संस्कृतेन जन्मदिनाभिनन्दनसन्देशः
नरेन्द्रमोदिवर्यस्य सप्तषष्ठितमं (६७)जन्मदिनावसरं निमित्तीकृत्य असङ्ख्याः जना: शुभाशयं प्रेषितवन्तः ।
राष्ट्रनायकस्य अभिनन्दनाय जनाः अहमहमिकया प्रवर्तन्ते इत्यत्र नास्ति आश्चर्यम् । अद्यत्वे तु ‘ट्वीट्’ प्रभृतयः व्यवस्थाः सन्ति इत्यतः क्षणमात्रेण सन्देशः प्रेषयितुं शक्यः ।
प्रधान-मन्त्रिणे यः अभिनन्दनसन्देशः प्रेष्यते तस्य प्रत्युत्तरम् अपि प्राप्यते वैयक्तिकतया इत्यतः लक्षशः जनाः अभिनन्दनसन्देशं प्रेषयन्ति।
किन्तु विशिष्टः सन्देशः प्रेषितः आसीत् – ‘एपल्’ संस्थायाः कार्यनिर्वाहकमुख्येन (सि.इ.ओ.) टिम्कुक्क्वर्येण । सः आसीत् संस्कृतेन !! ‘वसुधैव कुटुम्बकम्’ इति आसीत् सन्देशवाक्यम्।
नरेन्द्रमोदिवर्यस्य संस्कृतप्रियतां दृष्ट्वा कुक्वर्येण संस्कृतम् एव अवलम्ब्य सन्देशः प्रेषितः ।

