आयुर्वेदः
ग्रन्थपरिचयः –
आयुर्वेदः संसारस्य प्राचीनतमासु चिकित्साप्रणालिषु अन्यतमः ग्रन्थः वर्तते । अयं च ग्रन्थः अथर्ववेदस्य विस्ताररूपः वर्तते । अयं विज्ञान-कला-दर्शनानां सम्मिश्रणं वर्तते । “जीवनस्य ज्ञानमायुर्वेदः” इति एव वेदस्य अस्य साररूपं वर्तते ।आयुर्वेदस्य रचनाकालः 3,000 तः 50,000 वर्षपूर्वम् अर्थात् सृष्टेः उत्पत्तिकालस्य उताहो तत्समाकालेस्यएव वर्तते ।
तन्त्रांशपरिचयः –
आयुर्वेदतन्त्रांशः आयुर्वेदनाम्नः प्रसिद्धस्य जीवनज्ञानग्रन्थस्य कृते सज्जीकृतः वर्तते । येन माध्यमेन प्रयोक्ता अन्वेषणकोष्ठके कमपि जिज्ञासितविषयं विलिख्य तत्सम्बद्धं मूलभूतज्ञानं प्राप्तुं शक्नोति संस्कृतेन विस्तरेण च ।
तन्त्रांशनिर्माणोद्देश्यम् –
अस्य तन्त्रांशस्य निर्माणोद्देश्यं प्रयोक्तॄणां कृते अध्ययनाय सारल्यसम्पादनम् अपि च अनुसन्धानपरकाध्ययनदिशि शोधकतॄणां प्रोत्साहनम् अस्ति ।
अन्वेषणप्रकाराः –
अन्वेषणीयस्य शब्दस्य अनुक्रमणीनिर्धारके तन्त्रेऽस्मिन् त्रिविधा अन्वेषणप्रकाराः वर्तन्ते । ते च –
1. प्रथमः प्रकारः – अन्वेषणकोष्ठे स्वयं शब्दः टङ्कणीयः ततः तत्राग्रवतिपिञ्जः नोदनीयः । तस्य शब्दस्य यत्र-यत्र वृत्तिः भवेत्, तानि सर्वाणि स्थानानि संक्षिप्त-सन्दर्भ-सहितानि सूचीरूपेण प्रस्तुतानि भवन्ति । तेषु कस्मिश्चिदपि यदा नोदनं क्रियते तदा अन्वेषितशब्दः यस्मिन् वर्ततेसः श्लोकः विस्तृतया सूचनया सह प्रस्तुतः भवति ।
2. द्वितीयः प्रकारः- अन्वेषणपृष्ठे अक्षरमालायां कस्मिंश्चिदपि अक्षरे यदा नोदन् क्रियते, तदा तेन अक्षरेण आरभ्यमाणाः सर्वे शब्दाः यत्र-यत्र वर्तन्ते तेषां स्थानानां संक्षिप्त-सन्दर्भ-सूचनया सह सूचीबद्धाः प्राप्यन्ते । तत्र पुनः कस्मिश्चदशब्दे नोदनेन तस्य वृत्तितायाः विस्तृतः परिचयः प्राप्यते ।
3. तृतीय प्रकारः – अन्वेषणस्य प्रकारेऽस्मिन् तन्त्रस्य चयनं च कृत्वा ततः परम् अध्यायस्य चयनं कृत्वा पिञ्जः नोद्यते तदा तदध्यायवर्तीणां सर्वेषां शब्दानां सूची संक्षिप्त-सन्दर्भ-सहिता प्राप्यते । तत्र पिञ्जस्य नोदनेन शब्दाधारितायाः वृत्तिताया आमूलं विस्तृतं विवरणं प्राप्यते ।
विशेषताः –
1. प्रयोगकर्तुः कृते अन्वेषणाय प्रयोगाय च अतीव सरलं वर्तते ।
2. संस्कृमाध्यमेन एव सर्वं विवरणं निहितं वर्तते ।
3. अत्र निहितशब्दानाम् अन्वेषणं Online अन्येषु ग्रन्थेषु कर्तुं शक्यते ।
न्यूनता –
1. संस्कृतभाषामतिरिच्य अन्यासु भाषासु प्रयोगाय भाषाविकल्पः न वर्तते ।
Source – http://sanskrit.jnu.ac.in/ayur/ibasic.jsp