ललितासहस्रनामस्तोत्रम् (पुरुषस्वरेण)
सिन्दूरारुण विग्रहां त्रिनयनां माणिक्य मौलि स्फुरत्
तारा नायक शेखरां स्मित मुखीम् आपीन वक्षोरुहाम् ।
पाणिभ्याम् अलिपूर्ण रत्न चषकं रक्तोत्पलं विभ्रतीं
सौम्यां रत्न घटस्थ रक्त चरणां ध्यायेत् परामम्बिकाम् ॥
अरुणां करुणा तरङ्गितक्षीं
धृत पाशाङ्कुश पुष्प बाण चापाम् ।
अणिमादि भिरावृतां मयुखैः
अहमित्येव विभावये भवानीम् ॥
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कार युक्तां सततं अभयदां भक्तनम्रां भवानीं
श्री विद्यां शान्त मूर्तिं सकल सुरनुतां सर्व सम्पत् प्रदात्रीम् ॥
सकुङ्कुम विलेपना मलिकचुम्बि कस्तूरिकां
समन्द हसितेक्षणां सशर चाप पाशाङ्कुशाम् ।
क़शेषजन मोहिनीं अरुण माल्य भूषाम्बरां
जपाकुसुम भासुरां जपविधौ स्मरेदम्बिकाम् ॥

ललितासहस्रनामस्तोत्रम् (भाग-1/4) (पुरुषस्वरेण)
अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com