वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
सस्य श्यामलां मातरंम् .
शुभ्र ज्योत्सनाम् पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदलशोभिनीम्,
सुहासिनीं सुमधुर भाषिणीम् .
सुखदां वरदां मातरम् ॥
सप्त कोटि कण्ठ कलकल निनाद कराले
द्विसप्त कोटि भुजैर्ध्रत खरकरवाले
के बोले मा तुमी अबले
बहुबल धारिणीम् नमामि तारिणीम्
रिपुदलवारिणीम् मातरम् ॥
तुमि विद्या तुमि धर्म, तुमि ह्रदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् ॥
श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् ॥
Roman Transliteration:
vande maataram, vande maataram..
sujalaam sufalaam malayaj sheetalaam
sasyashyaamalaam maataram … vande..
shubhrajyotsna pulakit yaaminiim
phulla kusumita drumadal shobhiniim
suhaasinim sumadhura bhaashhinim
sukhadaam varadaam maataram.. vande maataram
sapta koti kantha kalakala ninaada karaale
nisapta koti bhujaidhruta kharakarvaale
sapta koti kantha kalakala ninaada karaale
nisapta koti bhujaidhruta kharakarvaale
ka bola ka noma eith bole
bahubal dhaariniin namaami taariniim
ripudalavaariniin maataram
vande maataram …
tumi vidyaa tumi dharma, tumi hridi tumi marma
tvan hi praanaah shariire
baahute tumi maa shakti,
hridaye tumi maa bhakti,
tomaarai pratimaa gadi mandire mandire
vande maataram..
tvan hi durgaa dashapraharanadhaarinii
kamalaa kamaladala vihaarinii
vaanii vidyaadaayinii, namaami tvaam
namaami kamalaan amalaan atulaam
sujalaan sufalaan maataram
vande maataram..
shyaamalaan saralaan susmitaan bhuushhitaam
dharaniin bharaniin maataram
vande maataram….
सौजन्यं स्रोतश्च — अन्तर्जालीय-विविध-स्रोतभ्यः
हे मे देशीया लोका कुर्वन्तु सर्वे जयघोषम्
इदं शुभदिनम् अस्माकम्
प्रणमन्तु ध्वजं त्रिरङ्गम्
परं न विस्मरन्तु सीमायाम्
वीरैः निजप्राणाः दत्ताः
कुर्वन्तु च तेषां स्मरणम्
ये गत्वा पुनः न आयाताः
ये गत्वा पुनः न आयाताः।
हे देश-जनाः श्रृण्वन्तु परिपूर्य अश्रुभिः नेत्रम्
यैरिह दत्तं बलिदानम्
कुर्वन्तु च तेषां स्मरणम् ।
हे देश-जनाः श्रृण्वन्तु परिपूर्य अश्रुभिः नेत्रम्
यैरिह दत्तं बलिदानम्
कुर्वन्तु च तेषां स्मरणम् ।
जातः क्षतो हिमालयः स्वायत्ता जाता सन्देहे
आश्वासं योधितवन्तः मृतवन्तः भूरक्षायै
मुदा वीर-गतिं सम्प्राप्तः वीर-गणः बलिदाने
यैरिह दत्तं बलिदानम्
कुर्वन्तु तेषां संस्मरणम् ।।
यदा देशे च दीपोत्सवः
ते क्रीडितवन्तः होलीं
वयम् आस्म यदा गृहेषु
ते सहनमकुर्वन् गुलिकां
धन्याः आसन् वीराः
धन्यं तेषां बहु शौर्यं
यैरिह दत्तं बलिदानम्
कुर्वन्तु च तेषां संस्मरणम् ।।
कोऽपि सिक्खो जाटो मराठी
कोऽपि सिक्खो जाटो मराठी
कोऽपि गुरखा वा मद्रासी
कोऽपि सिक्खो जाटो मराठी
कोऽपि गुरखा वा मद्रासी
सीमायां च म्रियमाणः प्रतिवीरं भारतवासी
यद् धरायां पतितं रक्तं तदासीत् हिन्दुस्तानी
यैरिह दत्तं बलिदानम्
कुर्वन्तु च तेषां संस्मरणम् ।।
हे देश-जनाः श्रृण्वन्तु परिपूर्य अश्रुभिः नेत्रम्
यैरिह दत्तं बलिदानम्
कुर्वन्तु च तेषां स्मरणम् ।
कुर्वन्तु च तेषां स्मरणम् ।
जय हिन्द जय हिन्द जय हिन्द सेनिकाः
सौजन्यं स्रोतश्च — श्रीमती अर्चना शैला श्रीमान् हेमदीप शैलश्च
भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम्।
भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम्।।
विन्ध्यसह्याद्रिनीलाद्रिमालान्वितं शुभ्रहैमाद्रिहासप्रभापूरितम्।
अर्बुदारावलीश्रेणिसम्पूजितं भूतले भाति मेऽनारतं भारतम् ।। 1 ।।
जाह्नवीचन्द्रभागाजलैः पावितं
जाह्नवीचन्द्रभागाजलैः पावितं भानुजानर्मदावीचिभिर्लालितम्।
तुङ्गभद्राविपाशादिभिर्भावितं भूतले भाति मेऽनारतं भारतम् ।।2।।
वेदभाभासितं सत्कलालालितं
वेदभाभासितं सत्कलालालितं रम्यसङ्गीतसाहित्यसोहित्यभू।
भारतीवल्लकीझङ्कृतैर्झङ्कृतं भूतले भाति मेऽनारतं भारतमे ।।3।
विश्वबन्धुत्वमुद्धोषयत्पावनं विश्ववन्द्यैश्चरित्रैर्जगत्पावयत्।
विश्वमेकं कुटुम्बं समालोकयत् भूतले भाति मेऽनारतं भारतम् ।।4।।
वेशभूषाशनोपासनापद्धति-क्रीडनामोदसंस्कारवृत्त्यादिषु।
यद्धि भिन्नं सदप्यस्त्यभिन्नं सदा भूतले भाति तन्मामकं भारतम् ।।5।।
अर्थकामान्वितं धर्ममोक्षान्वितं भक्तिभावान्वितं ज्ञानकर्मान्वितम्।
नैकमार्गैः प्रभुं चैकमारधयद् भूतले भाति मेऽनारतं भारतम् ।।6।।
शोषितो नात्र कश्चिद् भवेत् केनचित् व्याधिना पीडितो नो भवेत्कश्चन।
नात्र रोऽपि व्रजेद् दीनतां हीनतां मोनतां राजतां पावनं भारतम् ।।7।।
भारतं वर्तते मे परं सम्बलं भारतं नित्यमेव स्मरामि प्रियम्। भारतं नित्यमेव स्मरामि प्रियम्।।
भारतेनास्ति मे जीवनं भारतायार्पितं मेऽखिलं चेष्टितम् ।।8।।
भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम्।
भूतले भाति मेऽनारतं भारतम्।
सौजन्यं स्रोतश्च — कविः — श्रीरमाकान्तशुक्लः, (NCERT), संस्कृतसंवर्धन-प्रतिष्ठानम् — नई दिल्ली
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।।
पुण्यदभूमिर्वीरसेविता भारतधरणीयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
पुण्यदभूमिर्वीरसेविता भारतधरणीयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
पावनसलिलो मृगखगभूषितसुन्दरदेशोऽयम्।
पावनसलिलो मृगखगभूषितसुन्दरदेशोऽयम्।।
वीचिक्षालितपावनचरणा अनन्यवसुधेयम्।
वीचिक्षालितपावनचरणा अनन्यवसुधेयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।।
ऋषिमुनि-कविवर-पण्डितमण्डित-मानददेशोऽयम्।
ऋषिमुनि-कविवर-पण्डितमण्डित-मानददेशोऽयम्।।
श्रद्धात्यागसमर्पणमहिता मङ्गलजननीयम्।
श्रद्धात्यागसमर्पणमहिता मङ्गलजननीयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।।
पुण्यदभूमिर्वीरसेविता भारतधरणीयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
भारतदेशोऽयम्।।
भारतदेशोऽयम्।।।
सौजन्यं स्रोतश्च — (NCERT), संस्कृतसंवर्धन-प्रतिष्ठानम् — नई दिल्ली
बोधयित्वा संघभावम्
बोधयित्वा संघभावं नाशयित्वा हीनभावम् ।
बोधयित्वा संघभावं नाशयित्वा हीनभावम् ।।
नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।।
बोधयित्वा संघभावं नाशयित्वा हीनभावम् ।।
राष्ट्रभक्तिं सामरस्यं दक्षसम्पत्प्रार्थनाभिः,
वर्धयित्वा स्वाभिमानः पाञ्चजन्यं श्राव्यताम्।।
दीर्घतपसा पूर्णमनसा चारुवचसा वीरभृत्यः,
स्वार्थरहितं ज्ञानसहितं क्षात्रतेजो दर्श्यताम्।।
नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।
देववाणी राष्ट्रवाणी धर्मसंस्कृति-मूलगङ्गा,
लोकभाषोज्जीवनार्थं संस्कृतेन हि भाष्यताम्।।
हिन्दुदर्शन-जीवभूता संस्कृतिः खलु विश्वमान्या,
भव्यभारत-वैभवार्थं सार्चनित्यं सेव्यताम् ।।
नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।
ऐक्यभावं वर्धयित्वा भेदभावं वारयित्वा,
मातृमन्दिर-पूजनार्थं नित्यशाखा गम्यताम्।।
हिन्दुबान्धव-स्नेहबन्धस्सर्वसाधक-शक्तिदायि,
विश्वमङ्गल-शान्तिसुखदं हिन्दुराष्ट्रं राजताम्।।
नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।
सौजन्यं स्रोतश्च — संस्कृभारती — नई दिल्ली