केरळराज्यस्य संसदङ्गः (MLA) वी.टी बलरामस्य संस्कृतभाषाविरुद्ध-भाषणे आभारतं जनाः प्रतिषेधं प्रदर्शितवन्तः।
मृतभाषा इति ‘फेस् बुक्’ माध्यमद्वारा संस्कृतभाषाम् अधिकृत्य अनाधारारोपं प्रकाशितवान् बलरामः ।
भारत-संविधानेन अङ्गीकृतासु अष्टादशभाषासु प्राचीनतमं भवति संस्कृतम्। इदानीमपि सर्वेषां भारतीयभाषाणां पोषकाधारा च। एतादृशीं भाषाम् अपक्वमनसा उपहासं कुर्वतः अस्य, जनप्रतिनिधेः स्थानमार्जयित्वा कृतव्यवहारः निन्द्यः एव। राष्ट्रिय-मानबिन्दवः सदा समादरणीयाः खलु। एतस्य अपक्वाभिमत-प्रकाशनं विरुद्ध्य सर्वेषां विप्रतिपत्तयः प्रकाशयन्ताम् इति केरळ संस्कृताध्यापक फेडरेषन् दलस्य सचिवः टि.के सन्तोष्कुमारः अवदत् ।