चित्रकलाचार्यः के जि सुब्रह्मण्यः दिवंगतः
वडोदरा >
आधुनिक भारतीय चित्रकलायाः आचार्येषु अन्यतमः के जि सुब्रह्मण्यः दिवंगतः। के जि एस् इति विख्यातः सः भारतपारम्पर्यम् अनुतिष्ठन् चित्रकलानवीकरणाय प्रयत्नमावहति स्म।
१९२४तमे संवत्सरे केरले कण्णूर् जनपदे लब्धजन्मायं वंगदेशे टागोर् वर्यस्य शान्तिनिकेतनादेव चित्रकलाभ्यासं कृतवान्। १९५१ तमे गुजरात् प्राप्य बरोडायां एम् एस् विश्वविद्यालये अध्यापक अभवत्। १९८० तमे अध्यापकवृत्तित्वेन शान्तिनिकेतनं प्रत्यागतवान्। अन्त्यकाले बरोडायामेवासीत् तस्य वासः।
पद्मश्री पद्मभूषणं पद्मविभूषणं च दत्वा राष्ट्रेण आदुतः। अपि च कालिदास पुरस्कारः रविवर्मा पुरस्कारः ललितकला अक्कादम्याः विविधाः पुरस्काराः वंगमहाराष्ट्रसर्वकारयोः पुरस्काराश्च तं प्राप्तवन्तः। विदेशेषु विश्वविद्यालयेषु श्रेष्ठाचार्यपदवीं च ऊढवान्।