असमे संस्कृतम् अनिवार्यम् असमे संस्कृतम् अनिवार्यम् असमराज्ये अनिवार्यरुपेण संस्कतस्य पाठनस्य प्रस्तावः कृतः अस्ति अद्यत्वे । ‘येषु विद्यालयेषु संस्कृतशिक्षकः अस्ति तत्र अनिवार्यं भवेत् संस्कृतम्’ इति प्रस्तावम् उपस्थापितवान् अस्ति अर्थमन्त्री हिमन्तविश्वशर्मा । ‘पुनरुतिष्ठासु असमम्’ इति सङ्कल्पनम् अनृसृत्य प्रस्तुयमाने अर्थसङ्कल्पे सः – ‘सर्वाणि संस्कत-शिक्षकपदानि पूरयिष्यन्ते इति उध्दोषितवान् अस्ति । अवसरे अस्मिन् भाषमाणः शर्ममहोदयः अकथयत् –“मातृभाषायाः स्थानिकभाषायाः वा औपचारिकशिक्षणे योजनविषये बहवः चिन्ताक्रान्ताः सन्ति । वैश्वीकरण युगे अस्मिन् सर्वेणापि छात्रेण अन्ताराष्टीयभाषायां, राज्य-भाषायां च अवशयं कौशलं सम्पादनीयम् उद्योगर्थम् इति सानुरोधं प्रतिपाद्यते बहुभिः । किन्तु प्रभाविशिक्षणार्थ मातृभाषायाः उपयोगः भवति अधिकलाभकरः इति संशोधनं वदति यत् तदेव वयम् अनुसरामः” इति ।