तीव्रवादान् विरुध्य तीव्रवादिनेतु: कार् यानम् अग्निसात्करोत्।
गासियाबाद् – तीव्रवादान् विरुध्य तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्। हिन्दु महासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः।
भारत-पाक् विदेशविभाग सचिवानां चर्चा
नवदिल्ली- भारत-पाक् विदेशविभागसचिवानां उपस्थितिः जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिणी सुषमा स्वराज: पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः।
बालनीतिविधेयकं राज्यसभया अङ्गीकृतम्।
नवदिल्ली – गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।
नरेन्द्रमोदी मोस्को प्राप्तः।
मोस्को – दिनद्वयात्मकरष्यासन्दर्शनाय भारतप्रधानमन्त्री नरेन्द्रमोदी मोस्कोनगरं प्राप्तवान्। तत्र नुक्कावो-२ विमाननिलये मोदिवर्यः रष्यासैन्यस्य ” गार्ड् आफ ओणर्” विन्यासेन स्वीकृतः।राष्ट्रपतिः व्लादिमिर् पुतिन् महोदयः रात्रिभोजनेन सह सत्कारं समर्पितवान्। अद्य द्वावपि राष्ट्रनेतारौ उभयपक्षचर्चां कृत्वा आणवोर्जः राष्ट्ररक्षा इन्धनम् इत्यादिषु मण्डलेषु अनुबद्धेषु हस्ताक्षरं करिष्यतः।ततः मोदीवर्यः रष्यस्थान् भारतवंशजान् अभिसंबुद्धिं करिष्यति।