परिचयः
अन्याभिः भाषाभिः इव संस्कृतभाषया अपि बहूनां पत्रिकाणां प्रकाशनं यथासमयं प्रचलति एव। पत्रिकाणां माध्यमेन न केवलं नूतनस्य साहित्यस्य निर्माणम् एव भवति अपि तु नूतनानां लेखकानाम् अपि निर्माणं भवति। भवान् नूतनसाहित्यस्य पाठकः भवतु लेखकः वा पुटके अस्मिन् भवान् बहूनां संस्कृतभाषया प्रकाश्यमानानां संस्कृतपत्रिकाणां, अन्र्तजालसंस्कृतपत्रिकाणां, शोधपत्रिकाणां च पत्रसंकेतान् प्राप्तुं शक्नोति तथा च सम्पर्कं कृत्वा यथेष्टं लाभं स्वीकर्तुं शक्नोति।