केरलेषु इन्धनमावश्यकं चेत् शिरस्त्राणं धार्यम्
तिरुवनन्तपुरम् >
केरलेषु आगस्त् १ तः द्विचक्रिकायात्रिकेभ्यः इन्धनम् आवश्यकं चेत् तैः शिरस्त्राणम् अवश्यं धार्यम् इति गतागताधिकारिणः विज्ञापनम्। परीक्षणाधारेण तिरुवनन्तपुरम्, कोच्ची, कोषिक्कोट् नगरसभापरिधावेव नियमस्य प्राबल्यम्। नियमोऽयं द्विचक्रिकायात्रिकैः अङ्गीकृतः चेदपि कैश्चित् मण्डलेभ्य: विरोधोऽपि आगत:। नियमोऽयं अप्रायोगिक: चेत् परिष्करिष्यतीति गतागतसचिवेन ए के शशीन्द्रन् महोदयेन सूचितम्।