भ्रातृभावनायाः एवं च सहयोगभावनायाः प्रतीकम् – रक्षाबन्धनम्
भारतीयसंस्कृतिः अति प्राचीना वर्तते। अत्रत्याः उत्सवाः अस्माकं सांस्कृतिकपरम्परायाः द्योतकाः सन्ति। अत्रत्यस्य प्रत्येकमपि उत्सवस्य स्वकीया काचित् सामाजिकपृष्ठभूमिः वर्तते। रक्षाबन्धनं कश्चन भारतीयः उत्सवः वर्तते। एषः श्रावणमासस्य पूर्णिमायाम् आचर्यते। श्रावणमासस्य पूर्णिमायाम् आचरणत्वात् अयं ‘श्रावणी’ इत्यपि कथ्यते। रक्षाबन्धने रक्षासूत्रस्य अतीव महत्त्वं वर्तते। एवं तु सामान्यतः भगिन्यः भ्रातॄणां मणिबन्धे रक्षासूत्रं बध्नन्ति, परञ्च ब्राह्मणैः, गुरुभिः तथा च कुटुम्बे लघुबालिकाभिः सम्मानितसम्बन्धीनां मणिबन्धेषु अपि रक्षासूत्रं बद्ध्यते। कदाचित् तु सार्वजनिकरूपेण कस्यचित् नेतुः अथवा प्रतिष्ठितव्यक्तेः मणिबन्धे अपि सूत्रं बद्ध्यते। कुत्रचित् तु प्रकृतिसंरक्षणाय वृक्षेषु अपि रक्षासूत्रबन्धनस्य परम्परा प्रारब्धा अस्ति। एवमेव राष्ट्रियस्वयंसेवकसङ्घस्य पुरुषसदस्याः परस्परं भ्रातृभावनया गेरुवर्णस्य रक्षासूत्रं बध्नन्ति। रक्षासूत्रस्य बन्धनसमये सर्वे आचार्याः कस्यचित् श्लोकस्य उच्चारणं कुर्वन्ति, यस्मिन् रक्षाबन्धनस्य सम्बन्धः भूपतिबलिना स्पष्टरूपेण दृष्टिगोचरो भवति। अयं श्लोकः रक्षाबन्धनस्य अभीष्टश्लोको वर्तते –
येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामनुबध्नामि रक्षे मा चल मा चल।। इति
श्लोके उक्तमस्ति यत् – येन सूत्रेण महान् शक्तिशाली दानवेन्द्रः राजा बलिः बद्धः आसीत्, तेन रक्षासूत्रेण अहं त्वां बध्नामि, यच्च तव रक्षां करिष्यति इति। अयमुत्सवः भ्रातृभावनायाः सहयोगभावनायाः च प्रतीको वर्तते। अस्मिन् दिने भगिन्यः भ्रातॄणां मणिबन्धेषु रक्षासूत्रं बद्ध्वा, तिलकं च धारयित्वा भ्रातॄणां दीर्घायुषः कृते प्रार्थयन्ति। भ्रातरोऽपि भगिनीनां रक्षायाः प्रतिज्ञां कुर्वन्ति तथा च ताभ्यः धनम् अथवा उपहारं यच्छन्ति। अस्योत्सवस्यारम्भः पौराणिककालतः एव मन्यते।
तेन त्वामनुबध्नामि रक्षे मा चल मा चल।। इति
श्लोके उक्तमस्ति यत् – येन सूत्रेण महान् शक्तिशाली दानवेन्द्रः राजा बलिः बद्धः आसीत्, तेन रक्षासूत्रेण अहं त्वां बध्नामि, यच्च तव रक्षां करिष्यति इति। अयमुत्सवः भ्रातृभावनायाः सहयोगभावनायाः च प्रतीको वर्तते। अस्मिन् दिने भगिन्यः भ्रातॄणां मणिबन्धेषु रक्षासूत्रं बद्ध्वा, तिलकं च धारयित्वा भ्रातॄणां दीर्घायुषः कृते प्रार्थयन्ति। भ्रातरोऽपि भगिनीनां रक्षायाः प्रतिज्ञां कुर्वन्ति तथा च ताभ्यः धनम् अथवा उपहारं यच्छन्ति। अस्योत्सवस्यारम्भः पौराणिककालतः एव मन्यते।
अर्थः –
रक्षाबन्धनस्य शाब्दिकोऽर्थः वर्तते ‘रक्षायाः बन्धनम्’ इति अर्थात् परस्परं रक्षानिमित्तं बन्धनम्, परस्परं रक्षाकरणम्, रक्षासूत्रं बद्ध्वा रक्षायाः अपेक्षा क्रियते। पुरुषः नारीं सदैव रक्षति इति भारतीयपरम्परा अस्ति।
अनुष्ठानम् –
प्रत्येकं पर्व इव उपहाराणां तथा च भक्ष्य-पेययोः विशेषमहत्त्वं रक्षाबन्धनेऽपि भवति। सामान्यतया मध्याह्नभोजनं महत्त्वपूर्णं भवति। कुत्रचित् तु रक्षासूत्रबन्धनं यावत् उपवासस्य परम्परा अपि वर्तते। अस्मिन् दिने पुरोहिताः यजमानानां गृहं गत्वा तान् रक्षासूत्रं बध्नन्ति तथा च प्रतीकारे धन-वस्त्र-भोजनादीनि प्राप्नुवन्ति। उत्सवोऽयं भारतीयसमाजे एतावत् व्यापकतया तथा च गहनतया समाश्रितः अस्ति। अतः अस्य सामाजिकमहत्त्वं तु अस्त्येव, परन्तु पौराणिकम्, धार्मिकम् तथा च ऐतिहासिकं महत्त्वमपि वर्तते।
पौराणिकता –
रक्षाबन्धनस्य उत्सवः कदा आरभ्य आचर्य्यते इति तु कोऽपि न जानाति, परन्तु भविष्यपुराणे वर्णनमस्ति यत् पुरा देव-दानवेषु युद्धमभवत्। तत्र देवानां पराजयः अभवत्। तदा देवराजः इन्द्रः देवगुरुबृहस्पतेः पार्श्वं गतवान्। गत्वा च वृत्तं गुरवे उक्तवान्। तदा देवगुरुबृहस्पतिना श्रावणमासस्य पूर्णिमायाः दिने रक्षाविधानं कारितम्। ब्राह्मणानां स्वस्तिवाचनपूर्वकम् इन्द्रस्य भगिन्या इन्द्रस्य मणिबन्धे गुरुबृहस्पतिद्वारा अभिमन्त्रितम् रक्षासूत्रं बद्धम्। तस्मात् एव सूत्रात् इन्द्रः प्राणबलं प्राप्तवान्, युद्धे च जयं प्राप्तवान् इति जनोक्तिः। अस्मिन् एव दिने महालक्ष्म्या बलिनं रक्षासूत्रं बद्ध्वा भगवान् विष्णुः रसातलतः मुक्तीकृत्य विष्णुलोकमानितः आसीत्। विष्णुपुराणस्य कस्मिंश्चित् प्रसङ्गे कथितं यत् श्रावणपूर्णिमादिने एव भगवान् विष्णुः हयग्रीवरूपेण अवतीर्य वेदान् पुनः ब्रह्मणाय दत्तवान् इति। हयग्रीवः विद्यायाः तथा च बुद्धेः प्रतीकः मन्यते।
धार्मिकता –
उत्तराञ्चले अयमुत्सवः “श्रावणी” इति नाम्ना प्रसिद्धः वर्तते। अस्मिन् दिने यजुर्वेदिद्विजानाम् उपाकर्म भवति। अयम् उत्सवः ब्राह्मणानां सर्वश्रेष्ठः उत्सवः मन्यते। वृतिवन्तः ब्राह्मणाः यजमानेभ्यः रक्षासूत्राणि तथा च यज्ञोपवीतानि दत्त्वा दक्षिणां प्राप्नुवन्ति। अस्मिन्नेव दिने अमरनाथस्य प्रसिद्धयात्रा सम्पूर्णा भवति। तथा च अस्मिन् एव दिने तत्र हिमशिवलिङ्गमपि पूर्णं भवति इति कथ्यते।
महाराष्ट्रे अयमुत्सवः “नारियलपूर्णिमा” अथवा “श्रावणी” इति नाम्ना विख्यातः वर्तते। तत्र अस्मिन् दिने समुद्रस्य स्वामिनं वरुणदेवं प्रमोदयितुं नारिकेलफलानाम् अर्पणस्य परम्परा अपि अस्ति। राजस्थाने अयमुत्सवः विभिन्नप्रकारेण आचर्यते। तमिलनाडु–केरल-महाराष्ट्र-ओडीशादिराज्येषु अयमुत्सवः “अवनि अवित्तम्” इति कथ्यते। व्रजे श्रावणशुक्लतृतीयातः श्रावणपूर्णिमां यावत् समस्तमन्दिरेषु एवं च गृहेषु श्रीकृष्णः आन्दोलनेषु विराजते। तथा च रक्षाबन्धनदिने आन्दोलनदर्शनं समाप्तं भवति।
ऐतिहासिकता –
रक्षाबन्धनस्य महत्त्वप्रतिपादनं कर्तृभिः अनेकाभिः पौराणिककथाभिः सार्धमेव ऐतिहासिककथाः अपि वर्तन्ते। अस्मिन्नेव सन्दर्भे महाराज्ञ्याः कर्णावत्याः कथा विशेषोल्लेखनीया वर्तते। प्रसङ्गः एवमस्ति – यदा बहादुरशाहः चित्तौड़गढे आक्रमणं कृतवान् तदा बहादुरशाहस्य सेनाशक्तिं दृष्ट्वा चित्तौडगढस्य तत्कालीना महाराज्ञी कर्णावती देहल्याः बादशाहं हुमायुं रक्षासूत्रं प्रेषयित्वा चित्तौडगढस्य रक्षायाः सन्देशं प्रापितवती। रक्षासूत्रं दृष्ट्वा हुमायुः तत्कालमेव चित्तौडगढस्य रक्षायै धावितवान् तथा च बहादुरशाहं पराजितं कृत्वा चित्तौडगढं रक्षितवान्। इदमेकम् ऐतिहासिकं तथ्यं वर्तते, अस्य अवहेलनां न कर्तुं शक्यते।
साहित्यतया –