चरित्रम् चरित्रकारसृष्टम् किम्?चरित्रम् चरित्रकारसृष्टम् किम्?
नवदेल्ली> स्वस्वभावनानुसारं चरित्रयाथातथ्यानां विपरीतं कृत्वा प्रकाशनम् इतः पूर्वमेव बहुधा दृष्टं वर्तते। एतस्य नूतनम् उदाहरणं भवति ‘इन्द्यास् स्ट्रगल् फोर् इन्डिपेन्डन्स्’ इति नामकं पुस्तकम्। पुस्तकमेतत् देल्ली विश्ववविद्यालयस्य छात्रैः उपयुज्यमानम् अनुबन्धपुस्तकं भवति। पुस्तकमेतत् चरित-प्रसिद्धाय भगत् सिंहाय आतङ्गवादिनः मुखं ददाति। भारतस्य ‘यथार्थ: विप्लवनायकः’ इति आङ्गलकारै: अपि प्रकीर्तितं भगत्सिंहम् आतङ्गवादिनम् इव चित्रीकुरुतः चरित्रकारौ मृदुला मुखर्जी, बिपिन्चन्द्रः च। न केवलं भगत्सिंहः अपि च चन्द्रशेखर् आसाद:, सूर्यासेन् इत्यादयः स्वातन्त्र्यसमरनायकाः च पुस्तकेऽस्मिन् आतङ्गवादिरूपेण परामृष्टाः सन्ति। विवादात्मकेऽस्मिन् विषये भगत् सिंहस्य बान्धवाः देल्ली विश्वविद्यालयस्य अधिकृतेभ्यः तथा मानव-विभवशेषि-मन्त्रालयाय च निवेदनं समर्पिताः आसन्। तेषाम् अभ्यर्थनां परिगण्य पुस्तकमेतत् पाठ्यपद्धतेः निष्कासयितुं मानवविभवशेषिमन्त्रालय: विश्वविद्यालयं न्यवेदयत्।