परिचयः
संस्कृतशिक्षणे लग्नाः इच्छुकाः वा बान्धवाः अत्र भवतां कृते विविशिष्टं किमपि अस्ति । आधुनिकः अयं कालः यान्त्राणां कालः। कक्षाशिक्षणमतिरिच्य दूरदर्शनेन पाठनं चलचित्रैः पाठनमपि तत्र कश्चन प्रविधिः । यश्च नितरां प्रभावी महत्त्वपूर्णः च विद्यते । वर्त्तमाने स्थित्वा संस्कृतशिक्षणाय पुरातनानां साधनानाम् एव प्रयोगः यदि अस्माभिः क्रियेत तदा वर्त्तामाने वयं स्थातुं न शक्ष्यामः भविष्ये च अस्माकम् उपस्थितिः असम्भवा एव । अतः तैः नूतनैः प्रविधिभिः पठनम् परन्तु ततोऽपि अधिकम् आधुनिकैः साधनैः आधुनिकैः प्रविधिभिः पठनं पाठनं च भविष्ये संस्कृतसंरक्षणाय अत्यावश्यकम् ।