अमृतभाषा संस्कृतम्
कोच्ची- संस्कृतम् अमृतभाषा भवति इति पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती अवदत्।
तोडुपुष़ा कुमारमङ्गलम् एम् .के .एन् एम्.एच् .एस् .एस् . मध्ये विश्वसंस्कृतप्रतिष्टानद्वारा आयोजित शिक्षक – प्रशिक्षण- शिबिरस्य उद्घाटनं कृत्वा भाषमाण आसीत् सः।
तपस्या अध्यक्षः प्रोफ़ पि जि हरिदासः अध्यक्ष आसीत्।
संस्कृतभारत्याः राज्याध्यक्षः एम् पि उण्णिकृष्णः भाषणं कृतवान्।
पि नारायणः मुख्यातिथिः आसीत् । केरलक्षेत्रसंरक्षणसमिति अध्यक्षः स्वामी अय्यप्पदासः मुख्यभाषणं कृतवान्। कुमारमङ्गलम् पञ्चायत् अध्यक्षः निसार् पष़ेरी , एम् .के .एन् एम्.एच् .एस् .एस् . प्राचार्यः के . अनिलः, विश्वसंस्कृतप्रतिष्ठानस्य कार्यदर्शी वि श्रीकुमारः , पञ्चायत् अङ्ग: उषाराजशेखरः धनेष्कुमारः , एम् . जी .राजशेखरः इत्येते भाषणं कृतवन्तः । शिबिरं २७ दिनाङ्के समाप्तिमेष्यति।
रेल् यात्रा दुरितपूर्णा
नव दिल्ली– केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।