अङ्कात्मकम् अपूर्वं काव्यम् ‘सिरिभूवलयः’ अङ्कात्मकम् अपूर्वं काव्यम् ‘सिरिभूवलयः’ लोके अक्षरात्मकं काव्यं प्रायः श्रुतपूर्वम्। किन्तु तेषु कस्मिंश्चदपि प्रकारे अन्नतर्भवत् काव्यम् अस्ति। ‘सिरिभूवलयः’ । यतः तत् अस्ति अङ्कात्मकम्। सर्वभाषामयं काव्यं तत् । तस्मिन् काव्ये संस्कृतसाहित्यमपि अस्ति विपुलताय। काव्यं भवति अनेकविधम्। दृश्यश्रव्यभेदौ तत्र मुख्यौ। दृश्ये रूपकोपरूपकादीनि अन्तर्भवन्ति। श्रव्ये गद्यपद्य-चम्प्वादिकम् अन्तर्भवति। एवं काव्यप्रपञ्चः सुविस्तृतः। किन्तु एतेषु कस्मिंश्चिदपि प्रकारे अन्नतर्भवत् ‘अङ्कात्मकम्’ अपि किञ्चन काव्यम् अस्ति। अक्षरात्मकं काव्यं श्रुतपूर्वम्। किन्तु ‘अङ्कात्मकं काव्यम्’ इत्येतत् तु श्रुतपूर्व न स्यात् कदाचित् । अतः तदधिकृत्य किञ्चिदत्र प्रस्तूयते । तस्य काव्यस्य नाम “सिरिभूवलयः ’ इति । कन्नडभाषामयं काव्यं तत् । संस्कृतपत्रिकायां कन्नडकाव्यस्य विषये कथनस्य किम् औचित्यम् इति प्रश्रः उदियात् । वस्तुतः तत्र कन्नडपङ्क्तिनां मध्ये संस्कृतपद्यानि अपि बहुधा निहितानि सन्ति । सर्वभाषामयं काव्यं तत् ।। ७.१८ भाषाः तस्मिन् काव्ये अन्तर्निहिताः सन्ति इति वचनं श्रृंयते । काव्यस्य स्वरूपम् आदौ तस्य काव्यस्य सामान्यं स्वरूपं निवेद्य, ततः संस्कृतविषयः विस्तार्यते प्रथमं चित्रं पश्यत। तत्र काव्यस्य मूलपुटः कश्चन अस्ति। कन्नडाङ्काः दृश्यन्ते तत्र। द्वितीये चित्रे आङ्ग्लाङ्कैः सः एव पुटः दर्शितः । अत्र चतुरस्त्रे २७ + २७ = ७२९ लघुचतुरस्त्राणि सन्ति । तेषु १ – ६४ पर्यन्ताः सङ्खयाः सन्ति । ताः सङ्खयाः स्वरव्यञ्जनादीन् सूचयन्ति । कः अङ्कः किम् अक्षरं सूचयति इत्येतत् उपरि दर्शितम् अस्ति । चतुरस्त्रस्थैः अङ्कैः कानि अक्षराणि सूचयन्ते विवृत्त्कानि। अस्ति तृतीये चित्रे । एतस्मिन् स्वराः व्यञ्जनानि च न संयुक्तानि । स्वरव्यञ्जनसंयोगात् पदस्य वाक्यानां च स्पष्टता भवति । तत् स्पष्टं स्वरूपं चतुर्थ चित्रे दृश्यते। चतुर्थे चित्रे सर्वासु अपि पङ्क्तिषु सप्तविंशतितमम् अक्षरं नक्षत्रचिह्नेन सूचितम् अस्ति । सर्वाभ्यः अपि पङ्क्तिभ्यः नक्षत्रचिह्वेन सूचितानि अक्षराणि पृथक्कृतानि चेत्प्राप्यते– ओं कारम् बिन्दुसम्युक्त्म् नित्य्यम् ध्यायन्त योगिनः। कामदम् मोक्षदम् चइवम् ओम्काराय नमोम्नमहः ।। इति । अस्यैव संस्कृतं रूपं तावत् – ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओङ्काराय नमो नमः ।। इति । प्रथमाध्यायस्थः ‘स्तम्भ’ श्लोकः एषः । एवम् अग्रिमेषु सर्वेषु अपि अध्यायेषु नक्षत्रचिह्नाङ्कितानि अक्षराणि सर्वाभ्यः पङ्किभ्यः (प्रतिपङ्कि एकम् अक्षरम्) पृथक्कृत्य क्रमेण विलिख्य संयुक्ताक्षराणि संयोजितानि चेत् संस्कृतश्लोकाः लभ्यन्ते । (‘सम्भकाव्य’ पदेन निर्देष्टुं शक्यः अयम् ।) संस्कृतश्लोकान् प्राप्तुं कश्चन प्रकारः अयम् । अत्र अवधातव्यं नाम वामतः दक्षिणं यत् कन्नडपद्यम् अस्ति तस्यापि अङ्गं सत् तत् अक्षरं कस्यापि अर्थस्य अभिव्यञ्जने उपकरोति । उपरिष्टात् अधः गतिम् अवलम्ब्य पृथक्कृतानि तानि एव अक्षराणि संस्कृतश्लोकस्य अङ्गभूतानि सन्ति संस्कृतार्थम् अभिव्यञ्जयन्ति । प्रायः चित्रकाव्येषु वयं द्रष्टुं शक्नुमः अक्षराणाम् उभयाङ्गताम् । सः एव क्रमः अत्र आश्रितः । काव्यसम्बद्धः इतिहासः काव्यमेतत् कुमुदेन्दुमुनिविरचितम् । काव्ये तत्र तत्र राष्ट्रकूटराजस्य अमोघवर्षस्य उल्लेखः दृश्यते । अमोघवर्षस्य कालः क्रि.श. ८ १ ४-८७७ ।। अतः अयं ग्रन्थः अपि नवमे शतके रचितः स्यात् इति तक्र्यते । अस्य ग्रन्थस्य मूलप्रतिकृतिः (ताडग्रन्थः भोजपत्रग्रन्थः वा) अद्यावधि न लब्धा । ‘मल्लिकब्बा’ नाम राज्ञी सिरिभूवलयादीनां ग्रन्थानां प्रतिकृतिं कारयित्वा माघनन्दिनामकाय शास्त्रदानं कृतवती इति अस्य एव ग्रन्थस्य अन्ते प्रशस्तिभागे विवृतं दृश्यते। एषा प्रतिकृतिः धरणेन्द्रपण्डितनामकेन विदुषा प्राप्ता। धरणेन्द्रपण्डितः तत्सुहृत् चन्दापण्डितः च एतत् काव्यम् अङ्काधारेण एव पठित्वा तत्रत्यान् वैद्य-गणित-लोहशास्त्र-तत्त्व-शास्त्रादिसम्बध्दान् अंशान् विवरीतुं समर्थो आस्ताम् । धरणेन्द्रपण्डितेन तत्काले बेङ्गलूरुनगरे एतदर्थ काचित् प्रयोगशाला स्थापिता आसीत् । १९ १ ८ तमे वर्षे सः दिवं गतः । तत्पुत्राः जीवनस्य दुर्भरत्वकारणतः ‘सरस्वतीभण्डार’ स्थान् ग्रन्थान् भागशः विक्रीणानाः जीवनं यापयन्ति स्म । एतस्मिन् एव काले धरणेन्द्रपण्डितस्य दूरबन्धु एल्लप्पशास्त्रिनामा ग्रन्थस्यास्य विषये आसक्तिमान् अभवत् । ग्रन्थप्राप्तीच्छया एव धरणेन्द्रपण्डितस्य अनुजस्य आदिराजपण्डितस्य पुत्री ज्वालामालिनी तेन परिणीता । पूर्वजानां सम्पत्तिभूतान् ताडग्रन्थादीन् सङ्गृह्णन् सः ‘ललितनेमिसरस्वतीभवनं’ स्थापितवान् । एवं भूवलयग्रन्थः एल्लप्पशास्त्रिवर्येण प्राप्तः । सः तस्य ग्रन्थस्य साङ्केतिकतायाः अवगमने प्रयासम् अकरोत्। १९३५ तमे वर्षे कलमङ्गलं श्रीकण्ठय्यः एल्लप्पशास्त्रिणः सम्पर्कं प्राप्तवान् । ततः उभौ अपि तस्य ग्रन्थस्य रहस्यं ज्ञातुं प्रयासम् आरब्धवन्तौ । स्वप्रयत्नम् अनुवत्र्य तौ अङ्करूपं ग्रन्थम्। अक्षररूपेण परिवत्र्य ग्रन्थस्थानि बहूनि रहस्यानि प्रकाशितवन्तौ । ततः श्रीकण्ठय्यवर्यस्य सम्पादकत्वे अस्य ग्रन्थस्य २० अध्यायाः १९५३ तमे वर्षे प्रकाशिताः अभवन् । एवम् ऐदम्प्राथम्येन सः ग्रन्थः अक्षररूपेण प्राप्तः अभवत् सारस्वतलोकेन । ततः अग्रिमाः १ ३ अध्यायाः १ ९५५ तमे वर्षे प्रकाशिताः जाताः । (३४ तः ५९ अध्यायपर्यन्तः भागः एषु वर्षेषु सुधार्थिवर्येण प्रकाशितः । एतस्मात् ५९ अध्यायाः उपलभ्यन्ते अद्यत्वे । तदनन्तरीयाः अध्यायाः कापि न लभ्यन्ते ।) एल्लप्पशास्त्रिणः जीवितकाले एव मान्येन राष्ट्रपतिना बाबुराजेन्द्रप्रसादवर्येण एतस्य अपूर्वस्य ग्रन्थस्य सत्ता ज्ञाता । ततः प्रभावितः सः दैवरातवर्यस्य सूचनां पुरस्कृत्य ‘मैक्रोफिलम्’रूपेण अस्य संरक्षणार्थ व्यवस्थाम् अकरोत् । अद्यापि देहल्यां राष्ट्रियपत्रागारविभागे तत् संरक्षितम् अस्ति । सुन्दरैः अक्षरैः हस्तेन लिखिता (अमुद्रिता) प्रतिकृतिः अपि तत्र संरक्षिता अस्ति। राष्ट्रपते: बाबुराजेन्द्रप्रसादवर्यस्य आदेशस्य अनुगुणम् एल्लप्पशास्त्रिवर्योण। ग्रन्थस्यास्य हिन्दीरूपस्य प्रकाशनाय अपि प्रयासः कृतः । तत् कार्यं देहल्यां प्राचलत् । तदर्थम् असकृत् देहली प्रति गमनागमनम् अकरोत् एल्लप्पशास्त्रिमहोदयः । एतत्कार्यार्थं गतः सः १९५७ तमे वर्षे देहल्यामेव प्राणवियोगं प्राप्तवान् । कलमङ्गलं श्रीकण्ठय्यः अपि १९६५ तमे वर्षे दिवङ्गतः । अग्रे तत् कार्यं श्री अनन्तसुब्बरावः अन्ववर्तयत् आजीवितान्तम् । भूवल्ये संस्कृतम् सिरिभूवलयग्रन्थे आर्षेयसाहित्यम्, भौतरसायनादिमूलविज्ञानम्, रसवाद ज्योतिषादयः, लौह-खगोल-जलविज्ञान-अणुपरमाणुविज्ञानादयः, वैद्य गणितादयः, इतिहास-संस्कृति-धर्म-दर्शनादयः, शास्त्र-सम्प्रदाय-लिपि-भाषाभाषाबन्धादयः चेति बहवो विषयाः निहिताः सन्ति । अष्टादश मुख्यभाषाः, सप्तशतम् उपभाषाः च एतस्मिन् ग्रन्थे सन्ति इति ग्रन्थे उल्लेखः अस्ति । अष्टादश भाषा: यथा – अथवा प्राकृतसंस्कृतमागधपिशाचाचभाषाश्व्र शूरसेनी च । षष्ठोऽत्र भेदो देशविशेषादपभ्रंशः । अथवा कर्णाट-मागध-मालव-लाट-गौड-गुर्जर-प्रत्येकत्रयमित्याष्टादश महाभाषा: । – (५.२) एतासु अष्टादशसु भाषासु नवानां भाषाणाम् अन्वेषणक्रम: द्वितीयखण्डस्य अनुबन्धे किञ्चिन्मात्रेण दर्शितः अस्ति । एतासां विस्तरः कथम् अन्वेष्टव्यः, अन्याः भाषाः कुत्र निहिताः स्युः इति तु न ज्ञायते । सप्तशतं भाषाः काः इत्यपि न ज्ञायते । अतः तासाम् अन्वेषणं तु दूरे एव । (सप्तशतं भाषाः सन्ति इति वचनम् उत्प्रेक्षामयम् उत वास्तविकम् इति निर्णेतुं किमपि प्रमाणं न लभ्यते) अष्टादश महाभाषाः याः सन्ति तासु संस्कृतमपि अन्यतमम् । ‘ओङ्कारं बिन्दुसंयुक्तम्…….’ इति श्लोकः कथं प्राप्तव्यः इति पूर्वं विवृतम् एव । अयं श्लोकः मुद्रिते पुस्तके अपि दश्र्यते । द्वितीयाध्याये ‘अविरलशब्दघनौघप्रक्षालितसकलभूतलमलकलङ्का । मुनिभिरुपासिततीर्था सरस्वती हरतु नो दुरितान् इत्ययं श्लोकः अस्ति इत्यपि पुस्तके दृश्यते । एवमेव प्रथमभागस्य अन्ते अनुबन्धे (द्वितीयखण्डः – श्रुतावतारः इत्यत्र) ‘दिव्याः गीः दिव्या अमानुषी गीर्वाणी यस्य स दिव्यगीः । दिव्यध्वनिः दिव्यो मानुषो ध्वनिः ।’ इति वाक्यं प्रदर्शितं दृश्यते । एवं त्रीणि स्थलानि अतिरिच्य ग्रन्थेऽस्मिन् प्राप्यमाणस्य संस्कृतसाहित्यस्य स्वरूपं न विवृतम् । ग्रन्थविषये ये लेखाः प्राप्यन्ते तेषु एतादृशं साहित्यम् अधिकृत्य विवरणवाक्यं दृश्यते । किन्तु कापि आनुपूर्वी न प्रदर्शिता । (सुधार्थिवयेंण ‘सिरिभूवलयसारः’ इत्यस्मिन् ग्रन्थे (कन्नडभाषीये) प्रत्यध्यायं संस्कृतसाहित्यं स्थूलतया सङ्गृहीतम् अद्यत्वे ।) प्रतिपङ्क्ति नक्षत्रचिह्नाङ्कितानाम अक्षराणां चयनं कृत्वा योजनेन प्रत्यध्यायम् एकः श्लोकः लभ्यते इति तु विवृतम् एव । एतदतिरिच्य यत् संस्कृतसाहित्यं स्यात् तस्य अन्वेषणाय तु बहुधा श्रमः करणीयः भवति । कचित् प्रतिपङ्कि अन्तिमाक्षराणि अनुलोमक्रमेण योजितानि चेत् संस्कृतश्लोकः लभ्यते । पुनः कृचित् तानि अक्षराणि विलोमक्रमेण पठनीयानि भवन्ति । कचित्उपान्त्याक्षराणि अनुलोमक्रमेण विलोमक्रमेण वा योजयित्वा संस्कृतश्लोकाः प्राप्तु शक्याः । क्कचित् पङ्कौ निवेशितयोः बिन्द्वोः मध्ये (.—- .) यानि अक्षराणि स्युः तानि अनुलोमक्रमेण विलोमक्रमेण वा योजयित्वा संस्कृतश्लोकाः प्राप्तव्याः । ग्रन्थे ‘साङ्गत्य’ छन्दोबध्दानां पङ्क्तिनां मध्ये ‘खण्डपद्य’ नाम्ना लध्वाकारकाः पङ्क्तयः लभ्यन्ते । केषुचित् प्रसङ्ग्रेषु अत्रत्यानि अन्तिमाक्षराणि, उपान्त्याक्षराणि वा पठनावसरे आदर्तव्यानि भवन्ति अनुलोमक्रमेण विलोमक्रमेण वा । पुनः क्कचित् तानि त्यक्तव्यानि भवन्ति । कञ्चित् अक्षराणि असंयुक्ततया मुद्रयन्ते । तत्रापि कञ्चित् संस्कृतश्लोकाः उपलभ्यन्ते । एवम् अन्वेषणप्रकाराः बहवः । एते सर्वे प्रकाराः कापि न निर्दिष्टाः । अनुभवबलात् एते प्रकाराः अवगन्तव्याः । इदानी ये प्रकाराः अभिज्ञाताः तान् अवलम्ब्य ७००-८०० श्लोकाः (कञ्चित् पादद्वयात्मकाः, कञ्चित् पादचतुष्टयात्मकाः च) प्राप्ताः । एतदतिरिच्यापि संस्कृतसाहित्यं स्यात् एव एतस्मिन् ग्रन्थे । अश्वगत्यादीन् अवलम्ब्य श्लोकाः प्राप्तुं शक्याः इति केचन वदन्ति । कस्मिन् अध्याये कस्मिन् भागे सः च क्रमः अन्वेष्टव्य: इति तु अनुसन्धेयम्। एतावता ये ७०० – ८०० श्लोकाः प्राप्ताः तेषु प्राधान्येन भागद्वयं – भगवद्भीतासम्बद्धाः, जिनस्तोत्रादिसम्बद्धाः चेति । गीताश्लोकाः ‘जयाख्य’ग्रन्थात् स्वीकृताः इति वदति ग्रन्थकारः ‘व्यासमुनीन्द्रोपदिष्टजयाख्यानान्तर्गतगीता’ (२२.९) इति । अतः महाभारतस्था भगवद्गीता या अद्य उपलभ्यते, तत्र यावन्तः श्लोकाः स्युः तावन्तः न उपलभ्यन्ते अत्र । तत्रत्यात् पाठात् किञ्चित् भिन्नः पाठः अपि उपलभ्यन्ते कञ्चित् अस्मिन् ग्रन्थे । उदाहरण यथा– -यज्ञानां जपयज्ञोऽस्मि स्थावराणां नरोत्तमः । – (भूवलयस्था गीता- ३०.४) -यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः । – (महाभारतस्था गीता – १२.२५) जिनस्तुतेः उदाहरणं यथा – जिनेश्वर न ते मत पटकवस्त्रपात्रग्रहो विमृश्य सुखकारणं स्वयमशक्तकैः कल्पितः । अथायमपि सत्पथस्तव भवेत् वृथा नग्नता न हस्तसुलभे फले सति तरुः समारुह्यते । -(२६.६) विशिष्टस्य अस्य ग्रन्थस्य परिचयमात्रम् अनेन लेखेन उद्दिष्टम् इत्यतः ग्रन्थेऽस्मिन् प्राप्यमाणस्य संस्कृतसाहित्यस्य विस्तरः अत्र न उपस्थाप्यते । एकं तु स्पष्टं यत् ग्रन्थेऽस्मिन् संस्कृतसाहित्यं विपुलतया अस्ति इति यत् उच्यते तत् न मिथ्या इति । एतस्य आधारेण वयं वक्तुं शक्नुयाम यत् ग्रन्थेऽस्मिन् सन्ति इति निर्दिश्यमानाः अन्ये विषयाः (अन्यभाषासम्बद्धं साहित्यं, विज्ञानादिकं वा) अपि अत्र अवश्यमेव निहिताः स्युः इति । तत्तद्भाषाज्ञैः तद्भाषासम्बद्धं साहित्यम् अन्वेष्टुं प्रयासः करणीयः । एवमेव तत्तद्विषयविशेषज्ञैः स्वविषयसम्बद्धस्य साहित्यस्य अन्वेषणाय प्रयासः विधेयः । तदा एव अस्य ग्रन्थस्य स्थूलस्वरूपं वा स्पष्ट भवेत्। ग्रन्थस्य अङ्कात्मकता, लिप्यात्मकतया परिवर्तिते अपि ग्रन्थे कः विषयः कुत्र अस्ति इति निर्देशाभावः, विविधसाहित्यस्य अन्वेषणे क्रमस्य कापि विस्तरेण अनिर्देशः इत्यादीना कारणतः अस्य ग्रन्थस्य अध्ययने प्रवृत्ताः तु विरलाः एव । ये आसक्त्या प्रवृत्ताः भवेयुः तेऽपि अन्यासां भाषाणां, विविधानां विज्ञानविषयाणां वा ज्ञानवन्तः न भवन्ति इत्यतः परिमितक्षेत्रमात्रे तेषां परिश्रमः भवितुम् अर्हति । अतः बहुभिः विषयज्ञैः बहुधा प्रयासाः क्रियेरन् चेदेव ग्रन्थस्थस्य साहित्यस्य स्वरूपम् अवगतं भवेत्। महापरिश्रमसापेक्षस्य अस्य ग्रन्थस्य पठनात् किं फलम् इति पृच्छन्ति केचन । दुरारोहस्य पर्वतस्य आरोहणात्, गभीरस्य सागरस्य नद्याः वा तलस्य स्पर्शात्, भित्तेः आरोहणात्, अरण्यानीषु भ्रमणात्, विविधवस्तूनां सङ्ग्रहात्, अनाथपशुपक्षिपालनात्, एतादृशात् अन्यविधात् प्रयत्नात् वा यत् फलं प्राप्येत तदेव फलम् अस्यापि । एतादृशेषु कार्येषु प्रवर्तनात् यः आत्मानन्दः प्राप्यते, ततः तेषु प्रवृत्तानां प्रेरणा वर्धते । अस्यापि ग्रन्थस्य पठनस्य फलम् आत्मानन्दः एव । एतादृशाः ‘आत्मानन्द’ प्रियाः जनाः विरलतया प्राप्यन्ते इत्यतः ग्रन्थस्यास्य अध्ययने प्रवृत्तिः अपि विरला एव दृश्यते । अत्रत्यस्य ज्ञानस्य प्रकाशनाय अपेक्ष्यन्ते बहवः ‘आत्मानन्द’प्रियाः । किं भवत्सु तादृशी प्रवृत्तिः स्यात् ? किं भवत्सु कोऽपि गणितविज्ञानादिसम्बद्धं स्वमातृभाषासम्बद्धं वा साहित्यम् अन्वेष्टुं प्रयासं विदध्यात् ?