्| नातिचिरम् अहं दिल्ल्याम् आयोजितं कृष्युन्नति-मेलकम् अवलोकयितुमगच्छम्| तत्र कृषक-भगिनी-भ्रातृभिः वैज्ञानिकैश्च साकं मम संवादः, कृषि-विषयकाणाम् अनेक-विधानुभवानाम् अवगमनम्, कृषि-सम्बद्धानां नवाचाराणां बोधः – एतत् सर्वं मम सुखदानुभवत्वेन आसीदेव, परञ्च मां सर्वाधिकन्तु प्राभावयत् मेघालयस्य तत्रत्यानां च कृषकाणां परिश्रमः| अल्प-क्षेत्रफल-युतम् एतत् राज्यं बृहत्-कार्यप्रदर्शनम् अकरोत्| मेघालयस्य अस्मदीयाः कृषकाः विगत-वित्त-वर्ष-द्वयावधौ, प्राक्तन-वर्ष-पञ्चकस्य तुलनायां शस्योत्पादनस्य आभिलेख्यं प्रमाणितवन्तः| तैः इदं प्रदर्शितं यत् लक्ष्यं यदा सुनिर्धारितं भवति, समुत्साहः प्रोन्नतः अस्ति, मनसि च संकल्प-शक्तिः प्रवर्तते चेत्, तत् सिद्धं विधातुं शक्यते, एवं कृत्वा प्रदर्शयितुं पार्यते|
साम्प्रतं कृषकाणां श्रमः प्रविधेः साहचर्यमवाप्नोति, एवं हि, कृष्युत्पादकाः पर्याप्तं बलमवाप्नुवन्| विगते मासे एकस्मिन् कार्यक्रमे अहं Organic Products – इति जैवोत्पादानां कृते E-Marketing portal – इति अन्तर्जाल-विपणन-द्वारकस्य, एकस्याः website- इति जाल-दृश्य-वाहिकायाः प्रवर्तनावश्यकतां ख्यापितवान्, येन Organic Products-इति जैवोत्पादान् क्षेत्रतः विपणीं यावत् तथा च, विपणीतः सामान्य-जन-पर्यन्तं सरलतया प्रापयितुं शक्येत | प्रसन्नोsस्मि यत् मासावधौ एव, एतत् portal-इत्यन्तर्जाल-द्वारकम् आरब्धम्| दृढेच्छा-शक्त्या साकमेव निर्धारित-काले एतत् प्रवर्तितम् येन हि, समधिकाः कृषकाः अमुना संयुताः भवेयुः, एतस्मात्ते लाभान्विताः भवेयुः, ते च त्वरित-गत्या विकास-मार्गोपरि अग्रेसरेयुः | मया यानि पत्राणि अधिगतानि, तत्राहम् पश्यन्नासं यत् कृषकाणामधिसंख्यं MSP-इति न्यूनतम-समर्थन-मूल्य-विषये अलिखत् तथा च ते समीहन्ते यदहं तैः सार्धं विस्तरेण सम्भाषणं कुर्याम्|
भ्रातरः भगिन्यश्च, ऐषमः महाय-व्यय-पत्रके कृषकेभ्यः शस्य-पाकानां समीचीन-मूल्यानि प्रदापयितुं महान् निर्णयः विहितः| एतद्धि निर्णीतं यत् अधिसूचितानां शस्य-पाकानां कृते MSP-इति न्यूनतम-समर्थन-मूल्यं, तद्विनिवेशित-मूल्यस्य प्रायेण न्यूनान्न्यूनं सार्धैक-गुणितं घोषयिष्यते | यदि विस्तरेण सूचयेयं चेत् न्यूनतम-समर्थन-मूल्यस्य कृते यः विनिवेश्यः व्ययः संयोजयिष्यते तस्मिन् अपरेषां परिश्रम-निरतानां श्रमिकाणां पारिश्रमिकः, निज-पशूनां वा यन्त्राणां आहोस्वित्, भाटकितानां पशूनां यन्त्राणाञ्च व्ययः, उर्वरक-मूल्यम्, बीज-मूल्यम्, उपयुक्तस्य सर्व-प्रकारकस्य उर्वरकस्य मूल्यम्, सेचन-व्ययः, राज्य-सर्वकाराय प्रदत्तः भू-राजस्वः, मूलधनोपरि प्रदीयमानं कुसीदं, यदि भूमिखण्डं भाटकितमस्ति चेत्, तस्य भाटकम्, तथा च एतावदेव नैव, कृषकः यः स्वयं श्राम्यति वा तस्य कश्चन कौटुम्बिक-जनः कृषि-कार्येषु श्रमस्य योगदानं करोति चेत्, तस्य मूल्यमपि उत्पादन-व्यये संयोजनीयं भविष्यति | एतदतिरिच्य, कृषकाः निज-शस्यपाकानां समुचितं मूल्यमवाप्नुयुः इति कृत्वा देशे Agriculture Marketing Reform – इति कृषि-विपणन-परिष्काराः अपि अतितरां व्यापक-स्तरेण विधीयन्ते| ग्रामस्य स्थानिकाभिः विपणीभिः, Wholesale Market- इति समग्र-विपणीभिः, अन्ते च Global Market- इति विश्व-विपणीभिः साकम् एते संयोजिताः भवेयुः – एतदर्थमपि प्रयत्यते | कृषकैः स्वीयोत्पादानां विक्रयणार्थं बहुदूरं नैव गमनीयं स्यादिति कृत्वा देशे द्वाविंशति-सहस्रं ग्रामीण-हट्टाः आवश्यकाधार-स्वरूपेण समुन्नीताः सन्तः APMC – [Agricultural produce market committee] e-NAM platform- इत्याभ्यां साकमेव संयोजयिष्यन्ते| अर्थात् क्षेत्रतः देशस्य कयाचिदपि विपण्या साकं संयोजनम् – इत्येतादृशं व्यवस्थाप्यते | साम्प्रतं कृषकाणाम् अनेकविधानि तादृन्शि वृत्तानि श्रूयन्ते यत्तैः Soil Health Card-इति भू-निरामय-पत्रानुसारेण अधिगतायाः निज-भूमि-सूचनायाः अनुसारेण शस्य-परिवर्तनं कृत्वा समुचित-मात्रया उर्वरकं कीटनाशकञ्च उपयुज्य कृषिः कृता | एवं हि उत्पादनन्तु एधितमेव, युगपदेव व्ययोsपि अपचितः, विनिवेश-शुल्कमपि न्यूनीभूतम्| साम्प्रतं शस्यागोपस्य अन्तर्गतं सम्प्राप्या Claim-इत्यधिकृत-राशिः द्विगुणिताधिका जाता, येन कृषकाः विगत-चिन्ताः सन्तः कृषि-कार्याणि कुर्युः| कौशेयोद्योगं द्रढयितुं आगामि-वर्ष-त्रये द्वि-सहस्र-कोटि-रूप्यकतोsपि अधिकः व्ययो विधास्यते| कौशेयोद्योगे अनुसन्धानस्य प्रविधेश्च प्रयोगं संवर्धयितुं सविशेषं प्रयतिष्यते| देशे कृमि-कोष-केन्द्राणां संख्या द्विगुणितोsपि अधिकां विधातुं प्रस्तूयते| कृषकाः कृषि-कार्यस्य आरम्भात् अन्त-पर्यन्तं कथङ्कारमपि काठिन्यं नैवानुभवेयुः इति कृत्वा पूर्णमपि अवधानम् अस्यां दिशि प्रदीयते| तानि भवन्तु नाम आधुनिक-बीजानि वा विद्युत्-सौविध्यानि, तद् भवतु नाम उत्पाद-संरक्षणं वा तस्य विपणीं यावत् सन्नयनम् – प्रत्येकमपि पक्षं विशेषावधान-पुरस्सरम् अनारतं परिष्कर्तुं सततं प्रयत्यते|
मम प्रियाः देशवासिनः, सद्यः कृषक-विषयकस्य संवादस्य अवसरे अहं चम्पारण-स्मृतिम् अनुभवामि| को नाम चम्पारण-भूमिं विस्मर्तुम् अर्हति? परम-पूज्यः बापू-चरणः देशं स्वतन्त्रं कर्तुं शत-वर्ष-पूर्वम् अस्मादेव भूभागात् सत्याग्रहान्दोलनम् आरभत| यथा बापू-चरणः चम्पारण-भूमितः देशं स्वतन्त्रयितुं संकल्पितवान्, तद्वदेव ‘स्वच्छ-भारता’भियानस्य अन्तर्गतं वयं सर्वे देशम् अस्वच्छतातः मोचयितुं संकल्पितवन्तः| तस्याभियानस्य नाम आसीत् ‘सत्याग्रहः’, तथा चाद्य यदभियानं वयं प्रवर्तितवन्तः, सः अस्ति- ‘स्वच्छाग्रहः’ | स्वाधीनतायाः प्राप्तेः अनन्तरं शास्त्री-जी ‘जय जवान – जय किसान’- इति समाघोषम् उद्घोषितवान् तथा च, देशस्य अन्न-भाण्डाराणि संभर्तुं, देशञ्च आत्मनिर्भरं विधातुम् अस्मदीयाः कृषकाः सर्वात्मना प्रायतन्त| तद्वदेव ‘स्वच्छ-भारता’भियानं द्राक् पश्यता एव जनान्दोलन-रूपम् अवाप्नोत्| महात्म-गान्धिनः स्वप्नं साकारयितुम् अस्यां दिशि महती सफलता अधिगतास्ति| अनेन एतद् सुसिद्ध्यति यत् यदा सर्वकारः समाजश्च, सम्भूय कार्यं कुरुतः, तदा सफलता सुनिश्चिता भवति| ‘सत्याग्रहान्दोलनस्य’ शताब्द-पूर्णतावसरे आगामिनि मासे दश-दिनाङ्के अहं चम्पारणस्य पावन-भूमिं गमिष्यामि यत्र एतादृशानां स्वच्छता-सैनिकानां, स्वच्छाग्रहिणां च सम्मेलनावसरो लप्स्यते यैः बापू-चरणस्य ‘स्वच्छ-भारत’-स्य स्वप्नम् अग्रेसारयितुं महत्वपूर्ण-योगदानं विहितम्| एते स्वच्छता-सैनिकाः एव अस्मदीयाः ‘स्वच्छाग्रहिणः’ सन्ति | एप्रिल-मासस्य दशम-दिनाङ्कात् प्राक्, त्रितः नवम-दिनाङ्कं यावत्, ‘सत्याग्रहतः स्वच्छाग्रहस्य’ आन्दोलनस्य अन्तर्गतम् एते स्वच्छाग्रहिणः बिहारस्य प्रति-ग्रामं गत्वा शौचालयानां निर्माणार्थम् उपयोगार्थञ्च जनान् प्रेरयिष्यन्ति|दृढं विश्वसिमि यत् अमुना प्रयासेन बिहार-राज्येन साकमेव अशेष-देशः पूर्ण-स्वच्छतायाः लक्ष्यम् अतिशीघ्रं प्राप्तुं तस्यां दिशि अग्रेसरिष्यति| स्वच्छता-सम्बद्धम् अपरमेकं रोचकं वृत्तम्| झारखण्ड-राज्यं राज-मिस्त्री-इति गृहकारकतः अग्रे भूत्वा ‘रानी-मिस्त्री-इति गृहकारिका-सम्मलेन’-स्य माध्यमेन लक्षं महिलाः शौचालय-निर्माणार्थं प्रशिक्षितवत्| एताः महिलाः प्रदर्शितवत्यः यत् नारी-शक्तिः स्वच्छ-भारताभियानस्य स्वच्छ-शक्तिः वर्तते तथा च एताः यदा, किञ्चित् निश्चय-जातं कुर्वन्ति, ततः परं लक्ष्यं कियदपि भवतु नाम कठिनतरं, तत् पूर्णं कृत्वैव विश्राम्यन्ति| एतद्देशस्य नारी-शक्तये मम भूयान्सि नमान्सि |
वर्षेsस्मिन् महात्म-गान्धिनः सार्ध-शती-[150वीं] जयन्ती-वर्षस्य महोत्सवस्य शुभारम्भः भविता | अयं हि ऐतिहासिकावसरः वर्तते| केन प्रकारेण देशेन उत्सवोsयम् आयोजनीयः? स्वच्छ-भारतेति नूनम् अस्मदीयः संकल्पः, एतदतिरिच्य, सपाद-शत-कोटि-देशवासिनः स्कन्धेन साकं स्कन्धं संयोज्य केन प्रकारेण महात्म-गान्धिने उत्तमोत्तमं श्रद्धाञ्जलिम् अर्पयितुं शक्नुवन्ति? किं नव-नवीनाः कार्यक्रमाः आयोजयितुं शक्यन्ते? किं अभिनवाः पद्धतयोsङ्गीकर्तुं पार्यते? भवतः सर्वान् साग्रहं कथयामि, MyGov-इत्यस्य माध्यमेन भवन्तः अत्र निज-विचारान् सर्वैः साकं संविभाजयन्तु| ‘गान्धि-[150]-सार्ध-शती’-इत्यस्य चिह्न-समाघोष-मन्त्र-घोषवाक्यादि-विषयकान् निज-विचारान् प्रेषयन्तु| अस्माभिः सर्वैः सम्भूय बापू-वर्याय स्मरणीयः श्रद्धाञ्जलिः प्रदेयोsस्ति, बापू-स्मृतितः प्रेरणामादाय अस्मदीयः देशोsयं सुतरां समुन्नेयो वर्तते|
#### (दूरभाषाकारणा) नमस्ते! आदरणीय- प्रधानमन्त्रि-महोदय !… अहं प्रीति-चतुर्वेदी, गुडगाँवतः ब्रवीमि … प्रधानमन्त्रि-महोदय, यथा भवता ‘स्वच्छ-भारताभियानम्’ सफलतापूर्णम् अभियानं विहितम्, कालोsयं समुपागतः यद् वयं स्वस्थ-भारताभियानमपि तथैव सफलं करवाम… एतदर्थं भवान् देशवासिनो नागरिकान्, प्रशासनानि, संस्थानानि च केन प्रकारेण सन्नद्धीकरोति, एतद्-विषये अस्मान् किञ्चित् निर्दिशन्तु… धन्यवादः …
धन्यवादः, भवती उचितम् उक्तवती | अहमामिनोमि यत् स्वच्छ-भारतं स्वस्थ-भारतञ्च मिथः पूरके स्तः| स्वास्थ्य-क्षेत्रे अद्यत्वे देशः conventional approach- इति पारम्परिकोपक्रमात् अग्रेसृतोsस्ति| देशे स्वास्थ्य-सम्बद्धं सर्वमपि कार्यजातं पूर्वं यत्र केवलं Health Ministry- इति आरोग्य-मन्त्रालयस्य दायित्वं भूयते स्म, तत्रैव साम्प्रतं, भवतु नाम स्वच्छता-मन्त्रालयो वा आयुष्-मन्त्रालयः, रसायनकोर्वरक-मन्त्रालयो वा उपभोक्तृ-मन्त्रालयः, उताहो भवतु महिला-बाल-विकास-मन्त्रालयः वा भवन्तु राज्य-प्रशासनानि – सर्वे विभागाः मन्त्रालयाश्च सम्भूय स्वस्थ-भारतार्थं कार्याणि कुर्वन्ति तथा च, preventive health- इति निवारणीय-स्वास्थ्येन सहैव affordable health- निर्वहणीय-स्वास्थ्यम् अभिलक्ष्य विशेषावधानं प्रदीयते | निवारणीय-स्वास्थ्यं सर्वापेक्षया अल्पार्घमपि वर्तते, सरलतमञ्चापि अस्ति | तथा च वयं, निवारणीय-स्वास्थ्य-समुपचर्यायै यावन्तो जागरूकाः भवेम, तावान् लाभः, व्यक्तिशः, कुटुम्बाय अपि च, समाजाय चापि भविता | जीवनं स्वस्थं स्याद् – इत्येतदर्थम् अस्ति प्रप्रथमावश्यकता – स्वच्छता | अस्माभिः सर्वैरपि समग्र-देश-रूपेण समाह्वानमिदं स्वीकृतम्, अस्य परिणामस्तु अयमेव सञ्जातः यत् प्रायेण विगते वर्ष-चतुष्के स्वच्छता-व्याप्तिः द्विगुणिता जाता, प्रायेण प्रतिशतं (80%) अशीतिमिता संवृत्ता| एतदतिरिच्य, सम्पूर्णेsपि देशे Health Wellness Centres – इति आरोग्य-सन्धारणकेन्द्राणां निर्माण-दिशि व्यापक-स्तरीयाणि कार्याणि विधीयन्ते| निवारणीय-स्वास्थ्य-समुपचर्या-रूपेण योगाभ्यासः, नूतनतया अशेष-जगति स्वीयाभिज्ञानं प्रतिष्ठापितवान् | योगाचरणं हि fitness- wellness-चेति युक्तता सुस्थितिः चेति द्वयोः कृते प्रतिभूतिं ददाति| अस्माकं सर्वेषां सामूहिक-परिनिष्ठित-प्रयास-कारणादेव अद्यत्वे योगाचरणं हि, जनान्दोलनत्वेन, जगति प्रतिगृहं सम्प्राप्तमस्ति | ऐषमः जून-मासीये एकविंश-दिने आयोज्यमानस्य अन्ताराष्ट्रिय-योग-दिवसस्य कृते प्रायेण दिनानां शतमपि नैवावशिष्यते| विगतेषु त्रिषु अन्ताराष्ट्रिय-योग-दिवसेषु देशे जगति च सर्वत्र जनाः अतितरां सोत्साहं सहभागित्वं निरवहन्| ऐषमः क्रमेsपि अस्माभिः सुनिश्चेतव्यं यत् वयं स्वयं योगाभ्यासं करवाम, तथा च मित्राणि, कुटुम्ब-जनान् सर्वान् अस्मादेव कालात् योगाभ्यासार्थं प्रेरयेम | नवीनैः रोचक-प्रकारैः योगाभ्यासं बालेषु, युव-जनेषु, वरिष्ठ-नागरिकेषु चेति प्रत्येकमपि वयोजुषां कृते लोकप्रियं करणीयम् | सामान्यतया दृश्य-माध्यमानि वैद्युदाणविक-माध्यमानि च आवर्षं योग-विषयकान् विविधान् कार्यक्रमान् प्रसारयन्ति एव, परञ्च किम् इतःपरमेव योग-दिवस-पर्यन्तम् – एकस्य अभियानस्य रूपेण योगं प्रति जागरूकतामुत्पादयितुं शक्यते?
मम प्रियाः देशवासिनः, नाहं योग-शिक्षकः |अस्तु, नूनमहं योग-प्रयोक्तास्मि, परञ्च केचन जनाः स्वीय-रचना-धर्मिता-माध्यमेन मां योग-शिक्षकत्वेन प्रतिष्ठापितवन्तः| तथा च, योगाभ्यास-निरतस्य मम 3D animated videos- इति अनुप्राणित-दृश्य-मुद्रिकाः निर्मितवन्तः | भवद्भिः सर्वैः साकमहं ताः दृश्य-मुद्रिकाः संविभाजयिष्यामि येन हि वयं सर्वे युगपदेव आसन-प्राणायामानाम् अभ्यासं कर्तुं पारयेम | साम्प्रतं अशेष-देशे त्रि-सहस्राधिकानि जनौषधि-केन्द्राणि उद्घाटितानि सन्ति यत्र अष्ट-शताधिकानि औषधानि न्यून-मूल्याधारेण उपलम्भयितुं प्रयत्यते| अपराण्यपि नूतनानि केन्द्राणि उद्घाट्यन्ते | ‘मन की बात’-प्रसारणस्य श्रोतारः साग्रहं विनिवेद्यन्ते यत् ते अपेक्षावतः जनान् नूनम् एतेषां जनौषधिकेन्द्राणां विषये सूचयन्तु| ‘आयुष्मान् भारत-योजना’न्तर्गतं प्रायेण दश-कोटि-कुटुम्बानि उपचारार्थं वर्षे पञ्च-लक्ष-रूप्यकात्मकं व्ययं, भारत-प्रशासनम् आगोप-समवायश्च सम्भूय प्रदास्यतः | समग्र-देशस्य जनाः समीचीनानि स्वास्थ्य-सौविध्यानि भद्रतरोपचारान् च अवाप्नुयुः इति संलक्ष्य विभिन्न-राज्येषु अभिनवानि AIIMS-इति अखिल-भारतीयायुर्विज्ञान-संस्थानानि उद्घाट्यन्ते| प्रति-जनपद-त्रयस्य मध्ये नवीनः चिकित्सा-महाविद्यालयः उद्घाटयिष्यते | पञ्च-विम्शत्युत्तर-दविसहस्र-तम-वर्षं यावत् देशं क्षय-रोग-मुक्तं विधातुं संलक्षितमस्ति| महनीयमिदं कार्यम् | प्रतिजनं एतद्विषयिणीं जागृतिं प्रापयितुं भवतां सर्वेषां साहाय्यम् अपेक्ष्यते| क्षय-रोगात् मुक्ति-प्राप्त्यर्थं अस्माभिः सामूहिकाः प्रयासाः अनुष्ठेयाः सन्ति | आयुर्वेदाधृतान् समुपचारान् सम्वर्धयितुम् आयुर्वेद-विज्ञान-संस्थानानि स्थाप्यन्ते|
मम प्रियाः देशवासिनः, एप्रिल-मासे चतुर्दशे दिने डॉ०बाबा-साहब-आम्बेडकरस्य जयन्ती वर्तते| भारतस्य प्राक्तनः राष्ट्रपतिः डॉ०राजेन्द्र-बाबूः यो हि सम्विधान-सभाध्यक्षः आसीत्, तेन डॉ०आम्बेडकर-विषये कथितमासीत् – “संविधान-प्रारूपण-समितेः अध्यक्षत्वेन डॉ०आम्बेडकरः अस्वस्थः सन्नपि परिनिष्ठित-भावेन सोत्साहञ्च कार्यमकरोत्, एतादृक् समर्पणं जनेषु दुर्लभमेव| नैक-वर्ष-पूर्वं डॉ० बाबासाहब-आम्बेडकरः भारतस्य औद्योगिकीकरण-विषयम् उपास्थापयत्| तस्य कृते उद्योगः तादृशं प्रभावि-माध्यमम् आसीत् यत्र निर्धन-तमो जनोsपि वृत्तितां लब्धुं पारयति | डॉ० आम्बेडकरः औद्योगिक-महाशक्ति-रूपेण भारत-विषयकं स्वप्नमवालोकयत्, तल्लक्ष्यमेव अस्माकं कृते प्रेरणाप्रदं वर्तते| साम्प्रतं भारतं वैश्विकार्थव्यवस्थायां प्रभावि-बिन्दुत्वेन समुदेति| बाबा-साहब-महोदयस्य दृढ-विश्वासः आत्मनिर्भरतायामासीत् | साम्प्रतं मुद्रा- योजना, Start Up India, Stand Up India- initiative-इत्येतादृशाः समुपायाः अस्मदीयान् युव-नवाचार-प्रवर्तकान् उद्यमिनश्च संवर्धयन्ति | अशीतेः नवाशीतेः वर्षेभ्यः प्राक् यदा भारते केवलं भूमार्ग-रेलमार्ग-विषयः एव अवधेयः आसीत्, तदा बाबासाहब-आम्बेडकरः समुद्रास्थानकानां नौकाश्रयाणां जलमार्गाणां विषयम् उपास्थापयत् |अयं डॉ० बाबा-साहबः एवासीत् यो हि जल-शक्तिं राष्ट्र-शक्तिरूपेण अभिज्ञातवान्| सम्प्रति देशे जलमार्गाणां पोतास्थानकानां च कृते ऐतिहासिकाः प्रयासाः विधीयन्ते | सम्प्रति वयं शासनस्य प्रत्येकमपि क्षेत्रे सहकारि-संघवाद-संघीय-सहकारितादीनां मन्त्रम् अङ्गी-कृतवन्तः | सर्वाधिकं महत्वाधायि त्विदमेव यत् डॉ० बाबासाहब-आम्बेडकरः पश्चवर्तिना वर्गेण संयुक्तानां मादृश-सदृशानां कोटि-कोटि-जनानां कृते प्रेरणा-स्रोतस्त्वेन विराजते | तेन अस्मभ्यमिदं प्रदर्शितं यत् समुन्नतये नैतदावश्यकं यत् कश्चन महति समृद्धे च कुले एव जायेत, परञ्च भारते निर्धन-कुटुम्बे लब्ध्वापि जनिं जनाः निज-स्वप्नानि द्रष्टुं तानि च साकारीकर्तुं सफलाश्च भवितुमर्हन्ति|
एवम्, इदमपि जातं यदा अनेके जनाः डॉ० बाबासाहब-आम्बेडकरमुपहसितवन्तः| तं पश्चवर्तिनं विधातुं प्रायतन्त |सर्व-सम्भव-प्रयासाः कृताः यत् निर्धनस्य पश्चवर्तिनः कुटुम्बस्य सुतः समुन्नतिं नैवाप्नुयात्, जीवने किञ्चिदपि उपलब्धुं नैव शक्नुयात्, परञ्च, New India-इत्यभिनव-भारतस्य रूपं सुतरां पृथगस्ति | एकं तादृशं भारतं यद्धि आम्बेडकरस्यास्ति, निर्धनानामस्ति, पश्चवर्तिनामस्ति | डॉ० आम्बेडकरस्य जयन्त्याः अवसरे एप्रिल्-मासे चतुर्दशतः मई-मासस्य पञ्चम-दिनाङ्कं यावत् ‘ग्राम-स्वराजाभियानम्’ आयोजयिष्यते | अस्यान्तर्गतं समग्रेsपि भारते ग्राम-विकासम्, निर्धन-कल्याणं सामाजिक-न्यायञ्चेति अभिलक्ष्य पृथक्-पृथक् कार्यक्रमाः आयोजयिष्यन्ते |भवतः सर्वान् साग्रहम् अनुरुन्द्धे यत् भवन्तः सोत्साहं सक्रियञ्च अभियानेsस्मिन् सहभागित्वं निर्वाहयेयुः|
मम प्रियाः देशवासिनः, आगामिषु केषुचित् दिनेषु अपरेsपि अनेके समुत्सवाः भविष्यन्ति| भगवतः महावीरस्य जयन्ती, हनुमज्जयन्ती, ईस्टर्, वैसाखी च| भगवतो महावीरस्य जयन्ती-दिनं हि तस्य तपस्या-त्यागयोः स्मृति-दिनमस्ति| अहिंसायाः सन्देशवाहकस्य भगवतो महावीरस्य जीवनं दर्शनञ्च अस्मान् सर्वान् सततं प्रेरयतः | महावीर-जयन्तीमालक्ष्य सर्वेषामपि देशवासिनां कृते शुभकामनाः वितरामि| ईस्टर-चर्चावसरे प्रभोः ईसा-मसीहस्य प्रेरणादायिनः उपदेशाः स्मर्यन्ते यो हि सर्वदा मानवतायै शान्तेः, सद्भावस्य, न्यायस्य, दयायाः करुणायाश्च सन्देशं प्रादात् |एप्रिल्-मासे पञ्जाबे पश्चिम-भारते च वैसाखी-समुत्सवः आयोजयिष्यते, तर्हि तेष्वेव दिनेषु, बिहारे जुड़शीतल-सतुवाईन चेति, असम-राज्ये बिहू, अपरतः पश्चिम-बंगाले पोइला-वैसाखस्य च हर्षोल्लासौ सततं विराजिष्येते| इमानि पर्वाणि कथं-कथमपि रीत्या अस्मदीयैः क्षेत्रैः यवखलैः अन्नदातृभिश्च सम्बद्धानि सन्ति|एतेषां पर्वणां माध्यमेन वयं शस्य-पाकोपलब्धि-रूपेण प्राप्यमाणानां बहुमूल्योपहाराणां कृते प्रकृतये धन्यवादान् अर्पयामः | एतेषां पर्वणाम् उत्सवानाञ्च नामानि भवन्तु नाम भिन्नानि परञ्च निज-समरसता-भावैः एते सदैव भारतस्य विविधतासु एकतान्वितायाः संस्कृतेः पोषणं पल्लवनञ्च कुर्वन्ति| पुनरेकवारं भवद्भ्यः सर्वेभ्यः भाविनां सर्वेषां समुत्सवानां सन्दर्भे भूरि भूरि मङ्गल-कामनाः | भूयान्सो धन्यवादाः |
*****
— भाषान्तर-कर्ता – डॉ.बलदेवानन्द-सागरः
दूरभाषः – ९८१० ५६२२ ७७
ईमेलः – baldevanand.sagar@gmail.com
‘मनोगतम्-४१’ ‘मन की बात’ (41वीं कड़ी)
प्रसारण-तिथिः – 25.02.2018…
[“मनोगतम्” – इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] – संस्कृत-भाषान्तर-कर्ता –
– डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, नमस्कारः |
अद्य प्रारम्भादेव ‘मन की बात’-प्रसारणं दूरभाषाकारणातः एव कुर्मः | (दूरभाषाकारणा )
आदरणीय ! प्रधानमन्त्रि-महोदय !! अहं कोमल-त्रिपाठी, मेरठतः वदामि… अष्टाविंशति-दिनाङ्के ‘national science day’- इति राष्ट्रिय-विज्ञान-दिनं वर्तते… भारतस्य प्रगतिः विकासश्च, पूर्ण-रूपेण विज्ञानेन सम्बद्धौ स्तः… यावन्तम् अत्र वयं नवाचारम् अनुसन्धानञ्च करिष्यामः, तावन्तमेव अग्रेसरिष्यामः तथा च समृद्धिम् अवाप्स्यामः… किं भवान् अस्मदीयान् यूनः प्रोत्साहयितुं कांश्चन तादृशान् शब्दान् कथयिष्यति येन हि ते वैज्ञानिक-पद्धत्या स्वीयां विचार-सरणीम् विवर्धयेयुः तथा चास्माकं राष्ट्रमपि अग्रेसारयितुं शक्नुयुः…धन्यवादः | भवत्याः दूरभाषाकारणायाः कृते भूरि-भूरि धन्यवादः | विज्ञानमधिकृत्य मम युव-सहचराः माम् अनेकान् प्रश्नान् अपृच्छन्, ते किमपि किमपि सततं मां लिखन्ति | वयम् अवलोकयामः यत् समुद्रस्य वर्णः नीलः दृश्यते परञ्च वयं स्वीय-दैनिक-जीवनस्य अनुभवैः जानीमः यज्जलस्य न कश्चन वर्णो भवति| किं कदाचिद् अस्माभिः विचारितं यत् नद्याः, समुद्रस्य वा जलं वार्णिकं कथं भवति ? अयमेव प्रश्नः विंशत्युत्तर-एकोनविंशति-शत-तमस्य [1920] दशके एकस्य युवकस्य मनसि समुत्पन्नः | अमुना एव प्रश्नेन आधुनिक-भारतस्य अनन्यतमः महान् वैज्ञानिकः समुत्पादितः | यदा वयं विज्ञान-विषयिणीं चर्चां कुर्मः, तदा सर्व-प्रथमं भारत-रत्नं सर्-सी.वी.रमणं स्मरामः | सः light scattering – इति प्रकाशस्य प्रकीर्णन-क्षेत्रे उत्कृष्ट-कार्यम् अकरोत्, तदर्थम् असौ नोबल-पुरस्कारेण सभाजितः| तस्य अन्यतमम् अन्वेषणं ‘Raman effect’-इति नाम्ना सुख्यात- मस्ति | वयं प्रतिवर्षं फेब्रुआरि-मासे अष्टाविंशतौ तिथौ ‘National Science Day’- राष्ट्रिय-विज्ञान-दिनम् आयोजयामः यतो हि एवं निगद्यते यत् अस्मिन्नेव दिने सः light- scattering-इति प्रकाश-प्रकीर्णन-विषयम् अन्विष्टवान्, यदर्थमसौ नोबल-पुरस्कारेण सभाजितः | देशोsयं विज्ञान-क्षेत्रे बहून् महतः वैज्ञानिकान् अजनयत् | एकतः महतां गणितज्ञ-बोधायन-भास्कर-ब्रह्मगुप्त-आर्यभट्ट-सदृशानां वैज्ञानिकानां दीर्घा परम्परा प्रावर्तत, अपरतश्च चिकित्सा-क्षेत्रे सुश्रुत-चरकौ अस्माकं गौरवास्पदं भजेते| सर्-जगदीश-चन्द्र-बोसः हरगोविन्द-खुरानातः सत्येन्द्र-नाथ-बोस-सदृशानां वैज्ञानिकानां दीर्घा पंक्तिः भारतस्य गौरवं सततं विवर्धयति| सत्येन्द्र-नाथ-बोसस्य नाम्ना तु ‘Boson’- इति ‘famous particle’- सुख्यात-कणिकायाः नामकरणमपि विहितम् | नातिचिरमहं मुम्बय्यां Wadhwani Institute for Artificial Intelligence-इति संस्थानस्य उद्घाटन-कार्यक्रमस्य सौभाग्यम् अलभम् | विज्ञान-क्षेत्रे ये चमत्काराः भूयन्ते, तेषाम् अवगमनम् अतितरां रोचकं वर्तते | Artificial Intelligence – इति कृत्रिम-प्रज्ञायाः माध्यमेन Robots, Bots- चेति कृत्रिम-मानवानां specific task- चेति विशिष्ट-कर्म-कुशलानां यन्त्राणां च निर्माणे साहाय्यम् अवाप्यते | अद्यत्वे यन्त्राणि self-learning – इति स्वतः एव स्व-प्रज्ञां दक्षतरां कुर्वन्ति | अयं प्रविधिः निर्धनानां, वञ्चितानाम् अपेक्षावताञ्च जीवनानि सरलीकर्तुं, प्रयोक्तुं शक्यते| कृत्रिम-प्रज्ञायाः तस्मिन् कार्यक्रमे अहं वैज्ञानिक-समुदायाय साग्रहं न्यवेदयं यत् दिव्याङ्गानां भगिनी-भ्रातॄणां जीवनानि सरलीकर्तुं केन प्रकारेण कृत्रिम-प्रज्ञातः साहाय्यम् अवाप्तुं शक्यते ? इति कृत्वा नूनं ते प्रयतेरन्, किं वयं कृत्रिम-प्रज्ञायाः माध्यमेन प्राकृतिक-आपदां विषयेsपि समधिकम् अनुमातुं शक्नुमः ? कृषकाणां शस्योत्पादन-विषयेsपि किञ्चित् साहाय्यं कर्तुं शक्नुमो वा ? किं कृत्रिम-प्रज्ञा स्वास्थ्य-सेवानाम् अभिगमनं सरलतरं विधातुम् आधुनिक-पद्धत्या च रोगाणाम् उपचारार्थं सहायिनी भवितुमर्हति ?
विगतेषु दिनेषु इज़राइल-प्रधानमन्त्रिणा साकमहं गुजराते, अमदाबादे ‘I Create’ – इति कार्यक्रमस्य उद्घाटनाय अवसरं लब्धवान् | तत्राहं सूचितः यत् कश्चन अन्यतमो युवा, तादृशमेकं ‘digital instrument’ – इति अङ्कीयोपकरणं विकासितवान् यस्य साहाय्येन कश्चन वक्तुम् अक्षमो जनः तस्योपकरण-माध्यमेन स्वीयं हार्दं लिखन्नेव तद् ध्वनिरूपेण परिणमते, तथा च भवान् तेन सम्भाषितुं तथैव शक्नोति यथा केनचिद् भाषण-क्षमेण साकं कर्तुं पारयति | अवगच्छामि यत् Artificial Intelligence – इति कृत्रिम-प्रज्ञां वयम् अनेकासु विधासु समुपयोक्तुं प्रभवामः |
Science and Technology – विज्ञानं प्रविधिश्च value neutral – इति मूल्य-निरपेक्षौ भवतः | अनयोः मूल्यं स्वतः नैव प्रोद्भवति| किञ्चिदपि यन्त्रं तथैव कार्याणि करिष्यति यथा वयम् अभिलषामः | परञ्च इदं हि अस्मत्सु निर्भरं यत् वयं यन्त्रैः किं किं कारयितुं वाञ्छामः | अत्र हि मानवीयम् उद्देश्यं महत्वपूर्णं भवति | मानव-मात्रस्य कल्याणार्थं विज्ञानस्य समुपयोगः! मानव-जीवनस्य सर्वोच्चं शिखरं संस्प्रष्टुं विज्ञानस्य समुपयोगः !!
Light Bulb – विद्युत्-कन्दस्य आविष्कारकः Thomas Alva Edison निज-वैज्ञानिक-प्रयोगेषु नैकवारम् असफलः अवर्तत| एकदा विषयेsस्मिन् असौ पृष्टः तदासौ उदतरत् – “मया Light Bulb – इति विद्युत्-कन्दस्य अनुत्पादनस्य दश-सहस्रं पद्धतयः अन्विष्टाः”, अर्थात् Edison स्वीयाः असफलताः अपि निजशक्ति- रूपेण अङ्गीकृतवान् | संयोगाद् इदम् अस्मदीयं सौभाग्यं यत् अद्याहं महर्षि-अरविन्दस्य कर्मभूमौ ‘Auroville’- इत्यत्रास्मि | सः क्रान्तिकारि-रूपेण ब्रिटेन्-शासनं समाह्वयत्, तद् विरुद्ध्य संघर्षम् अकरोत्, तेषां शासने अनेकविधमाशङ्कितवान् | एवं हि सः महर्षि-रूपेण, जीवनस्य प्रत्येकमपि प्रश्नानाम् उत्तराणि अन्विष्य मानवतायाः मार्ग-प्रदर्शनमकरोत् |
सत्यं ज्ञातुं पौनःपुनिकी जिज्ञासा हि सुतरां महत्वपूर्णा अस्ति| वैज्ञानिकान्वेषणस्य कृतेsपि वास्तविकी प्रेरणा सैवास्ति | कथम्, किम्, केन प्रकारेण च इत्यादि-प्रश्नानाम् उत्तराणि नैव समुपलभ्यन्ते, तावत्-पर्यन्तं विश्रमेण नैव स्थातव्यम् | National Science Day – इति राष्ट्रिय-विज्ञान-दिनावसरे अस्मदीयान् वैज्ञानिकान्, विज्ञान-सम्बद्धान् सर्वान् जनान् चाहं वर्धापयामि | अस्मदीया युव-सन्ततिः, सत्य-ज्ञानयोः अन्वेषणार्थं सततं प्रेरिता भवेत्, विज्ञानस्य साहाय्येन समाज-सेवायै अनारतं सम्प्रेरिता स्यात्, एतदर्थं मम भूरिशो मङ्गल-कामनाः विलसन्तुतराम् |
मित्राणि, सङ्कट-काले safety, disaster – चेत्यादि-सुरक्षा-प्रबन्धन-विषयकाः अनेके सन्देशाः नैकवारं मां प्रति प्रेष्यन्ते, जनाः मां किमपि-किमपि विविधं लिखन्ति एव | पुणेतः श्रीमान् रवीन्द्र-सिंहः NarendraModi mobile App – इत्यत्र प्रेषितायां निज-टिप्पण्यां occupational safety – इति वृत्ति-विषयिणीं चर्चाम् अकरोत्| सः अलिखत् यत् अस्माकं देशे factories- constructions sites – चेति निर्माणी-निर्माण-स्थलेषु safety standards – सुरक्षा-मानकानि तावन्ति समीचीनानि नैव वर्तन्ते | आगामिनि मार्च-मासे चतुर्थे दिने भारतस्य National Safety Day- इति राष्ट्रिय-सुरक्षा-दिवसोsस्ति, तर्हि प्रधानमन्त्री स्वीये ‘मन की बात’ – प्रसारणे सुरक्षा-विषये नूनं सूचयेत् येन जनेषु सुरक्षा-विषयिणी जागर्तिः विवर्धेत |
यदा वयं public safety – इति सार्वजनिक-सुरक्षां चिन्तयामः तदा तथ्य-द्वयम् अतितरां महत्वपूर्णं भवति – प्रथमं pro-activeness – अर्थात् पूर्वतः एव सक्रियत्वं द्वितीयञ्च preparedness – अर्थात् सन्नद्धता| सुरक्षा द्विप्रकारिका भवति – एका हि सा, या आपत्काले आवश्यकी – safety during disasters अपरा च, सा या दैनिक-जीवने आवश्यकी – safety in everyday life | यदि वयं दैनिक-जीवने सुरक्षा-विषये अवहिताः नैव स्मः, तामधिगन्तुं नैव शक्नुमश्चेत्, तदा आपदवसरे अस्याः उपलब्धता दुष्करा भवति| वयं नैक-वारं मार्गेषु स्थापितानि सूचना-फलकानि पठामः येषु लिखितं भवति यत् –
– “अवधानता नास्ति चेत् – दुर्घटना भविष्यति”,
– “एका त्रुटिः हानिमापादयति, स्मितं सुखञ्च छिनत्ति”,
– “एतावत्त्वरया नैव संसारं त्यज, सुरक्षया सन्नद्धो भव”
– “सुरक्षां न किञ्चिदपि अवहेलय, नो चेत् जीवनं विनङ्क्ष्यति”
इतः परम् अस्माकं जीवने एतेषां वाक्यानां न कदाचिदपि उपयोगो भवति | प्राकृतिकापदो यदि त्यज्यन्ते चेत्, तदा अस्मदीये जीवने दुर्घटनानाम् अधिसंख्यं, अस्माकं कयाचिदपि त्रुट्या एव परिणमते | यदि वयं सावधानाः भवेम, आवश्यक-नियमान् अनुसरेम चेत्, वयं स्वीयं जीवनन्तु रक्षितुं शक्नुमः एव, परञ्च अस्मदीयं समाजमपि विकरालाभ्यः दुर्घटनाभ्यो रक्षितुं शक्नुमः | कदाचित्तु अस्माभिः दृष्टमपि यत् कार्य-स्थलेषु बहूनि सुरक्षा-सूत्राणि लिखितानि भवन्ति परञ्च प्रायेण पश्यामः यदेतानि सूत्राणि न मनागपि अनुस्रियन्ते | ममायम् आग्रहः यत् याः महानगर-पालिकाः, नगर-पालिकाः च अग्नि-शमन-वाहिनीं धारयन्ति, ताभिः प्रतिसप्ताहं वा प्रतिमासम् एकवारं विभिन्नेषु विद्यालयेषु गत्वा विद्यालयीयानां बालानां पुरतो विकत्थानाभ्यासः प्रदर्शनीयः | अमुना अभ्यासेन लाभ-द्वयं सेत्स्यति – अग्निशमन-वाहिनी अपि अवधानार्थम् अभ्यस्ता भविता, नूतना सन्ततिः अपि शिक्षिता भविष्यति तथा चैतदर्थं नातिरिक्तो व्ययोsपि वर्तिता – एवं हि, अभ्यासोsयं शिक्षा-क्रमत्वेन प्रवर्तिष्यते, तथा च, एतदर्थम् अहं सर्वदैव साग्रहं वदामि | आपत्-सन्दर्भे तु इदमेव चिन्तनीयं यत् भारतं भौगोलिक-दृष्ट्या जलवायु-दृष्ट्या च, विविधता-सम्भरितो देशोsस्ति | अमुना विकत्थानाभ्यासेन, देशेन अनेकाः प्राकृतिकाः मानव-निर्मिताश्च आपदः सम्मुखी-कृताः यासु रासायनिक्यः औद्योगि- क्यश्च दुर्घटनाः अन्यतमाः सन्ति | अद्य National Disaster Management Authority – अर्थात् NDMA – राष्ट्रिय-आपत्-प्रबन्धन-प्राधिकरणं देशे आपदां प्रबन्धनानि सन्नयति| भवतु नाम कुत्रचिद् भूकम्पो वा जलोपप्लवः, आहोस्वित् सामुद्रिकः झञ्झावातो वा भूस्खलनम् – एतादृशीषु विभिन्नासु आपत्सु, सुरक्षा-साहाय्य-कार्यार्थं राष्ट्रिय-आपत्-प्रबन्धन-प्राधिकरणं त्वरया सम्प्राप्नोति| एतैः दिशा-निर्देश-सूत्राणि प्रसारितानि सन्ति, युगपदेव, ते capacity building – इति क्षमता-वर्धनार्थं सततं प्रशिक्षण-कार्याणि अपि कुर्वन्ति | जलोपप्लव-सामुद्रिक- झञ्झावातादि-युतेषु जनपदेषु स्वयंसेविनां प्रशिक्षणाय अपि ‘आपदा-मित्रम्’- नाम्ना प्राथमिकाः प्रयासाः विहिताः | प्रशिक्षणस्य जागरूकतायाः चात्र महत्वपूर्णा भूमिकास्ति |
इतः वर्ष-द्वयं वर्ष-त्रयं वा पूर्वं heat wave – घर्माघातेन प्रतिवर्षं सहस्रशो जनाः विगत-प्राणाः जायन्ते स्म | ततः परं राष्ट्रिय-आपत्-प्रबन्धन-प्राधिकरणं घर्माघातानां प्रबन्धनार्थं कार्यशालाः आयोजितवत्, जनेषु जागर्तिं प्रसारयितुम् अभियानञ्च प्रावर्तयत्| ऋतु-विज्ञान-विभागः समीचीनं पूर्वानुमानं व्यदधात् | सर्वेषां सहभागितायाः कारणात् सुपरिणामः अवाप्तः |विगते वर्षे घर्माघातेन म्रियमाणानां संख्या अप्रत्याशितरूपेण अपचीय प्रायेण विंशत्यधिक-द्विशत-मिता [220] सञ्जाता | अनेन ज्ञायते यत् वयं यदि सुरक्षायै प्राथमिकतां दद्मश्चेत्, नूनं वयं सुरक्षामवाप्तुं शक्नुमः | समाजे एतादृक्-कार्य-कर्तारः अगणिताः जनाः स्युः, सामाजिक-संघटनं भवेत्, जागरूकाः नागरिकाः भवेयुः – ये हि कुत्रचिदपि आपत्काले त्वरया सुरक्षा-साहाय्य-कार्याणि विधातुं संलग्नाः भवन्ति, तादृशान् अहं हृदयेन प्रशंसामि| अपि चैतादृशानां अज्ञात-नायकानां संख्या कथमपि न्यूना नास्ति | अस्माकं Fire and Rescue Services, National Disaster Response Forces, सशस्त्र-सेनाः, अर्ध-सैन्य-बलानि, चैते संकट-काले साहाय्यार्थं द्रुतं प्राप्यमाणाः वीराः योद्धारः निज-जीवितानि अविगणय्य जनानां साहाय्यं कुर्वन्ति | NCC, Scouts – सदृशानि संघटनानि अपि एतानि कार्याणि कुर्वन्ति, युगपदेव प्रशिक्षणमपि लभन्ते | विगतेषु दिनेषु अस्माभिः अयमपि प्रयासः आरब्धः यज्जगतो देशाः यथा joint military exercise – इति संयुक्त-सैन्याभ्यासं कुर्वन्ति तथैव कथन्न एते देशाः सम्भूय Disaster Management -चेति आपत्-प्रबन्धनार्थं संयुक्ताभ्यासं न कुर्युः ? भारतेन विषयोsयं सन्नीतः – BIMSTEC, बांग्लादेश, भारत, म्यांमार, श्रीलंका, थाईलैंड, भूटान-नेपाल-प्रभृतीनां देशानां joint disasters management exercise – इति संयुक्तापत्-प्रबन्धनाभ्यासः अपि कारितः, अयं हि प्रप्रथमः बृहत्-मानवीय-प्रयोगः आसीत् | अस्माभिः risk conscious society – इति सङ्कटावहित-समाजेन भाव्यम् | अस्माकं संस्कृतौ वयं मूल्य-रक्षण-विषये तु बहुधा विचारयामः, परञ्च अस्माभिः values of safety – सुरक्षा-मूल्यमपि सम्यक्तया अवगन्तव्यम् | स्वीय-जीवनस्य अभिन्नाङ्गत्वेन मूल्यमिदं स्वीकरणीयम् | यदि वयं स्वभावतया अवहिताः नैव स्मः तथा च, विमान-यात्रावसरे प्रदर्श्यमानानां सुरक्षोपायानां विषये एकाग्रतया नैव शृण्मः अवलोकयामश्चेत्, सुरक्षा-विषयमङ्गी-कर्तुं नैव प्रभवामः | एवं हि जीवनस्य प्रत्येकमपि क्षेत्रे अस्माकीनोsनुभवो भवति | अस्माभिः नैवं विचारणीयं यत् सुरक्षैषा कस्यचिद् अपरस्य कृते वर्तते, यदि वयं सर्वे स्व-स्व-सुरक्षा-विषये अवहिताः भवेम चेत्, समाजस्य सुरक्षाभावोsपि अत्र अन्तर्हितो जायते|
मम प्रियाः देशवासिनः, ऐषमः महाय-व्यय-पत्रके ‘स्वच्छ-भारत’-कार्यक्रमान्तर्गतं ग्रामेभ्यः जैव-वाति-माध्यमेन waste to wealth – अवकारात् समृद्धिं प्रति, तथा च, waste to energy – अवकारात् ऊर्जां प्रति रचनात्मक-कार्याणि सबलं प्रतिपादितानि सन्ति | एतदर्थं प्राथमिकतया प्रयतितम्, तथाच, ‘गोबर-धन’ इति नाम्ना कार्यक्रमोsयं अभिहितः, ‘GOBAR-Dhan’ – अर्थात् Galvanizing Organic Bio-Agro Resources | अस्याः ‘GOBAR-Dhan’ – योजनायाः उद्देश्यमस्ति, ग्रामाणां शुद्धीकरणम्, तथा च, पशूनां पुरीषाणि, क्षेत्राणां घट्टान् अपशिष्टान् च पदार्थान् COMPOST-BIO-GAS – चेति उर्वरक-जैव-वाति-रूपेण परिवर्त्य, तेभ्यः धनस्य ऊर्जायाः च उत्पादनम् | भारते पशूनां संख्या हि अशेष-जगति सर्वाधिका अर्थात् प्रायेण त्रिंशत्-कोटि-मिता वर्तते, अपि च, पशु-पुरीषोत्पादनं प्रतिदिनं प्रायेण त्रिंशल्लक्ष-टन-मितं भवति | केचन यूरोपीय-देशाः चीन-देशश्च पशु-पुरीषाणि अन्यान् च जैविकापशिष्ट-पदार्थान् उपयोज्य ऊर्जाम् उत्पादयन्ति परञ्च भारते अस्य पूर्ण-क्षमता नैवोपयोज्यते स्म | ‘स्वच्छ भारत मिशन ग्रामीण’- इति योजनायाः अन्तर्गतं सम्प्रति वयं अस्यां दिशि अग्रेसरामः|
पशूनां पुरीषाणि, कृषितः निष्काश्यमानोsवकरः, पाकशालायाः अपस्करः, चैतानि सर्वाणि उपयोज्य जैव-वात्याधृताम् ऊर्जां विनिर्मातुं लक्ष्यं निर्धारितमस्ति | ‘गोबर-धन- योजनायाः’ अन्तर्गतं ग्रामीण-भारतस्य कृषकाः, भगिन्यः, भ्रातरश्च प्रोत्साहयिष्यन्ते | ते पशु-पुरीषम् अवकरञ्च केवलम् अपशिष्टमिति नैव, अपि तु आयस्रोतस्त्वेन अभिमन्येरन् | ‘गोबर- धन-योजनया’ ग्रामीण-क्षेत्राणि अनेकविधानि लाभानि अवाप्स्यन्ति | ग्रामाणां स्वच्छता-सन्धारणाय साहाय्यम् अवाप्स्यते | पशूनाम् आरोग्यं भद्रतरं भविता तथा च, उत्पादकता विवर्धिता | जैव-वात्या भोजन-पाकस्य प्रकाशस्य च कृते ऊर्जा-विषयिणी आत्मनिर्भरता एधिता | कृषकाः पशुपालकाः च आय-विवर्धने साहाय्यम् अवाप्स्यन्ति | Waste collection, transportation, – चेति अवकर-संचयन-परिवहनयोः जैववाति-विक्रयस्य च कृते नूतनाः वृत्त्यवसराः प्राप्स्यन्ते| ‘गोबर-धन-योजनायाः’ सुचारु-व्यवस्थापनार्थम् एकः online इति सद्यस्कः विक्रय-मञ्चः अपि विनिर्मास्यते यो हि कृषकान् विक्रेतृभिः सार्धं संयोजयिष्यति येन कृषकाः पशु-पुरीषस्य कृषेः अवकरस्य च समुचितं मूल्यम् अवाप्नुयुः | अहं उद्यमिनः, विशेषेण च ग्रामीण-भारते निवसतीः मम भगिनीः साग्रहं निवेदयामि यत् भवत्यः अग्रे आयान्तु | Self Help Group – स्वयं-सहायि-समूहान् निर्मीय, सहकारिसमितीश्च विरचय्य अस्य अवसरस्य पूर्ण-लाभं प्राप्नुयुः| clean energy and green jobs- इत्यान्दोलनस्य सहभागित्वार्थम् अहं भवतो भवत्यश्च आमन्त्रयामि|स्वीये ग्रामे अवकरं धनागमत्वेन परिवर्तयितुं पशु-पुरीषात् गोबर-धनमर्जितुं च भवन्तः प्रयतेरन् |
मम प्रियाः देशवासिनः, अद्य-पर्यन्तं वयं संगीत-समारोह-खाद्य-समारोह-चलचित्र-समारोह-प्रभृति-नाना-समारोह-विषये शृण्वन्तः आस्मः| परञ्च छत्तीसगढे रायपुरे अनुपमं प्रयत्य राज्यस्य प्रप्रथमः ‘कचरा-महोत्सव’- इति अवकर-महोत्सवः आयोजितः| रायपुर नगर निगम द्वारा आयोजितस्य अस्य महोत्सवस्य उद्देश्यमासीत् – स्वच्छता-विषयिणी जागरूकता | नगरस्य अवकरस्य रचनात्मक-समुपयोगस्य अवकरस्य पुनःप्रयोगस्य च विभिन्न-पद्धतीनां विषये जागरूकता-विवर्धनम् | अस्य महोत्सवस्य अवसरे नाना कार्याणि विहितानि येषु छात्राः आबाल-वृद्धाश्च सहभागित्वमावहन् | रायपुरेण प्रेरितेषु अन्येषु अपि जनपदेषु पृथक्-पृथक्-प्रकारकाः अवकरोत्सवाः संपन्नाः | विशेषेण विद्यालयीयाः बालाः यैः समुत्साहेन सहभागित्वं निर्व्यूढम्, तद्धि अद्भुतमासीत् | Waste management- इति अवकर-प्रबन्धनस्य स्वच्छतायाश्च महत्वं येन अभिनव-प्रकारेण महोत्सवेsस्मिन् प्रदर्शितम्, तदर्थम्, रायपुर नगर निगमाय, अशेषस्य छत्तीसगढ़स्य नागरिकान् अत्रत्य-प्रशासनाय अधिकारिभ्यश्च भूरिशो वर्धापनानि|
प्रतिवर्षं मार्च-मासे अष्टमे दिने ‘अंतर्राष्ट्रिय-महिला-दिवसः’ आमान्यते | देशे जगति अन्यत्र च एतद्-विषयकाः अनेके कार्यक्रमाः आयोज्यन्ते | अस्मिन् दिने देशे ‘नारी शक्ति पुरस्कारैः’ एतादृश्यः महिलाः सम्मान्यन्ते याः विगते काले भिन्न-भिन्न-क्षेत्रेषु अनुकरणीय-कार्यमनुष्ठितवत्यः | साम्प्रतं देशोsयं महिला-विकासात् परं woman-lead development- इति महिला-सन्नीत-विकासं प्रति अग्रेसरति | अवसरेsस्मिन् स्वामिनो विवेकानन्दस्य वचान्सि स्मरामि | सः अवोचत् – ‘the idea of perfect womanhood is perfect independence’- अर्थात् पूर्ण-नारीत्वस्य विचारः एव सम्पूर्णा स्वाधीनतास्ति |
सपाद-शत-वर्षेभ्यः प्राक् स्वामि-पादेन उदीरितोsयं विचारः भारतीय-संस्कृतौ नारी-शक्तेः चिन्तनम् अभिव्यञ्जयति | सम्प्रति, आर्थिक-सामाजिक-जीवनस्य प्रत्येकमपि क्षेत्रे महिलानां तुल्य-सहभागितायाः निर्धारणं हि अस्माकं सर्वेषां दायित्वमस्ति| वयं तस्याः परम्परायाः अङ्गत्वेन स्मः यत्र, पुरुषाणाम् अभिज्ञानं नारीभिः भवति स्म | यशोदा-नन्दनः, कौशल्या-नन्दनः, गान्धारी- पुत्रः, एतादृगेव आसीत् अभिज्ञानं कस्यचित् पुत्रस्य| अद्यत्वे अस्माकं नारी-शक्तिः स्वीयैः कार्यैः आत्मबलस्य आत्मविश्वासस्य च परिचयं प्रादात् | आत्मानं आत्मनिर्भरां व्यदधात् | ताः स्वयन्तु अग्रेसृताः सन्ति, युगपदमेव, राष्ट्रं समाजमपि च अग्रे सन्नेतुं नूतनं शिखरञ्च प्रापयितुं कार्याणि अकुर्वन् | परमार्थेन अस्माकं नूतन-भारतस्य इदमेव स्वप्नमस्ति – यत्र नारी समर्था शक्ता च स्यात्, देशस्य समग्र-विकासे समानतया सहभागिनी भवेत् | विगतेषु दिनेषु केनचित् महोदयेन अतितरां भद्रः परामर्शः प्रदत्तः| तेन परामर्शितं यत् मार्च-मासीये अष्टम-दिनाङ्के, ‘महिला-दिवसस्य’ आयोजनार्थं विभिन्नाः कार्यक्रमाः आयोज्यन्ते | किं प्रत्येकमपि ग्रामे पुरे वा यत्र मातरो भगिन्यो वा शतं वर्षाणि पूर्णतां नीतवत्यः, तादृशीनां सम्मान-कार्यक्रमाः आयोजयितुं शक्यन्ते वा ? किं तेषु च दीर्घ-जीवनस्य अनुभव-वर्णनं कर्तुं शक्यते वा ? विचारोsयं मह्यम् अरोचत, अतः भवतः प्रति प्रापयामि | नारी-शक्तिः किं किं कर्तुं शक्नोति ? तद्-विषये भवन्तः भूयान्सि उदाहरणानि अवाप्स्यन्ति | नातिचिरमेव, झारखण्डतः मया वृत्तम् अधिगतम् | ‘स्वच्छ भारत अभियानस्य’ अन्तर्गतं झारखण्डे प्रायेण [15] पञ्चदश-लक्षं महिलाः सम्भूय मासावधिकं स्वच्छताभियानं प्रचालितवत्यः | ऐषमः जान्युआरिमासे षड्विंश-दिनाङ्कतः आरब्धस्य अस्य अभियानस्य अंतर्गतं केवलं विंशतौ दिनेष्वेव एताः महिलाः सप्तति-सहस्राधिक-लक्ष-मितान् शौचालयान् निर्मीय नूतनं कीर्तिमानं प्रतिष्ठापितवत्यः | भवन्तः कल्पयितुं शक्नुवन्ति यत् एषा कियती महती घटना वर्ततेश ! झारखण्डस्य एताः महिलाः प्रदर्शितवत्यः यत् नारी-शक्तिः, स्वच्छ-भारतस्य अभियानस्य तादृशी शक्तिः अस्ति या हि, सामान्य-जीवने स्वच्छतायाः अभियानम्, स्वच्छतायाः संस्कारान् च प्रभावितया जन-सामान्यस्य स्वभावे नूनं परिवर्तयिष्यति |
भ्रातरो भगिन्यश्च, सद्यः दिवस-द्वय-पूर्वमेव अहं वार्ताः अवलोकयन् आसम् यत् एलीफेंटा-द्वीपे ग्राम-त्रये स्वाधीनतायाः सप्ततेः वर्षाणाम् अनन्तरम्, विद्युत् प्राप्तास्ति तथा च, एतदर्थं तत्रत्याः जनाः हर्षोल्लासेन समुत्साह-सन्दोहेन च प्रसन्नाः प्रतीयन्ते स्म | भवन्तः सर्वे सम्यक्तया अवगच्छन्ति यत् एलीफेंटा-द्वीपः, मुंबईतः समुद्रे एव दश-किलोमीटर-मितान्त- रालेन दूरे वर्तते | अयं द्वीपः पर्यटनस्य अतितरां बृहदाकर्षक-केन्द्रत्वेन अस्ति | एलीफेंटा-गुहाः, UNESCO -इत्यस्य विश्व-रिक्थ-रूपाः सन्ति | तत्र प्रतिदिनं देश-विदेशेभ्यः बृहन्-मात्रिकाः पर्यटकाः आयान्ति | इदं हि महत्वपूर्णम्, पर्यटक-केन्द्रं वर्तते | अहं तत्रत्यं प्रशासनम्, जनान् च वर्धापयामि |प्रसीदामि-तरां यत् इतः परं एलीफेंटा-ग्रामः एलीफेंटा-गुहाश्च विद्युदः प्रकाशेन सततं प्रकाशिष्यन्ते | नैतत् केवलं विद्युद्-वृत्तम्, अपि तु, विकास-क्रमस्य अभिनवः प्रारम्भः अस्ति | देशवासिनां जीवनानि प्रकाशितानि स्युः, तेषां जीवनेषु प्रसन्नता भवेत् चेत्यतः परं किमधिकं तोषप्रदं सुखप्रदं वा स्यात् ?
मम प्रियाः भ्रातरः भगिन्यश्च, नातिचिरम्, वयं शिवरात्रि-महोत्सवम् आयोजितवन्तः | इतः परं मार्च-मासे शस्य-प्रफुल्लितानि क्षेत्राणि, सुवर्ण-निभाः क्रीडन्तः गोधूमाग्रभागाः तथा च मानसानन्द-दायिन्यः आम्र-मञ्जर्यः तासाञ्च शोभा – एतत्-सर्वमपि अस्य मासस्य वैशिष्ट्यमस्ति | परञ्च, मासोsयं होलिका-पर्वणः मासः इति कृत्वा अस्मभ्यः सर्वेभ्यः प्रियः अतितरां रोचते च | मार्च-मासे द्वितीये दिने अशेष-देशः होलिकोत्सवं हर्षोल्लासेन आयोजयिष्यति | होलिका-पर्वणि यावत् महत्वम्, रंगानां अस्ति, तावदेव महत्वम्, ‘होलिका-दहनस्यापि’ वर्तते यतो हि दिनमिदं दुर्वृत्तं अग्नि-राशौ दाहयित्वा तन्निरसनस्य दिनमस्ति | होलिका-पर्व, सर्वान् मनोमालिन्य-भावान् अपाकृत्य विस्मृत्य च सम्भूय उपवेशनस्य, मिथः सुखम् आनन्दञ्च संभाजयितुं शुभावसरत्वेन वर्तते, एतच्च, प्रेम्नः एकतायाः बन्धुत्वस्य च सन्देशं ददाति | भवतः सर्वान् देशवासिनः होलिका-पर्वणः रंगोत्सवस्य च भूयान्सि अभिनन्दनानि, मङ्गल-कामनाश्च, रंग-पूर्णाः शुभकामनाः | पर्वेदं अस्माकं देशवासिनां जीवने विविध-वर्णयुतां प्रसन्नताम् आपूरयेत् इत्येव हार्दिकी शुभकामना | मम प्रियाः देशवासिनः, कोटिशो धन्यवादाः, नमस्कारः | *****
– डॉ.बलदेवानन्द-सागरः
Cell- 9810 5622 77
Email – baldevanand.sagar@gmail.com
“मनोगतम्” – ४० [ मन की बात – ४० ]
प्रसारण-तिथिः – २८-जान्युआरि’२०१८
– भाषान्तर-कर्ता – बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः, नमस्कारः | अष्टादशोत्तर-विंशति-शत-तमस्य वर्षस्य इदं प्रथमं ‘मन की बात’ – इति प्रसारणम्, अपि च, दिवस-द्वय-पूर्वमेव वयं गणतन्त्र-पर्वणः आयोजनम् अतितराम् उत्साहेन कृतवन्तः | इतिहासे प्रथम-वारमेव एतत् जातं यत् दश-संख्याकानां देशानां प्रमुखाः समारोहेsस्मिन् समुपस्थिताः आसन् |
मम प्रियाः देशवासिनः, श्रीमान् प्रकाश-त्रिपाठी NarendraModiApp- इत्यत्र दीर्घमेकं पत्रम् अलिखत्, तथा च, साग्रहं माम् अकथयत् यत् तस्य पत्रे लिखितान् विषयान् नूनमहं सन्दर्भयेयम् | सः अलिखत् यत् फेब्रुआरि-मासे प्रथमे दिने अन्तरिक्षङ्गतायाः कल्पना-चावला-इत्यस्याः पुण्य-तिथिः वर्तते | कोलम्बिया-अन्तरिक्ष-यान-दुर्घटनायां सा अस्मान् त्यक्त्वा गत-प्राणा जाता परञ्च जगति सा लक्षशो यूनां प्रेरणादायिनी सिद्धा | अहं भ्रातुः प्रकाश-वर्यस्य कार्तज्ञ्यम् आवहामि यत्तेन स्वीये दीर्घे पत्रे कल्पना-चावला-प्रयाणम् आरम्भे एव सन्दर्भितम् | एतत्तु अस्माकं सर्वेषां कृते दुःखदं यत् अल्पीयसि एव वयसि सा दिवङ्गता परञ्च सा स्वीय-जीवनेन, अशेष-जगति विशेषेण च भारतस्य लक्षशो बालिकाभ्यः इदं समदिशत् यन्-नारी-शक्तिः असीमितास्ति | यदि इच्छा दृढ़-संकल्पः च स्तः, किञ्चित् नूनं करणीयमिति दृढ-भावः अस्ति चेत् न किञ्चिदपि असम्भवम् | एतद्-दृष्ट्वा मनः प्रसीदतितरां यद् अद्यत्वे भारते महिलाः प्रत्येकमपि क्षेत्रे द्रुत-गत्या अग्रेसरन्ति, देशस्य गौरवं विवर्धयन्ति |
प्राचीन-कालात् अस्मदीयेsस्मिन् देशे महिलानां सम्माननं, समाजे तासां स्थानं, तासाञ्च योगदानम्, एतत् सर्वं सततं सम्पूर्णमपि विश्वम् आश्चर्य-चकितं करोति | भारतीय-विदुषीणां दीर्घा परम्परा प्रवर्तते | वेदानां ऋचानाम् आविष्करणे भारतस्य अनेकासां विदुषीणाम् ऋषिकाणां च सुबहु योगदान- मासीत् | लोपामुद्रा, गार्गी, मैत्रेयी, अपाला चेत्यादयः – न जाने कति कति नामानि सन्ति ? अद्यत्वे वयं “कन्यां रक्ष, कन्यां पाठय” – इति प्रयतामहे परञ्च सहस्राब्देभ्यः प्राक् अस्मदीयेषु शास्त्रेषु, स्कन्द-पुराणे कथितम् :-
दशपुत्र-समा कन्या, दशपुत्रान् प्रवर्धयन् |
यत् फलं लभते मर्त्यः, तल्-लभ्यं कन्यकैकया ||
अर्थात् , एका पुत्री दश-पुत्रैः तुल्या भवति | दशभिः पुत्रैः यत् पुण्यं प्राप्यते, एकया पुत्र्या तत् पुण्यं लभ्यते | तथ्यमिदं अस्मदीय-समाजे नार्याः महत्वं दर्शयति | अत एव, अस्मदीये समाजे नारी ‘शक्ति-स्वरूपा’ इति प्रतिष्ठापितम् | एषा नारी-शक्तिः सम्पूर्णमपि देशम्, अशेषं समाजम्, कृत्स्नमपि कुटुम्बञ्च एकता-सूत्रेण आबध्नाति | भवन्तु नाम ताः वैदिक-कालिकाः विदुष्यः – लोपामुद्रा-गार्गी- मैत्रेयी-प्रभृतयः – तासां विद्वता वा अक्का-महादेवी-मीराबाई-प्रभृतीनां ज्ञानं वा भक्तिः, भवतु वा सा अहिल्याबाई-होलकरस्य शासन-व्यवस्था, आहोस्वित् भवतु सा राज्ञ्याः लक्ष्मीबाई-वीराङ्गनायाः वीरता – नारी-शक्तिः सर्वदैव अस्मान् अनारतं प्रेरयति स्म, सततञ्च प्रेरयति | देशस्य मानं सम्माननञ्च विवर्धयन्ती प्रवर्तते |
श्रीमान् प्रकाश-त्रिपाठी इतः परमपि अनेकानि उदाहरणानि प्रादात् | सः अलिखत् यत् अस्मदीया साहसिका प्रतिरक्षा-मन्त्रि-वर्या निर्मला-सीतारमण-महाभागा यया ‘सुखोई-त्रिंशत्’ इति योद्धृ-विमानेन उड्डीतम्, तच्च, नूनं प्रेरणादायि | सः वर्तिका-जोशी-इत्यस्याः नेतृत्वे भारतीय-नौसेनायाः महिला-सदस्य-वृन्दस्य आई-एन्-एस्-वी-तरिणी-द्वारा (INSV Tarini) अशेष-विश्वस्य परिक्रमा-विषयम् उल्लिखितवान् | भावनाकण्ठ-मोहना-सिंह-अवनी-चतुर्वेदीति तिस्रः साहसिक-महिलाः याः योद्धृ-विमान-चालिकाः सञ्जाताः साम्प्रतञ्च सुखोई-त्रिंशत्-विमानेषु प्रशिक्ष्यन्ते | क्षमता- वाजपेयि-वर्यायाः नेतृत्वे All Women Crue – इति सर्वाभिरपि महिला-सदस्याभिः समन्वितेन Air India Boeing Jet-विमानेन दिल्लीतः अमेरिका-देशस्य San Francisco – नगरं यावत् ततश्च परावृत्य दिल्ली-पर्यन्तम् उड्डीतम् | भवता सम्यग् कथितम् – यद् अद्यत्वे नारी, प्रत्येकमपि क्षेत्रे न केवलम् अग्रेसरति, परञ्च नेतृत्वमपि करोति | अधुना अनेकानि तादृंशि क्षेत्राणि सन्ति यत्र सर्वप्रथमं, अस्मदीया नारी-शक्तिः किञ्चित् नावीन्यं प्रमाणयति | अभिनवं कीर्तिमानं प्रतिष्ठापयति |विगतेषु दिनेषु माननीयः राष्ट्रपति-महोदयः नवीन-प्रयासम् प्रारभत |
राष्ट्रपति-महोदयः असाधारण-महिलानां वृन्दमेकं अमिलत् याः स्व-स्व-क्षेत्रेषु सर्व-प्रथमं किमपि उत्कृष्टम् अकुर्वन् | नूतनं कीर्तिमानं प्रतिष्ठापितवत्यः | देशस्य एताः महिलाः सन्ति – First female Merchant Navy Captain- इति नौ-सेनायाः प्रथमा पोत-चालिका, passenger-train- इति यात्रि-रेलयानस्य प्रथमा महिला-चालिका, रेलयानस्य प्रथमा महिला-चालिका, Fire-Fighter-इति अग्निशमन-यानस्य प्रथमा महिला-चालिका, प्रथमा महिला बस-यान-चालिका, Antarctica- इति दक्षिणीय-ध्रुवं सम्प्राप्ता प्रथमा महिला, ऐवरेस्ट- इति सर्वोच्च-पर्वत-शिखरम् आरूढवती प्रथमा महिला – एवं हि प्रत्येकमपि क्षेत्रे ‘First Ladies’- इति अस्मदीयाः प्रथमाः नारी-शक्तयः समाजस्य रूढिवादिताम् अपाकुर्वत्यः असाधारणाः उपलब्धीः अवाप्नुवन्, कीर्तिमानानि च प्रतिष्ठापितवत्यः | एताः इदं प्रदर्शितवत्यः यत् कठोर-श्रमं निष्ठां दृढसंकल्पञ्च आधृत्य सर्वाः अपि बाधाः विघ्नान् चातिक्रम्य नूनं नवीनं मार्गमुपकल्पयितुं शक्यते | तादृशः नवीनः मार्गः यः न केवलं स्वीय-समकालीनानां जनानां कृते अपि तु, भावि-प्रजानां कृतेsपि प्रेरकः स्यात् | नूतनया शक्त्या नवीनेन च उत्साहेन तान् आपूरयेत् | एताः समुपलब्धवतीः प्रथमाः महिलाः आलक्ष्य एकं पुस्तकमपि सज्जीकृतमस्ति येन हि अशेष-देशः आसां नारी-शक्तीनां विषये अवगताः स्युः, एतासां जीवनेभ्यः कार्येभ्यश्च प्रेरिताः भवेयुः | पुस्तकमिदं NarendraModi-website इत्यत्र e-book-रूपेणापि समुपलभ्यते |
साम्प्रतं देशे समाजे च सञ्जायमाने सकारात्मके परिवर्तने देशस्य नारी-शक्तेः महत्वपूर्णा भूमिका वर्तते | अद्य वयं यदा महिला-शक्तीकरणस्य चर्चां कुर्वन्तः स्मः तदा अहमेकं रेलास्थानकं सन्दर्भयितुमीहे | रेलास्थानकं महिला-शक्तीकरणञ्च, भवन्तः नूनं विचारयिष्यन्ति यदनयोः मध्ये कः सम्बन्धः ? मुम्बय्याः माटुंगा-स्टेशन-इति रेलास्थानकं भारतस्य प्रप्रथमं रेलास्थानकं वर्तते यत्र सर्वाः अपि कर्मकराः महिलाः एव सन्ति | सर्वेषु विभागेषु महिला-कर्मचारिण्यः – आहत्य चत्वारिन्शदधिकाः महिलाः सन्ति | ऐषमः गणतन्त्र-दिवसीयानि सामूहिक-प्रयाणानि दृष्ट्वा Twitter- इत्यत्र अन्येषु च Social Media-इति सामाजिक-माध्यमेषु जनैः लिखितं यत् अत्र मुख्यम् आकर्षणम् आसीत् – BSF Biker Contingent- सीम-सुरक्षा-बलस्य बाइक-यान-चालिकानां वृन्दं यस्मिन् सर्वाः अपि महिला-चालिकाः आसन् | एताः साहसपूर्ण-प्रयोगं कुर्वन्त्यः आसन्, अपि चेदं दृश्यं वैदेशिकान् अतिथीन् अपि आश्चर्यचकितान् करोति स्म | शक्तीकरणं हि आत्मनिर्भरतायाः एव अनन्यतमं रूपम् | साम्प्रतम् अस्मदीया एषा नारी-शक्तिः नेतृत्वं करोति | आत्मनिर्भरा भवति |सद्यः स्मरामि यत्, छत्तीसगढ़स्य अस्मदीयाः आदिवासि-महिलाः आश्चर्यम् अजनयन् | एताः नूतनोदाहरणं प्रस्तुतवत्यः | आदिवासि-महिलानां यदा उल्लेखः भवति तदा अस्माकं सर्वेषां मनस्सु एकं सुनिश्चितं चित्रम् उत्पद्यते | यत्र अरण्यं भवति, पाद-मार्गो भवति, तस्मिन् काष्ठ-भार-वाहिन्यः महिलाः प्रचलन्त्यः दृश्यन्ते | परञ्च छत्तीसगढ़स्य अस्मदीयाः आदिवासि-नार्यः, अस्मदीया एषा नारी-शक्तिः देशस्य सम्मुखं एकं नवीनं चित्रं व्यरचयत् | छत्तीसगढ़स्य दंतेवाड़ा-क्षेत्रं यद्धि, माओवाद-दुष्प्रभावितं वर्तते | हिंसा, अत्याचरणम्, बम-इति विस्फोटकम्, भुशुण्डिका, लघु-भुशुण्डिका – माओवादिनः – एतानि आधृत्य भयानकं परिवेशं निर्मितवन्तः | एतादृशेषु भयावहेषु क्षेत्रेषु आदिवासि-महिलाः, E-Rickshaw-इति चक्रिकायानानि चालयित्वा आत्मनिर्भराः भवन्ति | अल्पीयसि कालखण्डे अनेकाः महिलाः अमुना कार्येण संयुताः जाताः | एवं हि लाभ-त्रयं सिद्ध्यति – एकतः स्व-वृत्तितया एताः शक्ताः भवन्ति, अपरतश्च अमुना कार्येण माओवाद-दुष्-प्रभावितस्य क्षेत्रस्य परिदृश्यमपि परिवर्तते | तथा च, युगपदेव अनेन पर्यावरण-संरक्षणस्य कार्यमपि सबलं भवति | अत्रत्यं जनपद-प्रशासनमपि प्रशंसार्हं वर्तते, येन अनुदानादिकम् उपलम्भयित्वा आभ्यः प्रशिक्षणादिकमपि प्रदीयते, एवं हि जनपद-प्रशासनेन आसां महिलानां सफलतावाप्तौ महत्वपूर्णा भूमिका निर्व्यूढास्ति |
वयं पुनः पुनः शृण्वन्तः स्मः यत् जनाः कथयन्ति – ‘कुछ बात है ऐसी कि हस्ती मिटती नहीं हमारी’ | ‘किञ्चिद् वैशिष्ट्यमस्ति तादृशं यदस्तित्वं अविनाशि अस्मदीयम्’- तत् किमस्ति ? तदस्ति, Flexibility – आनम्यता, परिवर्तनशीलत्वम्, रूपान्तरत्वम् | यद्धि काल-बाह्यमस्ति, तत् त्याज्यम्, यद्धि आवश्यकम्, तस्य परिष्कारः स्वीकर्तव्यः | अपि च अस्मदीय-समाजस्य विशेषता वर्तते– आत्म-परिष्कारस्य अनारतं प्रयासः, Self-Correction, एषास्ति भारतीया परम्परा, एषा अस्माकं संस्कृतिः अस्मभ्यं रिक्थत्वेन अधिगतास्ति | कस्यचन अपि जीवन-समाजस्य अभिज्ञानं भवति तस्य- Self-Correcting Mechanism- आत्म-परिष्कारस्य तन्त्रम् | सामाजिक-कुप्रथाः कुरीतीश्च विरुध्य सहस्राब्देभ्यः अस्माकं देशे व्यक्तिगतेषु सामाजिकेषु च स्तरेषु सततं प्रयासाः भवन्तः आसन् | नातिचिरं बिहार-राज्ये रोचकः प्राथमिकः प्रयासः अभवत् | राज्ये सामाजिक- कुरीतीः समूलम् उन्मूलयितुं त्रयोदश-सहस्र-किलोमीटरमिताधिका विश्वस्य दीर्घतमा मानव-शृङ्खला, Human Chain- विरचिता | अमुना अभियानेन बाल-विवाह-यौतुक-प्रथा-सदृशीः कुरीतीः विरुध्य जनेषु जागृतिः प्रसारिता | यौतुक-बालविवाह-सदृशीः कुरीतीः विरुध्य अशेष-राज्यं योद्धुं संकल्पितवत् | आबाल-महिला-वृद्धाः युवानश्च, सोत्साहं अस्मिन् अभियाने सहभागिनः आसन् | पटना-नगर्याः ऐतिहासिकात् गान्धि-मैदान-स्थलात् आरभ्य मानव-शृङ्खला एषा राज्यस्य सीम-प्रदेशं यावत् अविच्छिन्न-रूपेण संकलिता जाता | समाजस्य सर्वेsपि जनाः समुचित-रूपेण विकासस्य लाभान् अवाप्नुयुः इति कृत्वा एतदावश्यकं यत् अस्माकं समाजः एताभ्यः कुरीतिभ्यः मुक्तः स्यात् | आगच्छन्तु, वयं सर्वे मिलित्वा समाजात् एताः कुरीतीः अपास्तुं प्रतिज्ञां करवाम तथा च, एकं नवीनं शक्तं सबलं समर्थञ्च भारतं निर्मातुं प्रयतेम | अहं बिहारस्य जनान्, राज्यस्य मुख्यमन्त्रिणं, तत्रत्यं प्रशासनं मानव–शृङ्खलायां सहभागिनः प्रत्येकमपि जनान् च अभिनन्दामि, वर्धापयामि यत् ते समाज-कल्याण-दिशि विशिष्टां व्यापिनीञ्च प्रक्रियाम् आरभन्त |
मम प्रियाः देशवासिनः, कर्नाटकस्य मैसूरुतः, श्रीमान् दर्शनः MyGov- इत्यत्र अलिखत् – तस्य पितुः उपचारार्थं प्रतिमासं षट्-सहस्र-रूप्यकात्मकः व्ययः भवति स्म | सः पूर्वं प्रधानमन्त्रि-जनौषधि-योजना-विषये नैव जानाति स्म | परञ्च सम्प्रति यदा सः जनौषधि-केन्द्र-विषये सूचनाम् अलभत, ततश्च औषधि-क्रयणं व्यदधात्, ततः प्रभृति एष व्ययः प्रतिशतं पञ्च-सप्तति-मित्या अपचितः | सः वाञ्छति यदहं ‘मन की बात’- प्रसारणे एतद्विषये उद्घोषयेयं येन अधिकाधिकाः जनाः एतद्विषये अवगताः स्युः, अमुना च लाभान्विताः भवेयुः | विगतेभ्यः कतिपयेभ्यः दिनेभ्यः अनेके जनाः एतद्विषये मां लिखन्ति स्म, सूचयन्ति स्म | अहमपि सामाजिक-संचार-माध्यमेषु दृष्टवान् यदनेके जनाः अनया योजनया लाभान्विताः अभूवन् | तथा च, यदा एतादृशी सूचना अवाप्यते तदा हर्ष-प्रकर्षः अनुभूयते | गभीरः सन्तोषः जायते | एतदपि मह्यम् अतितराम् अरोचत यत् श्रीमान् दर्शनः स्वीय-मनसि विचारमिमम् अनुभूतवान् यत् यत्किमपि तेन लब्धं तद् अन्येsपि अवाप्नुयुः | अस्याः योजनायाः उद्देश्यमस्ति – स्वास्थ्य-परिचर्या सुलभा स्यात्, अपि च, Ease of Living- जीवनस्य सरलता प्रोत्साहिता भवेत् | जनौषधि-केन्द्रेषु प्राप्याः औषध्यः, आपणेषु विक्रीयमाणाभ्यः चिन्हिताभ्यः औषधीभ्यः प्रायेण प्रतिशतं पन्चाशत्तः नवति-मित्या न्यूनार्घाः भवन्ति | अमुना जन-सामान्यम्, विशेषेण प्रतिदिनम् औषधीं सेवमानानां वरिष्ठ-नागरिकाणां कृते अतितराम् आर्थिकं साहाय्यम् प्राप्यते, भूरिशः सञ्चयो भवति | साम्प्रतं अशेष-देशे त्रि-सहस्राधिकानि जनौषधि-केन्द्राणि स्थापितानि सन्ति | अनेन न केवलं औषधयः न्यूनार्घाणि प्राप्यन्ते अपि तु, वैयक्तिक-उद्यमिनां कृतेsपि वृत्तितायाः नवीनाः अवसराः अवाप्यन्ते | प्रधानमन्त्रि-भारतीय-जनौषधि-केन्द्रेषु चिकित्सालयेषु च ‘अमृत-संग्रहेषु’ एताः न्यूनार्घाः औषधयः लभ्यन्ते | अत्र इदमेव उद्दिष्टं यत् – देशस्य निर्धनतमाः जनाः गुणवत्ता-युतां सुलभां न्यूनार्घाञ्च स्वास्थ्योपचर्याम् अवाप्नुयुः येन हि स्वस्थस्य समृद्धस्य च भारतस्य निर्माणं सम्भवं भवेत् |
मम प्रियाः देशवासिनः, महाराष्ट्रस्य श्रीमान् मंगेशः Narendra Modi-MobileApp- इत्यत्र चित्रमेकं प्राहिणोत् | तच्चित्रं तादृशमासीत् यन्मम ध्यानं सहसा तदाकृष्टं जातम् | तस्मिन् पौत्रः निज-पितामहेन साकं ‘Clean Morana River’- इति स्वच्छताभियाने सहभागित्वम् आवहति | अहं ज्ञातवान् यत् अकोला-क्षेत्रीयाः नागरिकाः ‘स्वच्छ-भारताभियानस्य’ अन्तर्गतं मोरना-नद्याः स्वच्छीकरणार्थं स्वच्छताभियानम् आयोजितवन्तः | मोरना-नदी, पूर्वम् आवर्षं सजला वहति स्म, साम्प्रतं सा ऋतु-निष्ठा सञ्जाता | अपरो वेदना-विषयः आसीत् यत् एषा नदी, पूर्णरूपेण आरण्यकैः ग्रासैः, जलकुम्भिभिः समाकीर्णा सञ्जाता | नद्याम् अस्याः तट-प्रदेशे च प्रभूतः अवकर-प्रक्षेपः क्रियते स्म | एका action plan-इति कार्य-योजना सज्जीकृता, तथा च, मकर-संक्रान्तितः एक-दिन-पूर्वं, जान्युआरि-मासे त्रयोदश-दिनाङ्के ‘Mission Clean Morana’ – इत्यस्य प्रथम-चरणस्य अन्तर्गतं किलोमीटर-चतुष्कस्य क्षेत्रे चतुर्दश-स्थानेषु मोरनानद्याः तटम् अभितः स्वच्छीकृतम् | ‘Mission Clean Morana’- इत्यस्याः पुण्य-कार्ये अकोला-क्षेत्रस्य षट्-सहस्राधिकाः नागरिकाः, शताधिकानि NGOs-इति स्वैच्छिक-संघटनानि, महाविद्यालयाः, विद्यार्थिनः, बालाः, वृद्धाः, मातरः, भगिन्यः – सर्वेsपि अत्र सह-भागित्वम् आवहन् | ऐषमः जान्युआरि-मासे विंशति-दिनेsपि एतत् स्वच्छताभियानं सततं प्रवर्तितम्, तथा च, अहं सूचितः यत् यावदवधि मोरना-नदी पूर्णतया स्वच्छा नैव भवति, अभियानमेतत् प्रति-शनिवासरं प्रातः प्रवर्तिता | एतत् प्रमाणयति यत् जनः यदि किमपि कर्तुं दृढ-संकल्पं करोति चेत् तदा किञ्चिदपि अशक्यं नास्ति | जनान्दोलनमाध्यमेन बृहत्तमानि परिवर्तनानि कर्तुं शक्यन्ते | अहं अकोला-वासिनः, अत्रत्ये जनपद-नगर-निगमयोः प्रशासने च, एतत्कार्यं जनान्दोलन-रूपेण प्रवर्तयितुं संलग्नान् सर्वान् नागरिकान् च, तेषामेषां प्रयासानां कृते भूरिशः वर्धापयामि, अपि च कामये यत् भवताम् एते प्रयासाः देशस्य अन्येषां जनानां कृतेsपि प्रेरणा-दायिनो भवेयुः |
मम प्रियाः देशवासिनः, एतेषु दिनेषु भवन्तः अपि पद्म-पुरस्कार-विषयिणीं चर्चां शृण्वन्ति – इति मन्ये | वार्तापत्रेषु, दृश्य-वाहिनीषु चापि विषयेsस्मिन् ध्यानमाकृष्यते | परञ्च, यदि किञ्चित् सूक्ष्मेक्षिकया पश्यन्तु चेत् भवन्तः गर्वम् अनुभविष्यन्ति | गर्वस्य विषयोsयं यत् कियन्तो महान्तो जनाः अस्माकं मध्ये विराजन्ते तथा च, स्वाभाविक-रूपेण अस्य विषयस्यापि गौरवं भविष्यति यत् केन प्रकारेण अद्यत्वे अस्माकं देशे सामान्य-जनः काञ्चिदपि अभिसंस्तुतिं विना उच्छ्रित-तरं शिखरम् अधिरोहति | प्रतिवर्षं पद्म-पुरस्काराणां प्रदान-परम्परा सततं प्रवर्तते | विगत-वर्ष-त्रये एतद्-विषयिणी सम्पूर्णापि प्रक्रिया परिवर्तितास्ति | इतः परं कश्चन अपि नागरिकः कञ्चन अपि जनं nominate- इति नाम्ना अभिसंस्तोतुम् अर्हति | सम्पूर्णापि प्रक्रिया online- इति सद्यस्का जाता अतः एषा पारदर्शिता-समन्विता सञ्जातास्ति | एवं हि एतेषां पुरस्काराणां चयन-प्रक्रियायाः पूर्णः रूपान्तरः जातः | भवतामपि अवधानं स्यात् जातं यत् अतितरां सामान्य-जनाः अपि पद्म-पुरस्कारान् लभन्ते | तादृशेभ्योsपि जनेभ्यः पद्म-पुरस्काराः प्रदीयन्ते ये सामान्यतया महानगरेषु, वार्तापत्रेषु, दृश्यवाहिनीषु, समारोहेषु च नावलोक्यन्ते | अधुना पुरस्कार-प्रदानार्थं जनस्य अभिज्ञानं नैव, तस्य कार्यस्य महत्वं विवर्धते | श्रीमान् अरविन्दगुप्ता – इत्यस्मै पद्म-पुरस्कार-प्राप्तेः अनन्तरमेव स्यात् प्रथमवारं भवता तस्य नाम श्रुतं भवेत् | वृत्तमिमं ज्ञात्वा भवन्तः प्रसन्नतां अनुभविष्यन्ति यत् IIT-कानपुरस्य प्राक्तनः छात्रः श्री-अरविन्दः बालानां कृते क्रीडनकानि विनिर्मातुं स्वीयं सम्पूर्णमपि जीवनं यापितवान् | असौ विगत-दशक-चतुष्कात् अवकर-संग्रहात् क्रीडनकानि विनिर्माति येन बालेषु विज्ञानं प्रति जिज्ञासा प्रवर्धेत | तस्य प्रयत्नः अस्ति यत् बालाः निरर्थक-वस्तुभ्यः वैज्ञानिक-प्रयोगान् प्रति प्रेरिताः भवेयुः, एतदर्थम् असौ अशेष-देशस्य त्रि-सहस्राधिकेषु विद्यालयेषु गत्वा अष्टादश-भाषासु निर्मितानि चलचित्राणि अपि प्रदर्श्य बालान् प्रेरयति | कीदृशम् अद्भुतं जीवनम् ! कीदृशम् अद्भुतं समर्पणम् ! एतादृशी एव कथा कर्नाटकस्य सितावा-जोद्दती-(SITAVAA JODATTI)- इत्यस्याः अस्ति | एषा ‘महिला-शक्तीकरणस्य देवी’- इति सगौरवम् उच्यते |
विगत-दशक-त्रयात् बेलागवी-(BELAGAVI)-क्षेत्रे एषा असंख्य-महिलानां जीवन-परिवर्तने महद्-योगदानमकरोत् | एषा सप्त-वर्षीयायुषि एव स्वयं देवदासी-रूपेण आत्मानं समार्पयत् | परञ्च पुनः देवदासीनां कल्याणार्थं स्वीयं कृत्स्नमपि जीवनम् अर्पितवती | एतावदेव नैव, सा दलित-महिलानां कल्याणार्थमपि अभूतपूर्व-कार्यमकरोत् | भवद्भिः मध्य-प्रदेशस्य भज्जू-श्यामस्य नाम श्रुतं स्यात्, श्रीमान् भज्जू-श्यामस्य जन्म अतितरां निर्धन-कुटुम्बे, आदिवासि-परिवारे अजायत | असौ जीवन-यापनाय सामान्य-वृत्तिं करोति स्म, परञ्च अस्मै पारम्परिकादिवासि-चित्रकलायां महती रुचिः आसीत् | साम्प्रतं अस्याः एव रेखाङ्कनस्य गहन-रुचेः कारणात् न केवलं भारते, अपि तु अशेष-जगति तस्य सम्माननं वर्तते | Netherlands, Germany, England, Italy-सदृशेषु अनेकेषु देशेषु तस्य चित्राणां प्रदर्शनी आयोजिता | विदेशेषु भारतस्य यशोवर्धकस्य भज्जू-श्यामस्य प्रतिभा अभिज्ञाता तथा च, तस्मै पद्मश्री-सम्माननम् उपायनीकृतम् |
केरलस्य आदिवासि-महिला लक्ष्मीकुट्टी- इत्यस्याः कथां श्रुत्वा भवन्तः सुखदमाश्चर्यम् अनुभविष्यन्ति | लक्ष्मीकुट्टी, कल्लारे शिक्षिका अस्ति, तथा च, साम्प्रतमपि गहनारण्येषु आदिवासि-क्षेत्रे ताल-पत्रैः विनिर्मिते कुटीरे निवसति | सा स्वीय-स्मृत्याधारेण एव पञ्च-शतं वनस्पतीनाम् औषधीः व्यरचयत् | सर्प-दंशस्य उपचारार्थं उपयुज्यमानायाः औषधेः निर्माणेः तस्याः प्रावीण्यं सुसिद्धम् | लक्ष्मी-वर्या वनस्पतीय-औषधानां निज-ज्ञान-कारणात् अनारतं समाजं सेवते |अज्ञात-नाम्न्याः अस्याः अभिज्ञानं कृत्वा समाजे अनया अनुष्ठिताय योगदानाय सा पद्मश्रीति अलंकरणेन सम्मानितास्ति | अद्य एकस्य अपरस्य नाम्नः समुल्लेखात् नाहं आत्मानं वारयितुं शक्नोमि | पश्चिम-बंगालस्य पञ्च-सप्तति-वर्षीया सुभासिनी-मिस्त्री – इत्यस्याः नाम | सा पुरस्कारार्थं वृतास्ति | सुभासिनी-मिस्त्री तादृशी महिला अस्ति, या चिकित्सालयस्य निर्माणार्थम् अपरेषां गृहेषु भाण्डानि स्वच्छीकृतवती, शाकादि-क्रयं च व्यदधात् | यदा सा त्रयोविंशति-वर्षीया आसीत् तदा उपचारस्य अभाव-कारणात् अस्याः पत्युः मृत्युरभवत्, एषा एव घटना तां निर्धनानां कृते चिकित्सालय-निर्माणार्थं प्रैरयत् | सम्प्रति अस्याः कठोर-श्रमेण विनिर्मिते चिकित्सालये परस्सहस्राणां निर्धनानां निःशुल्कम् उपचारो विधीयते | दृढमहं विश्वसिमि यत् अस्माकं बहुरत्ना-वसुन्धरायाम् तादृन्शि अनेकानि नर-रत्नानि सन्ति, असंख्यानि नारी-रत्नानि च सन्ति, तं ताञ्च नैकोsपि जानाति , न वा तेषां सम्यग् अभिज्ञानं भवति | एतादृशानां जनानाम् अभिज्ञानं न भवति चेत्, समाजस्यापि हानिः भवति | पद्म-पुरस्कारो नाम माध्यममस्ति, परञ्च अहं देशवासिभ्योsपि निवेदयामि यत् अस्मान् परितः समाजस्य कृते समर्पित-जीवनाः, समाजार्थं निष्ठावन्तः, कामपि काञ्चिदपि विशेषतां सन्धारयन्तः आजीवनं कार्यानुष्ठातारः लक्ष-लक्षाधिकाः जनाः सन्ति | नूनं कदाचिदपि ते समाज-धारायां समावेशनीयाः | न ते मान-सम्मानार्थं कार्याणि आचरन्ति, परञ्च तेषाम् एभिः कार्यैः वयं प्रेरिताः भवामः | कदाचित् विद्यालयेषु, कदाचित् महाविद्यालयेषु च एतादृशाः महनीय-जनाः समामन्त्रणीयाः तेषाञ्च अनुभवाः श्रवणीयाः | पुरस्कारेभ्योsपि अग्रे, समाजेsपि केचन प्रयासाः भवेयुः |
मम प्रियाः देशवासिनः, प्रतिवर्षं वयं जान्युआरि-मासे नवमे दिनाङ्के प्रवासि-भारतीय-दिवसम् आमन्यामहे | अयमेव दिवसः अस्ति यदा पूज्यः महात्म-गाँधी दक्षिणाफ्रीकातः भारतं प्रत्यागतः | अस्मिन्नेव दिने वयं भारते विश्वस्मिन् विश्वे च निवसतां भारतीयानां मध्ये, अभिन्न-बन्धनस्य उत्सवमायोजयामः | ऐषमः प्रवासि-भारतीय-दिवसावसरे वयं कार्यक्रममेकं आयोजितवन्तः यत्र विश्वस्मिन् विश्वे निवसन्तो भारतीय-मूलस्य सर्वेsपि सांसदाः महापौराः चामन्त्रिताः आसन् | भवन्तः इदं श्रुत्वा प्रसन्नताम् अनुभविष्यन्ति यत् तस्मिन् कार्यक्रमे Malaysia, New Zealand, Switzerland, Portugal, Mauritius, Fiji, Tanzania, Kenya, Canada, Britain, Surinam, दक्षिण-अफ्रीका-America-तः, अपरेभ्योsपि देशेभ्यश्च, यत्र यत्र अस्मदीयाः महापौराः मूल-भारतीयाः सांसदाः च सन्ति, ते सर्वेsपि सहभागित्वमावहन् | प्रसीदामितरां यत् विभिन्नेषु देशेषु निवसन्तः भारतीय-मूलाः जनाः तान् देशान् तु सेवन्ते एव, युगपदेव, ते भारतेन साकमपि स्वीयान् दृढतरान् सम्बन्धान् संधारयन्ति | ये यूरोपस्य भिन्न-भिन्नेषु देशेषु अस्माकं मूल-भारतीयाः निवसन्ति तेषु केचन CYBER SECURITY-इति क्षेत्रे कार्याणि कुर्वन्ति, केचन आयुर्वेद-क्षेत्रे समर्पिताः सन्ति, अपरे स्वीय-संगीत-माध्यमेन समाजस्य मनान्सि रञ्जयन्ति, इतरे च केचन स्वीय-ललित-कविता-रचनाभिः सहृदयान् आनन्द-सन्दोहेन आप्लावयन्ति | केचन climate change- इति जलवायु-परिवर्तन-विषये अनुसन्धानं विदधति, अन्ये च भारतीय-ग्रन्थान् आश्रित्य कार्य-निरताः सन्ति | कश्चन भारवाहियानं चालयित्वा गुरुद्वारा-निर्माणम् अकरोत्, अपरेण च केनचित् मस्जिद्-निर्माणं कृतम् | अर्थात् यत्र कुत्रापि अस्मदीयाः जनाः सन्ति, ते तत्रत्यां धरां येन केनापि प्रकारेण सुसज्जितां कृतवन्तः | अहं धन्यवादान् वितरामि यूरोपीय-संघस्य अस्य उल्लेखनीय-कार्यस्य कृते, भारतीय-मूलस्य जनानाम् अभिज्ञानार्थम्, अपि च, अमुना माध्यमेन भारतस्य नागरिकेभ्यः अपि सूचना-प्रदानार्थम् | तथा च, एतन्-माध्यमेन अशेष-जगतः जनान् सूचयितुम् अपि |
जान्युआरि-मासे त्रिन्शत्तमे-दिने पूज्य-बापू-वर्यस्य पुण्य-तिथिः वर्तते, यः अस्मान् सर्वान् अभिनवं मार्गं प्रादर्शयत् | दिवसमेनं ‘हुतात्म-दिन’त्वेन वयम् आयोजयामः | एतस्मिन् दिने वयं देशस्य रक्षायै हुतात्मभ्यः महद्भ्यः प्रातः एकादश-वादने श्रद्धाञ्जलिम् अर्पयामः | शान्तेः अहिंसायाश्च मार्गः एव बापू-महात्मनः अनन्य-मार्गः आसीत् | भवतु नाम भारतमिदं वा जगत्, स्यात् इदं कुटुम्बं वा एकाकी जनो वा सकलः समाजः – पूज्य-बापू-वर्यः येषां सिद्धान्तानाम् आदर्शानाञ्च कृते जीवति स्म, पूज्य-बापूः यत् किमपि अस्मान् समदिशत्, तत्सर्वम्, अद्यापि अतितराम् उपयोगि वर्तते | ते केवलं सिद्धान्ताः एव नैवासन् | वर्तमान-कालेsपि वयं पदे पदे पश्यामः यत् बापू-वर्यस्य सन्देशः कियान् समीचीनः अस्ति | यदि वयं संकल्पयेम यत् बापू-वर्यस्य मार्गमनुसरेम – यावन्तमपि प्रचलितुं शक्नुमः, प्रचलेम – तदा एतस्मात् समुचिततरः कः अन्यः श्रद्धाञ्जलिः भविता ?
मम प्रियाः देशवासिनः, अष्टादशोत्तर-द्विसहस्र-तम-वर्षार्थं मङ्गल-कामनाः वितीर्य्य अहम् अत्रैव विररामि | भवद्भ्यः सर्वेभ्यः मङ्गल-कामनाः भूरिशो धन्यवादाः, नमस्कारः| ***** – बलदेवानन्द-सागरः
दूरभाष- ९८१० ५६२२ ७७ अणुप्रैषः baldevanand.sagar@gmail.com
‘मन की बात’ [३९]
“मनोगतम्” [३९] (प्रसारण-तिथि:- 31.12.2017)
[“मन की बात”- “मनोगतम्” – इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
– भाषान्तर-कर्ता – बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोsयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोsस्ति | सम्पूर्णेsपि वर्षेsस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति |
कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता | आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत् – “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः | “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.” अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्”
इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं प्रयतेम |
मम प्रियाः देशवासिनः ! एतद् वर्षं गुरुगोविन्द-सिंहस्य सार्ध-त्रिशती-रूपेण प्रकाश-पर्व-वर्षमपि आसीत् | गुरुगोविन्द-सिंहस्य साहस-त्याग-सम्भरितम् असाधारणं जीवनम् अस्माकं कृते प्रेरणा-स्रोतस्त्वेन वर्तते | गुरुगोविन्द-सिंहः महान्ति जीवन-मूल्यानि उपादिशत् तथा च, तानि आधृत्य स्वीयं जीवनं यापितवान् | अन्यतमः गुरुः, कविः, दार्शनिकः, महान् योद्धा च गुरुगोविन्द-सिंहः एतासु सर्वास्वपि भूमिकासु जनान् प्रबलतया प्रेरितवान् | असौ उत्पीडनम् अन्यायञ्च विरुद्ध्य संघर्षमकरोत् | जाति-धर्मयोः बन्धनानि परिहर्तुं सः जनान् शिक्षितवान् | एवंक्रियमाणः असौ व्यक्तिगतरूपेण बहुशः हानिमपि सम्मुखीकृतवान् | परञ्च सः न कदापि द्वेष-भावनान्वितः सञ्जातः | जीवनस्य प्रत्येकमपि क्षणे सः प्रेम्णः त्यागस्य शान्तेश्च सन्देशं प्रादात् | कियतीभिः महतीभिः विशेषताभिः सम्भरितमासीत् तस्य व्यक्तित्वम् ! ममेदं सौभाग्यं यत् एतद्-वर्षस्य आरम्भे गुरुगोविन्द-सिंहस्य सार्ध-त्रि-शती-जयन्त्याः अवसरे पटनासाहिब-स्थले आयोजिते प्रकाशोत्सवे सहभागित्वम् आवहम् | आगच्छन्तु, वयं सर्वेsपि संकल्पयेम तथा च, गुरुगोविन्द-सिंहस्य महद्भ्यः उपदेशेभ्यः प्रेरणादायि-जीवनात् च शिक्षाम् आदाय निज-जीवने तदाचरितुं प्रयतेम |
अष्टादशोत्तर-विंशति-शत-तम-वर्षे जान्युआरि-मासे प्रथम-दिनम् अर्थात् श्वः, मम मन्तव्यानुसारेण श्वस्तनः विशिष्ट-दिवसः अस्ति | स्यात् भवन्तः अपि आश्चर्यम् अनुभविष्यन्ति यन्नूतनं वर्षम् आयाति, जान्युआरि-मासीयः प्रथम-दिनमपि प्रतिवर्षम् आगच्छति परं यदाहं विशिष्ट-दिनमिदम् इति कथयामि, तत्तु नूनं विशिष्टमेव ! ये जनाः [ 2000 ] द्विसहस्र-तमे वर्षे जनिं लब्धवन्तः आहोस्वित् ततः परं जाताः अर्थात् एकविंशति-तमे शताब्दे समुत्पन्नाः ते अष्टादशोत्तर-विंशति-शत-तम-वर्षे जान्युआरि-मासे प्रथम-दिनात् मतदातृ-रूपेण अर्हाः भवितारः | भारतीय-लोकतन्त्रं, एकविंशति-तम-शताब्दस्य मतदातॄणां, नूतन-भारतं भवतां मतदातॄणां स्वागतं करोति | अहम्, एतान् अस्मदीयान् युव-जनान् वर्धापयामि, सर्वान् च साग्रहं व्याहरामि यत् भवन्तः आत्मानं मतदातृ-रूपेण पञ्जीकारयन्तु | अशेष-भारतं भवतः एकविंशति-तम-शताब्दस्य मतदातृ-रूपेण वर्धापयितुं लालायते | एकविंशति-तम-शताब्दस्य मतदातृ-रूपेण भवन्तः अपि गौरवमनुभवेयुः | भवतां मतदानं नूतन-भारतस्य आधारः सेत्स्यति | मतदानस्य शक्तिः, कस्मिन्नपि लोकतन्त्रे महत्तमा शक्तिः भवति | लक्षशो जनानां जीवने सकारात्मकं परिवर्तनम् आपादयितुं मतदानं हि सर्वोत्तमं प्रभावि साधनं वर्तते | न केवलं भवन्तो मतदानार्थम् अर्हाः भवन्ति अपि तु, एकविंशति-तम-शताब्दस्य भारतं कीदृशं स्यात् ? एकविंशति-तम-शताब्दस्य भवतां स्वप्नानि कानि स्युः ? भवन्तोsपि एकविंशति-तम-शताब्दस्य भारतस्य निर्मातारः भवितुम् अर्हन्ति तथा च, अस्य आरम्भः जान्युआरिमासस्य प्रथम-दिनाङ्कात् विशेषरूपेण सञ्जायते | तथा चाद्य स्वीयेsस्मिन् ‘मन की बात’-प्रसारणे अहम् अष्टादशतः पञ्चविंशति-वर्षीयैः ऊर्जा-संकल्प-सम्भरितैः यशस्विभिः युवभिः सम्भाषितुमीहे | अहमेतान् ‘New India Youth’-इति नूतन-भारतस्य तारुण्यम् आमिनोमि | नूतन-भारतस्य तारुण्यम् इत्यस्य अर्थो भवति- उमङ्गः, उत्साहः, ऊर्जा च | दृढमहं विश्वसिमि यत् अस्मदीयानाम् एतेषां ऊर्जावतां यूनां कौशलेन शक्त्या चैव अस्माकं नूतन-भारतस्य स्वप्नं पूर्णं भविता | यदा वयं नूतन-भारत-विषये वदामः, तदा तु, इदं हि तत् भारतं यद्धि जातिवाद-सम्प्रदायवाद-आतङ्कवाद-भ्रष्टाचाराणां गरलात् मुक्तं स्यात् | अस्वच्छतातः निर्धनतातः च मुक्तं स्यात् | ‘New India’ – इति नूतनं भारतं यत्र सर्वेभ्योsपि तुल्यावसराः भवेयुः, यत्र च सर्वेषामपि आशाः आकाङ्क्षाः च पूर्णाः स्युः | अभिनवं भारतं यत्र शान्तिः, एकता, सद्भावना चैव अस्मदीया सञ्चालन-शक्तिः भवेत् | ममेदं नवीन-भारतस्य तारुण्यम् अग्रे आगच्छेत् मन्थनं च कुर्यात् यत् केन विधिना भविष्यति नवीनं भारतम् ? सः स्वयमपि आत्मनः कृते मार्गं निश्चिनुयात्, यैः साकं सः सम्पृक्तोsस्ति, तान् अपि संयोजयेत्, एवं हि पथिक-सार्थः संवर्धेत | भवन्तोsपि अग्रेसरन्तु, देशोsपि अग्रेसरेत् | सद्यः यदाहं भवद्भिः सम्भाषे तदा मम मनसि विचारः स्फुरितः यत् किं वयं भारतस्य प्रत्येकमपि जनपदे mock parliament- इति विडम्बितां संसदम् आयोजयितुं शक्नुमः ? यत्र अष्टादशतः पञ्चविंशति-वर्षीयाः युवानः, सम्भूय नूतन-भारत-विषयकं मन्थनं कुर्युः, मार्गान् मृगयेयुः, योजनाः विरचयेयुः ? केन प्रकारेण च वयं अस्मदीयानि स्वप्नानि एतत्-शताब्दस्य द्वा-विंशति-तम-वर्षात् पूर्वमेव साधयिष्यामः ? केन प्रकारेण च वयं तादृशं भारतं विरचयिष्यामः यस्य स्वप्नम् अस्मदीयाः स्वतन्त्रता-सैनिकाः अवालोकयन् ? महात्म-गाँधी स्वतन्त्रतायाः आन्दोलनं जनान्दोलनं व्यदधात् |
मम तरुणाः सखायः ! साम्प्रतं कालस्य इयम् अपेक्षा यद्वयं अपि एकविंशति-तम-शताब्दस्य भव्य-दिव्य-भारतस्य कृते जनान्दोलनमेकं प्रवर्तयेम | विकासस्य जनान्दोलनम् ! प्रगतेः जनान्दोलनम् !! सामर्थ्यवतः शक्तिशालिनश्च भारतस्य जनान्दोलनम् !!! अहमभिलषामि यत् ओगष्ट-मासे प्रायेण पञ्चदशे दिनाङ्के दिल्ल्याम् एकां विडम्बितां परिभावितां च संसदम् आयोजयेम यत्र प्रत्येकमपि जनपदात् चितः एकः युवा, विषयमेनं परिचर्चेत यत् आगामिनि वर्ष-पञ्चके नूतन-भारतस्य निर्माणं केन प्रकारेण कर्तुं शक्यते ? संकल्पतः सिद्धिः कथं प्राप्तुं शक्यते ? सम्प्रति यूनां कृते बहवः अवसराः सञ्जाताः | Skill Development- इति कौशल-विकासतः Innovation-entrepreneurship- इति नवाचार-उद्यमिता-क्षेत्रे अस्मदीयाः युवानः अग्रगामिनो भवन्ति सफलाश्च वर्तन्ते | अभिलषामि यत् एतेषां सर्वेषामपि अवसराणां योजनानां सूचना नवीन-भारतस्य तरुणाः एकत्र एव कथं प्राप्नुयुः ? तथा च, विषयेsस्मिन् तादृशी काचित् व्यवस्था भवेत् येन प्राप्ते सति अष्टादश-वर्षीयायुषि सः एतत्-जगतः, एतेषां विषयाणां कृते च सहजतया सूचितो भवेत्, स च आवश्यकान् लाभान् अपि अवाप्नुयात् |
मम प्रियाः देशवासिनः ! विगते ‘मन की बात’-प्रसारणे अहं भवतां समक्षं positivity- इति उत्साह-निश्चययोः महत्व-विषये किञ्चित् ख्यापितवान् | साम्प्रतं संस्कृत-वाङ्मयस्य श्लोकमेकं स्मरामि –
उत्साहो बलवान् आर्य ! नास्त्युत्साहात् परं बलम् |
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ||
अर्थात् उत्साह-समन्वितः जनः अतितरां बलशाली भवति, यतो हि उत्साहात् परं न किमपि उत्तमं विद्यते | उत्साह-समन्वितस्य रचनात्मकता-युतस्य च जनस्य कृते न किञ्चिदपि अशक्यमस्ति | आङ्ग्ल-भाषायाम् अपि जनाः निगदन्ति – ‘Pessimism leads to weakness, optimism to power’ | निराशावादः दुर्बलताम् अनुभावयति, आशावादश्च शक्तिं प्रददाति | विगते ‘मन की बात’-प्रसारणे देशवासिनो मया प्रार्थिताः आसन् यत् ते वर्षेsस्मिन् अधिगतान् रचनात्मकान् क्षणान् संविभाजयेयुः तथा च, आगामि-वर्षस्य स्वागतं रचनात्मके आशापूर्णे च परिवेशे कुर्युः | नूनं प्रसीदामितरां यत् जनानाम् अधिसंख्यं सामाजिक-सञ्चार-माध्यमेषु, MyGov-NarendraModi App – चेत्यत्र सोत्साहं उत्तरितवत्, स्वीयान् अनुभवान् च संविभाजितवत् | Positive India hashtag (#)- इत्यनेन सह लक्षशो tweet-सन्देशाः विहिताः ये हि प्रायेण सार्धैक-कोट्यधिक-जनैः अवगताः | एकतः उत्साहस्य अयं सञ्चारः भारताद् आरभत, स च, कृत्स्नेsपि जगति प्रसृतो जातः | ये हि tweet-सन्देशाः अपराणि चोत्तराणि अधिगतानि तानि सुतरां प्रेरणादायीनि वर्तन्ते | अयं हि सुखदोsनुभवः आसीत् | केचन देशवासिनः वर्षेsस्मिन् तान् घटनाक्रमान् संविभाजितवन्तः ये हि तेषां मनान्सि विशेषेण सकारात्मक-रूपेण प्रभावितवन्तः, केचन तु स्वीयानां व्यक्तिगतोपलब्धीनां संविभाजनं कृतवन्तः |
ध्वनि-सन्दर्भाः {साउंड बाईट} #
# मम नाम मीनू भाटिया अस्ति | अहं मयूर-विहार-पॉकेट-वन-फेज़-वन- दिल्ल्यां निवसामि | मम पुत्री एम.बी.ए.-इति अध्ययनं वाञ्छति स्म, एतदर्थं मह्यं बैङ्कात् ऋणम् अपेक्ष्यते स्म तद्धि अहं अतितरां सरलतया प्राप्तवती तथा च, मम पुत्र्याः अध्ययनं निर्विघ्नं प्राचलत् |
# मम नाम ज्योति-राजेंद्र-वाडे अस्ति | अहं बोडल-तः वदामि | मम पतिः प्रतिमासं रूप्यक-प्रदेयं आगोपं कृतवान् | दुर्घनायां सः मृतः | तस्मिन् समये अस्मदीया अवस्था कीदृशी जाता – तत्तु वयमेव जानीमः | सर्वकारस्य अमुना साहाय्येन वयं प्रभूतं लाभान्विताः जाताः, अहञ्च आश्वस्ता संवृत्ता |
# मम नाम संतोष-जाधवः अस्ति | ऐषमः वर्षे, अस्मदीयात् भिन्नर-ग्रामतः National Highway- इति राजमार्गः प्रावर्तत | एतस्मात् कारणात् अस्मदीयः मार्गः समीचीनः समभवत् तथा च, व्यापार-कार्याणि अपि वर्धमानानि सन्ति |
# मम नाम दीपांशु-आहूजा, मोहल्ला-सादतगंज, ज़िला-सहारनपुरम्, उत्तर-प्रदेश-निवासी अस्मि | भारतीय-सैनिकानां घटना-द्वयं वर्तते- एतयोः अन्यतरा तु – पाकिस्तानोपरि विहितं surgical strike-इति शस्त्र-निपातनात्मकम् आक्रमणं येन आतङ्कवादस्य आरम्भिक-सोपानानि समूलं प्रणाशितानि, युगपदेव अस्मदीयानां भारतीय-सैनिकानां पराक्रमं डोकलाम्-इत्यत्र दृष्टवन्तः सः तु अतुलनीयः एवास्ति |
# मम नाम सतीश-बेवानी अस्ति | अस्मदीयायां वसतौ पेय-जलस्य समस्या आसीत् | प्रायेण विगतेभ्यः चत्वारिंशत्-वर्षेभ्यः वयं सेनायाः जल-प्रणालिकासु निर्भराः आस्मः | अधुना एषा पृथक्तया प्रणालिका व्यवस्थापिता अस्ति, नूनम् इयम् अस्य वर्षस्य अस्मदीया महती उपलब्धिः वर्तते |
एतादृशाः अनेके जनाः सन्ति ये नैजेषु स्तरेषु तादृन्शि कार्याणि कुर्वन्ति यानि अनेकेषां जीवनेषु सकारात्मकं परिवर्तनं विदधति | वस्तुतस्तु एतदेवास्ति – नूतनं भारतम् – यस्य निर्माणं वयं सर्वे सम्भूय कुर्मः | आगच्छन्तु, आभिः लघु-लघु-प्रसन्नताभिः सहैव वयं नव-वर्षे प्रविशेम, नव-वर्षस्य शुभारम्भं करवाम, तथा च, ‘positive India’-इति रचनात्मक-भारततः ‘progressive India’- इति प्रगतिशील-भारतस्य दिशि दृढतरं पद-क्षेपं विदधेम | अस्मिन् सन्दर्भे अहमपि कश्मीरस्य प्राशासनिक-सेवा-स्पर्धायाः प्रथम-स्थान-भाजिनः अंजुम-बशीर-खान-खट्टकस्य ( Anjum Bashir Khan Khattak) प्रेरणादायि-वृत्तम् उदाहर्तुम् अभिलषामि | सः विद्वेष-आतङ्कवादयोः दंशात् बहिः निष्क्रम्य Kashmir Administrative Service-परीक्षामुत्तीर्य प्रथमं स्थानम् अध्यगच्छत् | भवन्तः उदन्तमिमं श्रुत्वा आश्चर्यम् अनुभविष्यन्ति यत् विगते शताब्दे नवतितमे वर्षे आतङ्कवादिनः तस्य पैतृकं गृहं प्रदाहितवन्तः | तत्र हिंसातङ्कवादयोः तादृशः परिवेशः आसीत् येन विवशीभूतं तस्य कुटुम्बं स्वीय-पैतृक-भूमिं अत्यजत् | लधुः बालकः यं परितः यः हिंसा-परिवेशः आसीत्, हृदि अन्धकारात्मकं कटुतरं च भावं जनयितुम् अलमासीत् – परञ्च अंजुमः एवम् नैवाकरोत् | सः न कदापि आशां पर्यत्यजत् | सः आत्मनः कृते पृथगेकं पन्थानम् अवाचिनोत् – जनानां सेवा-मार्गम् | साम्प्रतमसौ न केवलं जम्मू-कश्मीरस्यैव, अपि तु अशेष-देशस्य यूनां कृते प्रेरणा-प्रदः सिद्ध्यति | अंजुमेन इदं प्रमाणितं यत् कस्याञ्चन अपि प्रतिकूलायां स्थितौ सकारात्मकैः कार्यैः निराशायाः अभ्रम्लिहाः अपि ध्वंसयितुं शक्यन्ते |
नातिचिरं विगते एव सप्ताहे अहं जम्मू-कश्मीरस्य काश्चन पुत्रीः मेलितुम् अवसरं लब्धवान् | तासु अप्रतिमः भावः, अतुलनीयः उत्साहः, उत्कृष्टानि च स्वप्नानि आसन्, मया श्रुतं यत्ताः जीवनस्य केषु केषु क्षेत्रेषु प्रगतिमनुष्ठातुं समीहन्ते | ताश्च कियतीं प्रबलाम् आशां सन्धारयन्ति ! ताभिः साकं संवादावसरे मया अनुभूतं यत्तासु निराशा-लेशोsपि नैवास्ति – उत्साहः, उमङ्गः, ऊर्जा, स्वप्नानि, संकल्पाः चैवासन् | अहमपि प्रेरितोsभवम् | एषा एवास्ति – देशस्य शक्तिः, एते एव सन्ति मदीयाः युवानः, एतत् एव विद्यते मदीय-देशस्य भविष्यत् |
मम प्रियाः देशवासिनः ! न केवलं अस्मदीयस्य देशस्य अपितु, विश्वस्य प्रसिद्ध-धार्मिक-स्थलानि यदा यदा चर्च्यन्ते तदा केरलस्य सबरीमाला-मन्दिरस्य चर्चा स्वाभाविकतया भवत्येव | विश्व-प्रसिद्धेsस्मिन् मन्दिरे, भगवतः अय्यप्पा-स्वामिनः आशीर्वादम् आदातुं प्रतिवर्षं श्रद्धालवः कोटिशो जनाः आयान्ति | यत्र एतावन्तो बृहन्मात्रिकाः श्रद्धालवः आयान्ति तत्र स्वच्छता-सन्धारणं हि कियत् दुष्करं समाह्वान-रूपम् ? विशेषेण तस्मिन् स्थले यद्धि पर्वतानां काननानाञ्च मध्ये विराजते | परञ्च एनां समस्यां संस्कारत्वेन केन प्रकारेण परिवर्तयितुं शक्यते, जन-सहभागित्वस्य च कियती शक्तिः वर्तते चेति प्रमाणयितुं सबरीमाला-मन्दिरं हि उदाहरण-रूपं वर्तते | पी.विजयन्-नाम रक्षि-अधिकारी ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam) इत्यभिधेयं कार्यक्रमम् आरभत यस्यान्तर्गतं स्वच्छतायाः जागरुकतायै स्वैच्छिकम् अभियानं सः प्रवर्तितवान् | तेन एतादृशी परम्परा प्रवर्तिता यत् यः कश्चन अपि यात्री आगच्छति, तस्य यात्रा तावदेव पूर्णा नैव भविष्यति यावत् सः स्वच्छता-कार्यक्रमे कञ्चन अपि शारीरिक-श्रमं नैव विधास्यति | अभियानेsस्मिन् न कश्चन ज्येष्ठः वा श्रेष्ठः वा न कश्चन कनिष्ठो वा लघुः भवति | प्रत्येकमपि यात्री, भगवतः पूजायाः अंशत्वेन किञ्चित्-कालार्थं स्वच्छता-कार्याणि करोति, मलिनतायाः अपसारणं च विदधाति | प्रति-प्रभातं अत्र स्वच्छतायाः दृश्यम् अतितराम् अद्भुतं भवति, सर्वेsपि तीर्थयात्रिणः सम्भूय अत्र संलग्नाः भवन्ति | भवतु नाम कश्चन विशिष्टो जनो वा समृद्धो वा विशेषाधिकारी, प्रत्येकमपि सामान्य-यात्रि-रूपेण ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam)- इति कार्यक्रमस्य अङ्गत्वेन स्वच्छतां विधाय एव अग्रे यान्ति | अस्माकं देशवासिनां कृते एतादृन्शि अनेकानि उदाहरणानि सन्ति | सबरीमाला-क्षेत्रे एतावत्-सम्वर्धितम् एतत् स्वच्छता-अभियानम्, तत्रापि च ‘पुण्यम् पुन्कवाणम्’ (Punyam Poonkavanam), इदं हि प्रत्येकमपि यात्रिणः यात्रायाः अङ्गमेव भवति | तत्र कठोर-व्रतेन साकं स्वच्छतायाः कठोर-संकल्पः अपि युगपदेव प्रचलति |
मम प्रियाः देशवासिनः ! एतद्-शताब्दस्य चतुर्दशे वर्षे ओक्टोबर-मासे द्वितीये दिने पूज्य-बापू-वर्यस्य जन्म-जयन्त्याः अवसरे वयं सर्वे संकल्पितवन्तः यत् पूज्य-बापू-वर्यस्य अपूर्णं कार्यं यद्धि ‘स्वच्छ-भारतम्’, ‘मलिनता-मुक्तं भारतम्’ चेति वर्तते, तस्य सार्ध-शती भवेत् तदा अस्यां दिशि नूनं किञ्चिद् किञ्चिदपि करवाम | स्वच्छतादिशि सम्पूर्णेsपि भारते व्यापक-स्तरीयः प्रयासो भवति | ग्रामीणेषु महानगरीयेषु च क्षेत्रेषु व्यापकेण जन-सहभागितयापि परिवर्तनं दृग्गोचरीभवति | पौर-क्षेत्रेषु स्वच्छता-स्तरस्य उपलब्धीनाम् आकलनार्थम् आगामिनि जान्युआरिमासे चतुर्थ-दिनाङ्कतः मार्च-मासीयं दशम-दिनं यावत् जगतः सर्वोच्चं सर्वेक्षणं- ‘स्वच्छ-सर्वेक्षणम् – अष्टादशोत्तर-एकविंशति-तम-वर्षम्-[2018]’- इति विधास्यते | सर्वेक्षणमिदं, चतुःसहस्राधिकेषु नगरेषु प्रायेण चत्वारिंशत्-कोट्यधिक-जनानां वसतिषु विधास्यते | अस्य सर्वेक्षणस्य अवधौ, नाना वृन्दानि विभिन्नानि नगराणि निरीक्षिष्यन्ते | नागरिकैः सम्भाष्य तेषां प्रतिभावान् एकत्रीकरिष्यन्ति | स्वच्छता-App- इति उपादानस्य उपयोगेण तथा च, विभिन्न-प्रकारकेषु सेवा-स्थलेषु सञ्जातान् परिष्कारान् विश्लेषयिष्यन्ति | स्वच्छता, न केवलं प्रशासनस्य दायित्वम् | प्रत्येकमपि नागरिकः नागरिक-संघटनानि चापि एतदर्थं नितरां समुत्तरदायीनि सन्ति | सर्वान् नागरिकान् प्रार्थये यत्ते सम्पत्स्यमानेsस्मिन् स्वच्छता-सर्वेक्षणे सोत्साहं सहभागित्वं निर्वाहयेयुः | दृढं विश्वसिमि यत् गृहस्य शुष्कम् आर्द्रञ्च अवकरं पृथक्-कृत्वा नील-वार्णिकेषु हरित-वार्णिकेषु च कण्डोलेषु निक्षेप्स्यन्ति | अवकरस्य मलिन-वस्तूनाञ्च reduce, re-use, re-cycle- इति अपचय-पुनःप्रयोग-पुनःसर्जनात्मकः सिद्धान्तः अतितरां प्रभावी भवति | यदा जान्युआरिमासे चतुर्थ-दिनाङ्कतः मार्च-मासीयं दशम-दिनं यावत् जगतः सर्वोच्चं सर्वेक्षणं- ‘स्वच्छ-सर्वेक्षणं भविता तदा स्वच्छतायाः अस्यां स्वस्थ-स्पर्धायां कदाचित् भवान् पश्चवर्ती मा स्यादिति – प्रत्येकमपि नगरे सार्वजनिक-चर्चायाः विषयो भवेत् | भवतां सर्वेषां इदं स्वप्नं स्यात्, ‘अस्मदीयं नगरम् – अस्मदीयः प्रयासः’, ‘ अस्मदीया प्रगतिः – देशस्य प्रगतिः’ | आगच्छन्तु, अमुना संकल्पेन साकं वयं सर्वे पुनरेकवारं पूज्य-बापू-चरणं स्मरन्तः स्वच्छ-भारतस्य संकल्पं स्वीकुर्वन्तः पुरुषार्थस्य पराकाष्ठाम् अनुतिष्ठेम |
मम प्रियाः देशवासिनः ! केचन विषयाः प्रथम-दृष्ट्या लघवः प्रतीयन्ते परञ्च समाज-दृशा अस्मदीयम् अभिज्ञानं सुदीर्घकालं यावत् सततं प्रभावयन्ति | अद्यतनस्य ‘मन की बात’-प्रसारणस्य माध्यमेन अहं भवद्भिः साकं तादृशमेकं विषयं संविभक्तुं वाञ्छामि | अहं सूचितोsस्मि यत् काचित् मुस्लिम-महिला, हज-यात्रार्थं गन्तुकामा अस्ति चेत् सा ‘महरम’-इति वा स्वीय-पुरुष-अभिभावकं विना गन्तुं नैव शक्नोति | मया चिन्तितं यत् केन अयं नियमः विरचितः ? कथम् एतादृशो भेद-व्यवहारः ? मया गभीरतया चिन्तितं तदा आश्चर्यम् अनुभूतम् – स्वतन्त्रतायाः प्राप्तेः सप्ततेः वर्षाणाम् अनन्तरमपि एतादृक्-नियमनस्य प्रवर्तकाः अपि वयमेव | विगतेभ्यः दशकेभ्यः मुस्लिम-महिलाभिः साकम् अन्याय-व्यवहारः प्रवर्तते स्म, परञ्च न केनापि विषयोsयं चर्च्यते स्म | न केवलम् एतावदेव, केषुचित् इस्लामिक-देशेष्वपि एतादृशो नियमः नास्ति | परञ्च भारते मुस्लिम-महिलानां कृते अयमधिकारः सुलभः नासीत् | प्रसन्नताम् अनुभवामि यत् अस्मदीयेन सर्वकारेण एतद् अवहितम् | अस्माकम् अल्पसंख्यक-कार्य-मन्त्रालयेन आवश्यकोपायाः विहिताः तथा च, सप्तति-वर्ष-प्राचीनां परम्पराम् उत्सार्य एतादृक्-नियमनम् अपाकृतम् | साम्प्रतं मुस्लिम-महिलाः, ‘महरम’-इत्येनं विना हज-यात्रार्थं गन्तुं शक्नोति, अहं नितरां प्रसीदामि यत् ऐषमः क्रमे देशस्य प्रायेण विभिन्न-भागेभ्यः त्रयोदश-शत-मिताः मुस्लिम-महिलाः ‘महरम’-इत्येनं विना हज- यात्रार्थम् आवेदितवत्यः | अल्पसंख्यक-कार्य-मन्त्रालयमहं परामर्शितवान् यत् तादृशीः सर्वाः अपि महिलाः हज-यात्रायै अनुमताः स्युः | पूर्ण-विश्वासेन वदामि यत् भारतस्य विकास-यात्रा, अस्माकं नारी-शक्तेः बलाधृतास्ति, तासां प्रतिभाधारेण समुन्नता तथा च, सततम् अग्रेसरिष्यति | अस्मदीयोsयम् अनारतः प्रयासः स्यात् यत् अस्माकं महिलाः अपि पुरुष-तुल्यान् अधिकारान् अवाप्नुयुः, समानावसरान् च लभेरन्, येन ताः अपि प्रगति-पथि युगपदेव सम्भूय अग्रेसर्तुं पारयेयुः |
मम प्रियाः देशवासिनः ! जान्युआरि-मासीयं षड्-विंशतमं दिनम् अस्माकं कृते ऐतिहासिक-पर्व वर्तते | परम् ऐषमः दिनमिदं विशेषतया स्मरिष्यते | एतद्-वर्षीये गणतंत्र-दिवस-समारोहे सर्वेषामपि दश-संख्याकानाम् आसियान-(ASEAN)-देशानां नेतारः मुख्य-अतिथि-रूपेण भारतमागमिष्यन्ति | गणतंत्र-दिवसावसरे अस्मिन् क्रमे एकः एव नैव ‘दश’ (10) मुख्याः अतिथयो भवितारः | भारतस्य इतिहासे पूर्वं न कदाचिद् एवं जातम् | एतद्-वर्षं सप्तदशोत्तर-द्विसहस्रतमम् [2017], आसियान-(ASEAN) देशानां भारतस्य च कृते विशिष्टमेव अवर्तत | आसियान-संघटनेन (ASEAN)- सप्तदशोत्तर-द्विसहस्रतमे वर्षे स्वीयानि पञ्चाशत्-वर्षाणि पूर्णतां नीतानि, अपि च, सप्तदशोत्तर-द्विसहस्रतमे एव वर्षे आसियान-संघटनेन (ASEAN) साकं भारतस्य सहभागितायाः पञ्च-विंशति-मितानि वर्षाणि पूर्णतां नीतानि | जान्युआरि-मासीये षड्-विंशे दिनाङ्के विश्वस्य दश-देशानां महान्तः नेतारः सम्भूय समुपस्थास्यन्ते इति तु सर्वेषामपि भारतीयानां कृते गौरवास्पस्दमेव |
मम प्रियाः देशवासिनः ! अयं हि उत्सवानाम् ऋतुः | वस्तुतस्तु अस्मदीयोsयं देशः पर्वणाम् उत्सवानाञ्च देशोsस्ति | स्यादेव कश्चन दिवसोsस्ति यस्मिन् पर्व वा उत्सवो वा नास्ति | नातिचिरम् अस्माभिः क्रिस्मस्-उत्सवः आमानितः, इतः परं नूतन-वर्षमागम्यमानमस्ति | आगामि-नूतन-वर्षं भवतां सर्वेषां कृते अनेक-विध-प्रसन्नता-प्रदायकं सुख-समृद्धि-वर्धकञ्च स्यादिति | वयं सर्वेsपि नवीनेन उत्साहेन, नूतनेन उमङ्गेन, अभिनवेन संकल्पेन, नूत्नया च ऊर्जया च साकम् अग्रेसरेम, राष्ट्रमपि अग्रेसारयेम | जान्युआरि-मासः आदिदेवस्य आदित्यस्य सूर्यस्य उत्तरायण-गमनस्य कालोsस्ति, तथा च अस्मिन्नेव मासे मकर-संक्रान्तिः आमान्यते | एतद्धि प्रकृत्या सम्पृक्तं पर्व वर्तते | यद्यपि अस्मदीयं प्रत्येकमपि पर्व कथं कथञ्चन रूपेण प्रकृत्या सम्पृक्तं वर्तते परञ्च विविधता-पूर्णायाम् अस्मदीयायां संस्कृतौ, प्रकृतेः अद्भुत-घटनायाः पृथक्-पृथक्-रूपेण आयोजनस्य प्रथापि वर्तते | पंजाबे उत्तर-भारते च लोहड़ी-पर्व सानन्दम् आयोज्यते, अपरतः उत्तर-प्रदेशेsपि, अपरत्र च, बिहारे खिचड़ी-तिल-संक्रांति-पर्व सोत्साहं प्रतीक्ष्यते | राजस्थाने संक्रांत-इति, असम-राज्ये च माघ-बिहू-इति, आहोस्वित् तमिलनाडु-राज्ये पोंगल-इति – एतानि सर्वाणि अपि पर्वाणि निज-वैशिष्ट्य-युतानि सन्ति, एतेषां सर्वेषामपि नैजं नैजं महत्वमस्ति | एतानि सर्वाण्यपि पर्वाणि प्रायेण जान्युआरि-मासस्य त्रयोदशतः सप्तदश-दिनाङ्कस्य मध्ये आयोज्यन्ते | एतेषां सर्वेषाम् उत्सवानां नामानि पृथक्-पृथक् वर्तन्ते परञ्च एतेषां मूल-तत्वन्तु एकमेवास्ति – प्रकृत्या कृष्या च सार्धं सम्पृक्तिः |
सर्वेषामपि देशवासिनां कृते एतेषां शुभ-पर्वणाम् अवसरे भूरि भूरि शुभकामनाः वितरामि | पुनरेकवारं अष्टादशोत्तर-विंशति-तमेति नूतन-वर्षावसरे हार्दिक्यः मङ्गल-कामनाः | भूरिशो धन्यवादाः ! प्रियाः देशवासिनः ! इतः परम् अष्टादशोत्तर-विंशति-तमे वर्षे पुनः सम्भाषणं करिष्यामः | धन्यवादः !
*****
— भाषान्तर-कर्ता – डॉ.बलदेवानन्द-सागरः
दूरभाषः – ९८१० ५६२२ ७७
ईमेलः – baldevanand.sagar@gmail.com
‘मन की बात’ [३८]
“मनोगतम्” [३८] (प्रसारण-तिथि:- 26.11.2017)
[“मन की बात”- “मनोगतम्” – इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
– बलदेवानन्द-सागरः
मम प्रियाः देश-वासिनः !
नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group – इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि, देशस्य समस्याभिः अभिज्ञाताः सन्ति, देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City – इति योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति |
लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति | सा परामर्शयत् यत् समीपमेव कश्चन विद्यालयः स्थापनीयः | परञ्च, देशवासिनः ! एकेन वार्तापत्रेण प्राथमिक-प्रयासत्वेन इदमारब्धम्, मां प्रति एतानि पत्राणि प्रापितानि, मह्यम् इदम् अरोचत, तेषां पत्राणां पठनस्य अवसरं लब्धवान् | मत्कृतेsपि अयं सुखदः अनुभवः आसीत् |
मम प्रियाः देशवासिनः, अद्य नवम्बर-मासीयः एकादश-दिनाङ्कः | नवम्बर-मासीयः एकादश-दिनाङ्कः, अस्मदीय-संविधानस्य दिवसः अस्ति | ऊनविंश-शताब्दस्य ऊन-पन्चाशत्तमे वर्षे [1949] अस्मिन्नेव दिने, संविधान-सभा भारतस्य संविधानं स्वीकृतवती | ऊनविंश-शताब्दस्य पञ्चाशत्तमे वर्षे [1950] जान्युआरि-मासे षड्विंशे दिनाङ्के संविधानं प्रवर्तितम्, अत एव वयं एनं गणतंत्र-दिवसरूपेण आयोजयामः | भारतस्य संविधानं हि, अस्मदीय-लोकतंत्रस्य आत्मा वर्तते | अद्यतनोsयं दिवसः, संविधान-सभायाः सदस्यानां स्मरण-दिनं वर्तते | ते हि भारतस्य संविधान-संरचनायाः कृते प्रायेण वर्षत्रयं यावत् परिश्रमम् अकुर्वन् | यः कश्चन तद्विषयिणीं परिचर्चां पठति, नूनं सः अनुभवति यत् राष्ट्राय समर्पित-जीवनस्य विचार-सरणी कीदृशी भवति ! एतद्-विषये वयं गौरवम् अनुभवामः | किं भवन्तः इदं कल्पयितुं शक्नुवन्ति यत् विविधता-पूर्णस्य अस्मदीय-देशस्य संविधान-रचनायै ते कियन्तं कठोरं श्रमितवन्तः ? पारदर्शित्वस्य प्रबोधस्य दूर-दर्शितायाः च नूनं ते दर्शनं कारितवन्तः, तथा च, तस्मिन् काले यदा देशः दासतायाः शृङ्खलाभ्यः मुक्ति-प्रक्रियायाम् आसीत् | अस्यैव संविधानस्य प्रकाशान्तर्गतं संविधान-निर्मातॄणां, तेषां महापुरुषाणां च विचार-प्रकाशान्तर्गतं नूतन-भारतस्य निर्माणम् अस्माकं सर्वेषां दायित्वं वर्तते | अस्मदीयं संविधानम् अतिव्यापकं वर्तते | सम्भवतः जीवनस्य तादृशं किञ्चन क्षेत्रं नास्ति, प्रकृतेः तादृशः कश्चन विषयो नैवास्ति, यो हि नात्र समावेशितः | सर्वेषां कृते समानता, सर्वान् प्रति च संवेदनशीलता, एतदस्ति – अस्मदीय-संविधानस्य अभिज्ञानम् | इदं प्रत्येकमपि नागरिकस्य, भवतु नाम सः निर्धनो वा दलितः, पश्चवर्ती वा वञ्चितः, आदिवासी वा महिला – सर्वेषां मौलिकान् अधिकारान् रक्षति तेषाञ्च हितानि परिपालयति | अस्मदीयमिदं कर्तव्यं यत् वयं संविधानम् अक्षरशः अनुसरेम | भवतु नाम सः नागरिको वा प्रशासकः, संविधानस्य भावनानुरूपम् अग्रेसरेम | न कश्चन अपि क्षतिम् अवाप्नुयात् – अयमेवास्ति संविधानस्य सन्देशः | अद्य, संविधान-दिवसस्य अवसरे डॉ.बाबासाहेब-आंबेडकरस्य स्मरणं सुतरां स्वाभाविकम् | अस्यां संविधान-सभायां महत्वपूर्ण-विषयाणां कृते सप्तदश पृथक्-पृथक् समितयो विरचिताः आसन् | एतासु अतितरां महत्वपूर्णाषु समितिषु अन्यतरा आसीत् – drafting committee – प्रारूपण-समितिः | डॉ. बाबासाहेब-आंबेडकरः, संविधानस्य तस्याः प्रारूपण-समितेः अध्यक्षः आसीत् | असौ नितरां भूयसीं महत्वपूर्णां भूमिकां निर्वाहयन् आसीत् | अद्य वयं भारतस्य यस्य संविधानस्य विषये गौरवमनुभवामः, तस्य निर्माणे बाबासाहेब-आंबेडकरस्य कुशल-नेतृत्वस्य अनुपमः प्रभावः वर्तते | तेन सुनिर्धारितमासीत् यत् समाजस्य प्रत्येकमपि वर्गस्य कल्याणं भवेत् | डिसम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसस्य अवसरे, वयं सर्वदा एव तं स्मरामः नमामश्च | देशस्य समृद्धौ शक्तिमत्करणे च बाबासाहेबस्य योगदानम् अविस्मरणीयम् अस्ति | डिसम्बर-मासे पञ्चदशे दिने सरदार-वल्लभभाई-पटेलस्य पुण्यतिथिरस्ति | कृषक-पुत्रतः लौह-पुरुषत्वेन प्रतिष्ठितः सरदार-पटेलः, देशस्य एकसूत्रीकरणे अतितराम् असाधारण-कार्यम् अनुष्ठितवान् | सरदार-साहबः अपि संविधान-सभायाः सदस्यः आसीत् | असौ मौलिकाधिकाराणां, अल्प-संख्यकानाम् आदिवासिनां च कृते विरचितायाः परामर्शदातृ-समितेः अपि अध्यक्षः आसीत् |
नवम्बर-मासीयः एकादश-दिनाङ्कः अस्मदीय-संविधान-दिवसोsस्ति, परञ्च देशोsयं कथं विस्मर्तुं प्रभवति यत् नव-वर्षेभ्यः प्राक्, अस्मिन्नेव दिने, आतंकवादिनः मुंबईम् आक्रान्तवन्तः | देशोsयं तान् वीरान् नागरिकान्, रक्षिकर्मिणः, सुरक्षाकर्मिणः, सर्वान् अपि तान् स्मरति प्रणमति च, ये आत्मानम् उत्सृष्टवन्तः | देशोsयं तेषां बलिदानं न कदापि विस्मरिष्यति | आतंकवादः, अद्यत्वे विश्वस्य प्रत्येकमपि भू-भागे सामान्यतः प्रतिदिनं सञ्जायमानायाः घटनायाः अति-भयंकर-रूपत्वेन संतिष्ठते | वयं, भारते विगतेभ्यः चत्वारिंशद्वर्षेभ्यः आतंकवादस्य कारणात् सुबहु सम्मुखीकुर्मः | अस्मदीयाः परस्सहस्रं निर्दोष-जनाः विगत-प्राणाः जाताः | अपि च, कतिपय-वर्षेभ्यः प्राक्, यदा भारतं जगति आतंकवादं चर्चते स्म, आतंकवादात् सञ्जायमानं भयङ्करं सङ्कटं परिचर्चते स्म, तदा जगतः जनानाम् अधिसंख्यं विषयमेनं गभीरतया स्वीकर्तुम् उद्यतं नैव आसीत् | परञ्चाद्य, आतंकवादः तेषां द्वाराणि संकेतयति तदा जगतः प्रत्येकमपि प्रशासनम्, मानवतावादे आहित-विश्वासानि, लोकतन्त्रे आश्वस्तानि प्रशासनानि च, आतंकवादं बृहत्तर-समाह्वानत्वेन अवलोकयन्ति | आतंकवादः विश्वस्य मानवतां समाह्वयति | सः मानवीय-शक्तीः नाशयितुं तत्परः | अतः न केवलं भारतं, विश्वस्य सर्वाः अपि मानवतावादि-शक्तयः सम्भूय, नूनम् आतंकवादं पराजयेरन् | भगवान् बुद्धः, भगवान् महावीरः, गुरुः नानकः, महात्म-गांधी चैतेषाम् एषा भूः, ये सदा जगति अहिंसा-प्रेम्णोः सन्देशं प्रसारितवन्तः | आतंकवादः उग्रवादश्च, अस्मदीयां सामाजिक-संरचनां दुर्बलीकृत्य एनां छेत्तुं भेत्तुञ्च दुश्चेष्टेते | अत एव, कालेsस्मिन् मानवतावादि-शक्तयः समधिक-जागरुकतया व्यवहरेयुः इति परमावश्यकम् |
मम प्रियाः देशवासिनः, डिसम्बर-मासे चतुर्थ-दिने वयं सर्वे मिलित्वा नौ-सेना-दिवसम् आयोजयिष्यामः | भारतीय-नौ-सेना, अस्मदीय-समुद्र-तटानि संरक्षति | अहं, नौ-सेना-सम्बद्धान् सर्वान्नपि जनान् अभिनन्दामि | भवन्तः सर्वे जानन्त्येव यत् अस्मदीय-सभ्यतायाः विकासः नदीनां तटेषु अजायत | भवतु नाम सा गङ्गा वा सिन्धुः वा यमुना वा सरस्वती – अस्मदीयाः सरितः समुद्राश्च, आर्थिक-सामरिकेति द्विविध-लक्ष्यार्थं महत्वाधायिनः सन्ति | एते अशेष-विश्वस्य कृते अस्मदीय-द्वाराणि सन्ति | अस्य देशस्य, अस्मदीयायाः अस्याः भूमेः महासागरैः साकम् अविभाज्यः सम्बन्धः अवर्तत, तथा च, यदा वयम् इतिहासम् अवलोकयामः, प्रायेण अष्टशत-नवशत-वर्षेभ्यः प्राक् [800-900] चोल-वंश-काले, चोल-नौ-सेना शक्तिमत्तमासु सेनासु अन्यतमा मान्यते स्म | चोल-साम्राज्यस्य विस्तरे, आर्थिक-महच्छक्तित्वेन अस्य विकासार्थं नौ-सेनायाः महद्-योगदानमासीत् | चोल-नौ-सेनायाः अभियानानाम्, अन्वेषण-यात्राणाम् चानेकानि उदाहरणानि अद्यापि, संगम-साहित्ये समुपलब्धानि सन्ति | अतिन्यूनाः एव अवगताः भवेयुः यत् जगति नौसेनानाम् अधिसंख्यं सुदीर्घ-कालानन्तरं युद्ध-पोतेषु कार्यार्थं महिलाः अनुज्ञातवत् | परञ्च, चोल-नौसेनायां, अष्टशत-नवशत-वर्षेभ्यः प्राक्, अनेकाः महिलाः प्रमुखां भूमिकां निरवहन् | न केवलम् एतावदेव, युद्धेष्वपि महिलाः समाविष्टाः आसन् | चोल-शासकाः पोत-निर्माण-विषयकं बहुतरं समृद्धं ज्ञानं सन्धारयन्ति स्म | यदा वयं नौ-सेना-विषयं कथयामः तदा छत्रपति-शिवाजी-महाराजस्य तस्य च नौ-सेनायाः सामर्थ्यं को नाम विस्मर्तुम् अर्हति ! कोंकण-तट-क्षेत्रम्, यत्र समुद्रस्य महत्वपूर्णा भूमिका वर्तते, शिवाजी-महाराजस्य राज्यान्तर्वर्ति आसीत् | शिवाजी-महाराजेन सम्बद्धाः अनेके दुर्गाः – यथा सिंधु-दुर्गः, मुरुड-जंजिरा-दुर्गः, स्वर्ण-दुर्गः प्रभृतयः, समुद्रतट-वर्तिनः आसन् उत वा समुद्रेण परिवृताः आसन् | एतेषां दुर्गाणां सुरक्षा-दायित्वं हि मराठा-नौ-सेना कुर्वन्ती आसीत् | मराठा-नौ-सेनायां विशाल-काय-पोतानां लघु-नौकानाञ्च संयुतिः आसीत् | अस्याः नौसैनिकाः कमपि शत्रुम् आक्रान्तुं तस्माच्च आत्मानं रक्षितुं अतितरां कुशलाः आसन् | यदा वयं मराठा-नौ-सेनायाः चर्चां कुर्मः, तदा कान्होजी-आंग्रे-वर्यस्य स्मरणं नैव जायेत, तन्नैवास्ति शक्यम् ! सः मराठा-नौ-सेनायाः स्तरोन्नयनं कृतवान् अपि च, नैकत्र, मराठा-नौ-सैनिकानाम् आस्थानकानि स्थापितवान् | स्वतंत्रतायाः प्राप्तेः अनन्तरम् अस्मदीया भारतीया नौ-सेना, विभिन्नेषु अवसरेषु स्वीयं पराक्रमं प्रादर्शयत् – भवतु सः गोवा-मुक्ति-संग्रामः आहोस्वित् ऊनविंश-शताब्दस्य एकसप्ततितम-वर्षीयं [1971] भारत-पाक-युद्धम् | यदा वयं नौ-सेनायाः चर्चां कुर्मः तदा केवलं युद्धमेव पश्यामः परञ्च भारतस्य नौ-सेना, मानवतायाः कार्येष्वपि सोत्साहं सहभागित्वमावहति | वर्षेsस्मिन् जून-मासे बांग्लादेश-म्यांमार-देशयोः Cyclone Mora- इति सामुद्रिक-झञ्झावात-संकटं समापन्नमासीत्, तदा अस्मदीय-नौसेनायाः INS-SUMITRA-पोतः तत्कालमेव सुरक्षा-साहाय्य-कार्याणि कुर्वन् अनेकान् मत्स्य-जीविनः जलेभ्यः निष्कास्य संरक्ष्य च बांग्लादेशाय अर्पितवान् | वर्षेsस्मिन् मे-जून-मासयोः यदा श्रीलंका-देशे जलपूरस्य भयंकरं संकटं समापन्नं तदा अस्मदीय-नौ-सेनायाः पोत-त्रयं तत्कालमेव तत्र गत्वा तत्रत्य-प्रशासनाय जनतायै च साहाय्यं व्यदधात् | बांग्लादेशे सेप्टेम्बर-मासे रोहिंग्या-विषये अस्मदीय-नौ-सेनायाः INS-GHADIYAL- (घड़ियाल)- इति पोत-द्वारा मानवीय-सहायता प्रापिता | जून-मासे PAPUA NEW GUINEA ( पापुआ न्यू गिनी ) – देशस्य सर्वकारः SOS- इत्यात्मरक्षि-सन्देशं प्राहिणोत्, तथा च, तस्य मत्स्याहरण-नौकायाः धीवरान् रक्षितुम् अस्मदीया नौ-सेना साहाय्यम् अकरोत् | नवंबर-मासे एक-विंशे दिने पश्चिमीय-खाते एकस्मिन् व्यापारिक-पोते दुरापन्ने सामुद्रिक-लुण्ठन-घटनावसरेsपि, अस्मदीय-नौ-सेनायाः INS TRIKAND – (त्रिकंड) इति पोतः साहाय्यार्थं तत्र द्रुतं प्रयातः | फ़िजी-देशाय [FIJI] आरोग्य-सेवानां सम्प्रापणं वा भवेत्, तत्कालमेव साहाय्य-प्रदानं वा स्यात्, प्रतिवेशि-देशस्य संकट-काले मानवीय-साहाय्य-प्रदानं वा स्यात्, अस्मदीया नौ-सेना सर्वदैव गौरवपूर्णानि कार्याणि कुर्वन्ती आसीत् | वयं भारतवासिनः, अस्मदीय-सुरक्षा-बलानि प्रति सर्वदैव गौरवस्य आदरस्य च भावं सन्धारयामः – भवतु नाम स्थल-सेना वा नौ-सेना वा वायु-सेना, अस्माकं सैनिकानां साहसं, वीरता, शौर्यं, पराक्रमः, बलिदानञ्च गौरवास्पदमेव, प्रत्येकमपि देशवासी एतान् प्रणमति | सपाद-शत-कोटि-मिताः देशवासिनः सुखेन जीवनं यापयेयुः इति विचिन्त्य एते स्वीयं यौवनं राष्ट्राय समर्पयन्ति | प्रति-वर्षं डिसेम्बर-मासे सप्तमे दिने सशस्त्रबलानि ध्वज-दिनम् आयोजयन्ति | अयं हि देशस्य सशस्त्रबलानि प्रति गर्व-सम्मानयोः प्रकटीकरणस्य दिवसोsस्ति | प्रसन्नोsस्मि यत् सम्प्रति प्रतिरक्षा-मंत्रालयः डिसेम्बर-मासे एकतः सप्तम-दिनं यावत् अभियानं प्रचालयितुं निरणैषीत् – देशस्य नागरिकान् सम्प्राप्य सशस्त्रबलानां विषये जनाः संसूचनीयाः, ते च सुतरां प्रबोधनीयाः | सम्पूर्णेsपि सप्ताहे आबाल-वृद्धाः सर्वेsपि ध्वजं सन्धारयेयुः | देशे सेनां प्रति सम्मानस्य आन्दोलनं प्रवर्तितं स्यात् | अवसरेsस्मिन् वयं सशस्त्रबलानां ध्वजान् वितरितुं शक्नुमः | स्व-परिवर्तिभ्यः निज-परिचितेभ्यश्च सशस्त्रबलैः सम्बद्धानां अनुभवान्, तेषां शौर्यपूर्ण-कार्याणि, तत्सम्बद्ध-चित्राङ्कन-मुद्रिकाः, चित्राणि च (hashtag armedforcesflagday) #armedforcesflagday- इत्यत्र प्रेषयितुं शक्नुमः | विद्यालयेषु, महाविद्यालयेषु च, सैनिकान् सैन्याधिकारिणश्च समामन्त्र्य, तेभ्यः सैन्य-विषयाणां सूचनाः आदातुं शक्नुमः | अस्माकं नूतन-सन्ततये सेना-सम्बद्ध-सूचनाः अधिगन्तुमयं समुचितः अवसरः भवितुमर्हति | अवसरोsयं अस्माकं सशस्त्र-सैन्य-बालानां सर्वेषामपि सैनिकानां कल्याणार्थं धनराशि-संग्रहस्य कालः भवति | राशिरयं, सैनिक-कल्याण-मण्डल-माध्यमेन युद्धस्य हुतात्मनां सैनिकानां कुटुम्ब-जनानां व्रणितानाम् आहतानां च भटानां कल्याणार्थं पुनर्वासार्थञ्च व्ययीक्रियते | आर्थिक-योगदानार्थं भवन्तः विभिन्न-प्रदेय-विषयिणीः सूचनाः ksb.gov.in – इत्यतः आदातुं शक्नुवन्ति | भवन्तः एतदर्थं cashless- इति रोक्क-रहितं प्रदातुमर्हन्ति | आगच्छन्तु, अवसरेsस्मिन् वयमपि किञ्चित् तादृशं करवाम, येन अस्मदीय-सशस्त्र-बलानां मनोबलं विवर्धेत | वयमपि तेषां कल्याण-दिशि स्वीयं योगदानं करवाम |
मम प्रियाः देशवासिनः, डिसेम्बर-मासीये पञ्चमे दिने ‘World Soil Day’ – इति विश्व-मृत्तिका-दिवसोsस्ति | अहं स्वीयैः कृषक-भ्रातृ-भगिनीभिः साकमपि किञ्चित् सम्भाषितुमीहे | पृथिव्याः महत्वपूर्णाङ्गत्वेन वर्तते – मृत्तिका | वयं यत्-किमपि खादामः तत्-सर्वमपि अनया मृत्तिकया एव सम्पृक्तं वर्तते | एकतस्तु, कृत्स्नापि खाद्य-शृङ्खला मृत्तिकया सम्बद्धास्ति | किञ्चित् कल्पयन्तु, यदि विश्वेsस्मिन् कुत्रचिदपि उत्पादक-मृत्तिका नैव भवेत् चेत्, किं नाम भविष्यति ? इदं विचिन्त्यैव भीतिः अनुभूयते | नैव मृत्तिका भविता, न हि पादपाः वा वृक्षाः समुत्पत्स्यन्ते, मानव-जीवनं कुत्र सम्भविता ? जीव-जन्तवः कुत्र सम्भविष्यन्ति ? अस्मदीयायां संस्कृतौ एतद्-विषयिणी चिन्ता पूर्वमेव परिशीलिता, इदमेव कारणमस्ति यत् वयं मृत्तिकायाः महत्व-विषये प्राचीन-कालादेव जागरुकाः स्मः | अस्मदीयायां संस्कृतौ एकतः कृषि-क्षेत्राणि प्रति, मृत्तिकां प्रति च भक्तिः आभार-भावश्च, जनेषु प्रवर्तेत – इति कृत्वा सहजः प्रयासः विहितः, अपरतश्च, तादृश्यः वैज्ञानिक-पद्धतयः, जीवनस्य अङ्गत्वेन अवर्तन्त यत् अस्याः मृत्तिकायाः पोषणं सततं स्यात् | अस्य देशस्य कृषकस्य जीवने तथ्य-द्वयस्यापि महत्वं प्रावर्तत – निज-मृत्तिकां प्रति भक्तिः युगपदेव, वैज्ञानिक-रूपेण मृत्तिकायाः संरक्षणं परिपोषणञ्च | वयं सर्वेsपि विषयेsस्मिन् गौरवमनुभवामः यत् अस्मदीयाः कृषकाः, परम्पराभिः साकमपि सम्पृक्ताः भवन्ति तथा च, आधुनिक-विज्ञानं प्रत्यपि रुचिमन्तो भवन्ति, प्रयतन्ते, संकल्पयन्ति च | अहं हिमाचल-प्रदेशस्य हमीरपुर-जनपदस्य टोहू-ग्रामस्य भोरंज-प्रखण्डस्य कृषकाणां विषये श्रुतवान् | अत्र पूर्वं कृषकाः असन्तोलित-रीत्या रासायनि- कोर्वरकाणाम् उपयोगं कुर्वन्ति स्म, येन एतस्याः भूमेः स्वास्थ्यम् अपक्षतम् | उत्पादनं न्यूनीभूतम्, उत्पादन-न्यूनतायाः कारणात् आयजातमपि न्यूनीभूतम्, मृत्तिकायाः उत्पादकता चापि शनैः शनैः क्षीणा जायते स्म | ग्रामस्य केचन जागरुकाः कृषकाः अस्याः परिस्थितेः गम्भीरताम् अवागच्छन्, तदनन्तरं ग्रामस्य कृषकाः काले एव स्व-मृत्तिकां परीक्षितवन्तः, तथा च, यावन्ति उर्वरकाणि, लघु-पौष्टिक-वस्तूनि, जैविकोर्वर्काणि चोपयोक्तुं ते निर्दिष्टाः, ते तदनुसृतवन्तः | तथा च, भवन्तः तत्परिणामं श्रुत्वा चकिताः भविष्यन्ति यन् मृत्तिका-आरोग्य-द्वारा कृषकाः यां सूचनां प्राप्तवन्तः, यन्मार्ग-दर्शनं लब्धवन्तः, तस्य कार्यान्वयनस्य परिणामः किमभवत् ? विगत-वित्त-वर्षे श्रावणीय-शस्यावधौ गोधूमस्य उत्पादने प्रति-एकड् त्रितः चतुर्मिता वृद्धिः जाता, अपि च, आयमितौ अपि प्रति-एकड् चतुर्तः षट्-सहस्र-रूप्यकाणां वृद्धिः अभवत् | अमुना साकं मृत्तिकायाः गुणवत्तायामपि परिष्कारः अजायत | उर्वरकस्य उपयोगस्य न्यूनता-कारणात् आर्थिक-सञ्चयोsपि जातः | इदं दृष्ट्वा प्रसीदामितमां यन्मम कृषक-भ्रातरः, मृदा–स्वास्थ्य-पत्रस्य परमर्शान् क्रियया अन्वेतुं प्रेरिताः अभूवन्, तथा च, यथा यथा परिणामाः अवाप्यन्ते, तेषां समुत्साहः अपि संवर्धते | सम्प्रति कृषकाः अपि अनुभवन्ति यत् शस्यानि चिन्तनीयानि सन्ति चेत् प्रथमं तावत् भूमेः चिन्ता करणीयास्ति, एवं हि, यदि वयं भूमि-मातुः चिन्तां करिष्यामश्चेत् भूमि-मातापि अस्माकं सर्वेषां पोषणं करिष्यति | अशेष- देशे अस्मदीयैः कृषकैः दश-कोट्यधिकानि मृदारोग्य-पत्राणि विनिर्मितानि येन हि ते स्वीय-मृत्तिकां सम्यग्रूपेण अवगन्तुं शक्नुयुः, तदनुरूपेण च, शस्य-वपनमपि कर्तुं पारयेयुः | वयं भूमि-मातुः भक्तिं कुर्मः, परञ्च यूरिया-सदृशैः उर्वरकैः भूमि-मातुः स्वास्थ्यं कियद् अपक्षतं भवति ? कदाचित् विचारितं वा ? प्रत्येकमपि वैज्ञानिक-प्रकारेण इदं सिद्धं यत् भूमि-माता समधिकस्य यूरियोपयोगस्य कारणात् गभीरां क्षतिं सम्मुखी- करोति | कृषकस्तु पृथिव्याः पुत्रोsस्ति, कृषकः भूमि-मातरम् अस्वस्थां कथं द्रष्टुं शक्ष्यति ? कालस्य इयमावश्यकतास्ति यत् मातृ-पुत्रयोः सम्बन्धाः पुनरेकवारं जागृताः स्युः | किम् अस्माकं कृषकाः, अस्मदीयायाः भूमेः पुत्राः, अस्माकं धरण्याः सन्ततयश्च इदं संकल्पयितुं शक्नुवन्ति यत् साम्प्रतं ते स्वीय-क्षेत्रेषु यावन्तं यूरियोपयोगं कुर्वन्ति, एतच्छताब्दस्य द्वाविंश-वर्षं यावत्, यद्धि स्वाधीनता-प्राप्तेः पञ्च-सप्तति-वर्षं भविता, अर्धोपयोगं अवरोत्स्यन्ति ? एक-वारं यदि, भूमि-मातुः पुत्रः, मम कृषक-भ्राता, इदं संकल्पयति चेत्, नूनं पश्यन्तु, भूमि-मातुः आरोग्यं परिष्कृतं भविता, उत्पादनञ्च विवर्धिता | कृषकस्य जीवनं परिवर्तितुम् आरप्स्यते |
सम्प्रति वयं सर्वेsपि Global warming, Climate change- इति जागतोष्णता-ऋतु-परिवर्तन-विषयम् अनुभवामः | कदाचित् तादृशः कालः आसीत् यदा दीपावल्याः प्रागेव शीतर्तुः प्रारभते स्म | अधुना सत्यपि डिसेम्बर-मासे आगते, शीतर्तुः शनैः शनैः समुपागच्छति | परञ्च यथैव शीतकालः आरभते, वयं सर्वेsपि अनुभवामः यत् कम्बलात् बहिः निर्गन्तुं न मनागपि कस्मैचिद् रोचते | परञ्च, एतादृशेष्वपि ऋतुषु सततं जागरुकाः सन्तः जनाः महान्तं परिणामं विधातुमर्हन्ति, अपि चैतानि उदाहरणानि अस्माकं सर्वेषां कृते प्रेरणा-प्रदायीनि भवन्ति | भवन्तोsपि इदं श्रुत्वा आश्चर्यमनुभविष्यन्ति यन् मध्यप्रदेशस्य अष्ट-वर्षीयः दिव्यांग-बालकः तुषारः, स्वीयं ग्रामं अनावृत-शौचाचरणान् मुक्तं विधातुं निरणैषीत् | एतावत्-व्यापक-स्तरीयं कार्यं तथा च, एतावान् कनीयान् बालकः ! परञ्च भावः संकल्पश्च, सुतरां बहुगुणितौ बृहन्तौ बलवत्तरौ च आस्ताम् | अष्ट-वर्षीय-बालकः न वक्तुं प्रभवति परञ्च, शीष्कारं स्वीयायुधत्वेन स्वीकृत्य प्रातः पञ्च-वादने उत्थाय स्वीय-ग्रामे प्रतिगृहं गत्वा च जनान् शीष्कार-स्वरेण जागरयति, हस्तयोः संकेतेन अनावृते शौचाचरणं नैव कर्तुं शिक्षयितुम् आरभत | प्रतिदिनं त्रिंशत्-चत्वारिंशत्-संख्याकेषु गृहेषु गत्वा स्वच्छतायाः सन्देश-प्रदायकस्य अस्य बालकस्य कारणात् कुम्हारी-ग्रामः, अनावृते शौचाचरणान् मुक्तः अभवत् | स्वच्छता-प्रोत्साहनाय कनिष्ठः बालकः तुषारः प्रेरकं कार्यमकरोत् | अस्माकीनाः दिव्यांग-भातृ-भगिन्यः दृढ़-निश्चयिनः, सामर्थ्यवन्तः, साहसिकाः संकल्प-वन्तश्च वर्तन्ते | प्रतिक्षणं वयं किञ्चित्-किञ्चिदपि शिक्षितुं अवसरान् लभेमहि | साम्प्रतं ते प्रत्येकमपि क्षेत्रे समीचीनतरं कार्यं कुर्वन्ति | अस्माकं दिव्यांग-जनाः न कस्मादपि पश्चवर्तिनः वर्तन्ते | भवन्तः सर्वे स्मरन्ति वा यत् अस्माकं दिव्याङ्गाः क्रीडकाः Rio Olympic-क्रीडा-स्पर्धासु भद्रतरं प्रदर्शनम् अकुर्वन्, चत्वारि पदकानि च विजितवन्तः | तथा च, नेत्रहीन- T-20 Cricket World Cup- इति स्पर्धायां अपि विजेतारः अभूवन् | अशेष-देशे पृथक्-पृथक्-प्रकारिकाः प्रतियोगिताः आयोज्यन्ते | विगतेषु दिनेषु उदयपुरे सप्तदश-संख्याकाः राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धाः आयोजिताः | अशेष-देशाद् आगताः अस्मदीयाः युवानः दिव्याङ्गाः भ्रातृ-भगिन्यः आसु सहभागित्वम् आवहन्, स्वीयं कौशलञ्च प्रादर्शयन् | तेषु अन्यतमः अस्ति- गुजरातस्य ऊनविंश-वर्षीयः जिगर-ठक्करः, तस्य शरीरे प्रतिशतं अशीतौ भागेषु मांसकोशिकाः नैव वर्तन्ते, परञ्च, तस्य साहसम्, संकल्पम् श्रमञ्च पश्यन्तु ! राष्ट्रिय-दिव्याङ्ग-तरण-स्पर्धायाम् ऊनविंश-वर्षीयः जिगर-ठक्करः एकादश-पदकानि विजितवान् ! असौ भारतस्य स्पर्धा-प्राधिकरण- द्वारा विंशति-विंशति-दिव्याङ्ग-ओलम्पिक-स्पर्धायै चितः, द्वात्रिंशत्-तरण-पटुषु चान्यतमः यो हि गुजराते गांधीनगरे Centre for Excellences- इत्यत्र प्रशिक्षणं प्राप्स्यति | अहं यूनः जिगर-ठक्करस्य समुत्साहम् अभिनन्दामि, तस्मै च मङ्गल-कामनाः व्याहरामि | अस्मदीयोsयं प्रयासो वर्तते यत् देशस्य प्रत्येकमपि जनः समर्थः क्षमश्च स्यात् | एकस्य समावेशि-समाजस्य निर्माणं भवेत् | ‘सम’-‘मम’’ इत्यनयोः भावः समाजे समरसतां विवर्धयेत्, सर्वे च सम्भूय अग्रेसरेम |
कतिपय-दिनानन्तरम् ‘ईद-ए-मिलाद्-उन-नबी’-पर्व आयोजयिष्यते| दिनेsस्मिन् पैगम्बर-हज़रत-मोहम्मद-वर्यस्य जन्म अजायत | अहं सर्वेभ्योsपि देशवासिभ्यः हार्दिकीः शुभकामनाः वितरामि, आशासे यत् इदम् ईद-पर्व, समाजे शान्तिं सद्भावनाञ्च विवर्धयितुं अस्मभ्यं सर्वेभ्यः नूतन-प्रेरणा-प्रदायि स्यात्, अभिनवाञ्च ऊर्जां प्रदद्यात्, नवीन-संकल्पस्य च सामर्थ्य-प्रदं भवेत् |
(दूरभाषः)
‘नमस्ते ! प्रधानमन्त्रि-महोदय, अहं कानपुरतः नीरजा-सिंहः वदामि | मम निवेदनं यत् अस्मिन् सम्पूर्णेsपि वर्षे स्वीये ‘मन की बात’-प्रसारणे यत् किमपि भवता उक्तं तेषु सर्वोत्तमान् दश-विषयान् पुनरपि अस्मान् कथयतु, येन पुनरपि तेषां विषयाणां स्मरणं स्यात् तथा च, वयं किञ्चित् इतः परमपि शिक्षितुं शक्नुमः | धन्यवादः |
( इति दूरभाष-सम्भाषणंम् )
भवत्याः कथनं समीचीनम् | इदं वर्षं पूर्णं भवति | अभिनवं वर्षं आसन्न-प्रायम् | परञ्च भवत्या सम्यक् परामर्शितम् | भवत्या यदुक्तं तेन सह किमपि संयोक्तुं किञ्चित् परिवर्तयितुं चाभिलषामि | अस्माकं ग्रामेषु ये वरिष्ठाः वृद्धाः भवन्ति, ते सर्वदैव कथयन्ति यत् दुःखं विस्मरतु, सुखञ्च नैव विस्मृतं स्यात् | अनुभवामि यद् विषयोsयं अस्माभिः प्रचारणीयः | वयं अष्टादशोत्तर-द्विसहस्र-तमे वर्षे शुभ-स्मरण-पुरस्सरम्, शुभ-संकल्पेन सहैव प्रविशेम | अस्माकं देशे तु संचार-माध्यमेषु, विगत-वर्षस्य अनेकासां रोचक-घटनानां पुनःस्मरणं कारयितुं प्रयत्यते | तेषु रचनात्मकमपि भवति, नकारात्मकमपि भवति | अहं भवद्भ्यः परामर्शमेकं वदामि यत् भवन्तः पञ्च वा दश वा रचनात्मक-विषयान् स्वीकर्वन्तु ये भवद्भिः श्रुताः वा दृष्टाः वा अनुभूताः स्युः तान् जनाः अपि अवगच्छन्ति चेत्, तेsपि शुभ-भावानुभूतिम् अवाप्नुयुः| किमत्र योगदानं कर्तुं शक्ष्यन्ति ? किम् अस्मिन् क्रमे वयं अस्य वर्षस्य जीवनस्य पञ्च रचनात्मक-विषयानुभवान् संभक्तुं शक्नुमः ? भवतु नाम तत् चित्र-माध्यमेन, वा लघुकथा-रूपेण, लघु-दृश्याङ्कनेन वा, अहम् आमन्त्रयामि यत् अष्टादशोत्तर-द्विसहस्र-तम-वर्षस्य स्वागतम् अस्माभिः शुभे परिवेशे करणीयम् | शुभ-स्मृतिभिः साकं करणीयम् | रचनात्मक-चिन्तनेन सह अनुष्ठेयम् | रचनात्मक-विषयान् संस्मृत्य विधेयम् |
आगच्छन्तु, NarendraModi App- इत्यत्र, MyGov- इत्यत्र, सामाजिक-संचार-माध्यमेषु #PositiveIndia (हैशटैग Positive India) – इत्यमुना साकं सकारात्मक-विषयान् वितरेम | अन्येभ्यः प्रेरणा-प्रदायि-घटनाः स्मरेम | शुभं स्मरेम चेत् शुभानुष्ठानस्य रुचिः समुत्पत्स्यते | शुभ-वस्तूनि शुभ-कार्यार्थम् ऊर्जां प्रददति | शुभ-भावः, शुभ-संकल्पस्य हेतुः भवति | शुभ-संकल्पः शुभ-परिणामार्थम् अग्रे सन्नयति |
आगच्छन्तु, सम्प्रति प्रयतेम #PositiveIndia (हैशटैग Positive India) | पश्यन्तु, वयं सर्वे सम्भूय प्रबलं रचनात्मकं च परिवेशं निर्माय आगमिष्यमाणस्य वर्षस्य स्वागतं करिष्यामः | अस्य वर्षस्य सामूहिक-गतेः शक्तिम्, अस्याश्च शक्तेः प्रभावं वयं सर्वे मिलित्वा द्रक्ष्यामः | तथा च, अवश्यमहम् आगामिनि ‘मन की बात’ -प्रसारणे #PositiveIndia (हैशटैग Positive India) इत्यत्र स्थापितान् विषयान् देशवासिभ्यः प्रापयितुं प्रयतिष्ये |
मम प्रियाः देशवासिनः, आगामिनि मासे, आगामिने ‘मन की बात’-प्रसारणाय अहं पुनरेकवारं भवतां मध्ये आगमिष्यामि | अनेकविधान् विषयान् चर्चितुं अवसरञ्च लप्स्ये | भूयांसो धन्यवादाः !!!
—– भाषान्तर-कर्ता – डॉ.बलदेवानन्द-सागरः
दूरभाषः – ९८१० ५६२२ ७७
ईमेलः – baldevanand.sagar@gmail.com
****************************
“मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” – इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
– बलदेवानन्द-सागरः
मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |
अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा परम्परा प्रवर्तते | प्रसाद-याचनस्य अस्याः परम्परायाः पृष्ठ-भूमौ इदम् आमान्यते यत् एवंकरणेन जनस्य आहतः अहङ्कार-भावो नश्यति | अहङ्कार-भावना मानवस्य उन्नतौ बाधिका जायते | भारतस्य एनां महतीं परम्परां प्रति प्रत्येकमपि गौरवमनुभवतीति तु सुतरां स्वाभाविकम् |
मम प्रियाः देशवासिनः, ‘मन की बात’ इति मनोगत-प्रसारणस्य प्रशंसापि भवति, आलोचनापि जायते परञ्च यदा कदाचिदपि ‘मन की बात’ – प्रसारणस्य प्रभावं विभावयामि, तदा मे विश्वासः दृढ़तरो भवति यत् देशस्य जनमानसेन साकं ‘मन की बात’- प्रसारणं प्रतिशतं शत-मित्या अविच्छिन्न-सम्बन्धेन संपृक्तं जातम् | खादीवस्तूनां तथा च handloom-इति हस्तवेम्नः उदाहरणमत्र प्रमाणम् | गान्धि-जयन्त्याः अवसरे अहं सततं हस्तवेम्नः खादि-वस्तूनाञ्च कृते विशेषेण ब्रवीमि तथा च, अस्य परिणामः किमस्ति ? भवन्तोsपि एतद् ज्ञात्वा प्रसन्नाः भविष्यन्ति | सूचितोsस्मि यत् ओक्टोबर-मासेsस्मिन् 17-दिने ‘धनतेरस्’-पर्वणि दिल्ल्यां खादी-ग्रामोद्योगभवनस्य आपणे प्रायेण विंशति-लक्षोत्तर-कोटि-रूप्यकात्मकः आभिलेख्यः विक्रयः सञ्जातः | एकस्मिन्नेव खादी-हस्तवेमापणे एतावान् बृहद्-विक्रयः ! वृत्तमेतत् श्रुत्वा भवन्तोsपि आनन्दं संतोषञ्च अनुभूतवन्तः इति विश्वसिमि |
दीपावल्याः अवसरे “खादी-gift coupon” इति उपहार-पर्णिकानां विक्रये प्रायेण प्रतिशतम् अशीत्यधिक-षट्-शतमिता वृद्धिः अभिलेखिता | खादी-हस्तवेम-वस्तूनां समग्र-विक्रयेsपि विगत-वर्षापेक्षया वर्षेsस्मिन् प्रायेण प्रतिशतं नवति-मिता वृद्धिः सञ्जाता | अमुना एतत् प्रमाणितं भवति यत् सम्प्रति युवानः, वरिष्ठाः, वृद्धाः, महिलाः च खादी-हस्तवेम-वस्तूनि अभिलषन्ति | कल्पयितुं शक्नोमि यत् अमुना प्रकरणेन हि तन्तुवायानां निर्धनानां हस्तवेम-श्रमिकाणां च कियन्तो हि लाभान्विताः जाताः | पूर्वं Khadi-Foundation- इति प्रतिष्ठानमासीत् तथा च, Khadi for fashion- इति मया उक्तमासीत्, परञ्च विगतानुभवानाम् आधारेण वक्तुं शक्नोमि यत् ‘Khadi for nation’ तथा ‘Khadi for fashion’ – इत्यनयोः अनन्तरम्, अधुना ‘ Khadi for transformation’ – इति रूपान्तरः स्थानापन्नो भवति | खादी-हस्तवेम-वस्तूनि निर्धनानां जीवनानि परिवर्तयन्ति सन्ति तान् क्षमान् समर्थान् च विधातुं शक्तिमत्-साधनत्वेन सिद्ध्यन्ति | ग्रामोदयस्य कृते एतद्-द्वयमपि महतीं भूमिकां निर्वहति |
श्री-राजन्-भट्टः NarendramodiApp- इत्यत्र अलिखत् यत् ते सुरक्षा-बलैः साकं मम दीपावल्याः अनुभव-विषये ज्ञातुम् अभिलषन्ति तथा चेदमपि अवगन्तुं वाञ्छन्ति यत् अस्माकं सुरक्षा-बलानि केन प्रकारेण प्रकाशपर्व दीपावलीम् आयोजयन्ति | श्रीतेजस-गायकवाडः अपि NarendramodiApp-इत्यत्र अलिखत् यत् अस्माकं गृह-निर्मितानि मिष्टान्नानि अपि सुरक्षा-बलेभ्यः प्रापयितुं किं व्यवस्थापयितुं शक्यते ? वयमपि अस्मदीयानि वीर-सुरक्षा-बलानि स्मरामः | वयमपि अनुभवामः यत् अस्माकं गृह-निर्मितानि मिष्टान्नानि देशस्य सैनिकेभ्यः प्रापणीयानि स्युः |
भवद्भिः सर्वैः अतितरां हर्षोल्लासेन दीपावली-पर्व आमानितम् | मम कृते ऐषमः अपि दीपावली विशिष्टानुभव-संयुता संवृत्ता | पुनरेकवारं सीम्नि संनद्धैः नियुक्तैः वीरैः सुरक्षाबल-सैनिकैः साकं दीपावली-समायोजनस्य सौभाग्यम् अलभम् | अस्मिन् क्रमे जम्मू-कश्मीरे गुरेज़-क्षेत्रे सुरक्षाबलैः सार्धं दीपावली-समायोजनं मम कृते अविस्मरणीयं सिद्धम् | सीम्नि यासु कठिनासु विषमासु च परिस्थितिषु अस्मदीयानि सुरक्षाबलानि देशं रक्षन्ति, तेषां संघर्षस्य, समर्पणस्य, त्यागस्य च कृते, अहं सर्वेषामपि देशवासिनां पक्षतः अस्मत्-सुरक्षा-बलानि संमानयामि वर्धापयामि च | यत्रापि अवसरान् लभेम, यत्रापि चानुकूलता भवेत् – अस्माकं सैनिकानाम् अनुभवाः अवश्यम् अवगन्तव्याः, तेषां गौरव-गाथाः श्रवणीयाः |
अस्मत्सु अनेके इदं नैव जानन्ति यत् अस्माकं सुरक्षा-बलानां सैनिकाः न केवलं सीम-प्रदेशेषु, अपि तु, विश्वस्मिन्नपि विश्वे शान्तिं प्रतिष्ठापयितुं महत्वपूर्णां भूमिकामावहन्ति | UN Peacekeeper-इति संयुक्त-राष्ट्रिय-शान्ति-संधारकत्वेन एते जगति हिन्दुस्थानस्य कीर्तिं वितानयन्ति | नातिचिरं ओक्टोबर-मासे चतुर्विंशे दिने अशेष-जगति, संयुक्त-राष्ट्र-दिवसः आयोजितः | जगति शान्तिं प्रतिष्ठापयितुं संयुक्त-राष्ट्रस्य प्रयासान्, सकारात्मिकाञ्च भूमिकां सर्वेsपि सुस्मरन्ति | तथा च, वयन्तु ‘वसुधैव कुटुम्बकम्’ – इति विश्वसिमः अर्थात् संपूर्णमपि विश्वं अस्मदीयं कुटुम्बम् अस्ति | एवञ्च, अस्य विश्वासस्य कारणादेव भारतं प्रारम्भादेव संयुक्त-राष्ट्र-संघस्य विभिन्नेषु महत्वपूर्णेषु आरम्भिकोपायेषु सक्रियं सहभागित्वं निर्वहन्नस्ति | भवन्तः नूनम् अवगताः स्युः यत् भारतस्य संविधान-प्रस्तावनायां तथा च, UN Charter-इति संयुक्त-राष्ट्र-प्रस्तावनायाञ्च, ‘we the people’- इत्यादि- शब्दैः एव आरभ्यते | भारते नारीणां समानतायै सर्वदैव सबलं प्रयत्यते, तथा च, UN-Declaration of Human Rights- इति संयुक्त-राष्ट्र-मानवाधिकाराभिघोषणा अस्य प्रत्यक्षं प्रमाणं वर्तते | UN Umbrella-इत्यस्य अन्तर्गतं भारतं यत् महत्त्वाधायि-योगदानं व्यदधात् तदस्ति – संयुक्त-राष्ट्र -शान्ति-संधारक-कार्येषु भारतस्य भूमिका | संयुक्त-राष्ट्रस्य शांति-रक्षा-कार्यक्रमे भारतं सर्वदैव सक्रियां भूमिकां निर्वहन्नस्ति | सम्भवतः भवत्सु अनेके तादृशाः भवेयुः ये प्रप्रथमं सूचनामिमां प्राप्नुवन्ति | अष्टादश-सहस्राधिकाः भारतीयसुरक्षा-बल-सैनिकाः संयुक्त-राष्ट्र -शान्ति-संधारक-कार्येषु निज-सेवाः अर्पितवन्तः | वर्तमान-काले भारतस्य प्रायेण सप्त-सहस्रं सैनिकाः संयुक्त-राष्ट्र-शान्ति-संधारक-कार्येषु संलग्नाः सन्ति, अपि च, विश्वस्मिन्नपि विश्वे एषा तृतीया बृहत्तमा संख्या वर्तते | एतानि कार्याणि Korea, Cambodia, Laos, Vietnam, Congo, Cyprus, Liberia, Lebanon, Sudan-इत्यादिषु विश्वस्य अनेकेषु भू-भागेषु, अनेकेषु देशेषु प्राचलन् | Congo-दक्षिण-Sudan-देशयोः भारतीय-सेनानां चिकित्सालयेषु विंशति-सहस्राधिक-रोगिणः समुपचारिताः तथा च, अनेके जनाः संरक्षिताः | भारतस्य सुरक्षा-बलानि, विभिन्नेषु देशेषु न केवलं तत्रत्यान् जनान् संरक्षितवन्ति परञ्च, people friendly operations- इति जनानुकूल-कार्याणि अनुष्ठीय तेषां हृदयानि अपि विजितवन्ति | भारतीय-महिलाः शांति-प्रतिष्ठापक-कार्येषु अग्रणीं भूमिकां निरवहन् | अति-न्यूनाः एव अवगताः स्युः यत् भारतं नाम प्रप्रथमः देशः येन Liberia-देशे संयुक्त-राष्ट्रस्य शान्त्यभियान-कार्यक्रमे female police unit- इति महिलारक्षि-यूथानि प्रेषितानि | अपि च, पश्यन्तु ! भारतस्य अयं पदक्षेपः, जगतः सर्वेषामपि देशानां कृते प्रेरणास्रोतस्त्वेन सिद्धः | एतदनुपदम्, सर्वेsपि देशाः निज-निज-महिलारक्षि-यूथानि प्रेषयितुमारभन्त |
भवन्तः एतत् श्रुत्वा गौरवमनुभविष्यन्ति यत् भारतस्य भूमिका, केवलं शांति-प्रतिष्ठापक-कार्येषु एव सीमिता नास्ति अपि तु, भारतं प्रायेण पञ्चाशीति-देशानां शांति-प्रतिष्ठापकानां प्रशिक्षण-कार्याणि अपि करोति | महात्म-गाँधि-गौतम-बुद्धयोः अस्याः भूमेः अस्मदीयाः वीराः शांति-रक्षकाः सम्पूर्णेsपि विश्वे शांति-सद्भावयोः संदेशं प्रापितवन्तः | शांति-प्रतिष्ठापक-कार्याणि न मनागपि सरल-कर्माणि | अस्माकं सुरक्षा-बलानां सैनिकाः दुर्गम-स्थानेषु गत्वा एतानि कार्याणि आचरन्ति | ते विभिन्नानां जनानां मध्ये गत्वा कार्याणि अनुतिष्ठन्ति | भिन्नासु परिस्थितिसु पृथक्-पृथक्-संस्कृतयः चावगन्तव्याः भवन्ति | ते स्थानिकावश्यकता-परिवेशानुकूलम् आत्मानं स्थापयन्ति | अद्य यदा वयं अस्मदीयान् वीरान् संयुक्त-राष्ट्रस्य शांति-प्रतिष्ठापकान् संस्मरामः तदा कैप्टन्-गुरबचनसिंह-सलारिया-वर्यं को नाम विस्मरेत् येन अफ्रीकायां Cango-क्षेत्रे शान्त्यर्थं युयुधानेन नैजं सर्वस्वमपि समर्पितम् | तं स्मृत्वा प्रत्येकमपि देशवासी गौरवमनुभवति | असौ अनन्यतमः संयुक्त-राष्ट्र-शान्ति-संधारकः वीरपुरुषः आसीत् यो हि परमवीर- चक्रेण सम्मानितः | लेफ्टिनेंट-जनरल-प्रेमचंदजी, तेषु भारत-शान्ति-संधारकेषु अन्यतमः, येन Cyprus-देशे विशिष्टाभिज्ञानम् अधिगतम् | नवाशीत्युत्तर-एकोनविंशति-शत-तमे वर्षे [1989] द्विसप्तति-वर्ष-मिते आयुषि असौ Namibia-देशे शान्ति-कार्यार्थं गुल्म-नायकपदे नियोजितः, तथा च, सः तस्य देशस्य स्वतन्त्रतां सुनिश्चेतुं स्वीय-सेवाम् अर्पितवान् | जनरल-थिमैय्या, यो हि भारतीयसेनानामपि अध्यक्षः आसीत्, सः Cyprus-देशे संयुक्त-राष्ट्र-शान्ति-संधारक-वाहिनीं सन्नीतवान्, शांति-कार्यार्थं सर्वस्वञ्च आहूतवान् | भारतम्, शांतिदूतरूपेण सर्वदैव जगति शान्तेः,एकता- याः, सद्भावनायाश्च संदेशं दददस्ति | अस्मदीयोsयं दृढ-विश्वासः यत् प्रत्येकमपि जनः शांति-सद्भावाभ्यां सह जीवतु तथा प्रोन्नत- स्य शांतिपूर्णस्य च भविष्यतः निर्माण-दिशं प्रति अग्रेसरेतु |
मम प्रियाः देशवासिनः, अस्मदीया एषा पुण्यभूमिः तादृशैः महद्भिः जनैः सुशोभिता अवर्तत, ये नाम निःस्वार्थभावेन मानवताम् असेवन्त | Sister Nivedita, यां वयं भगिनी-निवेदिता इत्यपि वदामः सापि तेषु असाधारण-जनेषु अन्यतमा आसीत् | सा आयरलैंड-देशे मार्गरेट्-एलिज़ाबेथ-नोबेल- (Margaret Elizabeth Noble)-नाम्ना जनिम् अलभत, परंतु स्वामि-विवेकानंदः तस्यै ‘निवेदिता’ इत्यभिधानं प्रादात् | तथा च, निवेदिता अर्थात् सा या हि पूर्ण-रूपेण समर्पिता स्यात् | अनन्तरं सा स्वाभिधानानुरूपं आत्मानं सिद्धीकृतवती | ह्यः भगिनी-निवेदितायाः सार्धशती जयन्ती अवर्तत | सा स्वामि-विवेकानन्दात् तादृशी प्रभाविता जाता यत् स्वीयं सुख-सम्पन्नं जीवनं त्यक्त्वा निर्धनानां सेवायै आत्मानं समर्पितवती | Sister Nivedita ब्रिटेन्-शासने संजायमानैः अत्याचारैः अतितरां दुःखिता आसीत् | आङ्ग्ल-शासकाः न केवलं अस्माकं देशं दासीकृतवन्तः अपि तु, ते अस्मान् मानसिकरूपेण दासान् विधातुं प्रायतन्त | अस्मदीयां संस्कृतिं हीनां प्रदर्श्य हीन-भावनायाः प्रसारस्य कार्यम् अनारतं प्राचलत् | भगिनी निवेदिता भारतीय-संस्कृतेः गौरवं पुनः प्रतिष्ठापितवती | राष्ट्रीयचेतनाम् उद्भाव्य जनान् सङ्घटितान् कर्तुं आरभत | सा विश्वस्य नाना-देशेषु गत्वा सनातनधर्मस्य दर्शनस्य च विषये विधीयमानं दुष्प्रचारं विरुद्ध्य प्रचारमकरोत् | प्रसिद्धः राष्ट्रवादी तमिल-कविः सुब्रह्मण्यम्-भारती ‘पुदुमई पेन्न’ ( Pudhumai Penn), New Women-इति-निज-क्रांतिकारिणीनां कवितानां कारणात् महिला-क्षमीकरणस्य च कृते विख्यातः आसीत् | एवम् उच्यते यत्तस्य प्रेरणा, भगिनी निवेदितासीत् | भगिनी निवेदिता महते वैज्ञानिकाय जगदीश-चन्द्र-बसु-वर्याय अपि सहयोगं प्रादात् | सा स्वीय-लेखानां सम्मेलनानां च माध्यमेन बसु-वर्यस्य शोधकार्याणां प्रचार-प्रकाशनयोः कृते साहाय्यम् अकरोत् | भारतस्य इदमेव रमणीयं वैशिष्ट्यं यत् अस्मदीय-संस्कृतौ आध्यात्मिकता विज्ञानञ्च, परस्परं पूरकौ स्तः | भगिनी निवेदिता वैज्ञानिकः जगदीशचन्द्र-बसुश्च अस्य सबलोदाहरणत्वेन वर्तेते | अष्टादश-शताब्दस्य नवनवति-तमे वर्षे [1899 ] कोलकोतायां प्लेग्-इति भयङ्करी महामारी प्रावर्तत, पश्यता एव जनानां नैकसहस्रं काल-कवलीभूतम् | भगिनी निवेदिता, निज-स्वास्थ्य-चिंताम् अविगणय्य, नालिकाः मार्गान् च स्वच्छीकर्तुम् आरभत | सा तादृशी महिला आसीत् या हि सहजतया सुख-सौविध्य-युतं जीवनं यापयितुं क्षमते स्म, परञ्च सा निर्धनानां सेवाहेतोः संलग्ना जाता | तस्याः अस्मादेव त्यागात् प्रेरणामादाय जनाः अपि सेवा-कार्यैः संयुताः जाताः | सा निज-कार्यैः जनान् स्वच्छतायाः सेवायाश्च महत्वस्य पाठमपाठयत् | तस्याः समाधौ एताः पङ्क्तयः लिखिताः सन्ति “Here reposes Sister Nivedita who gave her all to India’ – अत्र भगिनी निवेदिता विश्राम्यति या हि नैजं सर्वस्वमपि भारताय प्रादात् | निःसंदेहं सा एवमेव आचरत् | एतस्य महतः व्यक्तित्वस्य कृते साम्प्रतं न कश्चन तादृशः समीचीनतरः श्रद्धांजलिः भविता यत् प्रत्येकमपि भारतवासी, तस्याः जीवनात् शिक्षामादाय स्वयमपि तस्मिन् सेवापथि चलितुं प्रयतेत |
[दूरभाषः] – माननीय ! प्रधानमन्त्रि-महोदय ! मम नाम डॉ.पार्थ-शाहः अस्ति… नवम्बर-मासे चतुर्दश-दिनाङ्कं वयं बालदिनत्वेन आयोजयामः यतो हि अस्मदीयस्य प्रथम-प्रधानमन्त्रिणः श्री-जवाहरलाल-नेहरोः जन्म-दिवसः अस्ति, तस्मिन्नेव दिने “विश्व-मधुमेह-दिवसो”sपि आयोज्यते … मधुमेहः केवलं ज्येष्ठानां रोगः नास्ति, अयं बालानाम् अधिसंख्यमपि प्रभावयति… तर्हि अस्य समाह्वानस्य कृते वयं किं कर्तुं शक्नुमः ?
– भवतः दूरभाष-सन्देशस्य कृते धन्यवादः| सर्व-प्रथमं तु अस्माकं प्रथम-प्रधानमन्त्रिणः श्री-जवाहरलाल-नेहरोः जन्म-दिवसोपरि आयोज्यमानस्य बाल-दिवसस्य कृते सर्वेभ्यो बालेभ्यो भूरिशो शुभकामनाः | बालाः नूतनभारतस्य निर्माणे सर्वेषु महत्वपूर्ण-नायकत्वेन वर्तन्ते | भवतः चिन्ता स्थाने एव, कदाचित् पूर्वं ये रोगाः एधितायुषि, वा जीवनस्य अन्तिमायाम् अवस्थायां जीवनं प्रभावयन्ति स्म, ते अद्यत्वे बालेषु अपि दृश्यन्ते | सम्प्रति आश्चर्यन्तु तदा भवति यदा वयं शृण्मः यत् बालाः अपि मधुमेहेन पीड्यन्ते | पूर्वन्तने काले एते रोगाः ‘राज-रोग’-रूपेण अभिज्ञायन्ते स्म | राज-रोगः अर्थात् तादृशाः रोगाः यैः केवलं विलासिनो वा सुख-सौविध्य-युताः एव पीड्यन्ते स्म | युव-जनेषु एतादृशाः रोगाः अति-दुर्लभाः आसन् | अस्माकं जीवन-शैली परिवर्तितास्ति | अद्यत्वे एते रोगाः “lifestyle disorder”- इति नाम्ना ख्याप्यन्ते | यौवने एव एतादृशानां रोगाणां बाहुल्यस्य अन्यतमं प्रमुखकारणमस्ति – अस्माकं जीवनशैल्यां शारीरिक-क्रिया-कलापस्य न्यूनता तथा च, अस्मदीयेषु पानाशनयोः पद्धतौ परिवर्तनम् | समाजेन कुटुम्बेन चात्र विशेषावधानं प्रदेयम् | यदि विषयेsस्मिन् वयं विचारयिष्यामः, चेत्, भवन्तः अनुभविष्यन्ति यत् नात्र किञ्चिदपि विशिष्टं करणीयम् अवशिष्यते | केवलम् एतदेव आवश्यकं यत् लघु-लघु-कार्याणि समीचीन-रीत्या नियत-प्रकारेण च, कुर्वन्तः वयं निज-दैनन्दिन-जीवनं तादृशम् अभ्यस्तं करवाम येन रीतिरेषा स्वभाव-रूपा स्यात् | अहमिच्छामि यत् कुटुम्ब-जनाः जागरूकतया एवं प्रयतेरन् येन बालाः अनावृतेषु प्राङ्गणेषु क्रीडाभ्यस्ताः स्युः | शक्यमस्ति चेत् वयं ज्येष्ठाः अपि अनावृतेषु प्राङ्गणेषु गत्वा किञ्चित् बालैः साकं क्रीडाम | बालाः उद्वाहिकया आरोहणावरोहणयोः अपेक्षया सोपान-मार्गस्य अभ्यस्ताः स्युः | रात्रि-भोजनानन्तरं बालैः साकं पूर्णमपि कुटुम्बं किञ्चित् पद्भ्यां गन्तुं प्रयतेरन् | Yoga for Young India-इति योगाभ्यासः, विशेषतया अस्मदीय-युवमित्रेषु स्वस्थ-जीवन-शैलीं संधारयितुं जीवनशैल्याः दुर्व्यवस्थातः आत्मानञ्च रक्षितुं नूनं सहायी सेत्स्यति | विद्यालयात् प्राक् त्रिंशत्-मिनिट्-मितः योगाभ्यासः ! अनुभविष्यन्ति यत् कियान् लाभप्रदः भविता ! गृहेsपि कर्तुं शक्यते, तथा च, योगस्य इदं वैशिष्ट्यं यत् अयं सहजः, सरलः, सर्व-सुलभश्च | सहजः इति कथयामि यतो हि कश्चन अपि आयुषः जनः सरलतया एनं कर्तुं पारयति | सरलः यतो हि सरलतया शिक्षितुं शक्यते, तथा च, सर्व-सुलभः यतो हि, कुत्रचिदपि कर्तुं शक्यते, विशेषोपकरणानि उताहो प्राङ्गणस्य चावश्यकता नैव भवति | मधुमेह-नियन्त्रणे योगाभ्यासः कियान् प्रभवति – इति कृत्वा अनेकविधम् अध्ययनं प्रचलति | AIIMS-इत्यत्रापि एतद्-विषयकम् अध्ययनं विधीयते, तथा च, साम्प्रतं यावत् अधिगत-परिणामाः अतितराम् उत्साह-वर्धकाः सन्ति | योगः आयुर्वेदश्च केवलम् उपचार-माध्यमे इति नैव परिशीलनीयम् अपि तु वयम् एतौ जीवनस्य अङ्गत्वेन स्वीकरवाम |
मम प्रियाः देशवासिनः, विशेषेण मम युव-सखायः ! क्रीडा-क्षेत्रेषु विगत-काले शुभंकर्यः वार्ताः प्राप्ताः| नाना-क्रीडासु अस्माकं क्रीडकाः देशस्य यशोवितानम् अकुर्वन् | हॉकी-क्रीडायां भारतेन भव्यं क्रीडित्वा एशिया-चषको विजितः | अस्माकं क्रीडकाः भव्य-प्रदर्शनं कृत्वा दश-वर्षाणाम् अनन्तरं एशिया-चषक-विजयिनः अजायन्त | समग्राय क्रीडक-वृन्दाय सहायि-कार्मिक-समूहाय च मम पक्षतः देशवासिनाञ्च पक्षतः भूरि भूरि शुभकामनाः |
हॉकी-क्रीडायाः पश्चात् बैड्मिंटन्-क्रीडायाः कृतेsपि भारतं शुभां वार्तां बिभर्ति | बैड्मिंटन्-क्रीडकः किदाम्बी-श्रीकान्तः उत्कृष्टं प्रदर्शयन् Denmark-मुक्त-क्रीडां च विजित्य प्रत्येकमपि भारतीयं गौरवान्वितं व्यदधात् | अहं अस्मभ्यः युव-मित्रेभ्यः तेषां एताः उपलब्धीः आलक्ष्य, भारतस्य च गौरव-वर्धनार्थं भूरि भूरि वर्धापनानि वितरामि |
मित्राणि, मासेsस्मिन् FIFA Under-17 -World Cup-क्रीडाः आयोजिताः | अशेष-विश्वस्य क्रीडक-वृन्दानि भारतम् आगतानि | सर्वेsपि पाद-कन्दुक-क्रीडाङ्गणेषु स्वीयं कौशलं प्रादर्शयन् | अहमपि एकां क्रीडा-स्पर्धामवलोकयितुम् अवसरं लब्धवान् | क्रीडकेषु दर्शकेषु च महान् उत्साहः दरीदृष्टः | इयती महती स्पर्धा ? अहन्तु सर्वेषां यूनां क्रीडकानां ऊर्जाम् उत्साहं “किञ्चित् नूनं करणीयमि”ति भावनाञ्च दृष्ट्वा चकित-चकितोsभवम्| विश्व-चषकस्य आयोजनं सफलमवर्तत, सर्वाण्यपि क्रीडक-वृन्दानि स्वीयं श्रेष्ठं प्रदर्शनम् अकुर्वन् | भवतु नाम, भारतेन अत्र विजयो नैवाधिगतः, परञ्च भारतस्य युव-क्रीडकैः सर्वेषामपि हृदयानि विजितानि | भारतेन सम्भूय अशेष-विश्वं क्रीडा-स्पर्धानां महोत्सवस्य आनन्द-सन्दोहम् अन्वभवत् | पाद-कन्दुक-क्रीडायाः भविष्यत् उज्ज्वलं वर्तते – अस्य संकेताः दरीदृश्यन्ते | पुनरेकवारमहं सर्वान् अपि क्रीडकान्, तेषां सहयोगिनः, सर्वान् च क्रीडा-प्रेमिणः अभिनन्दामि, शुभकामनाश्च व्याहरामि |
मम प्रियाः देशवासिनः ! स्वच्छ-भारतस्य विषये यावन्तो जनाः मां लिखन्ति, एतत् प्रतीयते यत् तेषां भावनाभिः साकं यदि अहं न्याय्यं विचारयामि चेत्, तदा मया प्रतिदिनं ‘मन की बात’-कार्यक्रमः करणीयो भविता, तथा च, प्रतिदिनं मया स्वच्छताविषये एव ‘मन की बात’-प्रसारणम् अर्पणीयं भवेत् | केचन लघु-लघु-बालानां चित्राणि प्रेषयन्ति, केचन तु युव-समूहानां प्रयास-कथाः वर्णयन्ति | कुत्रचित् स्वच्छता-विषयकस्य नवाचारस्य कथा भवति, उताहो कस्यचन अधिकारिणः समर्पित-कार्यानुष्ठानेन समापन्न-परिवर्तनस्य वार्ता भवति | विगतेषु दिनेषु विस्तृतं विवरणमेकं प्राप्तवान् यस्मिन् महाराष्ट्रस्य चंद्रपुर-दुर्गस्य कायाकल्पस्य कथा वर्तते | तत्र प्रशासनेतरस्य {NGO} पर्यावरण-संरक्षण-संघटनस्य संपूर्ण-समूहेन चंद्रपुर-दुर्गस्य स्वच्छ्तायाः अभियानम् आरब्धम् | द्विशत-दिनानि यावत् प्रवर्तिते अस्मिन् अभियाने जनाः विनैव विश्रम्य, विनैव च परिक्लान्तिं समूह-भावनया दुर्गस्य स्वच्छता-कार्याणि अकुर्वन् | द्विशत-दिनानि यावत् !! पूर्वं पश्चाद् – इति कृत्वा एतानि चित्राणि ते मह्यं प्रेषितवन्तः | एतानि चित्राणि दृष्ट्वा स्वच्छता-विषयिणी निराशा विश्वासे परिवर्तिष्यते | स्वच्छतायाः अयं भगीरथ-प्रयासः सौन्दर्यस्य, सामूहिकतायाः सातत्यस्य च अद्भुतम् उदाहरणम् वर्तते | दुर्गाः नाम अस्मदीय-रिक्थस्य प्रतीकरूपाः सन्ति | ऐतिहासिक-रिक्थानां सुरक्षायाः स्वच्छतायाः च दायित्वं अस्माकं सर्वेषामपि देशवासिनां वर्तते | अहं पर्यावरण-संरक्षण-संघटनस्य अस्य संपूर्ण-समूहस्य चंद्रपुरस्य च नागरिकाणां कृते कोटिशो वर्धापनानि वितरामि |
मम प्रियाः देशवासिनः, आगामिनि नवम्बर-मासीये चतुर्थे दिने वयं गुरुनानकजयंतीम् आयोजयिष्यामः | गुरुः नानकदेवः सिक्खानां प्रथमः गुरुरेव नैव अपि तु जगद्-गुरुः अस्ति | असौ अशेष-मानवतायाः कल्याणम् अचिन्तयत्, सर्वाः च जातयः तुल्याः इति प्रतिपादितवान् | महिलानां शक्तीकरणं नारी-संमाननञ्च तेन सबलं ख्यापितम् | गुरुः नानकदेवः पद्भ्यामेव अष्टाविंशति-सहस्र-किलोमीटर-मितां यात्रां व्यदधात्, अस्याः यात्रायाः अवसरे असौ उच्च-मानवतायाः सन्देशं प्रादात् | सः जनैः साकं संवादम् अकरोत्, तान् सत्य-त्याग-कर्मनिष्ठानां मार्गं प्रादर्शयत् | तेन समाजे समानतायाः सन्देशः प्रसारितः, स्वीयः संदेशोsयं न केवलं व्याख्यानैः अपितु कर्मभिः सार्थकीकृतः | सः लंगर-इति सामूहिक-प्रसाद-ग्रहण-प्रणालीं प्रावर्तयत् यया जनेषु सेवाभावनाः समेधिताः | सम्भूय सामूहिक-प्रसाद-ग्रहणेन जनेषु एकतायाः समानतायाः च भावाः जागृताः जाताः | गुरु-नानक-देवः सार्थक-जीवनस्य सन्देशत्रयं प्रादात्– परमात्मनः नामजपं कुरु, परिश्रम – कार्यं कुरु तथा च, निःसहायानां कृते साहाय्यं कुरु | गुरु-नानक-देवः स्वीयं हार्दं प्रकटयितुं ‘गुरबाणी-ग्रन्थं’ विरचितवान् | आगामिनि वर्षे अर्थात् एकोनविंशोत्तर-द्विसहस्र-तमे वर्षे, वयं गुरुनानकदेव-चरणानां सार्ध-पञ्च-शतीमिति प्रकाशवर्षम् आयोजयिष्यामः | आगच्छन्तु, वयं तस्य संदेशानां शिक्षायाश्च मार्गोपरि अग्रेसर्तुं प्रयतेम |
मम प्रियाः देशवासिनः, दिवस-द्वयानन्तरं ओक्टोबरस्य अन्तिमे दिने वयं सरदार-वल्लभ-भाई-पटेलस्य जन्मजयन्तीम् आयोजयिष्यामः | वयं सर्वेsपि जानीमः यद् आधुनिकस्य अखण्ड-भारतस्य शिलान्यासः अमुना महापुरुषेण विहितः आसीत् | भारतमातुः अस्य महतः संतानस्य असाधारण-यात्रया अद्य वयं सुबहु शिक्षितुं शक्नुमः | ओक्टोबर-मासस्य एकत्रिंशत्तमे दिने श्रीमती-इंदिरा-गाँधी अपि, इहलोकतः प्रस्थिता | सरदार-वल्लभ-भाई-पटेलस्य विशेषता इयमासीत् यत् सः न केवलं परिवर्तन-कारिणः विचारान् प्रददाति स्म, परञ्चासौ तेषां क्रियान्वयनमपि विधातुं जटिलतराणां समस्यानां व्यावहारिकस्य समाधानस्य अन्वेषणे कुशलः आसीत् | विचाराणां साकारीकरणे तस्य नैपुण्यम् आसीत् | सरदार-वल्लभ-भाई-पटेलः भारतमेकसूत्रेण संनद्धीकर्तुं तत्-कार्यस्य नेतृत्वं व्यदधात् | तेन एतत् सुनिश्चितीकृतं यत् कोटि-कोटि-भरतवासिनः ‘एकम् – राष्ट्रम् एकम् – संविधानम्’ इति सूत्रस्य छत्रछायायां समन्विताः स्युः | तस्य निर्णय-क्षमता तस्मै सर्वाः अपि बाधाः परिहर्तुं सामर्थ्यं प्रादात् | देशस्य एकीकरणस्य इदं कार्यं केवलं सः एव कर्तुं क्षमते स्म | तेन उक्तमासीत् – “ जातेः पथः च कश्चन अपि भेदः अस्मान् नावरोधयेत्, सर्वेsपि भारतस्य पुत्राः पुत्र्यश्च सन्ति, अस्माभिः सर्वैरपि निज-देशः अनुरक्त्या भावनीयः तथा च, पारस्परिक-प्रेमाणं सद्भावनाञ्च आधृत्य निज-नियतिः विनिर्मेया |”
सरदार-महोदयस्य इदं कथनम् अद्यत्वेsपि अस्मदीयस्य नूतन-भारतस्य विकासाय प्रेरकः प्रासंगिकश्च वर्तते | इदमेव कारणं यत् तस्य जन्म-दिवसः ‘राष्ट्रीयैकता-दिवस’-रूपेण आमान्यते | देशाय अखण्ड-राष्ट्रस्य स्वरुपप्रदाने तस्य योगदानम् अतोलनीयं वर्तते | सरदार-महोदयस्य जयन्त्याः अवसरे सम्पूर्णेsपि देशे ‘Run for Unity’- इति एकता-धावनम् आयोजयिष्यते, यस्मिन् अशेष-देशात् बालाः,युवानः.महिलाः, प्रत्येकमपि आयुषः जनाः समावेक्ष्यन्ते | साग्रहं भवतः कथयामि यत् भवन्तः सर्वेsपि ‘Run for Unity’- इति पारस्परिक- सद्भावनायाः उत्सवेsस्मिन् सहभागिनो भवन्तु |
मम प्रियाः देशवासिनः, दिपावल्याः अवकाशानन्तरं नूतन-संकल्पेन, अभिनवेन निश्चयेन च साकं भवन्तः सर्वे निजे दैनन्दिने जीवने पुनरेकवारं संलग्नाः सञ्जाताः स्युः | मम पक्षतः देशवासिभ्यः, तेषां स्वप्नानां सम्पूर्ति-हेतोः अनेकशो मङ्गल-कामनाः | भूरिशो धन्यवादाः |
*****
‘मन की बात’ (36वीं कड़ी)
प्रसारण तिथि: 24.09.2017
मेरे प्यारे देशवासियो, आप सबको नमस्कार | आकाशवाणी के माध्यम से ‘मन की बात’ करते-करते तीन वर्ष पूरे हो गए हैं | आज ये 36वाँ episode है | ‘मन की बात’ एक प्रकार से भारत की जो सकारात्मक शक्ति है, देश के कोने-कोने में जो भावनाएँ भरी पड़ी हैं, इच्छाएँ हैं, अपेक्षाएँ हैं, कहीं-कहीं शिकायत भी है – एक जन-मन में जो भाव उमड़ते रहते हैं ‘मन की बात’ ने उन सब भावों से मुझे जुड़ने का एक बड़ा अद्भुत अवसर दिया और मैंने कभी ये नहीं कहा है कि मेरे मन की बात है | ये ‘मन की बात’ देशवासियों के मन से जुड़ी हैं, उनके भाव से जुड़ी हैं, उनकी आशा-अपेक्षाओं से जुड़ी हुई हैं | और जब ‘मन की बात’ में बातें मैं बताता हूँ तो उसे देश के हर कोने से जो लोग मुझे अपनी बातें भेजते हैं, आपको तो शायद मैं बहुत कम कह पाता हूँ लेकिन मुझे तो भरपूर खज़ाना मिल जाता है | चाहे email पर हो, टेलीफोन पर हो, mygov पर हो, NarendraModiApp पर हो, इतनी बातें मेरे तक पहुँचती हैं | अधिकतम तो मुझे प्रेरणा देने वाली होती हैं | बहुत सारी, सरकार में सुधार के लिए होती हैं | कहीं व्यक्तिगत शिकायत भी होती हैं तो कहीं सामूहिक समस्या पर ध्यान आकर्षित किया जाता है | और मैं तो महीने में एक बार आधा घंटा आपका लेता हूँ, लेकिन लोग, तीसों दिन ‘मन की बात’ के ऊपर अपनी बातें पहुँचाते हैं | और उसका परिणाम ये आया है कि सरकार में भी संवेदनशीलता, समाज के दूर-सुदूर कैसी-कैसी शक्तियाँ पड़ी हैं, उस पर उसका ध्यान जाना, ये सहज अनुभव आ रहा है | और इसलिए ‘मन की बात’ की तीन साल की ये यात्रा देशवासियों की, भावनाओं की, अनुभूति की एक यात्रा है | और शायद इतने कम समय में देश के सामान्य मानव के भावों को जानने-समझने का जो मुझे अवसर मिला है और इसके लिए मैं देशवासियों का बहुत आभारी हूँ | ‘मन की बात’ में मैंने हमेशा आचार्य विनोबा भावे की उस बात को याद रखा है | आचार्य विनोबा भावे हमेशा कहते थे ‘अ-सरकारी, असरकारी ’ | मैंने भी ‘मन की बात’ को, इस देश के जन को केंद्र में रखने का प्रयास किया है | राजनीति के रंग से उसको दूर रखा है | तत्कालीन, जो गर्मी होती है, आक्रोश होता है, उसमें भी बह जाने के बजाय, एक स्थिर मन से, आपके साथ जुड़े रहने का प्रयास किया है | मैं ज़रूर मानता हूँ, अब तीन साल के बाद social scientists, universities, reseach scholars, media experts ज़रूर इसका analysis करेंगे | plus-minus हर चीज़ को उजागर करेंगे | और मुझे विश्वास है कि ये विचार-विमर्श भविष्य ‘मन की बात’ के लिए भी अधिक उपयोगी होगा, उसमें एक नयी चेतना, नयी ऊर्जा मिलेगी | और मैंने जब एक बार ‘मन की बात’ में कही थी कि हमें भोजन करते समय चिंता करनी चाहिये कि जितनी ज़रूरत है उतना ही लें, हम उसको बर्बाद न करें | लेकिन उसके बाद मैंने देखा कि देश के हर कोने से मुझे इतनी चिट्ठियाँ आयी, अनेक सामाजिक संगठन, अनेक नवयुवक पहले से ही इस काम को कर रहे हैं | जो अन्न थाली में छोड़ दिया जाता है उसको इकट्ठा करके, उसका सदुपयोग कैसे हो इसमें काम करने वाले इतने लोग मेरे इतने ध्यान में आये, मेरे मन को इतना बड़ा संतोष हुआ, इतना आनंद हुआ |
एक बार मैंने ‘मन की बात’ में महाराष्ट्र के एक retired teacher श्रीमान् चन्द्रकान्त कुलकर्णी की बात कही थी, जो अपने pension में से, सोलह हज़ार रूपये का pension मिलता था उसमें से पाँच हज़ार रुपया वो, 51 post-dated cheque देकर के, स्वच्छता के लिये उन्होंने दान दे दिया था | और उसके बाद तो मैंने देखा कि स्वच्छता के लिए, इस प्रकार के काम करने के लिए कितने लोग आगे आए |
एक बार मैंने हरियाणा के एक सरपंच की ‘selfie with daughter’ को देखा और मैंने ‘मन की बात’ में सबके सामने रखा | देखते ही देखते न सिर्फ़ भारत में, पूरे विश्व में ‘selfie with daughter’ एक बड़ा अभियान चल पड़ा | ये सिर्फ़ social media का मुद्दा नहीं है | हर बेटी को एक नया आत्मविश्वास, नया गर्व पैदा करने वाली ये घटना बन गयी | हर माँ-बाप को लगने लगा कि मैं अपनी बेटी के साथ selfie लूँ | हर बेटी को लगने लगा कि मेरा कोई माहात्म्य है, मेरा कोई महत्व है |
पिछले दिनों मैं भारत सरकार के tourism department के साथ बैठा था | मैंने जब tour पर जाने वाले लोगों से कहा था कि आप incredible India पर, जहाँ भी जाएँ वहाँ की फोटो भेजिये | लाखों तस्वीरें, भारत के हर कोने की, एक प्रकार से tourism क्षेत्र में काम करने वालों की एक बहुत बड़ी अमानत बन गयी | छोटी-सी घटना कितना बड़ा आन्दोलन खड़ा कर देती है, ये ‘मन की बात’ में मैंने अनुभव किया है | आज मन कर गया, क्योंकि जब सोच रहा था तीन साल हो गये, तो पिछले तीन साल की कई घटनायें मेरे मन-मंदिर में छा गयीं | देश सही दिशा में जाने के लिए हर पल अग्रसर है | देश का हर नागरिक दूसरे की भलाई के लिए, समाज की अच्छाई के लिए, देश की प्रगति के लिए, कुछ-न-कुछ करना चाहता है ये मेरे तीन साल के ‘मन की बात’ के अभियान में, मैंने देशवासियों से जाना है, समझा है, सीखा है | किसी भी देश के लिए ये सबसे बड़ी पूँजी होती है, एक बहुत बड़ी ताक़त होती है | मैं ह्रदय से देशवासियों को नमन करता हूँ |
मैंने एक बार ‘मन की बात’ में खादी के विषय में चर्चा की थी | और खादी एक वस्त्र नहीं, एक विचार है | और मैंने देखा कि इन दिनों खादी के प्रति काफ़ी रुचि बढ़ी है और मैंने स्वाभाविक रूप से कहा था कि मैं कोई खादीधारी बनने के लिए नहीं कह रहा हूँ लेकिन भाँति-भाँति के fabric होते हैं तो एक खादी क्यों न हो ? घर में चादर हो, रूमाल हो, curtain हो | अनुभव ये आया है कि युवा-पीढ़ी में खादी का आकर्षण बढ़ गया है | खादी की बिक्री बढ़ी है और उसके कारण ग़रीब के घर में सीधा-सीधा रोज़गारी का संबंध जुड़ गया है | 2 अक्टूबर से खादी में discount दिया जाता है , काफ़ी छूट-रियायत मिलती है | मैं फिर एक बार आग्रह करूँगा, खादी का जो अभियान चला है उसको हम और आगे चलायें, और बढ़ायें | खादी खरीद करके ग़रीब के घर में दिवाली का दीया जलायें, इस भाव को लेकर के हम काम करें | हमारे देश के ग़रीब को इस कार्य से एक ताक़त मिलेगी और हमें करना चाहिए | और इस खादी के प्रति रुचि बढ़ने के कारण खादी क्षेत्र में काम करने वालो में, भारत सरकार में खादी से संबंधित लोगों में एक नये तरीक़े से सोचने का उत्साह भी बढ़ा है | नई technology कैसे लाएँ, उत्पादन क्षमता कैसे बढ़ाएँ, solar-हथकरघे कैसे ले आएँ? पुरानी जो विरासत थी जो बिलकुल ही 20-20, 25-25, 30-30 साल से बंद पड़ी थीं उसको पुनर्जीवित कैसे किया जाए |
उत्तर प्रदेश में, वाराणसी सेवापुर में, अब सेवापुरी का खादी आश्रम 26 साल से बंद पड़ा था लेकिन आज पुनर्जीवित हो गया | अनेक प्रकार की प्रवर्तियों को जोड़ा गया | अनेक लोगों को रोज़गार के नये अवसर पैदा किये | कश्मीर में पम्पोर में खादी एवं ग्रामोद्योग ने बंद पड़े अपने प्रशिक्षण केंद्र को फिर से शुरू किया और कश्मीर के पास तो इस क्षेत्र में देने के लिए बहुत कुछ है | अब ये प्रशिक्षण केंद्र फिर से शुरू होने के कारण नई पीढ़ी को आधुनिक रूप से निर्माण कार्य करने में, बुनने में, नयी चीज़ें बनाने में एक मदद मिलेगी और मुझे अच्छा लग रहा है कि जब बड़े-बड़े Corporate House भी दिवाली में जब gift देते हैं तो इन दिनों खादी की चीज़े देना शुरू किये हैं | लोग भी एक दूसरे को gift के रूप में खादी की चीज़े देना शुरू किये हैं | एक सहज़ रूप से, चीज़ कैसे आगे बढ़ती है ये हम सब अनुभव करते हैं |
मेरे प्यारे देशवासियो, पिछले महीने ‘मन की बात’ में ही हम सब ने एक संकल्प किया था और हमने तय किया था कि गाँधी-जयंती से पहले 15 दिन देश-भर में स्वच्छता का उत्सव मनायेंगे | स्वच्छता से जन-मन को जोड़ेंगे | हमारे आदरणीय राष्ट्रपति जी ने इस कार्य का आरंभ किया और देश जुड़ गया | अबाल-वृद्ध, पुरुष हो, स्त्री हो, शहर हो, गाँव हो, हर कोई आज इस स्वच्छता-अभियान का हिस्सा बन गया है | और जब मैं कहता हूँ ‘संकल्प से सिद्धि’, ये स्वच्छता-अभियान एक संकल्प-सिद्धि की ओर कैसे आगे बढ़ रहा है हम अपनी आँखों के सामने देख रहे हैं | हर कोई इसको स्वीकारता है, सहयोग करता है और साकार करने के लिए कोई न कोई योगदान देता है | मैं आदरणीय राष्ट्रपति जी का तो आभार मानता हूँ लेकिन साथ-साथ देश के हर वर्ग ने इसको अपना काम माना है | हर कोई इसके साथ जुड़ गया है | चाहे खेल- जगत के लोग हों, सिने-जगत के लोग हों, academicians हों, स्कूल हों, कॉलेज हों, university हों, किसान हों, मज़दूर हों, अफ़सर हों, बाबू हों, पुलिस हों, फौज के जवान हों – हर कोई इसके साथ जुड़ गया है | सार्वजनिक स्थानों पर एक दबाव भी पैदा हुआ है कि अब सार्वजनिक स्थान गंदे हों तो लोग टोकते हैं, वहाँ काम करने वालों को भी एक दबाव महसूस होने लगा है | मैं इसे अच्छा मानता हूँ और मेरे लिए ख़ुशी है कि ‘स्वच्छता ही सेवा अभियान’ के सिर्फ पहले चार दिन में ही करीब-करीब 75 लाख से ज़्यादा लोग, 40 हज़ार से ज़्यादा initiative लेकर के गतिविधियों में जुड़ गए और कुछ तो लोग मैंने देखा है कि लगातार काम कर रहे हैं, परिणाम लाकर के रहने का फैसला ले करके काम कर रहे हैं | इस बार एक और भी चीज़ देखी – एक तो होता है कि हम कहीं स्वच्छता करें, दूसरा होता है हम जागरूक रह करके गन्दगी न करें, लेकिन स्वच्छता को अगर स्वभाव बनाना है तो एक वैचारिक आंदोलन भी ज़रुरी होता है | इस बार ‘स्वच्छता ही सेवा’ के साथ कई प्रतियोगितायें हुईं | ढाई करोड़ से ज़्यादा बच्चों ने स्वच्छता के निबंध-स्पर्धा में भाग लिया | हज़ारों बच्चों ने paintings बनायी | अपनी-अपनी कल्पना से स्वच्छता को लेकर के चित्र बनाये | बहुत से लोगों ने कवितायें बनायी और इन दिनों तो मैं social media पर ऐसे जो हमारे नन्हें साथियों ने, छोटे-छोटे बालकों ने चित्र भेजे हैं वो मैं post भी करता हूँ, उनका गौरवगान करता हूँ | जहाँ तक स्वच्छता की बात आती है तो मैं media के लोगों का आभार मानना कभी भूलता नहीं हूँ | इस आंदोलन को उन्होंने बहुत पवित्रतापूर्वक आगे बढ़ाया है | अपने-अपने तरीक़े से, वे जुड़ गए हैं और एक सकारात्मक वातावरण बनाने में उन्होंने बहुत बड़ा योगदान दिया है और आज भी वो अपने-अपने तरीक़े से स्वच्छता के आंदोलन का नेतृत्व कर रहे हैं | हमारे देश का electronic media, हमारे देश का print media देश की कितनी बड़ी सेवा कर सकता है ये ‘स्वच्छता ही सेवा’ आंदोलन में हम देख पाते हैं | अभी कुछ दिन पहले मुझे किसी ने ध्यान आकर्षित किया श्रीनगर के 18 साल के नौजवान बिलाल डार के संबंध में | और आपको जान करके ख़ुशी होगी कि श्रीनगर नगर निगम ने बिलाल डार को स्वच्छता के लिए अपना Brand Ambassador बनाया है और जब Brand Ambassador की बात आती है तो आपको लगता होगा कि शायद वो सिने-कलाकार होगा, शायद वो खेल-जगत का हीरो होगा, जी नहीं | बिलाल डार स्वयं 12-13 साल की अपनी उम्र से, पिछले 5-6 साल से स्वच्छता में लग गया है | एशिया की सबसे बड़ी झील श्रीनगर के पास वहाँ प्लास्टिक हो, पॉलिथीन हो, used bottle हो, कूड़ा-कचरा हो, बस वो साफ़ करता रहता है | उसमें से कुछ कमाई भी कर लेता है | क्योंकि उसके पिता जी की बहुत छोटी आयु में कैंसर में मृत्यु हो गई लेकिन उसने अपना जीवन आजीविका के साथ-साथ स्वच्छता के साथ जोड़ दिया | एक अनुमान है कि बिलाल ने सालाना 12 हज़ार किलो से ज़्यादा कूड़ा-कचरा साफ़ किया है | श्रीनगर नगर निगम को भी मैं बधाई देता हूँ कि स्वच्छता के प्रति इस पहल के लिए और Ambassador के लिए उनकी इस कल्पना के लिए, क्योंकि श्रीनगर एक tourist destination है और हिन्दुस्तान का हर नागरिक श्रीनगर जाने का मन करता है उसका, और वहाँ सफ़ाई को इतना बल मिले ये अपने आप में बहुत बड़ी बात है | और मुझे ख़ुशी है कि उन्होंने बिलाल को सिर्फ Brand Ambassador बनाया ऐसा नहीं है, सफ़ाई करने वाले बिलाल उसको निगम ने इस बार गाड़ी दी है, uniform दिया है और वो अन्य इलाक़ों में भी जाकर के लोगों को स्वच्छता के लिए शिक्षित करता है, प्रेरित करता है और परिणाम लाने तक पीछे लगा रहता है | बिलाल डार, आयु छोटी है लेकिन स्वच्छता में रुचि रखने वाले हर किसी के लिए प्रेरणा का कारण है | मैं बिलाल डार को बहुत बधाई देता हूँ |
मेरे प्यारे देशवासियो, इस बात को हमें स्वीकार करना होगा कि भावी इतिहास, इतिहास की कोख में जन्म लेता है और जब इतिहास की बात आती है तो महापुरुष याद आना बहुत स्वाभाविक है | ये अक्तूबर महीना हमारे इतने सारे महापुरुषों को स्मरण करने का महीना है | महात्मा गाँधी से लेकर के सरदार पटेल तक इसी अक्तूबर में इतने महापुरुष हमारे सामने हैं कि जिन्होंने 20वीं सदी और 21वीं सदी के लिए हम लोगों को दिशा दी, हमारा नेतृत्व किया, हमारा मार्गदर्शन किया और देश के लिए उन्होंने बहुत कष्ट झेले | दो अक्तूबर को महात्मा गाँधी और लाल बहादुर शास्त्री जी की जन्म जयंती है तो 11 अक्तूबर को जयप्रकाश नारायण और नानाजी देशमुख की जन्म-जयंती है और 25 सितम्बर पंडित दीनदयाल उपाध्याय जी की जन्म-जयंती है | नानाजी और दीनदयाल जी की तो ये शताब्दी का भी वर्ष है | और इन सभी महापुरुषों का एक केंद्र-बिंदु क्या था? एक बात common थी और वो देश के लिए जीना, देश के लिए कुछ करना और मात्र उपदेश नहीं, अपने जीवन के द्वारा करके दिखाना | गाँधी जी, जयप्रकाश जी, दीनदयाल जी ये ऐसे महापुरुष हैं जो सत्ता के गलियारों से कोसो दूर रहे हैं, लेकिन जन-जीवन के साथ पल-पल जीते रहे, जूझते रहे और ‘सर्वजन हिताय–सर्वजन सुखाय’, कुछ-न-कुछ करते रहे | नानाजी देशमुख राजनीतिक जीवन को छोड़ करके ग्रामोदय में लग गए थे और जब आज उनका शताब्दी-वर्ष मनाते हैं तो उनके ग्रामोदय के काम के प्रति आदर होना बहुत स्वाभाविक है |
भारत के पूर्व राष्ट्रपति श्रीमान अब्दुल कलाम जी जब नौजवानों से बात करते थे तो हमेशा नानाजी देशमुख के ग्रामीण विकास की बातें किया करते थे | बड़े आदर से उल्लेख करते थे और वो स्वयं भी नानाजी के इस काम को देखने के लिए गाँव में गए थे |
दीनदयाल उपाध्याय जी जैसे महात्मा गाँधी समाज के आखिरी छोर में बैठे हुए इंसान की बात करते थे | दीनदयाल जी भी समाज के आखिरी छोर पर बैठे हुए ग़रीब, पीड़ित, शोषित, वंचित की ही और उसके जीवन में बदलाव लाने की – शिक्षा के द्वारा, रोज़गार के द्वारा किस प्रकार से बदलाव लाया जाये, इसकी चर्चा करते थे | इन सभी महापुरुषों को स्मरण करना ये उनके प्रति उपकार नहीं है , ये महापुरुषों का स्मरण इसलिए करते हैं कि हमें आगे का रास्ता मिलता रहे, आगे की दिशा मिलती रहे |
अगले ‘मन की बात’ में, मैं जरुर सरदार वल्लभ भाई पटेल के विषय में कहूँगा, लेकिन 31 अक्तूबर पूरे देश में Run for Unity ‘एक भारत-श्रेष्ठ भारत’ | देश के हर शहर में, हर नगर में बहुत बड़ी मात्रा में Run for Unity के कार्यक्रम होने चाहिए और मौसम भी ऐसा है कि दौड़ने का मज़ा आता है – सरदार साहब जैसी लौह-शक्ति पाने के लिए ये भी तो ज़रुरी है | और सरदार साहब ने देश को एक किया था | हमने भी एकता के लिए दौड़ करके एकता के मंत्र को आगे बढ़ाना चाहिए |
हम लोग बहुत स्वाभाविक रूप से कहते हैं – विविधता में एकता, भारत की विशेषता | विविधता का हम गौरव करते हैं लेकिन क्या कभी आपने इस विविधता को अनुभव करने का प्रयास किया है क्या? मैं बार-बार हिंदुस्तान के मेरे देशवासियों से कहना चाहूँगा और ख़ास करके मेरी युवा-पीढ़ी को कहना चाहूँगा कि हम एक जागृत-अवस्था में हैं | इस भारत की विविधताओं का अनुभव करें, उसको स्पर्श करें, उसकी महक को अनुभव करें | आप देखिये, आपके भीतर के व्यक्तित्व के विकास के लिए भी हमारे देश की ये विविधतायें एक बहुत बड़ी पाठशाला का काम करती है | Vacation है, दिवाली के दिन है, हमारे देश में चारों तरफ कहीं-न-कहीं जाने का स्वभाव बना हुआ है ,लोग जाते हैं tourist के नाते और बहुत स्वाभाविक है | लेकिन कभी-कभी चिंता होती है कि हम अपने देश को तो देखते नहीं हैं, देश की विविधताओं को जानते नहीं, समझते नहीं, लेकिन चका-चौंध के प्रभाव में आकर के विदेशों में ही tour करना पसंद करना शुरू किये हैं | आप दुनिया में जायें मुझे कोई एतराज़ नहीं है, लेकिन कभी अपने घर को भी तो देखें ! उत्तर-भारत के व्यक्ति को पता नहीं होगा कि दक्षिण-भारत में क्या है? पश्चिम-भारत के व्यक्ति को पता नहीं होगा कि पूर्व-भारत में क्या है? हमारा देश कितनी विविधताओं से भरा हुआ है |
महात्मा गाँधी, लोकमान्य तिलक, स्वामी विवेकानंद, हमारे पूर्व राष्ट्रपति अब्दुल कलाम जी अगर उनकी बातों में देखोगे तो एक बार बात आती है कि जब उन्होंने भारत-भ्रमण किया तब उनको भारत को देखने-समझने में और उसके लिए जीने-मरने के लिए एक नई प्रेरणा मिली | इन सभी महापुरुषों ने भारत का व्यापक भ्रमण किया | अपने कार्य के प्रारंभ में उन्होंने भारत को जानने, समझने का प्रयास किया | भारत को अपने आप में जीने की कोशिश की | क्या हम, हमारे देश के भिन्न-भिन्न राज्यों को, भिन्न-भिन्न समाजों को, समूहों को, उनके रीति-रिवाजों को, उनकी परम्परा को, उनके पहर्वेश (पहनावे) को, उनके खान-पान को, उनकी मान्यताओं को एक विद्यार्थी के रूप में सीखने का, समझने का, जीने का प्रयास कर सकते हैं ?
Tourism में value addition तभी होगा कि जब हम सिर्फ़ मुलाक़ाती नहीं, हम एक विद्यार्थी के तौर पर उसका पाना-समझना-बनने का प्रयास करें | मेरा स्वयं का अनुभव है मुझे हिंदुस्तान के पाँच सौ से अधिक district में जाने का मौक़ा मिला होगा | साढ़े चार सौ से अधिक district तो ऐसे होंगे जहाँ मुझे रात्रि-मुक़ाम का अवसर मिला है और आज जब मैं भारत में इस दायित्व को संभाल रहा हूँ तो मेरे उस भ्रमण का अनुभव मुझे बहुत काम आता है | चीजों को समझने में मुझे बहुत सुविधा मिलती है | आपसे भी मेरा आग्रह है कि आप इस विशाल भारत को “विविधता में एकता” सिर्फ़ नारा नहीं, हमारी अपार-शक्ति का ये भंडार है, इसको अनुभव कीजिये | ‘एक भारत-श्रेष्ठ भारत’ का सपना इसमें निहित है | खान-पान की कितनी varieties हैं ! पूरे जीवन भर हर दिन एक-एक नई variety अगर खाते रहें तो भी repetition नहीं होगा | अब ये हमारी tourism की बड़ी ताक़त है | मैं आग्रह करूँगा कि इस छुट्टियों में आप सिर्फ घर के बाहर जाएँ ऐसा नहीं, change के लिए निकल पड़ें ऐसा नहीं – कुछ जानने- समझने-पाने के इरादे से निकलिए | भारत को अपने भीतर आत्मसात् कीजिये | कोटि-कोटि जनों की विविधताओं को भीतर आत्मसात् कीजिये | इन अनुभवों से आपका जीवन समृद्ध हो जायेगा | आपकी सोच का दायरा विशाल हो जायेगा | और अनुभव से बड़ा शिक्षक कौन होता है ! सामान्य तौर पर अक्तूबर से मार्च तक का समय ज्यादातर पर्यटन का रहता है | लोग जाते हैं | मुझे विश्वास है कि इस बार भी अगर आप जायेंगे तो मेरे उस अभियान को और आगे बढ़ायेंगे | आप जहाँ भी जाएँ अपने अनुभवों को share कीजिये, तस्वीरों को share कीजिये | #incredibleindia ( हैश टैग incredibleindia) इस पर आप फ़ोटो ज़रुर भेजिए | वहाँ के लोगों से मिलना हो जाये तो उनकी भी तस्वीर भेजिए | सिर्फ़ इमारतों की नहीं, सिर्फ़ प्राकृतिक सौन्दर्य की नहीं ,वहाँ के जन-जीवन की कुछ बातें लिखिए | आपकी यात्रा के अच्छे निबंध लिखिए | Mygov पर भेजिए, NarendraModiApp पर भेजिये | मेरे मन में एक विचार आता है कि हम भारत के tourism को बढ़ावा देने के लिए क्या आप अपने राज्य के सात उत्तम से उत्तम tourist destination क्या हो सकते हैं – हर हिन्दुस्तानी को आपके राज्य के उन सात चीज़ों के विषय में जानना चाहिये | हो सके तो उन सात स्थानों पर जाना चाहिये | आप उसके विषय में कोई जानकारी दे सकते हैं क्या ? NarendraModiApp पर उसको रख सकते हैं क्या ? #IncredibleIndia (हैश टैग incredibleindia) पर रख सकते हैं क्या ? आप देखिये, एक राज्य के सब लोग ऐसा बतायेंगे तो मैं सरकार में कहूँगा कि वो उसको scrutiny करे और common कौन-सी सात चीज़े हर राज्य से आई हैं उस पर वो प्रचार-साहित्य तैयार करें | यानि एक प्रकार से जनता के अभिप्रायों से tourist destination का बढ़ावा कैसे हो ? उसी प्रकार से आपने जो चीजें देखी हैं देशभर में, उसमें से सात आपको जो अच्छे से अच्छी लगी हैं , आप चाहते हैं कि किसी-न-किसी ने तो इसको देखनी चाहिये, जाना चाहिये, उसके विषय में जानकारी पानी चाहिये तो आप आपकी पसंद की सात ऐसे स्थान का भी MyGov पर, NarendraModiApp पर ज़रूर भेजिये | भारत सरकार उस पर काम करेगी | ऐसे उत्तम destination जो होंगे उसके लिए film बनाना, video बनाना, प्रचार-साहित्य तैयार करना, उसको बढ़ावा देना – आपके द्वारा चुनी हुई चीज़ों को सरकार स्वीकार करेगी | आइये, मेरे साथ जुड़िये | इस अक्तूबर महीने से मार्च महीने तक का समय का उपयोग देश के tourism को बढ़ाने में आप भी एक बहुत बड़े catalyst agent बन सकते हैं | मैं आपको निमंत्रण देता हूँ |
मेरे प्यारे देशवासियो, एक इन्सान के नाते बहुत-सी चीजें मुझे भी छू जाती हैं | मेरे दिल को आंदोलित कर जाती हैं | मेरे मन पर गहरा प्रभाव छोड़ जाती हैं | आख़िर मैं भी तो आप ही की तरह एक इन्सान हूँ | पिछले दिनों एक घटना है जो शायद आपके भी ध्यान में आयी होगी – महिला-शक्ति और देशभक्ति की अनूठी मिसाल हम देशवासियों ने देखी है | Indian Army को लेफ्टिनेंट स्वाति और निधि के रूप में दो वीरांगनाएँ मिली हैं और वे असामान्य वीरांगनाएँ है | असामान्य इसलिए हैं कि स्वाति और निधि माँ-भारती की सेवा करते-करते उनके पति शहीद हो गए थे | हम कल्पना कर सकते हैं कि इस छोटी आयु में जब संसार उजड़ जाये तो मन:स्थिति कैसे होगी ? लेकिन शहीद कर्नल संतोष महादिक की पत्नी स्वाति महादिक इस कठिन परिस्थितियों का मुक़ाबला करते हुए उसने मन में ठान ली | और वे भारत की सेना में भर्ती हो गयीं | 11 महीने तक उसने कड़ी मेहनत करके प्रशिक्षण हासिल किया और अपने पति के सपनों को पूरा करने के लिए उसने अपनी ज़िन्दगी झोंक दी | उसी प्रकार से निधि दुबे, उनके पति मुकेश दुबे सेना में नायक का काम करते थे और मातृ-भूमि के लिए शहीद हो गए तो उनकी पत्नी निधि ने मन में ठान ली और वे भी सेना में भर्ती हो गयीं | हर देशवासी को हमारी इस मातृ-शक्ति पर, हमारी इन वीरांगनाओं के प्रति आदर होना बहुत स्वाभाविक है | मैं इन दोनों बहनों को हृदय से बहुत-बहुत बधाई देता हूँ | उन्होंने देश के कोटि-कोटि जनों के लिए एक नयी प्रेरणा, एक नयी चेतना जगायी है | उन दोनों बहनों को बहुत-बहुत बधाई |
मेरे प्यारे देशवासियो, नवरात्रि का उत्सव और दिवाली के बीच हमारे देश की युवा पीढ़ी के लिए एक बहुत बड़ा अवसर भी है| FIFA under-17 का वर्ल्ड-कप हमारे यहाँ हो रहा है | मुझे विश्वास है कि चारों तरफ़ फुटबाल की गूँज सुनाई देगी | हर पीढ़ी की फुटबाल में रूचि बढ़ेगी | हिन्दुस्तान का कोई स्कूल – कॉलेज का मैदान ऐसा न हो कि जहाँ पर हमारे नौजवान खेलते हुए नज़र न आयें | आइये, पूरा विश्व जब भारत की धरती पर खेलने के लिए आ रहा है, हम भी खेल को अपने जीवन का हिस्सा बनायें |
मेरे प्यारे देशवासियो, नवरात्रि का पर्व चल रहा है | माँ दुर्गा की पूजा का अवसर है | पूरा माहौल पावन पवित्र सुगंध से व्याप्त है | चारों तरफ़ एक आध्यात्मिकता का वातावरण, उत्सव का वातावरण, भक्ति का वातावरण और ये सब कुछ शक्ति की साधना का पर्व माना जाता है | ये शारदीय-नवरात्रि के रूप में जाना जाता है | और यहीं से शरद-ऋतु का आरंभ होता है | नवरात्रि के इस पावन-पर्व पर मैं देशवासियों को अनेक-अनेक शुभकामनायें देता हूँ और माँ-शक्ति से प्रार्थना करता हूँ कि देश के सामान्य-मानव के जीवन की आशा-आकांक्षाओं को पूर्ण करने के लिए हमारा देश नई ऊँचाइयों को प्राप्त करे | हर चुनौतियों का सामना करने का सामर्थ्य देश को आए | देश तेज़ गति से आगे बढ़े और दो हज़ार बाईस (2022) भारत की आज़ादी के 75 साल- आज़ादी के दीवानों के सपनों को पूरा करने का प्रयास, सवा-सौ करोड़ देशवासियों का संकल्प, अथाह मेहनत, अथाह पुरुषार्थ और संकल्प को साकार करने के लिए पांच साल का road map बना करके हम चल पड़े और माँ शक्ति हमे आशीर्वाद दे | आप सब को बहुत-बहुत शुभकामनाएँ | उत्सव भी मनायें, उत्साह भी बढ़ायें |
बहुत-बहुत धन्यवाद |
****************************
‘मन की बात’ [35]
“मनोगतम्” [35] (प्रसारण-तिथि:- 27.08.2017)
[“मन की बात”- “मनोगतम्” – इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
-भाषान्तर-कर्ता – डॉ. बलदेवानन्द सागर
मम प्रियाः देश-वासिनः !
सादरं नमस्कारः |
एकतः देशः उत्सवेषु व्यापृतः अस्ति अपरतः च, हिन्दुस्थानस्य कस्मादपि कोणात् यदा हिंसा-वार्ता आयाति तदा देशस्य चिन्ता स्वाभाविकी एव | अस्मदीयः देशः अयं बुद्ध-गान्धिनोः देशः वर्तते | देशस्य एकतायै प्राण-पाणेनापि प्रयत्नशीलस्य सरदार-पटेलस्य देशः अयं | नैक-सहस्र-वर्षेभ्यः अस्मदीयाः पूर्वजाः सार्वजनिक-जीवन-मूल्यानि अहिंसां समादरञ्च स्वीकृतवन्तः | अस्मदीयेषु अन्तर्मनस्सु एतत् संभृतं वर्तते | “अहिंसा परमो धर्मः” – सूत्रमिदं वयं बाल्यकालादेव शृण्वन्तः कथयन्तः च स्मः | रक्तदुर्गस्य प्राचीरेभ्यः अपि अहं उक्तवान् यत् आस्था-नाम्ना विधीयमाना हिंसा न मनागपि सहिष्यते | भवतु नाम सा सांप्रदायिकी आस्था वा राजनीतिक-विचारधारां प्रति आस्था वा भवतु नाम व्यक्ति-विशेषं प्रत्यास्था, उताहो स्याद् वा परम्पराः प्रत्यास्था – आस्था-व्याजेन न कश्चन विधिं स्वयत्तीकर्तुं अधिकृतः अस्ति | डॉ.बाबा-साहेब-अम्बेडकरः अस्मभ्यं संविधानं प्रादात्, एतस्मिन् सर्वोsपि जनः न्यायं प्राप्नुयादिति सर्वप्रकारेण व्यवस्थापितमस्ति | अहं देशवासिनः विश्वासयितुं वाञ्छामि यत् विधिं स्वायतीकर्तुं प्रयतमानः वा हिंसा-मार्ग-निरतः दमनशीलः वा, कश्चन अपि भवतु नाम व्यक्तिविशेषः वा समूहः, नायं देशः तं सहिष्यते न वा कश्चन सर्वकारः | प्रत्येकमपि जनः विधेः समक्षं नत-मस्तकः स्यात् | विधिरेव तत् उत्तरदायित्वं निश्चेष्यति | तथा च, दोषिणो नूनं दण्डयिष्यन्ते |
मम प्रियाः देशवासिनः !
अस्माकं देशः विविधताभिः सम्भरितः अस्ति, एताः विविधताः पानाशनयोः वासावासयोः परिधानादिषु एव सीमिताः नैव सन्ति | जीवनस्य प्रत्येकमपि व्यवहारे वैविध्यमिदं द्रष्टुं शक्यते | एतावद् एव नैव, अस्मदीयाः उत्सवाः अपि वैविध्य-पूर्णाः सन्ति | सहस्रेभ्यः अपि वर्षेभ्यः प्राचीनम् अस्मदीयं सांस्कृतिकं रिक्थम् अतः, पश्यन्तु नाम, एताः सांस्कृतिक-परम्पराः वा सामाजिक-परम्पराः, अवलोकयन्तु वा ऐतिहासिक-घटनाः| आवर्षं स्याद् कश्चन एव दिवसः अवशिष्टः यो हि अस्मदीयेन उत्सवेन सम्पृक्तो नास्ति ! भवन्तः एतदपि जानन्ति एव यद् अस्मदीयाः सर्वेsपि उत्सवाः, सर्वाणि अपि पर्वाणि, प्रकृतेः समय-पत्रकम् अनुसरन्ति | प्रकृत्या साक्षात् संबद्धानि सन्ति | एतेषु अधिसंख्यन्तु साक्षात् कृषकैः श्रमिकैः मत्स्यजीविभिः च संपृक्तानि सन्ति |
अद्याहं यदा उत्सव-विषये मनोगतं प्रकटयामि तदा सर्व-प्रथमं भवतः सर्वान् “मिच्छामि दुक्कडम” वक्तुमिच्छामि | जैन-समाजे श्वः सम्वत्सरीयं पर्व आयोजयिष्यते | जैन-समाजः भाद्र-मासे पर्युषण-पर्व आमिनोति | पर्युषण-पर्वणः अन्तिमे दिने संवत्सरीयः दिवसो भवति | एषा नाम अद्भुता स्वयम्भूः परम्परा ! संवत्सरीयं पर्व क्षमायाः अहिंसायाः मित्रतायाः च प्रतीक-रूपम् | क्षमा-वाणी-पर्वेति अपरनाम्ना अपि एतत् निगद्यते | अस्मिन् दिने जनाः परस्परं “मिच्छामि दुक्कडम” इति वदन्ति इत्येषास्ति अस्मदीया परम्परा | अस्मदीयेषु शास्त्रेषु तु उक्तमेव- “क्षमा वीरस्य भूषणम् |” क्षमाशीलः वीरो भवति | एषा चर्चा अस्माभिः पूर्वं श्रुता एव, महात्म-गान्धी तु सर्वदैव कथयति स्म- क्षमाकरणन्तु बलिनो जनस्य वैशिष्ट्यं भवति |
“The Merchant of Venice” – नाम्नि स्वीये नाटके शेक्सपियरः लिखति – “Mercy is twice blest, it blesseth him that gives and him that takes” अर्थात् क्षमाकर्ता क्षमितः चेति द्वयमपि भगवतः आशीर्वादम् अवाप्नोति |
मम प्रियाः देशवासिनः ! साम्प्रतं हिन्दुस्थानस्य प्रत्येकमपि कोणे गणेश-चतुर्थी-समुत्सवस्य प्रगाढोत्साहः दरीदृश्यते | यदा च, गणेश-चतुर्थी सन्दर्भ्यते तदा सार्वजनिकस्य गणेशोत्सवस्य चर्चा स्वाभाविकी | सपादैक-शत-वर्षेभ्यः पूर्वं लोकमान्यः बाल-गङ्गाधर-तिलकः एनां परम्परां प्रवर्तितवान्, अपि च, सपादैक-शत-वर्षात्मकः कालः स्वाधीनता-प्राप्तेः प्राक् स्वाधीनतायाः आन्दोलनस्य प्रतीकरूपः सञ्जातः तथा च, स्वाधीनता-प्राप्तेः अनन्तरं समाजिकयोः शिक्षा-चेतनयोः जागृतेः प्रतीकत्वेन प्रवर्तते | दश-दिवसात्मकं गणेश-चतुर्थी-महापर्व एकतायाः समतायाः शुचितायाः च प्रतीकमिति निगद्यते | सर्वेभ्योsपि देशवासिभ्यः गणेशोत्सवस्य भूरिशः मङ्गल-कामनाः |
सम्प्रति केरळ-राज्ये “ओणम्”-उत्सवः आमान्यते | भारतस्य बहुविधेषु वार्णिकेषु प्रमुखेषु उत्सवेषु ‘ओणम्’ हि केरळस्य अन्यतमः समुत्सवः | पर्वेदं स्वस्य सामाजिकस्य सांस्कृतिकस्य च महत्वस्य कृते सुख्यातम् | ओणम्-पर्व केरळस्य समृद्धं सांस्कृतिकं रिक्थं प्रदर्शयति | एतच्च, समाजे प्रेम-सौहार्दयोः सन्देश-प्रदानेन सह जनानां मनस्सु नवीनम् उत्साहं नूतनाम् आशां अभिनवञ्च विश्वासं जागरयति | अपि च, अद्यत्वे तु अस्मदीयाः इमे उत्सवाः पर्यटकाणाम् अपि आकर्षण-कारणानि जायन्ते | व्यक्तिशो वदामि देशवासिनः यत् यथा गुजराते नवरात्रि-समुत्सवः बङ्गाले च दुर्गोत्सवः पर्यटनस्य आकर्षण-केन्द्रीभूते स्तः तद्वद् अस्मदीयाः सर्वेsपि उत्सवाः वैदेशिकान् आकर्षयितुं सम्यग्-अवसरत्वेन भवेयुः | अस्यां दिशि वयं किं किं कर्तुं प्रभवामः इति नूनं चिन्तनीयम् |
अस्याम् उत्सव-शृङ्खलायां कतिपय-दिनानन्तरमेव अशेष-देशे ‘ईद्-उल्-ज़ुहा’-पर्व अपि आमन्स्यते | सर्वेषामपि देशवासिनां कृते ‘ईद्-उल्-ज़ुहा’-पर्वणि भूरि भूरि वर्धापनानि, भूरिशो मङ्गल-कामनाः च | उत्सवाः नाम अस्माकं कृते आस्था-विश्वासयोः प्रतीकत्वेन तु वर्तन्ते एव, नूतने भारते अस्माभिः एते उत्सवाः स्वच्छतायाः प्रतीक-रूपाः अपि करणीयाः सन्ति | कौटुम्बिक-जीवने तु एते उत्सवाः स्वच्छता च मिथः संपृक्ताः सन्ति | उत्सवानां पूर्व-सज्जता अर्थात् स्वच्छीकरणम् | नेदम् अस्माकं कृते किमपि नवीनम्, अभूतपूर्वं वा, परञ्चैतत् अनुष्ठानं सामाजिकस्वभावत्वेन अपि नूनं करणीयमवशिष्यते | सामाजिक- दृष्ट्या स्वच्छतायाः अयम् आग्रहः न केवलं गृहे एव, अस्मदीये सम्पूर्णेsपि ग्रामे. पूर्णेsपि पुरे, कृत्स्नेsपि नगरे, अस्मदीये अखिलेsपि राज्ये, समग्रेsपि अस्मदीये देशे स्वच्छता भवेत् | स्वच्छीकरणम् अवश्यम् उत्सवानाम् अभिन्नाङ्गत्वेन स्यात् |
मम प्रियाः देशवासिनः ! आधुनिकीभवनस्य परिभाषाः सततं परिवर्तन्ते | एतेषु दिनेषु एकं नवीनं परिमाणं, नूतनं प्रमाणं च प्रवर्तते यत् भवान् कियान् संस्कारी ? कियान् आधुनिकः ? भवतः विचार-प्रक्रिया कियती आधुनिकी अस्ति ? एतत् सर्वम् अवगन्तुम् एकः निकषः अपि व्यवह्रियते अपि च सः वर्तते यत् भवान् पर्यावरणं प्रति कियान् जागरूकः इति ? भवतः स्वकीयेषु क्रियाकलापेषु echo-frendly वा environment-friendly इति परिवेशानुकूलः वा पर्यावरणानुकूलः व्यवहारः अस्ति वा तत्-प्रतिकूलः ? समाजे साम्प्रतं एतत्-प्रतिकूल-व्यवहारः अनुचितः परिगण्यते | अस्य परिणामं साम्प्रतं पश्यामि यत् एतद्दिनेषु गणेशोत्सवे अपि परिवेशानुकूलः गणपतिः विरच्यते, मन्ये यत् बृहदेकम् अभियानं प्रवर्त्यते | यदि भवान् YouTub – इत्यत्र गत्वा अवलोकयिष्यन्ति चेत्, प्रत्येकमपि गृहे बालाः गणेशं विरचयन्ति, मृत्तिकामादाय गजाननं निर्मान्ति | ताः आकृतीः वर्णैः रञ्जयन्ति | कश्चन वानस्पतिकैः रङ्गैः ताः लेपयति, कश्चन तासु कर्गद-शकलानि श्लेषयति | विविधाः प्रयोगाः प्रतिगृहं भवन्ति | प्रकारान्तरेण, गणेशोत्सवेsस्मिन् पर्यावरण-चेतनतायाः बृहद् व्यापकञ्च प्रशिक्षणम् अवलोकयितुं शक्यते, पूर्वं कदाचिदेव तत् दृष्टं स्यात् ? सञ्चार-माध्यमानि अपि, परिवेशानुकूलाः गणेश-प्रतिमाः विरचयितुं जनान् व्यापकतया प्रशिक्षयन्ति, प्रेरयन्ति निर्दिशन्ति च | पश्यन्तु, कियत् बृहत् परिवर्तनं सञ्जातम् | अपि चैतत् सुखदं वर्तते | यथा मया पूर्वं कथितं – देशोsयं कोटि-कोटिभिः तेजस्वि-प्रतिभाभिः अपि संभरितः अस्ति | सुखमनुभूयते यदा कश्चन अभूत-पूर्वान् नवाचारान् प्रकल्पयति | कश्चन माम् असूचयत् यत् कुत्रचित् कश्चन सज्जनः स्वयम् अभियन्ता सन्नपि सः विशिष्ट-प्रकारिकां मृत्तिकां समाहृत्य तां संयोज्य गणेश-रचनायाः प्रशिक्षणं जनेभ्यः प्रददाति | अपि च, एकस्यां लघु-जलद्रोण्यां गणेश-मूर्ति-विसर्जनं विधीयते | तस्यामेव जल-द्रोण्यां गणेश-मूर्तिः स्थाप्यते, द्रुतमेव च, जलेन मिश्रीयते | नैतावता अलम् , तेन जल-द्रोण्यां वृन्दा-पादपः वा अन्ये पादपाः अपि रोपिताः | वर्ष-त्रय-पूर्वं यदा स्वच्छतायाः अभियानम् आरब्धम्, ओक्टोबर-मासे द्वितीये दिनाङ्के, ततः परम् ऐषमः वर्ष-त्रयं पूर्णं भविता, तथा चास्य अभियानस्य सकारात्मकानि परिणामानि आलोक्यन्ते | प्रतिशतं ऊनचत्वारिन्शततः प्रायेण प्रतिशतं सप्त-षष्टि-मितं शौचालयानां निर्माणलक्ष्यं पूर्णम् अजायत | अधुनावधि त्रिन्शत्-सहस्रोत्तर-द्विलक्षमिताधिकाः ग्रामाः अनावृत-शौचाचरणात् आत्मानं मुक्तान् घोषितवन्तः |
विगतेषु दिनेषु गुजराते भीकरः जलोपप्लवः संमुखीकृतः | अनेके जनाः विगत-प्राणाः जाताः परञ्च जल-पूरस्य अनन्तरं यदा जल-प्रवाहः न्यूनीभूतः तदा सर्वत्र अतितराम् मालिन्यम् अस्वच्छता च समेधिते जाते | एतादृश्यां स्थितौ गुजरातस्य बनासकान्ठा-जनपदे धानेरा-स्थानस्य जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः पूर-प्रभावितानां द्वाविन्शतेः मन्दिराणां त्रयाणां मस्जिदानां च चरण-बद्ध-पद्धत्या स्वच्छताम् अकुर्वन् | सर्वेsपि एते स्वीय-प्रस्वेद-प्रस्रवण-पुरस्सरं सन्नद्धाः सन्तः कार्येsस्मिन् संलग्नाः सञ्जाताः | स्वच्छतायाः कृते एकतायाः अमुना उत्तमोत्तमेन उदाहरणेन प्रत्येकमपि जनः प्रेरितो भवति | जमीयत-उलेमा-ए-हिन्दस्य कार्यकर्तारः उदाहरणमेनत् प्रतिष्ठापितवन्तः | स्वच्छतायै समर्पण-भावेन विहितः प्रयासः यदि अस्मदीयः स्थायी स्वभावः भवेत् चेत् राष्ट्रस्य परमोत्तमा समुन्नतिः अवश्यंभाविनी भविता |
मम प्रियाः देशवासिनः ! सर्वान् भवतः आह्वयामि यत् पुनरेकवारं ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जयन्त्याः पञ्चदश वा विन्शति-दिनेभ्यः प्रागेव “स्वच्छता एव सेवा” इति अभियानमेकं प्रवर्तयेम ! यथा पूर्वं कथ्यते स्म “जलसेवा एव प्रभुसेवा”, “स्वच्छता एव सेवा” तद्वद् | समग्रेsपि देशे स्वच्छतायाः परिवेशं जनयेम ! यथावसरं यत्रावसरान् लभामहे, वयं समुचितावसरान् मृगयेम, परमार्थेन वयं संयुताः भवेम ! दीपावल्ल्याः सज्जैषा इति मन्येमहि उताहो नवरात्रस्य सन्नद्धता वा दुर्गापूजायाः उपकल्पनमिति | श्रमदानं कुर्याम ! अवकाश-दिने वा रविवासरे सम्भूय कार्याणि कुर्याम ! परिपार्श्व-वर्तिनीः वसतीः गच्छेम ! समीपवर्तिनः ग्रामान् गच्छेम ! परञ्च आन्दोलनत्वेन कार्याणि कुर्याम ! अहं सर्वान् अपि विद्यालयान्, महाविद्यालयान्, प्रशासनस्य अधिकारिणः, कर-समाहर्तॄन् सरपञ्चान्, सर्वाणि प्रशासनेतर-संघटनानि, सामाजिकं सांस्कृतिकं राजनीतिकञ्च नेतृत्वं साग्रहं कथयामि यत् ओक्टोबर-मासीयात् द्वितीय-दिनात् अर्थात् गान्धि-जन्म-जयन्त्याः पञ्चदश-दिनेभ्यः प्रागेव वयं स्वच्छतायाः तादृशं परिवेशं विरचयेम, तादृशीं स्वच्छतां कुर्याम, यत् ओक्टोबर-मासीयः द्वितीय-दिवसः यथार्थ-भावेन गान्धि-महात्मनः ओक्टोबरमासीया द्वितीया तिथिः भवेत् | पेयजल-स्वच्छता-मन्त्रालयः MyGov.in – इत्यत्र एकं प्रभागं निर्मितवान् यत्र शौचालय-निर्माणानन्तरं भवन्तः स्वीयं, तस्य कुटुम्बस्य च नामनी प्रवेशयितुं शक्नुवन्ति यस्मै भवन्तः साहाय्यम् अकुर्वन् | मम सामाजिक-सञ्चार-माध्यमानां मित्राणि अपि किञ्चित् रचनात्मकम् अभियानं प्रचालयितुं शक्नुवन्ति | तथा च, virtual world – इति वैद्युदाणविक-जगतः कार्यं धरातलेsपि भवेत् इत्यस्य प्रेरणां प्रसारयितुम् अर्हन्ति | पेयजल-स्वच्छता-मन्त्रालयेन प्रवर्त्यमाने स्वच्छ-संकल्पतः स्वच्छ-सिद्धि-स्पर्धा- इत्यभियाने निबन्ध-स्पर्धा, लघु-चलचित्र-निर्माण-स्पर्धा, चित्रकला-स्पर्धा चायोज्यन्ते | एतदर्थं भवन्तः विभिन्नासु भाषासु निबन्धान् लेखितुमर्हन्ति | एतदर्थं आयुषः प्रतिबन्धः नास्ति | भवन्तः लघु-चलचित्रं निर्मातुं शक्नुवन्ति | स्वीयेन जङ्गम-दूरभाषेण निर्मातुमर्हन्ति | मिनिट्-द्वयस्य मिनिट्-त्रयस्य वा चलचित्रं रचयितुं शक्नुवन्ति यद्धि स्वच्छतायै प्रेरकं भवेत् | एतत्तु कस्यामपि भाषायां निर्मातुं शक्यते, मूकमपि भवेत्, आसु स्पर्धासु ये प्रतिभागित्वं निर्वक्ष्यन्ति तेषु सर्वोत्तमं जन-त्रयं चेष्यते, जनपद-स्तरे त्रयः राज्य-स्तरे च त्रयः – एतेभ्यः पुरस्काराः प्रदास्यन्ते | अतः अहं प्रत्येकमपि जनं निमन्त्रयामि यत् आगच्छन्तु ! स्वच्छतायाः अभियानस्य एतादृशेन प्रकल्पेनापि आत्मानं संयोजयन्तु |
भूयोsपि एकवारं कथयितुमिच्छामि यत् ऐषमः गान्धि-जयन्तीं “स्वच्छ-द्वितीय-ओक्टोबर” – रूपेण आयोजयितुं संकल्पयेम ! एतदर्थञ्च सेप्टेम्बर-मासस्य पञ्चदश-दिनादेव “स्वच्छता एव सेवा” – इति मन्त्रं प्रतिगृहं प्रापयेम ! स्वच्छतायै कमपि कमपि समुपायं विदध्म ! स्वयं परिश्रम्य अस्य सहभागिनः भवेम ! भवन्तः अवलोकयन्तु ! गान्धि-जयन्त्याः ओक्टोबर-मासीया द्वितीया तिथिः कियती प्रशस्ता भविता ? भवन्तः कल्पयितुं शक्नुवन्ति यत् पञ्चदश-दिवसीयायाः स्वच्छतायाः एतदभियानस्य अनन्तरम्, “स्वच्छता एव सेवा” – इत्यस्य अनन्तरं ओक्टोबरे द्वितीय-दिने यदा वयं गान्धि-जयन्तीम् आयोजयिष्यामः, तदा पूज्याय बापू-वर्याय श्रद्धाञ्जलि-प्रदानावसरे वयं कियन्तं पवित्रम् आनन्द-सन्दोहम् अनुभविष्यामः !
मम प्रियाः देशवासिनः ! अद्याहं विशेष-रूपेण भवतां सर्वेषाम् आधमर्ण्यं स्वीकर्तुं वाञ्छामि | हृदयस्य अन्तस्तलतः भवतां सर्वेषामपि कृते कार्तज्ञ्यं प्रकटयितुं समीहे | सुदीर्घ-कालं यावत् भवन्तः “मन की बात” इत्यनेन संयुताः स्थिताः इति कृत्वा नैव अपि तु, अमुना कार्यक्रमेण सार्धमेव अशेष-देशस्य प्रत्येकमपि कोणात् लक्षशो जनाः संयुताः भवन्ति इति कृत्वा साधुवादान् वितरामि | श्रोतारस्तु कोटिशो वर्तन्ते परन्तु लक्षशो जनाः कदाचित् मां पत्राणि लिखन्ति, कदाचित् सन्दिशन्ति, कदाचित् दूरभाषेण सन्देशं प्रेषयन्ति, एतत्-सर्वं मम कृते बृहत्-निधि-रूपं वर्तते | देशवासिनां मनान्सि अवगन्तुं कार्यक्रमोsयं मम कृते महान् अवसरत्वेन उपस्थितोsस्ति | भवन्तः “मन की बात” इत्यस्य यावतीं प्रतीक्षां कुर्वन्ति, ततोsप्यधिकतया भवतां संदेशान् अहं प्रतीक्षे | लालायितो भवामि यतो हि भवतां प्रत्येकमपि प्रतिभावेन आत्मानं शिक्षयितुं प्रभवामि | यत् किमपि करोमि तस्य परीक्षायै अवसरो लभ्यते | अनेकान् विषयान् नूतन-रीत्या विचारयितुं भवतां लघु-लघु-विचाराः अपि मम कृते सहायिनो भवन्ति, अत एव भवतामस्मै योगदानाय आभारं प्रकटयामि | सदाहं प्रयते यत् भवद्भिः प्रेषितान् विचारान् सन्देशान् च स्वयमेव पश्यानि, आकर्णयानि, पठानि, अवगच्छानि च | अधुना पश्यन्तु ! अमुना दूरभाष-सन्देशेन साकं भवन्तोsपि आत्मानं संयोक्तुं प्रभविष्यन्ति | भवन्तः अपि अनुभविष्यन्ति यत् अहो ! मयापि कदाचित् एतादृशी त्रुटिः आचरिता इति | कदाचित्तु कानिचित् वस्तूनि अस्माकं चरित्रस्य तादृन्शि अभिन्नाङ्गानि भवन्ति यत् किमपि अनुचितमाचरामः इति न मनागपि अनुभवामः |
“प्रधानमन्त्रि-महोदय ! अहं पुणेतः अपर्णा वदामि | अहं मम सख्याः विषये किमपि कथयितुमिच्छामि | सा सर्वदैव परेषां साहाय्यार्थं प्रयतते | परञ्च, तस्याः एकां रीतिं दृष्ट्वा अहं प्रतोदिता भवामि | एकदाहं तया साकं वस्तु-क्रयणार्थं मोल-इति विपणीं गतवती | शाटिकायाः कृते सा अञ्जसा द्विसहस्रं रूप्यकाणि व्ययीकृतवती, तथा च, पीज़ा-क्रयणार्थं सार्ध-चतुःशतं रूप्यकाणि प्रादात् | परञ्च विपणीं गन्तुं तया यत् ओटो-यानं स्वीकृतम्, केवलं पञ्च-रूप्यकाणां व्यवकलनार्थं ओटो-चालकेन साकं सा सुदीर्घं विनिमयं विवादञ्च कृतवती | प्रत्यागमने मध्येमार्गं सा शाकादीन् क्रीतवती, तथा च, प्रत्येकमपि शाकस्य मूल्योपरि पुनः चत्वारि वा पञ्च रूप्यकाणि न्यूनीकृत्य प्रादात् | अहम् अतीव दुःखम् अनुभवामि | वयं बहुषु स्थानेषु विनैव वारमपि पृष्ट्वा बृहन्मात्रिकं प्रदेयं कुर्मः, तथा च, अल्पमात्रिकाय मूल्याय श्रमशीलैः अस्मदीयैः भगिनी-भ्रातृभिः साकं कलहं कुर्मः | तेषु नैव विश्वसिमः | भवान् स्वीये “मन की बात” इत्यत्र अवश्यं विषयमेनम् उपस्थापयतु !”
साम्प्रतम् इमां दूरभाषाकारणां श्रुत्वा भवन्तः नूनं चकिताः जाताः स्युः – इति दृढतया विश्वसिमि, सम्भवेत् इतः परमेवं नैवं व्यवहर्तुं निश्चितवन्तः वा ? किं भवन्तः नानुभवन्ति यत् अस्मदीयानां गृहाणां पार्श्वे यदा कश्चन शाक-विक्रेता आगच्छति तदा मूल्यम् अपचाययितुं प्रयतामहे – सः भवेत् वा लघुः आपणिकः वा ओटो-यानचालकः वा परिभ्रम्य वस्तु-विक्रयण-शीलः श्रमजीवी वा कश्चित् – वयं साग्रहं रूप्यक-द्वयात्मकम् रूप्यकात्मकं वा वस्तु-मूल्यम् अपचाययितुं प्रारभामहे | अपि च, कञ्चित् स्वल्पाहार-गृहं गत्वा प्रदेय-पत्रके किं लिखितम् इति अदृष्ट्वैव झटिति धनराशिं प्रदद्मः | केनचिदपि निर्धनेन साकं सम्बन्धो भवति तदैव मूल्य-न्यूनीकरणार्थं वदामः | अमुना व्यवहारेण निर्धनस्य मनसि किं किं जायते इति कदाचिद् विचारितं वा भवद्भिः ? सः आहतो भवति ! असौ निर्धनः इति कृत्वा तस्य प्रामाणिकता संदिह्यते | रूप्यक-द्वयेन रूप्यक-पञ्चकेन वा भवतां जीवने न किञ्चित् नैयून्यं भविष्यति | अस्मदीया लघ्वी अपि एषा रीतिः कियती आघात-कारिका भवति – इति न कदाचित् परिशीलितं स्यात् | महोदये ! भवत्याः कार्तज्ञ्यम् आवहामि यत् दूरभाष-सन्देशेन मह्यं मार्मिकं हृदय-स्पर्शकरञ्च सन्देशं प्राहिणोत् | अहं दृढं विश्वसिमि यन्मम देशवासिनः अपि यदि निर्धनेन साकं एतादृक्-व्यवहारस्य अभ्यासं धारयन्ति चेत्, ते नूनं तं परित्यक्ष्यन्ति |
मम प्रियाः नवयुवानः सखायः ! ओगस्ट-मासस्य ऊन-त्रिन्शत्तमः दिवसः खेल-दिवसत्वेन आमान्यते | दिवसोsयं महतः सुख्यातस्य होकी-क्रीडायाः कुशल-क्रीडकस्य मेज़र्-ध्यान-चन्दस्य जन्म-दिनत्वेन विराजते | होकी-क्रीडायै तेनानुष्ठितं योगदानम् अनुपमम् अतुलनीयञ्च वर्तते | तथ्यमिदम् एतस्मात् कारणादेव स्मारयामि यत् अस्मदीयस्य देशस्य नूतना संततिः क्रीडाभिः साकम् आत्मानं संयोजयेयुः | यदि वयं जगति युव-राष्ट्र-रूपेण स्मः चेत् अस्मदीया एषा तरुणता, क्रीडा-क्षेत्रेषु अपि दृष्टिपथम् आगता भवेत् | क्रीडा अर्थात् शारीरिकी औचिती, मानसिकी जागृतिः, व्यक्तित्व-संवर्धनम् चेत्यादि | अवगच्छामि यत् इतः परमपि किं स्यात् ? खेला नाम हृदय-संयोजिका औषधीः | अस्मदीयो युव-वंशः क्रीडा-जगति अग्रगामी भवेत् | अद्यतने संगणक-युगे नूनं प्रबोधयितुं वाञ्छामि यत् play-station – इत्यस्य अपेक्षया playing field – इत्येव महत्वपूर्णम् | संगणकोपरि FIFA- इति नूनं क्रीडन्तु, परञ्च कदाचित् बहिर्निर्गत्य क्रीडाङ्गणे पाद-कन्दुकेन सहापि कौतुक-पुरस्सरं खेलन्तु ! संगणकोपरि क्रिकेट-खेलनं कुर्वन्ति नाम, परञ्च अनावृते क्रीडा-स्थले अपि, नभसः नीचैः अपि क्रिकेट-क्रीडायाः आनन्दः नूनं पृथगेव भवति | कदाचित् पूर्वं तादृशः कालः आसीत्, यदा कुटुम्बस्य बालाः बहिर्गच्छन्ति स्म तदा जननी प्रथमं पृच्छति स्म यत् त्वं कदा प्रत्यागमिष्यसि ? साम्प्रतं स्थितिः तादृशी संजातास्ति यत् बालाः गृहं प्रत्यागताः सन्तः एव एकस्मिन् कोणे स्थिताः cartoon-चलचित्र-विलोकने वा जङ्गम-दूरभाष-क्रीडासु वा व्यापृताः भवन्ति | तदा जननी सचीत्कारं कथयितुं विवशा भवति यत् – त्वं बहिः कदा गमिष्यसि ? कालानुसारिणी कथेयम् यत् कदाचित् जननी बालान् पृच्छति स्म यत् कदा प्रत्यागमिष्यसि ? सम्प्रति तु पुत्र ! बहिः कदा गमिष्यसि ? इति कथयितुं विवशास्ति जननी |
नव-युवानः सखायः ! खेल-मन्त्रालयेन खेल-प्रतिभानाम् अन्वेषणार्थं परिष्करणार्थं च, क्रीडा-प्रतिभान्वेषण-पोर्टल – इति अन्तर्जालीय-द्वारं संनद्धीकृतम् यत्र अशेष-देशस्य कस्मादपि भागात् प्रतिभाशाली क्रीडकः अत्र स्वीयं विवरणं वा दृश्य-मुद्रिकां स्थापयितुमर्हति | चितेभ्यः उदीयमानेभ्यः क्रीडकेभ्यः खेल-मन्त्रालयः प्रशिक्षणं प्रदास्यति, अपि च मन्त्रालयः श्वः एव एतद् -अन्तर्जालीय-वाहिकां प्रवर्तयिष्यति | अस्माकं यूनां कृते तु इयं प्रसन्नता-प्रदायिनी वार्ता यत् भारते ओक्टोबर-मासे षड्-तः अष्टाविंशति-तमदिनं यावत् ऊन-सप्तदश-वर्ष-वयोजुषां क्रीडकानां FIFA – विश्व-चषक-स्पर्धाः आयोजयिष्यन्ते | अशेष-जगतः चतुर्विंशतिः क्रीडक-दलानि भारतम् आगमिष्यन्ति |
आगच्छन्तु ! जगतः विभिन्न-भागेभ्यः आगम्यमानानां अस्मदीयानां युवातिथीनां खेलोत्सवेनैव सार्धं स्वागतं व्याहरेम, क्रीडानन्दम् अनुभवेम, राष्ट्रे च परिवेशं विरचयेम ! यदा अहं खेल-चर्चां करोमि, स्मरामि च यत् विगते सप्ताहे मार्मिकी एका घटना घटिता | तस्याः विषये देशवासिनः सूचयितुं वाञ्छामि | अत्यल्पायुष्मतीनां बालानां गणेन सह मेलनस्य अवसरो मया लब्धः | तासु काश्चन तु हिमालये जाताः सन्ति | समुद्र-विषयकः न कश्चनापि अनुभवः तासाम् | अस्मद्देशस्य एतादृश्यः षट् पुत्रिकाः याः हि नौ-सेनायां नियुक्ताः सन्ति, तासाम् उत्साहः, तासां भावः च अस्मान् सर्वान् बलात् प्रेरयतः | एताः षट् पुत्रिकाः INS – तारिणीं नीत्वा समुद्रम् लंघयितुं निर्गमिष्यन्ति | अस्याभियानस्य नामास्ति- “नाविका-सागर-परिक्रमा” अपि चैताः अशेष-विश्व-भ्रमणं कृत्वा अनेक-मासानन्तरं भारतं प्रत्यागमिष्यन्ति | कदाचित् अनारतं चत्वारिंशद्दिनानि जलेषु एव यापयिष्यन्ति, कदाचिच्च अनारतं त्रिंशद्दिनानि वा सलिलेषु एव निर्यापयिष्यन्ति | सामुद्रिकेषु तरङ्गेषु ससाहसं रममाणाः अस्मदीयाः भारतीयाः षट् पुत्रिकाः ! विश्वस्य प्रप्रथमेयं घटना भविता | को नाम न भवेत् हिन्दुस्थानी यो हि आसां भारतीय-पुत्रिकाणां कृते गौरवं नानुभवेत् | अहमासां पुत्रिकाणां साहसम् अदम्योत्साहञ्च अभिनन्दामि | अहं ताः अकथयम् यत् ताः स्वीयानुभवान् अशेष-देशवासिभिः साकं वितरेयुः | अहमपि NarendraModiApp- इत्यत्र तासाम् अनुभवानां कृते पृथक्तया व्यवस्थापयिष्यामि येन भवन्तः तान् नूनं पठितुं शक्ष्यन्ति | यतो हि एषास्ति साहस-कथा, स्वानुभव-कथा, अपि चाहं प्रसन्नताम् अनुभविष्यामि यदि आसां पुत्रिकाणाम् अनुभवान् भवतः यावत् प्रापयिष्यामि | मामकीनाभ्यः आभ्यः पुत्रिकाभ्यः भूरिशो मङ्गल-कामनाः, हार्दिकीञ्च आशिराशिं वितरामि |
मम प्रियाः देशवासिनः ! सेप्टेम्बर-मासे पञ्चमे दिने वयं शिक्षक-दिवसम् आयोजयामः | अस्माकं देशस्य प्राक्तन-राष्ट्रपतेः डॉ.राधाकृष्णन्-महोदयस्य जन्मदिवसः अयं | असौ राष्ट्रपतिः आसीत् परञ्च आजीवनं असौ आत्मानं शिक्षक-रूपेण एव उपास्थापयत् | सः शिक्षां प्रति समर्पितः आसीत् | सः अध्येता, राजनयिकः भारतस्य च राष्ट्रपतिः परञ्च प्रतिक्षणं जीवन्नेव शिक्षकः | तस्मै सादरम् नमामि | महान् वैज्ञानिकः अल्बर्ट आइंस्टीनः अकथयत यत् – “It is the supreme art of the teacher to awaken joy in creative expression and knowledge.” स्वीयेषु विद्यार्थिषु सृजनात्मक-भावस्य ज्ञानस्य चानन्दस्य जागरणम् एव शिक्षकस्य महत्वपूर्णं कार्यं | ऐषमः यदा वयं शिक्षक-दिवसं आयोजयिष्यामः तदा किं वयं सर्वे मिलित्वा संकल्पयितुं शक्नुमः ? सोत्साहं अभियानमेकं प्रवर्तयितुं शक्नुमः ? अमुना संकल्पेन साकं विषयमेनम् अग्रेसारयितुं अर्हिष्यामः | प्रत्येकमपि जनं पञ्च-वर्षार्थं संकल्पेन बध्नामः, तं संकल्पं साधयितुं मार्गदर्शनं कुर्मः, पञ्च-वर्षाणि यावत् असौ नूनं तत् प्राप्नुयादिति प्रयतेम ! जीवने सफलतायाः आनन्दं प्राप्नुमः | एतादृशं परिवेशं अस्मदी- याः विद्यालयाः, अस्माकीनाः महाविद्यालयाः, अस्मदीयाः शिक्षकाः अस्माकीनानि च शिक्षा-संस्थानानि कर्तुं प्रभवन्ति | अस्मदीये देशे यदा वयं रूपान्तरणस्य विषयं उपस्थापयमः, तदा यथा कुटुम्बे मातुः स्मरणं भवति तद्वद् समाजे शिक्षकस्य स्मरणं भवति | यदि वयं सम्भूय प्रयतामहे चेत् तदा, राष्ट्रस्य रूपान्तरणे महत्वाधायिनीं भूमिकां निर्वक्ष्यामः | आगच्छन्तु ! मन्त्रमेनं स्वीकृत्य अग्रेसरामः |
“प्रणमामि प्रधानमन्त्रि-महोदय ! मम नामास्ति डॉ.अनन्या अवस्थी, अहं मुम्बई-निवासिनी अस्मि | अपि च, Howard -विश्वविद्यालये India Research Centre-इत्यत्र कार्यं करोमि | अनुसन्धानार्थिरूपेण मम रुचिः वित्तीय-समावेशे वर्तते | एतत्-सम्बद्धानां सामाजिक-परियोजनानां विषये भवन्तं प्रष्टुं इच्छामि यत् वर्ष-त्रय-पूर्वं जन-धन-योजना प्रवर्तिता आसीत् | किं भवान् इदं कथयितुं शक्नोति यत् वर्ष-त्रयानन्तरं भारतं समधिकं क्षमम्, समधिकं संरक्षितं च वर्तते ? किं एतद्विषयकाणि सौविध्यानि अस्मदीयाभ्यः महिलाभ्यः कृषकेभ्यः श्रमिकेभ्यः च प्राप्तानि वा ?, धन्यवादः |
मम प्रियाः देश-वासिनः ! प्रधान-मन्त्रि-जन-धन-योजना वित्तीय-समावेशः चेत्यादि-विषयाः न केवलं भारते कृत्स्ने अपि जगति आर्थिक-जगतः पण्डितानां चर्चा-पदवीं भजन्ते | वर्ष-त्रय-पूर्वं ओगस्ट-मासे अष्टाविंशतितमे दिने स्वप्नमेकं आधृत्य अभियानमिदं प्रवर्तितमासीत् | श्वः प्रधान-मन्त्रि-जन-धन-योजनायाः वर्ष-त्रयं पूर्णतां उपैति | त्रिंशत्-कोटिमितानि नूतनानि कुटुम्बानि अमुना साकं संयोजितानि | बैङ्क-लेखाः च समुद्घाटि- ताः | अद्याहं समादधामि यत् वर्ष-त्रयाभ्यन्तरमेव समाजस्य अन्तिम- पङ्क्तिस्थः जनः, मम निर्धनः भ्राता, देशस्य अर्थव्यवस्थायाः मूलधारायाः अङ्गत्वेन प्रतिष्ठितो जातः | शनैः शनै सः अपि अनुभवति यत् धनं सञ्चितं चेत्, संततेः कार्यार्थम् उपयोक्तुं शक्ष्यते | साम्प्रतं संयमस्य परिवेशः विरचितः अस्ति | यः निर्धनः स्वीये कोशे RuPay Card – इति धन-पत्रकम् धारयति, तदा सः धनिकैः सह आत्मानं तूलयितुमर्हति | प्रधान-मन्त्रि-जन-धन-योजनायां निर्धन-द्वारा प्रायेण पञ्च-षष्टि-सहस्र-कोटिमितानि रूप्यकाणि बैङ्केषु सञ्चितानि | प्रधानमन्त्रि-जीवन- ज्योतिः-आगोप-योजना, ‘प्रधानमन्त्रि-सुरक्षागोप-योजना’ – चेत्यत्र एक-रूप्यकं त्रिंशत्-रूप्यकाणि चेति लघुराशिः अद्यत्वे निर्धनानां जीवने नवीनं विश्वासं उत्पादयति | अनेकेषु कुटुम्बेषु एकरूप्यकस्य आगोप-करणात आगते सति संकटे कतिपय-दिनेषु एव तस्मै कुटुम्बाय द्वि-लक्ष-रूप्यकाणि प्रापितानि |
प्रधानमन्त्रि-मुद्रा-योजना, ‘Start Up योजना’, ‘Stand Up योजना’ – चेत्यादिषु कश्चन दलितः भवेत् वा आदिवासी, काचन महिला वा साक्षरः युवा उताहो आत्मनिर्भतायै प्रयतमानो युवकः, कोटि-कोटि-नवयुवकाः ‘प्रधानमन्त्रि-मुद्रा-योजनया बैंकभ्यः विनैव प्रत्याभूतिं धनं प्राप्तवन्तः | ते स्वयमपि आत्मनिर्भरत्वं प्राप्तवन्तः | प्रत्येकमपि एकस्मै वा द्वाभ्यां वा वृत्ति-प्रदानार्थं प्रायतत | एतादृशानि शताधिकानि उदाहरणानि सन्ति | भवत्-पर्यन्तं प्रापयितुमहं सर्वात्मना प्रयतिष्ये, अपि च सञ्चार-माध्यमानि अपि एतेषां जनानां साक्षात्कारादिकं विधाय नूतनान् युव-जनान् प्रेरयितुं शक्नुवन्ति |
मम प्रियाः देशवासिनः ! पुनरेकवारं भवतां कृते मिच्छामि दुक्कडम्…. भूरि भूरि साधुवादाः ….. !!!
+++ +++++ +++++ +++++++
डॉ.बलदेवानन्द-सागरः email- baldevanand.sagar@gmail.com
cell- 9810 5622 77
‘मन की बात’ [34]
“मनोगतम्” [34] (प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” – इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
– भाषान्तर-कर्ता – बलदेवानन्द सागर
मम प्रियाः देश-वासिनः !
नमस्कारः | मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते | कालोsयम् अतितरां रमणीयः | पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति | परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति | परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते | विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते | जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते | व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते | यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः अपि यान्ति | राज्य-प्रशासनानि अपि स्व-स्व-पद्धत्या पूर-प्रपीडितानां साहाय्यार्थं समग्रतया प्रयतन्ते | सामाजिक-संघटनानि अपि, सांस्कृतिक-संघटनानि अपि, सेवाभावेन कार्य-निरताः नागरिकाः अपि, एतादृशीषु स्थितिषु जनेभ्यः साहाय्यं प्रापयितुं
सर्वात्मना प्रयतन्ते | भारत-प्रशासन-पक्षतः स्थल-सेनानां सैनिकाः स्युः वा वायु-सेनानां सदस्याः, NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य वा अर्ध-सैन्य-बालानां च जनाः भवेयुः, सर्वेsपि एतादृशे काले आपत्-पीडितानां साहाय्यार्थं सर्वात्मना संलग्नाः भवन्ति | जल-पूरैः जन-जीवनम् अतितरां व्यग्रं व्याकुलं व्यस्तञ्च भवति | शस्यानि, पशुधनम्, आधारभूतानि साधनानि, मार्गाः, विद्युदापूर्तिः, सञ्चार-संपर्काः चेति सर्वमपि दुष्प्रभवति | विशेषेण, अस्मदीयाः कृषक-भ्रातरः, तेषां च कृषि-क्षेत्राणि शस्यानि च दुष्प्रभवन्ति | अतः एतेषु दिनेषु आगोप-समवायाः, विशेषेण च शस्यागोप-समवायाः पूर्वतः एव सक्रियतया व्यवहरेयुः इति कृत्वा योजना विरचितास्ति येन कृषकाः शीघ्रमेव स्वीय-प्रत्यर्थित्वं समाधातुं शक्नुयुः | अपि च, जलपूर-स्थितिं प्रतीकर्तुम् अहर्निशं नियन्त्रण-कक्षस्य सहायिनी दूरभाष-संख्या १०७८ इति अनारतं कार्यनिरतास्ति | जनाः अपि स्व-स्व-काठिन्यानि सूचयन्ति | वर्षर्तोः आगमनात् प्राक्, अधिकतमेषु स्थानेषु पूर्वाभ्यासं कृत्वा अशेषमपि प्रशासकीयं तन्त्रं सन्नद्धीकृतम् आसीत् | NDRF- इति राष्ट्रियापदा-प्रबन्धन-बलस्य गणाः नियोजिताः | नाना-स्थानेषु आपदा-मित्राणां निर्माणम्, तेषाञ्च कर्तव्याकर्तव्य-प्रशिक्षणम्, स्वयंसेविनां निर्धारणं चेति जन-संघटनं निर्मीय एतादृश्यां स्थितौ कार्याणि आचरणीयानि भवन्ति | एतेषु दिनेषु ऋतोः पूर्वानुमानमपि लभ्यते | साम्प्रतं प्रविधिः प्रोन्नतः जातः | अन्तरीक्ष-विज्ञानस्यापि अत्र महती भूमिका वर्तते | अस्य साहाय्येन पूर्वानुमानं प्रायेण समीचीनमेव जायते | शनैः शनैः वयमपि तादृशं स्वभावं स्वीकुर्मः येन ऋतोः पूर्वानुमानस्य अनुसारेण स्वीय-कार्य-कलापान् विरचयामः, एवं कृते सति वयं सम्भावितां हानिं परिहर्तुं शक्ष्यामः |
यदा हि “मन की बात” इत्येतदर्थं सन्नद्धतां करोमि, अनुभवामि यत् देशस्य नागरिकाः मत्तोsपि अधिकतरं समुपकल्पयन्ति | अस्मिन् क्रमे तु GST- इति वस्तु-सेवा-कराधान-विषयकाणि अनेकानि पत्राणि अधिगतानि, नैकाः दूरभाष-समाकारणाः
अवाप्ताः, साम्प्रतमपि जनाः GST- इति वस्तु-सेवा-कराधान-विषये प्रसन्नतां प्रकटयन्ति, जिज्ञासामपि कुर्वन्ति | एकं दूरभाष-सम्भाषणम् अहं भवतः अपि श्रावयामि | “नमस्करोमि ! प्रधानमन्त्रि-महोदय ! गुरुग्रामतः अहं नीतू-गर्गः वदामि | अहं Chartered Accountant day- इति लेखाकाराणां सम्मेलने भवता व्याहृतम् अभिभाषणं श्रुतवती, अतितरां च प्रभाविता जाता | एवमेव, अस्मदीये देशे विगते मासे अस्मिन्नेव दिने GST- इति वस्तु-सेवा-कराधानम् आरभत | किमेतत् वक्तुं भवान् शक्नोति यत् प्रशासनेन यथा अपेक्षितमासीत्, मासानन्तरमपि तादृशः एव परिणामः लभ्यते वा ? एतद्-विषये अत्रभवतः विचारान् श्रोतुमिच्छामि, धन्यवादः |”
GST- इति वस्तु-सेवा-कराधानस्य प्रवर्तनं प्रायेण मासावधिकं जातम्, अपि चास्य लाभाः दृग्गोचरीभूयन्ते | अतितरां सन्तोषम् अनुभवामि प्रसीदामि च यदा कश्चन निर्धनः पत्रं लिखित्वा मां वदति यत् GST-कारणात् मम निर्धनस्य कृते आवश्यक-वस्तूनां मूल्यानि केन प्रकारेण न्यूनीभूतानि, केन प्रकारेण च वस्तूनि अल्प-मूल्यात्मकानि संवृत्तानि | यदि दूरे सुदूरे उत्तर-पूर्वीये दिग्विभागे पर्वतेषु काननेषु च निवसन् कश्चन जनः पत्रं लिखति कथयति च यद् GST-इति किमस्तीति आरम्भे अतितरां भीतिः अनुभूयते स्म | परञ्च यदाहम् एतद्-विषये अवगन्तुं शिक्षितुञ्च आरभम्, अनुभवामि यन्मम कार्यं पूर्वतः अपेक्षया सरलतरम् अजायत | व्यापारः अपि पूर्वापेक्षया अधिकः सरलः संवृत्तः | सर्वाधिकं महत्त्वपूर्णन्तु इदमेव यत् व्यापारिषु ग्राहकाणां विश्वासः सततं विवर्धते | नातिचिरम् अवलोकयन् आसम् यत् परिवहन-सम्भार-तन्त्र-क्षेत्रे GST- इत्यस्य कियान् प्रभावः जातः ? अधुना भारवाहि-यानानां गमनागमनं कियत् एधितम् ? दूरत्वं पूरयितुं केन प्रकारेण न्यूनतरः कालः लगति ? राजमार्गाः साम्प्रतं यानैः सम्मर्द-मुक्ताः सञ्जाताः | भारवाहि-यानानां गति-वर्धन-कारणात् प्रदूषणम् अपि अपचितम् | भार-सामग्री अपि सत्वरं गन्तव्य-स्थानानि प्राप्यते | एतत् सौविध्यं तु अस्त्येव, परञ्च युगपदेव आर्थिक-गतिरपि अनेन बलवत्तरा भवति | प्राक्, पृथक्-पृथक् करविधान-कारणात् परिवहन-सम्भार-तन्त्र-प्रभागस्य समधिकानि संसाधनानि आलेखन-पत्राणां संधारणे एव व्यापृतानि भवन्ति स्म, अपि च तेन प्रत्येकमपि राज्ये स्वीयाः नवीनाः पण्य-भूमयः निर्मेयाः भवन्ति स्म | GST- इत्येनम् अहं GOOD & SIMPLE TAX – इति समीचीन-सरल-कराधानमिति वदामि, सत्यमेव अमुना अस्मदीयायाम् अर्थ-व्यवस्थायाम् उपरि अति-न्यूनावधौ भूरिशः सकारत्मकः प्रभावः विहितः | यया जवीयस्या गत्या सुकरं परिवहनम् अभवत्, यया द्रुत-गत्या स्थानान्तर-गमनं जातम्, नूतनानि पञ्जीकरणानि सञ्जातानि | एभिः अशेष-देशे अभिनवः विश्वासः समुत्पादितः | अपि च, कदाचित् अर्थ-व्यवस्थायाः विशेषज्ञाः, प्रबन्धन-पण्डिताः, प्रविधि-प्रवीणाः च, भारतस्य GST-प्रयोगस्य अनुसन्धानं कृत्वा जगतः सम्मुखं आदर्श-पद्धति-रूपेण अवश्यमेव स्थापयिष्यन्ति | कराधानमेतत् विश्वस्य विश्वविद्यालयानां कृते विशिष्ट-प्रकरणाध्ययनत्वेन भविता | यतो हि एतावता बृहत्-स्तरेण एतावत् बृहत्तमं परिवर्तनम्, तथा च, तावति विशाले राष्ट्रे कोटि-कोटि-जनानां संपृक्ति-पुरस्सरं GST-प्रवर्तनं करणीयम्, तच्च, सफलता-पूर्वकम् अग्रेसारणीयम्, एतदस्ति – स्वयम्भूः बृहत्तमं साफल्य-सोपानम् | कदाचित् जगदिदं नूनम् एतद्-विषये अध्येष्यति | GST-प्रवर्तने सर्वेषामपि राज्यानां सहभागित्वं वर्तते, निखिलानां राज्यानां चात्र दायित्वमपि वर्तते | सर्वेsपि निर्णयाः राज्यैः केन्द्रेण च सम्भूय सर्व-सम्मत्या विहिताः सन्ति | अत एव परिणामत्वेन प्रत्येकमपि सर्वकारस्य एका एव प्राथमिकता अवर्तत यत् GST-कारणात् निर्धनोपरि न किञ्चिदपि आपीडः भवेत् | तथा च, GST-App – इत्यत्र भवन्तः सुगमतया ज्ञातुं शक्नुवन्ति यत् अस्य प्रवर्तनात् प्राक्, वस्तूनां मूल्यानि कियन्ति आसन्, नूतनायां च परिस्थितौ कियन्ति मूल्यानि भवितारः – एतत् सर्वमपि विवरणं भवतां जङ्गम-दूरभाषेण उपलब्धुं शक्यते | एकं राष्ट्रम्, एकं कराधानम् !! कियत् बृहत्तमं स्वप्नं पूर्णम् अभवत् | GST-विषये मया अनुभूतं यत् उप-जनपदतः आरभ्य भारतीय-प्रशासनस्य अधिकारिभिः समर्पण-भावेन यावान्
परिश्रमः विहितः, अपि च, अमुना व्याजेन सर्वकारस्य व्यापारिणां च मध्ये, सर्वकारस्य ग्राहकाणां च मध्ये यः सौहार्द-परिवेशः समजनि, तेन पारस्परिक-विश्वासं विवर्धयितुं महती खलु भूमिका निर्व्यूढा | कार्येsस्मिन् संलग्नेभ्यः सर्वेभ्यः मन्त्रालयेभ्यः, सर्वेभ्यः विभागेभ्यः, केन्द्रस्य राज्य-प्रशासनानां च, सर्वेभ्यः कर्मकरेभ्यः हृदयेन भूरिशः वर्धापनानि वितरामि | GST-कराधानं हि भारतस्य सामूहिक-शक्तेः सफलतायाः अन्यतमम् उत्तमम् उदाहरणं वर्तते | एषा नाम ऐतिहासिकी उपलब्धिः | न च एषा केवलं कर-परिष्कार-पद्धतिः | एषा अस्ति- प्रामाणिकता-पूर्णायाः संस्कृतेः बलप्रदात्री काचित् नूतना अर्थव्यवस्था | प्रकारान्तरेण सामाजिक-परिष्कारस्य अभियानमपि इदमस्ति | पुनरेकवारम् अहम् – सफलता-पुरस्सरम् एतावन्तं बृहत्तमं प्रयासं सफलीकर्तुं कोटि-कोटिभ्यः राष्ट्रवासिभ्यः कोटि-कोटि-वन्दनानि अर्पयामि |
मम प्रियाः देशवासिनः ! अगस्त-मासः क्रान्तेः मासत्वेन ख्यातः | अस्य कारणं सहजतया वयं बाल्यकालात् शृण्वन्तः आस्मः यत् विगत-शताब्दे विंशतितमे वर्षे अगस्तमासे प्रथम-दिने “असहयोगान्दोलनम्” आरभत | विगत-शताब्दे द्विचत्वारिन्शत्तमे वर्षे अगस्तमासे नवम-दिने “भारतं त्यजेति आन्दोलनम्” प्रारभत, यद्धि “अगस्त-क्रान्ति-रूपेण अभिज्ञायते | अपि च, विगत-शताब्दे सप्त-चत्वारिन्शत्तमे वर्षे अगस्तमासे पञ्चदशे दिनाङ्के देशोsयं स्वतन्त्रः अभवत् | प्रकारान्तरेण अगस्तमासे घटिताः अनेकाः घटनाः स्वतन्त्रतायाः इतिहासेन साकं विशेषतया सम्पृक्ताः सन्ति | ऐषमः वयं ‘Quit India Movement’ – भारतं त्यजेति आन्दोलनस्य पञ्च-सप्तति-तमां वर्षपूर्तिम् आयोजयिष्यामः | परञ्च, न्यूनाः एव जनाः तथ्यमिदं जानन्ति यत् ‘भारतं त्यजे’ति आघोषः डॉ.यूसुफ़ -महर-अली-वर्येण प्रदत्तः आसीत् | अस्मदीया नवीना वंशावली नूनम् अवगता स्यात् यत् विगते शताब्दे द्विचत्वारिन्शत्तमे वर्षे अगस्तमासे नवम-दिने किम् अभवत् ? अष्टादश-
शताब्दे सप्त-पञ्चाशत्तम-वर्षतः विगत-शताब्दे द्विचत्वारिन्शततम-वर्षं यावत् येन स्वातन्त्र्य-संकल्पेन सह देशवासिनः समवेताः अभूवन्, संघर्षरताः संवृत्ताः, कष्टानि सोढवन्तः चेति इतिहासस्य पृष्ठानि नूनं भव्य-भारत-निर्माणार्थं अस्मदीय-प्रेरणा-स्रोतान्सि सन्ति | अस्मदीयाः स्वतन्त्रता-वीराः त्याग-तपस्या-बलिदानानि अर्पितवन्तः, एतेभ्योsधिकतरा प्रेरणा का नाम अन्या स्यात् ? भारतं त्यजेति आन्दोलनं हि भारतीय-स्वतन्त्रतान्दोलनस्य महत्त्वाधायी संघर्षः आसीत् | अमुना आन्दोलनेन हि ब्रिटेन्-देशीय-शासनात् मुक्तिम् अधिगन्तुं अशेषमपि राष्ट्रं संकल्पितं विहितम् | अयं हि सः कालः आसीत्, यदा आङ्ग्ल-शासनस्य विरुद्धं देशस्य प्रत्येकमपि कोणे भारतीय-जन-मानसम् एकीभूतम् | भवतु नाम सः ग्रामः वा पुरम्, भवन्तु नाम ते निरक्षराः वा साक्षराः, सन्तु नाम ते निर्धनाः वा धनिनः, प्रत्येकमपि जनः सम्भूय भारतं त्यजेति आन्दोलनस्य सहभागी जातः | जनाक्रोशः चरम-सीमानम् अतिक्रान्तः | महात्मनः गान्धिनः आह्वानम् अभिलक्ष्य लक्षशो भारतवासिनः “कार्यं साधयेयं देहं वा पातयेयम्”- इति समर्पण-मन्त्रेण सह स्व-जीवनानि स्वाधीनता-संघर्षार्थम् अर्पयन्तः आसन् | देशस्य लक्ष-लक्षाधिकाः युवानः निजाध्ययन-क्रमं त्यक्त्वा, पुस्तकानि विहाय च स्वतन्त्रतायाः दुन्दुभि-स्वरेण प्रेरिताः सन्तः प्रयाण-निरताः सञ्जाताः | अगस्त-मासे नवमे दिने भारतं त्यजेति आन्दोलनस्य कृते महात्मना गान्धिना आहूतम्, परञ्च, सर्वेsपि वरिष्ठाः नेतारः आङ्ग्ल-सर्वकारेण धृत्वा कारासु निगडिताः | इदं तत् कालखण्डमासीत् यदा डॉ.लोहिया-जयप्रकाश-नारायण-सदृशैः द्वितीय-वन्शीयैः महापुरुषैः अग्रिमा भूमिका निर्व्यूढा | विगत-शताब्दे विन्शतितमे वर्षे “असहयोगान्दोलनम्” विगते शताब्दे दविचत्वारिन्शत्तमे वर्षे च, “भारतं त्यजेति आन्दोलनम्,” अत्र महात्म-गान्धिनः पृथक्-पृथक् रूप-द्वयं दृग्गोचरीभवति | “असहयोगान्दोलनस्य” रूप-रङ्गौ पृथक् आस्ताम्, अपि च, दविचत्वारिन्शत्तमे वर्षे स्थितिः तावती तीव्रतरा अभवत् यन् महात्मगान्धि-सदृशैः महापुरुषैः “कार्यं साधयतु वा प्राणान् त्यजतु”- इति मन्त्रः प्रदत्तः | जन-समर्थनम्, जन-सामर्थ्यम्, जन-संकल्पः, जन-संघर्षः चासन् अस्याः समग्रायाः सफलतायाः पृष्ठभूमौ | कृत्स्नोsपि देशः एकीभूय संघर्ष-निरतः अवर्तत | कदाचिदहं चिन्तयामि यत् इतिहासस्य पृष्ठानि किञ्चित् समेत्य यदि अवलोकयामः चेत्, इदं सुनिश्चितं यत् भारतस्य प्रप्रथमः स्वतन्त्रता-संग्रामः अष्टादशे शताब्दे सप्त-पन्चाशत्तमे वर्षे सञ्जातः | अस्मात् संवत्सरात् आरब्धः स्वतन्त्रता-संग्रामः विगते शताब्दे दविचत्वारिन्शत्तम-वर्ष-पर्यन्तं प्रत्येकमपि क्षणे देशस्य यस्मिन् कस्मिन्नपि कोणे सुतरां प्रावर्तत | अमुना दीर्घ-काल-खण्डेन देशवासिनां हृदयेषु स्वाधीनतायाः तीव्रतरा लालसा जनिता | प्रत्येकमपि किञ्चिदपि कर्तुं तत्परः प्रतिबद्धः चासीत् | कालक्रमेण वन्शाः व्यतीताः परम्, संकल्पेsस्मिन् किमपि नैयून्यं नैव जातम् | जनाः समवेताः भवन्ति स्म, संयुक्ताः अभूवन्, प्रयाताः सन्तः अवर्तन्त, नूतनाः जनाः आगताः, नवीनाः समवेताः, तथा च, आङ्ग्ल-प्रशासनम् उन्मूलयितुं देशः प्रतिपलं प्रयतते स्म | अष्टादशे शताब्दे सप्त-पन्चाशत्तम-वर्षतः विगत-शताब्दे दविचत्वारिन्शत्तम-वर्ष-पर्यन्तं सञ्जात-संघर्षेण आन्दोलनाय तादृशी स्थितिः निर्मिता यत् दविचत्वारिन्शत्तम-वर्षम्, अत्र चरम-सीमत्वेन सिद्धम्, तथा च, “भारतं त्यजेति” – तादृश-दुन्दुभि-रवेण पञ्च-वर्षाभ्यन्तरे एव अर्थात् विगत-शताब्दे सप्त-चत्वारिन्शत्तम-वर्षे आङ्ग्लाः भारतं त्यक्तुं विवशीभूताः | विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् पञ्च-वर्षावधौ तादृशं जन-मानसं सज्जीभूतम् यत् संकल्पतः सिद्धि-पर्यन्तं पञ्च-निर्णायक-संवत्सरत्वेन अवधिरयं सफलता-पुरस्सरं देशस्य स्वातन्त्र्य-प्रदायि-कारणरूपेण परिणतः | एतानि पञ्च निर्णायक-वर्षाणि अवर्तन्त |
साम्प्रतमहं अमुना गणितेन साकं भवतः संयोजयितुं समीहे | विगते शताब्दे सप्त-चत्वारिन्शत्तमे वर्षे वयं स्वतन्त्राः अभवाम | अधुना विन्शशताब्दस्य सप्त-दशं वर्षं प्रवर्तते | प्रायेण सप्ततिः वर्षाणि व्यतीतानि | नाना प्रशासनानि आगतानि गतानि च | व्यवस्थाः प्रकल्पिताः, परिवर्तिताः, प्रवर्धिताः, अग्रेसृताः च | देशं समस्या-मुक्तं विधातुं प्रत्येकमपि स्व-स्व-रीत्या प्रायतत | देशे वृत्तितां वर्धयितुं, निर्धनतां दूरीकर्तुं, विकासम् वितानयितुं च प्रयत्नाः अभूवन् | स्व-स्व-रीत्या परिश्रमः विहितः | सफलता अवाप्ता, अपेक्षा च जागरिता| यथा विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् संकल्पतः सिद्धेः निर्णायकत्वेन पञ्चवर्षाणि आसन्, तथैव अहं परिशीलयामि यत् सप्तदशतः आगामि-द्वाविंशतितम-वर्षं हि संकल्पतः सिद्धेः यावत् अपरः पञ्च-वर्षात्मकः काल-खण्डः अस्माकं सम्मुखं समुपस्थितोsस्ति | ऐषमः अगस्तमासीयं पञ्चदश-दिवसं वयं संकल्प-पर्व-त्वेन आयोजयामः, तथा च, आगामि-द्वाविंशतितम-वर्षे यदा स्वतन्त्रता-प्राप्तेः पञ्च-सप्तति-वर्षाणि भवितारः, तदा वयं नूनं तं संकल्पं सिद्धित्वेन एव परिवर्तितारः | सपाद-शत-कोटि-मिताः देशवासिनः अगस्त-मासीयं नवमं क्रान्ति-दिनं स्मृत्वा ऐषमः अगस्तमासीये पञ्चदश-दिने संकल्पयन्ति यत् व्यक्तिशः वा नागरिकरूपेण, अहं देश-हितार्थम्, एतावत्तु नूनं करिष्यामि, कुटुम्बरूपेण वा समाजरूपेण इदम् आचरिष्यामि, ग्राम-रूपेण वा नगर-रूपेण एतत् विधास्यामि, शासकीय-विभाग-रूपेण एतत् करिष्यामि, प्रशासन-रूपेण इदं वा अनुष्ठास्यामि… ! कोटि-कोटि-मिताः संकल्पाः भवेयुः | एतेषां संकल्पानां परिपूर्णतायै प्रयत्नाः स्युः | एवं जाते सति, विगते शताव्दे दविचत्वारिन्शत्तम-वर्षतः सप्त-चत्वारिन्शत्तम-वर्षं यावत् देशस्य स्वाधीनतायै संकल्पतः सिद्धेः निर्णायकत्वेन पञ्चवर्षाणि आसन्, तथैव एतत्-सप्तदशतः द्वाविंशति-तम-वर्ष-पर्यन्तं पञ्चवर्षाणि भारतस्य भविष्यत्कृतेsपि निर्णायकत्वेन भवितुं शक्नुवन्ति तथा चैतद् अस्माभिः नूनं करणीयम् | पञ्च-वर्षाणाम् अनन्तरं यदा वयं देशस्य स्वतन्त्रतायाः पञ्च-सप्तति-वर्ष-पूर्तिम् आयोजयिष्यामः | अतः अस्माभिः सर्वैः दृढतया अद्य संकल्पनीयम्, एतत्-सप्तदश-मितं वर्षं अस्माकं संकल्प-वर्षत्वेन करणीयम् | “अस्वच्छते ! भारतं त्यज, निर्धनते ! भारतं त्यज, भ्रष्टाचार ! भारतं त्यज, आतंकवाद ! भारतं त्यज, जातिवाद ! भारतं त्यज,
संप्रदायवाद ! भारतं त्यज, |” एनं संकल्पं नूनं साधयिष्यामः | अद्य आवश्यकमस्ति यत् नूतन-भारतस्य संकल्पेन सह संयोजनं स्यात् | सफलता-प्राप्तये सम्भूय सर्वात्मना पुरुषार्थाचरणं भवेत् | आगच्छन्तु ! ऐषमः अगस्त-मासीये नवम-दिनांके संकल्पतः सिद्धि-पर्यन्तम् एकं महाभियानं प्रवर्तयेम ! प्रत्येकमपि भारतवासी, सामाजिक-संस्थाः, स्थानीयाः निकायाः, तेषाम् एकान्शाः, विद्यालयाः, महाविद्यालयाः, विभिन्नानि संघटनानि च, अभिनव-भारतस्य कृते, प्रत्येकमपि किञ्चिद्-किञ्चिद् संकल्पं विदध्युः | तादृशः संकल्पः यं वयम् आगामिषु पञ्च-वर्षेषु पूर्णतां नेष्यामः, सिद्धञ्च करिष्यामः | युव-संघटनानि, छात्र-संघटनानि, स्वयंसेविसंघटनानि चेत्यादयः सामूहिक-चर्चाम् आयोजयितुं शक्नुवन्ति | नव-नवीनान् विचारान् प्रस्तोतुम् अर्हन्ति | एक-राष्ट्रत्वेन अस्माभिः किं प्राप्तव्यम् ? व्यक्ति-रूपेण तदर्थं मया किन्नाम योगदानं कर्तुं शक्यते ? आगच्छन्तु ! अस्मिन् संकल्प-पर्वणि, वयं समवेताः भवेम ! अधुनातने काले वयं शारीरिक-रूपेण कुत्रचित् भवेम वा न वा, Online World – इति सद्यस्क-सम्बन्धेन नूनं तत्र भवितुं शक्नुमः | विशेषेण, मम युव-सहयोगिनः, मम युवमित्राणि चामन्त्रयामि यत् ते नूतन-भारतस्य निर्माणार्थं नव-नवोन्मेष-रीत्या सहयोक्तुं योगदानञ्च कर्तुम् अग्रे आयान्तु ! प्रविधि-प्रयोग-पुरस्सरं ते video-blog-चेति दृश्याङ्कनान्तर्जालीयालेखन-द्वारा नवनवीनान् विचारान् उपस्थापयेयुः| अभियानमेतत् जनान्दोलनत्वेन प्रवर्तितं स्यात् | NarendraModiApp – इत्यत्र अपि युवमित्राणां कृते Tweet India – प्रश्न-स्पर्धा प्रारप्स्यते | प्रश्न-स्पर्धा एषा युवजनान् देशस्य गौरव-पूर्णेन इतिहासेन साकं संयोजयितुम्, स्वतन्त्रता-संग्रामस्य नायकानां विषये च तान् अवगतान् विधातुं प्रयास-रूपा अस्ति | आमिनोमि यत् भवन्तः अवश्यमेव एतद्-विषये व्यापकं प्रचारं प्रसारञ्च कुर्युः |
मम प्रियाः देशवासिनः ! अगस्त-मासीये पञ्चदश-दिनाङ्के राष्ट्रस्य प्रमुख-सेवकत्वेन अहं रक्तदुर्गस्य प्राचीरेभ्यः अशेष-देशेन संभाषितुम् अवसरं प्राप्नोमि | अहन्तु निमित्त-मात्रमेवास्मि | तत्र सः एकः कश्चन जनः नैव अभिभाषते | ततः सपाद-शत-कोटि-देश-वासिनाम् निनादानुगुञ्जनं भवति | तेषां स्वप्नानि शब्द-बद्धानि कर्तुं प्रयत्यते | नूनमहं प्रसीदामि यत् विगत-वर्ष-त्रयात् अनारतं अगस्तमासीय-पञ्चदश-दिनस्य व्याजेन देशस्य विविध-कोणेभ्यः परामर्शान् अधिगच्छामि यत् एतस्मिन् दिने किं किं वक्तव्यमिति ? के के विषयाः उत्त्थापनीयाः ? संप्रत्यपि परामर्श-प्रदानार्थम् अहं भवतः आमन्त्रयामि | MyGov – उत वा, NarendraModiApp – चेत्यत्र भवन्तः निज-विचारान् माम् अवश्यं प्रेषयन्तु | स्वयमहं तान् विचारान् पठामि, अपि च पञ्चदश-दिने यावान् कालः मम पार्श्वे अस्ति, तस्मिन्नवधौ तान् प्रकटयितुं प्रयतितास्मि | विगतस्य अभिभाषण-त्रयस्य विषये परिदेवनम् एतत् सततम् अवाप्तं यत् ममाभिभाषणं किञ्चित् दीर्घं भवतीति | एतस्मिन् क्रमे, मया विचारितं यत् लघु एव अभिभाषिष्ये ! चत्वारिन्शत्तः पञ्चाशत्-मिनिट्-पर्यन्तं पूर्णतां नयानि ! न जाने कर्तुं पारयिष्यामि वा न वा, परं प्रयत्नं नूनं करिष्यामि |
मम देशवासिनः ! एकम् अपरं विषयमपि प्रस्तोतुं वाञ्छामि | भारतीयार्थ-व्यवस्थायां सामाजिकम् अर्थशास्त्रं सन्निहितं वर्तते | नैतच्च मनागपि अवहेलनीयम् | अस्मदीयाः उत्सवाः न केवलम् आमोद-प्रमोदार्थं परिगणनीयाः | अस्माकं पर्वाणि अस्मदीयाः उत्सवाः च सामाजिक-परिष्कारस्य अभियान-रूपाः सन्ति | तथा च, युगपदेव, अस्म्दीयाः एते उत्सवाः निर्धनतमस्य आर्थिक-जीवनेन साक्षात् संपृक्ताः सन्ति | कतिपय-दिनानाम् अनन्तरं रक्षाबन्धनम्, जन्माष्टमी, ततः परं गणेशोत्सवः ततः परं चौथ-चन्द्रः, अनन्त-चतुर्दशी, दुर्गापूजा, दीपावलीति एकस्माद् अनुपदम् अपरः उत्सवः समापत्स्यते | अयमेवावसरः यदा निर्धनः आर्थिकोपार्जनं कर्तुमवसरं लभते | तथा च, एतैः उत्सवैः साकं, सहजः आनन्दः अपि संयुज्यते | उत्सवाः, सम्बन्धेषु माधुर्यम्, कुटुम्बे स्नेहम्, समाजे च बन्धुत्वं हि विवर्धयन्ति | एते समाजेन साकं व्यक्तिं संयोजयन्ति | व्यक्तितः समष्टि-पर्यन्तम् एका स्वाभाविकी यात्रा प्रचलति | अहम्-तः वयम्-इत्येवं प्रति गमनस्य महानीयावसरः लभ्यते | अर्थव्यवस्था-विषये तु एतद्-विचारयितुं शक्यते यत् रक्षाबन्धन-पर्वणः आगमनात् प्राक्, नैक-मासेभ्यः शतशः कुटुम्बानि लघु-लघु-गृहोद्योगेषु रक्षा-सूत्राणि विनिर्मातुम् आरभन्ते | खादी-कौशेय-सूत्रैः न जाने कतिविधानि रक्षासूत्राणि विनिर्मीयन्ते ? अपि चाद्यत्वे तु जनेभ्यः home-made- इति गृह-निर्मितानि रक्षासूत्राणि भूरिशो रोचन्ते | रक्षासूत्राणां निर्मातारः विक्रेतारः च, मिष्टान्न-विक्रेतारः प्रभृतीनां लक्षशो जनानां व्यवसायः उत्सवैः संयुक्तो भवति | अस्माकं निर्धनानां भ्रातृ-भगिनीनां कुटुम्बानि एवं रीत्या जीविकां प्रचालयन्ति | दीपावल्याः अवसरे वयं दीपान् प्रज्वालयामः | तदेव प्रकाश-पर्व इति नैव, अस्य पर्वणः साक्षात् सम्बन्धः लघु-लघूनां मृत्तिका-दीपानां निर्मातृभिः निर्धन-कुटुम्बैः साकमपि वर्तते | एवं उत्सव-सन्दर्भे अहं पर्यावरण-विषयेsपि किमपि वक्तुमीहे |
कदाचिदहं चिन्तयामि यत् ममापेक्षया देशवासिनः समधिकाः जागरुकाः सन्ति | विगत-मासात् अनारतं पर्यावरण-जागरुकैः नागरिकैः मां प्रति अनेकानि पत्राणि प्रेषितानि | साग्रहं ते सूचितवन्तः यत् गणेश-चतुर्थी-पर्वणि echo-frendly- पर्यावरणानुकूलानां गणेश-प्रतिमानां विषये पूर्वमेव जनाः प्रबोधनीयाः | सर्व-प्रथमं एतेषां जागरुक-नागरिकाणां कृते कार्तज्ञ्यमावहामि | साम्प्रतिके काले गणेशोत्सवस्य विशिष्टं महत्वं वर्तते | लोकमान्य-तिलक-वर्येण महती एषा परम्परा प्रवर्तिता | संवत्सरोsयं सार्वजनिकस्य गणेशोत्सवस्य सपाद-शत-वर्षं वर्तते | सपाद-शतं वर्षाणि सपाद-शत-कोटिमिताः देशवासिनः ! लोकमान्य-तिलक-वर्येण यां मूल-भावनाम् आधृत्य समाजस्य एकतायै जागरुकतायै च, सामूहिकतायाः संस्कारार्थं च, सार्वजनिकस्य गणेशोत्सवस्य शुभारम्भः विहितः आसीत्, तदाधृत्य वयं पुनरेकवारं गणेशोत्सवीये वर्षेsस्मिन् निबन्ध-स्पर्धाः आयोजयेम, चर्चा-सभाः करावाम,
लोकमान्य-तिलक-वर्यस्य योगदानञ्च स्मराम ! तां भावनां पुनः प्रबलां विधाय वयं पर्यावरणानुकूलानां मृत्तिका-निर्मितानां गणेश-प्रतिमानां स्वीकरणं करवाम ! विश्वसिमि यत् भवन्तः सर्वेsपि मया सार्धं संयोजिताः भविष्यन्ति | अस्मदीयाः ये निर्धनाः शिल्पिनः, मूर्ति-निर्मातारः सन्ति ते आजीविकां प्राप्स्यन्ति | आगच्छन्तु ! वयं सर्वे अस्मदीयान् समुत्सवान् निर्धनैः साकं संयोजयेम ! निर्धनस्य अर्थव्यवस्थया संयोजयेम ! अस्मदीय-समुत्सवस्य आनन्दः निर्धनस्य गृहस्य आर्थिकोत्सवः भवेत्, आर्थिकानन्दः भवेत् ! अयमेव अस्माकीनः सार्वजनीनः प्रयासः स्यात् ! भाविनां नाना-समुत्सवानां कृते अहं सर्वेभ्यः देशवासिभ्यः भूरि भूरि मङ्गलकामनाः वितरामि |
मम प्रियाः देशवासिनः ! वयं सततम् अनुभवामः यत् भवतु नाम शिक्षाक्षेत्रं वा आर्थिक-क्षेत्रम्, स्याद् वा सामाजिकं वा क्रीडा-क्षेत्रम्, अस्मदीयाः बालिकाः राष्ट्रस्य यशोवर्धनं कुर्वन्त्यः अभिनवाः उपलब्धीः अधिगच्छन्ति | वयं सर्वे देशवासिनः अस्मदीयानां आसां बालिकानां कृते अतितरां गौरवम् अनुभवामः | नातिचिरं अस्माकमेताः बालिकाः महिला-क्रिकेट्-विश्व-चषक-स्पर्धायाम् उत्कृष्टं प्रदर्शनं विहितवत्यः | अस्मिन्नेव सप्ताहे एताभिः क्रीडिकाभिः सार्धं सम्मेलनस्य अवसरं लब्धवान् | ताभिः साकं सम्भाषणं कृत्वा सौख्यम् अनुभूतवान् | अहं चिन्तयन् आसम् यत् विश्व-चषक-स्पर्धा नैव विजिता इति कृत्वा ताः आपीडम् अनुभवन्ति इति प्रतीयते स्म | मया उक्तं यत् एतद्-विषये मम पृथक् मूल्याङ्कनं वर्तते | अद्यत्वे संचार-माध्यमानि बलवत्तराणि सन्ति | एतैः अपेक्षाः विवर्ध्यन्ते, ताः पूर्णाः नैव भवन्ति चेत् आक्रोशः एधते एव | भारतीयाः क्रीडकाः यदि विफलाः भवन्ति चेत् देशस्य क्रोधः तेषु एव प्रकटीक्रियते | परञ्च प्रथमवारमेव एतत् सञ्जातं यत् अस्मदीयाः एताः बालिकाः विश्व-चषक-स्पर्धायाम् असफलाः जाताः, तदापि सपाद-कोटि-देशवासिनः तं पराजयम् आत्मनि स्वीकृतवन्तः | किञ्चिदपि पराजय-पीडां ताः
नानुभवेयुः इति विशेषेण सर्वैः अवधत्तम् | एतावदेव नैव, एताभिः यत्किमपि कृतम्, तत्सर्वं सुबहु प्रशंसितम् | इदं हि सुखदं परिवर्तनमिति परिभावयामि | मया ताः उक्ताः यदेतादृशं सौभाग्यं केवलं युष्माभिरेव अवाप्तम् | सत्यमेव अस्मदीया एषा युव-संततिः अस्स्मदीयाः एताः बालिकाः देशस्य यशोवर्धनार्थं सुबहु प्रयतन्ते | पुनरेकवारं अहं देशस्य युव-जनेभ्यः विशेषेण च, अस्मदीयाभ्यः बालिकाभ्यः च हृदयेन भूरि-भूरि वर्धापनानि व्याहरामि | मङ्गल-कामनाः च वितरामि |
मम प्रियाः देशवासिनः ! पुनरेकवारं स्मारयामि अगस्त-क्रान्तिम् | पुनरेकवारं स्मारयामि अगस्तमासीयं नवम-दिनाङ्कं पुनरेकवारं स्मारयामि अगस्त-मासीयं पञ्चदश-दिनं पुनरेकवारं च स्मारयामि आगामि-द्वाविशंतितमं वर्षं स्वतन्त्रता-प्राप्तेः पञ्च-सप्तति-वर्षाणि | प्रत्येकमपि देशवासी संकल्पयेत्, प्रत्येकमपि देशवासी संकल्पं सिद्धीकर्तुं पञ्चवर्षात्मिकां योजनां विरचयेत् | वयं सर्वेsपि सम्भूय देशं नूतनोपलब्धि-समन्वितं करवाम, सततञ्च अग्रेसरेम ! राष्ट्रम् उच्छ्रिततमे शिखरे संनयेम ! आगच्छन्तु ! वयं संगच्छेम ! किञ्चित् किञ्चिदपि कार्यान्वयनं अनुतिष्ठेम ! देशस्य भाग्यं भविष्यच्च उत्तमोत्तमं नूनं भविष्यति | अमुना विश्वासेन साकमेव अग्रेसरेम ! भूरिशो मङ्गल-कामनाः | धन्यवादः !!!
+++ ++++ ++++ ++++ ++++
– बलदेवानन्द-सागरः
-Cell – ९८१० ५६२२ ७७…
-Email – baldevanand.sagar@gmail.com
“मनोगतम्” [33] ‘मन की बात’ [33]
(प्रसारण-तिथि: 25.06.2017)
[“मनोगतम्” – इति “मन की बात”-कार्यक्रमस्य द्वितीयः संस्कृत-भाषिकानुवादः ]
– संस्कृत-भाषान्तर-कर्ता –
– डॉ.बलदेवानन्द-सागरः
मम प्रियाः देश-वासिनः ! नमस्कारः |
ऋतुः परिवर्तते | अस्मिन् वर्षे निदाघस्य तापः अपि अधिकः आसीत् | परञ्च सुखदम् इदं वृत्तं यत् वर्षर्तुः काले एव सम्प्राप्तः | देशस्य अनेकेषु स्थानेषु मूसलाधार-वृष्टि-कारणात् सुदिनानि सञ्जातानि | वर्षायाः अनन्तरं प्रवहमानैः शीतलैः मन्द-समीरैः विगत-दिनानां आतापात् मुक्तिः अनुभूयते | अस्माभिः सर्वैः अपि अनुभूतं यत् जीवने कियती अपि व्यग्रता भवेत्, कियती अपि आततिः स्यात्, भवतु नाम वैयक्तिकं जीवनं वा सार्वजनिकम् – वर्षायाः आगमनं हि अस्मदीयां मनसः स्थितिम् अपि परिवर्तयति |
अद्यत्वे भगवतः जगन्नाथस्य रथयात्रा-समुत्सवः देशस्य नाना-भागेषु राष्ट्रवासिनः सोल्लासं सश्रद्धञ्च समायोजयन्ति | साम्प्रतन्तु जगतः अपि केषुचित् स्थानेषु भगवतः जगन्नाथस्य रथयात्रा-महोत्सवः आमान्यते | अपि च, भगवता जगन्नाथेन साकमेव राष्ट्रस्य निर्धन-जनः संयुक्तोsस्ति | ये जनाः डॉ.बाबा-साहेब-अम्बेडकरस्य जीवनम् अधीतवन्तः, ते नूनम् अनुभूतवन्तः यत् सः भगवतः जगन्नाथस्य मन्दिरं एतद्-विषयिणीः परम्पराः च अतितरां प्रशंसति स्म | यतो हि अत्र सामाजिक-न्यायः, सामाजिकी च समरसता अन्तर्निहिते स्तः | वस्तुतस्तु भगवान् जगन्नाथः निर्धनानां देवता | तथा च, आङ्ग्ल-भाषायाम् एकः शब्दः अस्ति – juggernaut | मन्ये, न्यूनाः एव अवगताः स्युः यत् अस्य अर्थः भवति- एतादृशः भव्यः रथः यस्य गतिः अप्रतिहता भवति, न कश्चन अपि एनम् अवरोद्धुं पारयति | juggernaut इति शब्दस्य शब्दकोशीयेन अर्थेण अपि ज्ञायते यत् जगन्नाथस्य रथ-साम्यत्वेन juggernaut इति शब्दः समुद्भूतः | अत एव वयम् अवगन्तुं शक्नुमः यत् भगवतः जगन्नाथस्य यात्रैषा अशेष-संसारेण स्व-स्व-प्रकारेण कियता महता माहात्म्येन स्वीक्रियते | भगवतो जगन्नाथस्य रथयात्रायाः शुभेsस्मिन् अवसरे सर्वेभ्योsपि राष्ट्रवासिभ्यः शुभ-कामनाः वितरामि, भगवतो जगन्नाथस्य श्रीचरणेषु अपि प्रणामाञ्जलीन् निवेदयामि |
अस्ति भारतस्य विविधता हि अस्य विशेषता | भारतस्य विविधता चास्ति भारतस्य शक्तिरपि | रमज़ानस्य पवित्रमासः पवित्र-भावैः प्रार्थनाभिः च सर्वैः समाचरितः | सम्प्रति वर्तते ईद्-पर्व | ईद्-उल्-फ़ितर्-पर्वणः अवसरे मम पक्षतः सर्वेभ्यः भूरिशः मङ्गल-कामनाः | रमज़ान-मासः पुण्य-दानस्य मासत्वेन ख्याप्यते, प्रसन्नतायाः वितरणस्य मासः अस्ति, यावन्-मात्रिकं प्रसन्नता-वितरणं भवति, तावन्त्यः प्रसन्नताः विवर्धन्ते | आगच्छन्तु, वयं सर्वे मिलित्वा एतेभ्यः पवित्र-समुत्सवेभ्यः प्रेरणाम् आदाय प्रसन्नता-प्रवाहान् वितरेम, देशञ्च अग्रेसारयेम !!
रमज़ानस्य पवित्र-मासावधौ उत्तर-प्रदेशस्य बिजनौरस्य मुबारकपुर-ग्रामस्य एका महती प्रेरिका घटना मम दृष्टिपथमागता | प्रायेण सार्ध-त्रि-सहस्रं अस्मदीयाः मुस्लिम-समुदायस्य भगिन्यः भ्रातरः चात्र लघु-ग्रामे निवसन्ति, अत्र आधिक्येन मुस्लिम-समुदायस्य जनाः वर्तन्ते | रमज़ान-मासावधौ ग्रामवासिनः मिलित्वा शौचालयानां निर्माणार्थं निर्णीतवन्तः | अपि च, वैयक्तिक-शौचालयानां निर्माणार्थं सर्वकार-पक्षतः अपि साहाय्यं प्रदीयते | एतेभ्यः ग्रामवासिभ्यः प्रायेण सप्त-दश-लक्ष-रूप्यकाणि साहाय्य-रूपेण प्रदत्तानि | एतद् ज्ञात्वा भवन्तः सुखदम् आश्चर्यम् आनन्दं चापि अनुभविष्यन्ति | अस्मदीयाः सर्वेsपि मुस्लिम-भ्रातरः भगिन्यः च, रमज़ान-मासावधौ सर्वकाराय तां सप्तदश-लक्ष-रूप्यकात्मिकां राशिं परावर्तितवन्तः | अपि च, ते एवम् उक्तवन्तः यत् वयं स्वश्रमेण स्वीय-रूप्यकैः एव निज-शौचालयान् निर्मास्यामः | सप्त-दश-लक्ष-रूप्यकात्मिका एषा राशिः ग्रामस्य अन्य-सौविध्यार्थम् उपयुक्तः स्यात् | रमज़ानस्य पवित्रावसरः समाजस्य लाभार्थं उपयुक्तः इति कृत्वा अहं मुबारकपुरस्य सर्वान् अपि ग्रामवासिनः अभिनन्दामि | तेषां प्रत्येकमपि निर्णयः अतितरां प्रेरकः अस्ति | अपि च, सर्वतोsधिकतरम् अवधेयमिदं यत् तैः मुबारकपुरम् अनावृत-शौचाचरणात् मुक्तं विहितम् | वयं जानीमः यत् सिक्किम-हिमाचल-केरळ-इति राज्य-त्रयं पूर्वतः एव अनावृत-शौचाचरणात् मुक्तं घोषितम् | सप्ताहेsस्मिन् उत्तराखण्ड-हरियाणा-इति राज्य-द्वयमपि ODF- इति अनावृत-शौचाचरणात् मुक्तं घोषितम् | एतत्-कार्य-पूर्त्यर्थम् अहम् एतेषां पञ्चानां राज्यानां प्रशासनाय, शासनाय, विशेषेण च, जनता-जनार्दनाय साधुवादान् व्याहरामि |
वयं संयुक्तया जानीमः – व्यक्तेः जीवने, समाजस्य जीवने च यत् किमपि समुचितं करणीयम् अस्ति चेत्, अतितरां कठोरः परिश्रमः करणीयो भवति | यदि अस्माकं हस्त-लेखः सम्यक् नास्ति, स च सम्यक् करणीयः चेत् तदा सुदीर्घ-कालं यावत् अतितराम् अवधानतया प्रयतनीयं भवति | तदनु एव, शरीरस्य मनसः च अभ्यासः परिवर्तते | स्वच्छतायाः विषयोsपि एतादृशः एवास्ति | कानिचित् व्यसनानि अस्मदीय-स्वभावस्य अङ्गरूपाणि सञ्जातानि | एतानि अस्मदीयाचरणस्य अङ्गत्वेन वर्तन्ते | एतानि अपसारयितुम् अविरतं अस्माभिः नूनं प्रयतनीयम् | वारं वारं एतद्विषयकं स्मरणमपि करणीयम् | प्रत्येकमपि जनस्य ध्यानाकर्षणमपि विधेयम् | समीचीनानां प्रेरिकाणां च घटनानां पौनःपुनिकं स्मरणमपि करणीयम् | तथा च, प्रसीदामितराम् यत् अद्यत्वे स्वच्छता-विषयः सर्वकारीय-कार्यक्रमत्वेन एव नैव प्रवर्तते | अयं तु जन-सामान्यस्य जन-समाजस्य च आन्दोलनत्वेन सततं परिणमते | शासनारूढाः जनाः अपि यदा जन-सह-भागितया कार्यमेनत् अग्रेसारयन्ति, तदा अतुलनीया शक्तिः विवर्धते |
विगतेषु दिनेषु एका उत्तमा घटना मम ध्याने उपस्थिता यामहं भवतां समक्षं नूनं वर्णयिष्यामि | एषास्ति घटना आन्ध्रप्रदेशस्य विजयनगरम्-जनपदस्य | तत्रत्य-प्रशासनेन जन-सह-भागितायाः बृहदेकं कार्यं आरब्धम् | मार्च-मासे दश-दिनाङ्कात् प्रातः षड्-वादनात् आरभ्य चतुर्दश-दिने प्रातः दशवादनं यावत् अर्थात् शत-होरावधिं यावत् अनारतम् अभियानम् | लक्ष्यं किमासीत् ? शत-होरावधौ एक-सप्ततौ ग्राम-पञ्चायतेषु दश-सहस्रं गृहाभ्यन्तरीणानां शौचालयानां निर्माणम् |
अयि भोः मम प्रियाः देशवासिनः ! वृत्तमेनत् ज्ञात्वा भवन्तः प्रसन्नाः भविष्यन्ति यत् जनता-जनार्दनेन शासनेन च सम्भूय शतं होरासु दश-सहस्रं शौचालयानां निर्माणं सफलतया पूर्णतामानीतम् | एक-सप्ततिः ग्रामाः ODF- इति अनावृत-शौचाचरणात् मुक्ताः जाताः | अहं शासनाधिरूढान् शासनिकाधिकारिणः विजयानगरम्-जनपदस्य एतान् ग्राम-नागरिकान् च भूरिशः वर्धापयामि यत् ते परिश्रम-पराकाष्ठां स्वीकृत्य उत्तमं प्रेरकोदाहरणम् उपस्थापितवन्तः |
एतेषु दिनेषु ‘मन की बात’ इति कार्यक्रमे सततम् अहं जनता-जनार्दनस्य पक्षतः परामर्शान् अवाप्नोमि | एते च, NarendraModiApp- इत्यत्र MyGov.in- इत्यत्र पत्राणां माध्यमेन, आकाशवाणीतः चाधिगम्यन्ते |
श्रीमान् प्रकाश-त्रिपाठी आपातकालं स्मारयन् अलिखत् यत् जून-मासीयं पञ्च-विन्शतितमं दिनं लोकतन्त्रस्य इतिहासे कालुष्य-पूर्ण-काल-खण्ड-रूपेण वर्तते | श्रीप्रकाश-त्रिपाठिनः लोकतन्त्रं प्रति एषा जागृतिः प्रशंसनीया वर्तते | लोकतन्त्रं न केवलम् एका व्यवस्था, एतच्च संस्कारत्वेन अपि विराजते | Eternal Vigilance is the Price of Liberty – लोकतन्त्रं प्रति अनारतम् अवधानता नितराम् आवश्यकी अत एव लोकतन्त्रस्य आघातकराणि तथ्यानि अपि स्मरणीयानि, तथा च, अस्माभिः लोकतन्त्रस्य समीचीन-तथ्यान्वितायां दिशि अग्रेसर्तव्यम् | विगते शताब्दे पञ्चसप्तति-तमे वर्षे जूनमासे पञ्च-विन्शतितमा रात्रिः तादृशी कालुष्यपूर्णा आसीत्, यां न कश्चन अपि लोकतन्त्र-प्रेमी विस्मर्तुं शक्नोति | न कश्चन भारतवासी एनां विस्मर्तुं पारयति | एकप्रकारेण अशेष-देशः कारागृहत्वेन परिवर्तितः आसीत् | विरोधि-स्वरः दमितः | जय-प्रकाश-नारायणेन सह राष्ट्रस्य गण-मान्याः नेतारः कारासु बन्दिनो विहिताः | न्याय-व्यवस्था अपि आपातकालस्य भीकर-रूपस्य छायया आच्छादिता आसीत् | वार्तापत्राणि तु पूर्णरूपेण प्रतिबद्धानि आसन् | पत्रकारिता-जगतः विद्यार्थिनः, लोकतन्त्रस्य कर्मकराः च लोकतन्त्रस्य तं कालुष्यपूर्णं कालखण्डं स्मरन्तः लोकतन्त्रं प्रति अवधान-संवर्धनाय सततं प्रयासान् अनुतिष्ठन्तः आसन् | अपि चैतद् नूनं करणीयम् | तदा अटल-बिहारि-वाजपेयि-वर्यः अपि कारायां पिहितः आसीत् | यदा वर्षावधिकः कालः यापितः तदा तेन कारायामेव एका कविता लिखिता, अस्यां कवितायां तेन तत्कालीना मनःस्थितिः वर्णीता अस्ति –
झुलसाता जेठ मास,
शरद चाँदनी उदास,
झुलसाता जेठ मास,
शरद चाँदनी उदास,
सिसकी भरते सावन का,
अंतर्घट रीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||
सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,
सीखचों में सिमटा जग,
किंतु विकल प्राण विहग,
धरती से अम्बर तक,
धरती से अम्बर तक,
गूंज मुक्ति गीत गया,
एक बरस बीत गया,
एक बरस बीत गया ||
पथ निहारते नयन,
गिनते दिन पल-छिन,
पथ निहारते नयन,
गिनते दिन पल-छिन,
लौट कभी आएगा,
लौट कभी आएगा,
मन का जो मीत गया,
एक बरस बीत गया ||
लोकतन्त्रस्य प्रेमिणः कठिन-तरं युद्धं सम्मुखीकृतवन्तः | भारतं नाम विशालं राष्ट्रम्, प्राप्ते सति काले भारतस्य प्रत्येकमपि जनस्य चेतसि लोकतन्त्रं कियत् व्यापकं विराजते – इति निर्वाचन-माध्यमेन सा लोक-शक्तिः प्रदर्शितास्ति | प्रत्येकमपि जनस्य चेतसि परिव्याप्तस्य अस्य लोकतन्त्रस्य भावः अस्मदीयः अमृतः रिक्थः वर्तते | अस्माभिः रिक्थोsयम् इतः परमपि दृढतरः करणीयः |
मम प्रिया देशवासिनः ! प्रत्येकमपि भारतीयः अद्यत्वे शिरान्सि उन्नमय्य गौरवम् अनुभवति | वर्षेsस्मिन् जून-मासे एकविन्शतितमे दिने सम्पूर्णमपि विश्वं योगमयं जातम् | जलतः पर्वत-पर्यन्तं जनाः प्रभाते एव योगाभ्यास-माध्यमेन भगवतः सूर्यस्य किरणानां स्वागतम् अकुर्वन् | कश्चन नाम वा भारतीयः भवेत् यो एतद्विषये नूनं गौरवमनुभवेत् | एवं नास्ति यत् योगाचरणं पूर्वमपि न क्रियते स्म | परन्तु अद्यत्वे यदा योगसूत्रेण बद्धाः स्मः, योगः विश्वं संयोजयितुं कारणत्वेन विराजते | विश्वस्य प्रायेण सर्वेsपि देशाः योगस्य अवसरमेनं स्वीयावसर-रूपेण स्वीकृतवन्तः | चीन-देशे The Great Wall of China – इत्यत्र जनाः योगाभ्यासम् अकुर्वन् | अपरत्र, Peru-देशे World Heritage Site- इति माचू-पिच्चू-स्थले यद्धि समुद्र-तलात् चतुःचत्वारिन्शत्-शत-मीटर-मितेन ऊच्चैः वर्तते, तत्रापि जनाः योगाभ्यासम् अकुर्वन् | फ़्रांस-देशे एफिल-टॉवर-इत्यत्स्य छायायां जनाः योगमाचरितवन्तः | UAE-इत्यत्र Abu Dhabi-नगरे चतुःसहस्राधिकाः जनाः सामूहिक-योगमाचरितवन्तः I अफगानिस्ताने हेरात-स्थले India Afghan Friendship Dam- इति सलमा-जलावष्टम्भे योगाभ्यासं कृत्वा जनाः भारतस्य सख्याय अभिनवम् आयामं प्रादुः | सिंगापुर-सदृशे लघुनि स्थाने सप्तत्यधिकेषु स्थलेषु कार्यक्रमाः अभूवन्, अपि च, ते सप्ताहावधिकम् अभियानमेकं प्रवर्तितवन्तः | संयुक्त-राष्ट्र-संघेन अन्ताराष्ट्रिय-योग-दिवसम् आलक्ष्य दश प्रैष-मुद्राङ्काः प्रसारिताः | संयुक्त-राष्ट्र-संघस्य मुख्यालयेषु Yoga Session with Yoga Masters- इति कार्यक्रमः आयोजितः | संयुक्त-राष्ट्र-संघस्य अधिकारिणः, कार्मिकाः, अशेष-जगतः कूटनीतिज्ञाः चेति सर्वेsपि अत्र सहभागित्वं निरवहन् |
साम्प्रतं पुनरेकवारं योगेन विश्वस्य आभिलेख्यमपि अर्जितम् | गुजराते अमदावादे प्रायेण पञ्च-पञ्चाशत्-सहस्रं जनाः युगपदेव योगाभ्यासं कृत्वा अभिनवं विश्व-कीर्तिमानं विरचितवन्तः | अहमपि लखनऊ-नगरे योग-कार्यक्रमे सहभागित्वस्य अवसरं प्राप्तवान्, परञ्च, प्रथमवारं वर्षायां योगाभ्यासस्य सद्भाग्यं प्राप्तम् | अस्माकं सैनिकाः सियाचिन्-पर्वत-शिखरे यत्र विंशति-पञ्चविंशति-चत्वारिंशत्-डीग्रीमितं न्यूनं तापमानं भवति, तत्र योगाभ्यासं कृतवन्तः | अस्मदीयाः सशस्त्र-बलस्य, सीम-सुरक्षा-बलस्य, ITBP-बलस्य, केन्द्रीयारक्षितारक्षि-बलस्य, CISF-इति बलस्य चेति प्रत्येकमपि स्वीय-कर्तव्येन सहैव योगाभ्यासं स्वीयाङ्गत्वेन अङ्गीकृतवत् | एतद्-योग-दिवसावसरे अहम् उक्तवान् यत् संतति-त्रयम्, यतो हि तृतीयोsयम् अन्ताराष्ट्रिय-योग-वर्षीय-दिवसः, अतः कुटुम्बस्य सन्तति-त्रयं युगपदेव योगाभ्यासं कुर्वदेव तच्चित्रं प्रेषयेत् | काश्चन दृश्य-वाहिकाः अपि तथ्यमेनत् प्रचारितवत्यः | अवसरेsस्मिन् अनेकानि चित्राणि मया लब्धानि, तेषु कानिचन चितानि चित्राणि NarendraModiApp- इत्यत्र संयोजितानि सन्ति | येन प्रकारेण अशेष-जगति योगः परिचर्च्यते, तस्मात् एकं लाभकरं तथ्यमेतत् समुद्भवति यत् अद्यतनः स्वास्थ्य-जागरूक-समाजः समीचीनतातः अनारोग्यतां प्रति अग्रेसरति | ते इदम् अनुभवन्ति यत् समीचीनतायाः महत्त्वं तु अस्त्येव, परञ्च, अनारोग्यतायाः कृते योगः उत्तमः मार्गः अस्ति |
“आदरणीय ! प्रधानमन्त्रि-महोदय ! अहं डॉ.अनिल-सोनारा, अमदवादतः वदामि | महोदय ! मम जिज्ञासा वर्तते | नातिचिरं केरळे वयं भवन्तं श्रुतवन्तः | विभिन्नेषु स्थलेषु उपहारत्वेन पुष्प-गुच्छाः प्रदीयन्ते | एतत्-स्थाने अस्माभिः स्मृति-उपहारत्वेन पुस्तकानि प्रदेयानि | एतद्विषयकः शुभारम्भः भवान् गुजराते निज-कार्यकाले विहितवान् | साम्प्रतं नैतत् अस्माभिः दृश्यते | so can we do something ? किं वयं सन्दर्भे अस्मिन् किमपि कर्तुं पारयेम ? येन देश-व्यापिना स्तरेण अस्य कार्यान्वयनं स्यात् |”
विगतेषु दिनेषु अहं मम प्रियतमेषु अन्यतमे कार्यक्रमे सहभागित्वस्य अवसरं लब्धवान् | केरळे सुष्ठु-कार्यक्रमः प्रचलति | कतिपय-वर्षेभ्यः श्री-पी-एन्-पण्णिकर-प्रतिष्ठानेन कार्यक्रमोsयं प्रचाल्यते यस्मिन् जनानां पठनाभ्यासः स्याद्, जनाः पठनं प्रति जागरूकाः स्युः चेति कृत्वा reading day, reading month- इत्युत्सवः आयोज्यते | अस्य कार्यक्रमस्य शुभारम्भार्थम् अहं तत्र गतवान् | तत्र मह्यम् एतत् सूचितं यत् ते पुष्प-गुच्छं नैव परञ्च पुस्तकं ददति | मह्यम् इदं रोचते स्म | मया यत् विस्मारितमासीत्, झटिति तत् पुनः स्मरणाधीनं जातम् | यतो हि, यदा अहं गुजराते आसम्, तदा मया प्रशासने एका परम्परा प्रवर्तिता आसीत् यत् वयं पुष्प-गुच्छं नैव, पुस्तकानि दास्यामः, आहोस्वित् करवस्त्रेण स्वागतं करिष्यामः | अपि च खादी-करवस्त्रेण एव, येन खादी-वस्त्राणां संवर्धनं स्यात् | यावत्पर्यन्तं गुजराते आसम्, अस्माकं सर्वेषां अभ्यासः जातः, परम्, अत्रागमनस्य अनन्तरं सः अभ्यासः अपगतः | किन्तु केरळ-गमनेन सः अभ्यासः पुनः जागृतः तथा च, अहं तु प्रशासने पुनः एतत् सूचयितुम् आरभम् | वयमपि शनैः शनैः तादृशं स्वभावं विकासयितुं शक्नुमः | तथा च, पुष्प-गुच्छस्य आयुः तु अत्यल्पं भवति | एकवारं स्वीकृत्य परित्यजामः | परन्तु, पुस्तकं दीयते चेत् तत्तु गृहस्य कुटुम्बस्य च अङ्गत्वेन परिभाव्यते | खादी-कर-वस्त्र-प्रदानेन अपि अनेकेषां निर्धनानां साहाय्यं भवति | व्ययः अपि न्यूनः भवति, समुचित-रूपेण तस्य उपयोगो भवति | यदा एतत् अहं वर्णयामि तदा संस्मरामि यत् एतादृश-व्यवहारस्य बहुमात्रिकम् ऐतिहासिकं महत्वं भवति | गते वर्षे यदा अहं UK-देशं गतवान् तदा London-नगरे Britain-साम्राज्ञी, Queen Elizabeth मां निमन्त्रितवती | तत्र मातृ-सहजः परिवेशः आसीत् | आत्मीय-प्रेम्णा सा भोजनमपि कारितवती, परञ्च अनन्तरं सा मां सादरं अतितरां भावात्मक-स्वरेण सूत्रैः ग्रथितं लघु खादी-करवस्त्रं दर्शितवती, तदा तस्याः नयनयोः अलौकिकं ज्योतिः व्यराजत, सा उक्तवती यत् यदा मम विवाहः सञ्जातः तदा एतत् कर-वस्त्रं महात्म-गान्धी मङ्गल-कामना-उपहारत्वेन मह्यं प्रेषितवान् | कति वर्षाणि व्यतीतानि ? परञ्च, Queen Elizabeth-महाभागया महात्म-गान्धिना प्रदत्तम् एतत् handkerchief-इति कर-वस्त्रं सम्भालितमस्ति | तथा च, सा मां दर्शयन्ती अस्ति- इति कृत्वा सा आनन्द-सन्दोहं अनुभवति स्म | अपि च, यदा अहं तत् पश्यन् आसं तदा सा साग्रहं माम् उक्तवती यत् स्पृष्ट्वा एतत् अनुभवेयम् | महात्म-गान्धिना प्रदत्तः अल्पीयान् अपि उपहारः तस्याः जीवनस्य अङ्गत्वेन अजायत, तस्याः इतिवृत्तस्य अविभाज्यः भागः अभवत् |
अहं विश्वसिमि यत् एताः कुरीतयः सहसा नैव परिवर्तन्ते | तथा च, यदा हि वयम् एतादृशं किमपि आलपामः, जनाः आलोचनामपि कुर्वन्ति | एवं संजायमाने सत्यपि तथ्ये, अस्माभिः सततं प्रयतनीयम् | कुत्रचित् गच्छामि, तत्र कश्चन पुष्पगुच्छम् उपाहरति चेत् तस्य प्रतिषेधं नैव करिष्यामि, परञ्च परिष्कारार्थं तु सततं प्रयतिष्यामहे |
मम प्रियाः देशवासिनः ! प्रधानमन्त्रिणः दायित्व-कारणात् अनेक-प्रकारकाणि कार्याणि मया करणीयानि भवन्ति | पञ्जिकासु मग्नाः भवामः, परञ्च, अहं स्वस्मै अभ्यासमेकं विकासितवान् यत् मम कृते यानि पत्राणि लभ्यन्ते तेषु कानिचित् अहं प्रतिदिनं पठामि | एवं हि अहं सामान्य-जनैः सह संपृक्तो भवामि | अनेक-प्रकारकाणि भवन्ति एतानि पत्राणि | पृथक्-पृथक् जनाः एतानि पत्राणि लिखन्ति | एतेषु दिनेषु एकं तादृशं पत्रं पठितुम् अवसरं लब्धवान् यत् अवश्यं मया तद्विषये भवतां समक्षं विवर्णनीयम् | दूरे सुदूरे दक्षिण-प्रदेशे तमिलनाडु-राज्ये स्थितस्य मदुराई-नगरस्य एका गृहिणी अरुल-मोझी-सर्वनन् मह्यं पत्रमेकं प्राहिणोत् | सा अलिखत् यत् कुटुम्बस्य बालानां शिक्षणार्थं मया किञ्चित् आर्थिक-कार्य-जातं विधातुं विचारितम् | अतः मया ‘मुद्रा-योजना’-माध्यमेन बैङ्कात् किञ्चित् धनम् आदत्तम्, विपणीतः च, सामग्रीम् आनीय आपूर्ति-कार्यम् आरब्धम् | एतादृश्यां स्थितौ मया अवगतं यत् सर्वकारः Government E-Marketplace- इत्याख्यां काञ्चित् व्यवस्थां प्रावर्तयत् | मया अन्विष्टम् यत् किमेतत् ? केचन जनाः मया पृष्टाः| तदनु अहम् आत्मानं तत्र पञ्जीकारितवती |
अहं देशवासिनः सूचयितुं इच्छामि यत् भवन्तः अपि लब्धे सति अवसरे Internet- इति अन्तर्जाले E-GEM – इत्यत्र अवलोकयन्तु | एषा नूतना लाभप्रदायिनी व्यवस्था वर्तते | यः कश्चन प्रशासनाय किमपि वस्तु-जातम् आपूरयितुं वाञ्छति, लघु-लघूनि वस्तूनि प्रेषयितुं इच्छति, यथा विद्युद्दीपान्, अवकर-कण्डोलिकाः, मार्जनीः, आसन्दिकाः, आधार-पटलानि च प्रेषयितुं वा विक्रेतुं वाञ्छति, सः अत्र स्वीय-पञ्जीकरणं कर्तुं शक्नोति | वस्तूनां गुणत्वं विलिख्य मूल्यादिकं निर्दिश्य च सूचयितुम् अर्हति | सर्वकारीय-विभागानां कृते एतत् अनिवार्यं वर्तते यत् ते नूनम् एतत् प्रेषितं सर्वं विवरणम् अवलोकयेयुः, अनन्तरं सर्वं सम्यक् अस्ति चेत् तद्वस्तु-प्रेषणाय आदेष्टव्यम् | एवंरीत्या ये मध्यस्थाः भवन्ति तेषामत्र हस्त-क्षेपो नैव भविता | सर्व-विधं पारदर्शित्वं समापन्नम् | प्रविधि-माध्यमेन एव सर्वं संजायते | अतः E-GEM- इति व्यवस्थायाः अन्तर्गतं ये जनाः पञ्जीकरणं कुर्वन्ति, तान् सर्वकारस्य सर्वे अपि विभागाः अवलोकयन्ति | मध्यस्थाः जनाः नैव भवन्ति इति कृत्वा वस्तूनि महार्घाणि नैव भवन्ति | अधुना अरुल-मोझी-महाभागा सर्वकारस्य अन्तर्जाल-वाहिकां प्रति यां यां सामग्रीं प्रेषयितुं शक्नोति तासां सर्वासां पञ्जीकरणं विहितवती | तस्याः पत्रमिदम् अतितरां रुचिकरं वर्तते | सा अलिखत् यत् एकतः मया ‘मुद्रा’तः धनं लब्धम्, मम व्यापारः आरभत | E-GEM- इत्यस्याः अन्तर्गतं किं किम् अहं प्रेषयितुं प्रभवामि, तद्विषयिणी सूची स्थापिता, तथा च, PMO- इति प्रधानमन्त्रिणः कार्यालयात् आदेशः अवाप्तः |
मम कृते अपि नवमिदं वृत्तमासीत् यत् PMO-इत्यनेन किम् आदिष्टम् | सा अलिखत् यत् PMO-इत्यनेन थर्मोस्-इति उष्णता-रक्षक-द्वयं क्रीतम्, तदर्थं षोडश-शतं रूप्यकाणि अपि मया लब्धानि | एतदस्ति – शक्ती-करणम् | एषः चास्ति उद्यमिनां प्रोत्साहनावसरः | यदि अरुल-मोझी मां पत्रं नैव अलिखिष्यत् तदा अहमपि एतदर्थं निध्यातुं नैव अपारयिष्यम् | एषा अस्ति देशस्य शक्तिः | अत्र पार-दर्शित्वमपि वर्तते, शक्तीकरणमपि उद्यमित्वमपि चास्ति |
मम प्रियाः देशवासिनः ! एकतः वयं योग-विषयकं गौरवम् अनुभवामः, अपरतः वयं अन्तरिक्ष-विज्ञाने अस्मदीयाः अधिगतोपलब्धीः अभिलक्ष्यापि गर्वम् अनुभवितुं शक्नुमः | इयमेवास्ति भारतस्य विशेषता | यदि अस्माकं पादौ योगाधृतौ भूमौ स्तः, अपरतः अस्मदीयानि स्वप्नानि सुदूरे गगनस्य सीमानम् अतिक्रान्तुं वर्तन्ते |
विगतेषु दिनेषु भारतेन क्रीडासु विज्ञाने चापि सुबहु अनुष्ठीय प्रदर्शितम् | अद्यत्वे भारतं न केवलं भूमौ, अन्तरिक्षे अपि स्वीयं ध्वजं उत्तोलयति | दिवस-द्वय-पूर्वमेव ISRO-इति भारतीयान्तरिक्षानुसन्धान-संघटनेन ‘Cartosat-2 Series Satellite’-इत्यनेन साकं त्रिन्शत् Nano-Satellites-यानानि प्रक्षिप्तानि | एतेषु उपग्रहेषु भारतमतिरिच्य फ्राँस, जर्मनी, इटली, जापान, ब्रिटेन, अमेरिका-प्रभृतयः प्रायः चतुर्दश देशाः समाविष्टाः सन्ति | nano-उपग्रहाभियानेन कृषि-क्षेत्रे, कृषकाणां कार्येषु, प्राकृतिकापत्सु चापि महत्-साहाय्यम् अवाप्स्यते | प्रत्येकमपि भारतीयः एतद्-गौरवमपि अनुभवितुं शक्नोति यत् कतिपय-दिवसेभ्यः प्राक्, ISRO-इत्यनेन ‘G-SAT-19’-इत्यस्य सफ़लं प्रक्षेपणं विहितम् | अपि च, भारतेन अधुनावधि प्रक्षिप्तोपग्रहेषु सर्वाधिकं भारयुतं अवर्तत | अस्माकं देशस्य वार्तापत्रैः तु अस्य भार-तुलना गज-भारेण सार्धं विहितासीत् | भवन्तः कल्पयितुं शक्नुवन्ति यत् अस्मदीयाः वैज्ञानिकाः अन्तरिक्षे कियत् बृहत् कार्यं कृतवन्तः इति | जूनमासे ऊनत्रिंशति दिने ‘मार्स-मिशन’ इति कार्यक्रमस्य सहस्रं दिनानि पूर्णतां गतानि | सहस्र-दिनानन्तरमपि अस्मदीयं मङ्गल-यानं कार्यं करोति, चित्राणि प्रेषयति, सूचनाः प्रेषयति, scientific data-इति वैज्ञानिक-विवरणं च प्राप्यते | इयं हि अन्तरिक्ष-क्षेत्रे अस्मदीया महत्वाधायिनी सिद्धिः वर्तते |
एतेषु दिनेषु क्रीडासु अपि अस्मदीयानां यूनां प्रवृत्तिः रुचिश्च समेधेते इति वयं पश्यामः |
साम्प्रतं एतद् अवलोक्यते यत् अध्ययनेन सहैव क्रीडास्वपि अस्माकीनाः युवानः स्वीयं प्रशस्तं भविष्यत् परिभावयन्ति | तथा च, अस्माकं क्रीडकानां कारणात्, तेषां पुरुषार्थेण, तेषाञ्च सिद्धि-कारणात् राष्ट्रस्य नामापि कीर्ति-युतं भवति | नातिचिरमेव, भारतस्य बैडमिंटन्-क्रीडकः किदाम्बी-श्रीकांतः इंडोनेशिया-मुक्त-स्पर्धायां विजयश्रियं अवाप्य राष्ट्रस्य गौरवम् अवर्धयत् | अस्यै उपलब्ध्यै तं तस्य प्रशिक्षकाय च हृदयेन अभिनन्दामि | कतिपय-दिनेभ्यः प्राक्, पी.टी.उषा-इति सुख्यातायाः धाविकायाः Usha School of Athletics- इत्यस्य Synthetic Track- उद्घाटन-समारोहे समुपस्थितेः अवसरः लब्धः | वयं क्रीडाः यावतीः विवर्धयिष्यामः तावन्तः एव क्रीडा-भावाः, तावत्यः स्पर्धा-भावनाः च विवर्धिष्यन्ते | क्रीडाः व्यक्तित्वस्य विकासार्थमपि अतितरां महत्वाधायिनीं भूमिकां निर्वहति | सर्व-विध-व्यक्तित्व-विकासाय खेलानां अतिमाहात्म्यं वर्तते | देशे प्रतिभानां किञ्चिदपि नैयून्यं नैव वर्तते | यदि अस्माकं कुटुम्बे अपि बालानाम् अभिरुचिः खेला-विषयिणी अस्ति चेत् तेभ्यः ताभ्यश्च नूनम् अवसराः प्रदेयाः | तान् ताश्च क्रीडा-क्षेत्रेभ्यः समाकृष्य कक्षेषु पिहित्वा पुस्तक-पठनाय च विवशीकरणं नैवास्ति समीचीनम् | ते ताश्च पठन्तु नाम, तस्मिन् क्षेत्रे अपि अग्रेसरन्ति चेत्, नूनम् अग्रेसरन्तु | परञ्च क्रीडासु तेषां सामर्थ्यम् अस्ति, अभिरुचिः वर्तते चेत् तदा, विद्यालयस्य, महाविद्यालयस्य, कुटुम्बस्य परिपार्श्व-वर्तिनः, सर्वे अपि जनाः तान् समर्थ्य प्रोत्साहयेयुः | भाविनीनां Olympic-स्पर्धानां कृते प्रत्येकमपि जनेन स्वप्नायितुं शक्यते |
पुनरेकवारम्, मम प्रियाः देशवासिनः ! वर्षर्तुः, अनारतं उत्सवानां परिवेशः च परमार्थेन – एतत्-सर्वा कालखण्डस्य नूतना एव अनुभूतिः भवति | अहं पुनरेकवारं भवद्भ्यः सर्वेभ्यः मङ्गल-कामनाः व्याहरन् आगामि मनोगतम् इति ‘मन की बात’ इत्यस्य समये पुनः संभाषिष्ये | नमस्कारः !!!
+++ +++ +++
“मन की बात” [३३] -प्रसारण-तिथि – २५-जून’२०१७
संस्कृत-भाषान्तरकर्ता
– डॉ.बलदेवानन्द सागर
Cell- 9810 5622 77
Email – baldevanand.sagar@gmail.com