परिचयः
अयं ग्रन्थः विश्वसाहित्यस्य सर्वप्राचीनः ग्रन्थः अस्ति । अस्य ग्रन्थस्य अनेकाः शाखाः आसन् इति प्राचीनग्रन्थेषु उल्लेखः अस्ति परं सम्प्रति यस्याः संहिताः मूलसंहितारूपेण मान्यता अस्ति सा अस्ति “शाकलसंहिता ” इति । अस्याः ऋग्वेदसंहितायाः शाकलसंहितायाः वा दश मण्डलानि, सप्तदशोत्तरैकशतं सूक्तानि , प्रायशः (10472) द्विसप्तत्युत्तरचतुर्शताधिकदशसहस्रं च मन्त्राःसन्ति परं मन्त्राणां सूक्तानां च संख्याविषये विदुषां मतभेदः अस्ति । ऋग्वेदस्य पञ्चशाखाः , दौ ब्राह्मणग्रन्थौ , दौ आरण्यकग्रन्थौ , द्वे च उपनिषदौ स्तः ।