Sunday, December 27, 2015
अफ्गानसंसद् नरेन्द्रमोदिना उद्घाटिता।
अंबुजा – अफ्गानिस्तान् राष्ट्राय भारतेन निर्मीय दत्तं नवीनं संसद्भवनं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अफ्गानस्य राष्ट्रपतिः मुहम्मद् अषरफ् गनी च मिलित्वा उद्घाटितवन्तौ। उभयोः राष्ट्रयोः परस्परसौहृदस्य सहकरणस्य च प्रतीकः अस्ति नवीनं संसद्मन्दिरमिति मोदिवर्यः अवोचत्। उभयराष्ट्रसौहृदस्य शाक्तीकरणमुद्दिश्य २००७ तमे संवत्सरे नूतनसंसद्भवनं निर्मीय दातुं भारतं निश्चिकाय।६०० कोटि रूप्यकाणां निर्माणव्ययः अभवत्।भवनसमुच्चये अन्यतमविभागस्य भारतस्य भूतपूर्वप्रधानमन्त्रिणः अटल् बिहारी वाजपेयिवर्यस्य नामकरणाय निश्चय अपि कृतः।
तुलू भाषा अङ्गीकृता स्यात्।
कासर्कोट् – अंगीकृतभाषा भवितुं तुलुभाषायाः प्रयत्नः साफल्यं प्राप्नोति।भारत संविधानस्य अष्टमकार्यक्रमे (Schedule) उपस्थापयितुम् उद्दिष्टायां परिगणनापट्टिकायां तुलू अपि अन्तर्भूता।दक्षिणभारतस्य पञ्चसु द्राविडभाषासु प्रधानभूता तुलू ३८तम भाषारूपेण पट्टिकायां स्थानं प्राप्तवती। केन्द्रगृहमन्त्रालयस्य अधीने वर्तमानया समित्या एव अन्तिमनिश्चयः स्वीकरणीयः।
सि. पि. एम्य् देशीय प्लीनम् सम्मेलनम् आरब्धम् I
कोल्कोत्ता – अधिकारभ्रष्टेषु राज्येषु प्रत्यागमनस्य काहलं घोषयित्वा कम्म्यूणिस्ट् पार्टि आफ् इन्डिया(मार्क्सिस्ट्) दलस्य (सि पि एम्) देशीयप्लीनं सम्मेलनं कोल्कोत्तायां ब्रिगेड् मैताने आरब्धम्।३५ संवत्सरेभ्यःपरमेव दलस्य प्लीनं सम्मेलनं प्रचलति। विविधमण्डलेषु अनुवर्तमानाः नयरूपवत्करणचर्चाः अत्र भविष्यन्ति।