Tuesday, January 5, 2016
सौरोर्ज-विज्ञाने UAE प्रथमस्थाने।
दुबाय् > सौरोर्ज विज्ञानेषु उन्नतिं संप्राप्य UAE राष्ट्रं राष्ट्रान्तरान् प्रति प्रस्थानम् आरब्धम् । अस्मिन् अन्येषां सहकारिताम् अन्विष्य एव इयं यात्रा । ओक्तोबर् चतुर्थ दिनादारभ्य षष्टदिनपर्यन्तं दुबाय् इन्टर् नाशणल् कण्वन्षन् आन्ट् एक्सिबिशन् सेन्टर् मध्ये आयोज्यमाने वेट्टक्स् प्रदर्शनमेलने सौरोर्ज विज्ञानस्य विनिमयः भविष्यति ।
भारतस्य विविधराज्येषु सैरोर्ज योजना: सञ्चालयतुं प्रथानमन्त्रिणा मोदिर्वर्येण UAE सन्दर्शनसन्दर्भे चर्चा कृता आसीत् ।
भूमिकम्पः, १४ मृताः २१० आहताः।
इम्भाल् > भारतस्य पूर्वोत्तर भागेषु जायमाने भूकम्प दुर्घटनायां १४ जना: मृताः २१० जनाः वृणिताः। तेषु ९ जना: भारतीयाः पञ्च जना: बङ्ग्लादेशे च। रक्षा प्रवर्तनेषु इदानीमपि सैनिकाः निरताः। रिक्टर् मापिन्यां ६.८ अङ्ग:कम्पन तीव्रता मापिता । मणिपुरम्, असम् राज्ययो: तीव्रता अधिकतया अनुभूता। ब्राह्म यामे ४.३५ वादने आसीत् कम्पः। आहतेषु भारतात् ११० बङ्गलादेशात् १०० जना: च अभवन्। म्यान्मर् तिबत् सीमा च कम्पिता ।
मुफ्ति मुहम्मद् सयीद् गुरुतरावस्थायाम्।
दिल्ली – जम्मू काश्मीरस्य मुख्यमन्त्री मुफ्ती मुहम्मद सयिदः अत्यन्तगुरुतरावस्थायां दिल्ल्याम् एयिंस् आतुरालयं प्रविष्टः। न्यूनरक्तसम्मर्दः न्युमोणियाबाधा रक्तदोषश्च तस्मिन् दृश्यते इति आतुरालयाधिकृतैः उक्तम्।
यू ए ई राष्ट्रे प्रवेशनानुमतिनियमाः परिवर्तयन्ति।
दुबाय् – राष्ट्रप्रवेशनानुमतिनियमेषु यूएई राष्ट्रं सारवत्परिवर्तनं करोति। सन्दर्शकानां कर्मेप्सुनां कृते अत्यन्तं साहाय्यकरं भवति नूतन परिष्करणम्।
विसापत्रं परिष्कर्तुं राष्ट्रात् प्रत्यागमनं न कार्यम्। सन्दर्शकविसापत्रानुसारम् आगतानां नूतनविसापत्रं सम्पाद्य वृत्तिः शक्यते।सन्दर्शकविसापत्रस्य नवीकरणं सुसाध्यम्। एतादृशं परिष्करणं विदेशीयानाम् उपकारकम् भवति।
पठान् कोट् आक्रमणेषु जैषे-मुहम्मदस्य संबन्धः।
नवदिल्ली > पठान् कोट् व्योमनिलये जातम् आक्रमणं जैषे मुहम्मद् नाम आतङ्कवादिदलेन कृतम् इति ऊह्यते। पाकिस्थानम् आस्थानं कृत्वा ततः एव आक्रमणाय निदेशः क्रियते। पठान् कोट् संघट्टने मृतानां भीकराणां जैषे मुहम्मद् दलेन साकं संबन्धः अस्ति इत्यस्मिन् तु प्रमाणं लब्धम् ।
प्रमाणानि गुप्तान्वेषणफलानि च पाकिस्थानाय दत्वा दलान् विरुध्य दण्डं स्वीकर्तुं भारतस्य प्रेरणा भविष्यति। एतस्मिन् विषये पाकिस्थानस्य प्रवर्तनानि अनुसृत्य एव भारत पकिस्थानयोः सचिवयो: चर्चायाः गति: l