परिचयः
संस्कृतसाहित्ये विशालं नाट्यसाहित्यं प्राप्यते । नाट्यं नाम मानवस्य विभिन्नावस्थानाम् अनुकरणम् । दृश्यकाव्यत्वात् नाट्याचार्यैः नाट्यं रूपकमिति अपि उच्यते । नाट्याचार्यैः नाट्यस्य दशभेदाः उक्ताः, तत्र नाटकं सर्वेभ्यः आकर्षकम् आसीत् । अतः वर्त्तमाने नाटकशब्दः नाट्यस्य सर्वेषामपि भेदानां पर्यायभूतः जातः । संस्कृतभाषया लिखितानां नाटकानां परम्परा अतीव प्राचीना वर्त्तते । लेखनेन सहैव नाटकानाम् अभिनयः अपि पुरातने समये विशिष्टेषु अवसरेषु नृपाणां राजसभासु नाटकानां अभिनयः जातः इति इतिहासग्रन्थेषु अपि उपलभ्यते । वर्त्तमाने न तथा अधिकं संस्कृतनाटकमञ्चनस्य प्रचलनम्, लोकभाषापदत्वात् संस्कृतस्य च्युतिकारणात् तथापि संस्कृताभिमानिभिः यत्र तत्र अभिमञ्चनं कार्यते क्रियते च । संस्कृतनाटकानां मूले तु भरतमुनिना कृतं नाट्यशास्त्रमेव । तथापि वर्त्तमाने द्विविधानि नाटकानि वर्त्तन्ते एके तु नाट्यशास्त्रोक्त शैल्यालिखितानि अपरे अत्याधुनिकरीत्या लिखितानि । एवं प्रकारेण वर्त्तमाने अनेकविधानि संस्कृतनाटकानि श्रूयन्ते दृष्टीपथञ्च आयान्ति । यदि नाटकानां विभाजनं करणीयं स्यात् तर्हि बालनाटकानि, युवनाटकानि, प्रौढनाटकानि इतिकृत्वा अपि कर्त्तुं शक्यते । अत्र एवमेव विभागेषु विभज्य अधिकाधिकनाटकानि उपलब्धाः भवेयुः इति यतामहे ।