संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » श्रव्यावली » गीतानि » युवगीतानि

युवगीतानि

1.निरपेक्ष-कविता


https://archive.org/download/NirapekshaKavita/Nirapeksha%20Kavita.mp3http://www.vedamantram.com/audio/mangalam.mp3

निरपेक्ष-कविता

न गन्धिकमपेक्षते विकसनाय पुष्पावली

वनेऽप्युपवनेऽप्यसौ
समतया समुन्मीलति ।

तमोऽपहरुचाऽनिशं भृशमसौ
ज्वलन्त्यानिशं

न दीपयति दीपिका
शलभलोभवृद्ध्यै गृहम् ॥

दिवाकरकरप्रिया सरसि सा
सरोजावली

शिलीमुखमुखानि किं
समवलोक्य संवर्धते ? ।

रसालनवमञ्जरी
सरसपत्रमध्योद्गता

विचिन्त्य न विकास्यते
मदयितुं हि पुंस्कोकिलान् ॥

रथाङ्गयुगलान्यहं
मृतमृतानि सञ्जीवये

मयूरनिकरानथापि नटने समुत्कण्ठये ।

नभस्यपि विहायसि
प्रचुरनीलपद्माकृतिः

किमित्थमवधार्य वा
स्फुरति कापि कादम्बिनी? ॥

तथैव कविता कवेः सुकृतिनः
क्वचिन्मानसान्

मुखाब्जमभिसंगता हृदयभावनोद्वेलनैः ।

अलौकिकरसान्विता भवति या
सुपूर्णा स्वतः

न जातुचिदपेक्षते न रसिकान् न वाऽऽलोचकान् ॥

सौजन्यं स्रोतश्च — लेखकः-गायकः — श्रीबलरामशुक्लः, www.archive.org

2.संस्कृत-गज्जलिका


https://archive.org/download/SanskritGajalNatakeDarshakai/sanskrit%20gajal%20natake%20darshakai.mp3

संस्कृत-गज्जलिका

नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

जानते ये स्वयं गीतमर्म क्वचित् –
जानते ये स्वयं गीतमर्म क्वचित्।

गीतसम्मोहितैर्गायकः सेव्यते-
गीतसम्मोहितैर्गायकः सेव्यते।

नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

शक्तिमन्तः कलौ भक्तिमन्तः स्वतः –
शक्तिमन्तः कलौ भक्तिमन्तः स्वतः।

दुर्बलैर्मानवैर्जायकः सेव्यते ।
नाटके दर्शकैर्नायकः सेव्यते।

निर्धनैर्याचकैर्दायकः सेव्यते।।
वञ्चकाः सम्पदामार्जने तत्पराः –
वञ्चकाः सम्पदामार्जने तत्पराः।

लुण्ठकैर्वित्तसञ्चायकः सेव्यते।
नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

यादृशी भावना तादृशी संहतिः –
यादृशी भावना तादृशी संहतिः।

पायकैः किं सुरापायकः सेव्यते –
पायकैः किं सुरापायकः सेव्यते।

नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

मार्गिते किं न विद्यार्थिभिः प्राप्यते –
मार्गिते किं न विद्यार्थिभिः प्राप्यते।

शिक्षकैश्चानुसन्धायकः सेव्यते –
शिक्षकैश्चानुसन्धायकः सेव्यते।

नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

नाटके दर्शकैर्नायकः सेव्यते।
निर्धनैर्याचकैर्दायकः सेव्यते।।

निर्धनैर्याचकैर्दायकः सेव्यते।।
निर्धनैर्याचकैर्दायकः सेव्यते।।

सौजन्यं स्रोतश्च — लेखकः-चिरञ्जीवी खतिवडा, गायकः-सच्चिदानन्द पाैडेल, www.archive.org

3.नवकविता


https://ia601205.us.archive.org/30/items/160901003/160901_003.MP3

अत्र एतस्य गीतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थं अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

सौजन्यं स्रोतश्च — प्रस्तोता — श्रीबलरामशुक्लः, वक्ता गायकश्च — श्रीअभिराजराजेन्द्रमिश्रः, www.archive.org

4.मनसा सततं समरणीयम्


http://sanskritvishvam.com/wp-content/uploads/2016/05/Manasa-Satatam-Sanskrit-songvia-torchbrowser.com_.mp3

मनसा सततं समरणीयम्

न भोगभवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशम् जागरणीयम्
लोकहितम् मम करणीयम् ॥१॥

न जातु दुःखम् गणनीयम्
न च निजसौख्यम् मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितम् मम करणीयम् ॥२॥

दुःखसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितम् मम करणीयम् ॥३॥

गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्र मया संचरणीयम्
लोकहितम् मम करणीयम् ॥४॥

5.नैव क्लिष्टा न च कठिना


http://sanskritvishvam.com/wp-content/uploads/2016/05/Surasa-Subodhaa-Vishwa-Manojnyaavia-torchbrowser.com_.mp3

नैव क्लिष्टा न च कठिना

सुरससुबोधा विश्वमनोज्ञा ललिता हृदया रमणीया ।
अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ।। नैव क्लिष्टा।।

कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीयकथा ।
अतीव-सरला मधुरमञ्जुला नैव क्लिष्टा न च कठिना ।। सुरस….. ।।

व्यासविरचिता गणेशलिखिता महाभारते पुण्यकथा ।
कौरव-पाण्डव-सङ्गरमथिता नैव क्लिष्टा न च कठिना ।। सुरस….. ।।

कुरुक्षेत्र-समराङ्गण-गीता विश्ववन्दिता भगवद्गीता ।
अमृतमधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना ।। सुरस….. ।।

कविकुलगुरु-नव-रसोन्मेषजा ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका नैव क्लिष्टा न च कठिना ।। सुरस….. ।।

6.पठत संस्कृतम्

http://sanskritvishvam.com/wp-content/uploads/2016/05/pathat-sanskritam-Devnagarilippiya.mp3


7.चल चल पुरतो निधेहि चरणम्

http://sanskritvishvam.com/wp-content/uploads/2016/05/Cala-Cala-Purato-Nidhehi-Caraṇam-Geet-Ganga.mp3


8.मनसा-सततम्-स्मरणीयम्

http://sanskritvishvam.com/wp-content/uploads/2016/05/Manasa-Satam-Samarniy-1.mp3


Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​