प्राचीनं रसायनशास्त्रम्
लेखकः- कू. वेङ्कटेशमूर्तिः
संस्कृतं ज्ञानस्य विज्ञानस्य च भाण्डागारम् । संस्कृतभाषया अस्पृष्टः विज्ञानस्य भागः प्रायः नास्ति । संस्कृतवाङ्मये यत् ज्ञानं निहितम् अस्ति तत् विज्ञानसमन्वितम् अस्ति । तर्हि किं नाम विज्ञानम् ?
अमरकोषस्य पङ्किः अत्र स्मर्तव्या – “ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” इति । संस्कृते तावत् न केवलं मोक्षविषयिणि विद्या, अपि तु तदितरत् ऐहिकसुखसाधकं ज्ञानं चापि अस्ति । किन्तु अद्यापि बहवः अज्ञानिनः संस्सकृतस्य केवलं धार्मिकविधि-विधानोपयोगित्वरूपं कल्पयन्ति । ‘प्राचीनैः यथा आध्यात्मिकविषये श्रद्धा दत्ता, न तथा वैज्ञानिकविषये’ इति केचिद् वृथा भावयन्ति । रसरत्नाकरः, रसरत्नसमुच्चयः, रसेन्द्ररसङ्गहः इत्यादयः ग्रन्थाः तादृशानां नेत्राञ्चनकल्पाः सन्ति ।
आधुनिकवैज्ञानिकैः विज्ञानस्य याः शाखाः अवलम्बिताः, प्रायः सर्वाः अपि ताः शाखाः प्राचीनैः महामनीषिभिः भारतीयैः पोषिताः । आधुनिकैः ‘केमिस्ट्री’(रसायनशास्त्रम् ) इति नाम्ना विज्ञानस्य यः भागः व्यवहियते सः भागः सहस्त्रवर्षेभ्यः पूर्वमेव भारते रसशास्त्रनाम्ना व्यवहियमाणः आसीत् ।
भारतीयरसग्रन्थेषु पारदः अभ्रकादिमहारसाः, उपरसाः धातवः कनकरजतादिलोहिनि, मिश्रलोहानि – एतेषां गुणाः लक्षणानि, तदुपलब्धिस्थानम्, प्रयोगशालानिर्माणम्, यन्त्रनिर्माणम्, शुद्धीकरण- विधिः, सत्त्वपातनम्, द्रुतिः (द्रवीकरणम्), भस्मकरणम्, रसौषध- निर्माणम्, तत्सेवनविधिः, लोहवेधद्वारा सुवर्णनिर्माणम् – इत्येवं बहुषु अंशेषु वैज्ञानिकं विवरणम् उपलभ्यते । रसशास्त्रविषये धातुविज्ञानविषये च (chemistry and Alchemh) प्राचीनभारतीयानां संस्कृतस्य च योगदानं किम् इति स्मर्तुम् ईषत् प्रयासः विधीयते अत्र ।