संस्कृतस्य पाण्डुलिपयः संस्कृतस्य हस्तलिखितरचनानां (पाण्डुलिपीनां) संग्रहः संरक्षणञ्च भारतीयज्ञानस्य अतिप्राचीनपरम्परायाः ज्ञानं पाण्डुलिपिद्वारा एव भवति । वास्तविकतया पाण्डुलिपीनाम् इतिहासम् एव ज्ञानजीवीभारतस्य आत्मकथा वर्तते । मनुष्यः यदा निजविचारेभ्यः वाणीं दत्तवान् तदैव लेखन-कलायाः अभ्युदयः अभवत् । तस्मिन् आदिमे युगे लेखनस्य यानि साधनानि आसन् तानि अद्यतनदृष्ट्या सर्वथा भिन्नानि विचित्राणि आसन् । एताः रचनाः श्रुतौ कण्ठे च लिखिताः । अर्थात् एकस्या वाण्या द्वितीयस्य श्रुतिपर्यन्तम् द्वितीयस्य वाण्या तृतीयस्य श्रुतिः स्मृतिः पर्यन्तम् प्राप्ताः । एतया दृष्ट्या सम्पूर्णं पुरातनं ज्ञानं श्रुतिजीवी स्मृति-संरक्षकः च आसीत् । ज्ञानविचारणायाः एतस्याः परम्परायाः अभ्युदयः अरण्येषु अधिष्ठितानाम् ऋषिमुनीनां पवित्रेभ्यः आश्रमेभ्यः जातम् । यथा-2 मनुष्यस्य मेधायाः स्मृतेश्च ह्रासः जातः तथा-तथा ज्ञानस्य विपुलपरम्परां रक्षितुं पुरातनेषु माध्यमेषु अपि परिवर्तनं जातम् । तस्मिन् युगे ज्ञानस्य लिपिबद्धकरणं धर्मनिमित्तं नासीत् । परञ्च ज्ञानस्य रक्षणाय विवशं भूत्वा लिपिबद्धं भोजपत्रेषु , ताड़पत्रेषु , ताम्रपत्रेषु , मृत्तिकापत्रेषु वृक्षाणां (छाल) त्वक्सु च कृतम् । पाण्डुलिपयः भोजपत्रेषु , ताड़पत्रेषु , ताम्रपत्रेषु . मृत्तिकापत्रेषु वृक्षाणां त्वक्सु लिखिताः प्राप्यन्ते । ताड़पत्रस्य पाण्डुलिपयः स्योलमुखीलेखनीद्वारा लौहलेखनीद्वारा लिखिताः सन्ति । भोजपत्रेषु लिखिताः पाण्डुलिपयः तालपत्रेषु लिखितानां पाण्डुलिपीनाम् अपेक्षया न्यूनाः सन्ति । अद्यत्वे अधिकाः पाण्डुलिपयः माँडपमेषु अर्थात् हस्तनिर्मित कागदेषु लिखिताः प्राप्यन्ते । भारतवर्षे हस्तलिखितकागदेषु पाण्डुलिपयः प्रायशः अष्ट्म्यां दशम्यां वा शताब्द्यां रचिताः । विदेशेषु (चीन , जापान , जर्मनी , ब्रिटेन) अपि अस्माकं भारतीयानां लिखितानां पाण्डुग्रन्थानां भूयांसि संख्या वर्तते । 1784 ई० मध्ये पाण्डुलिपीनाम् अन्वेषणं कर्तुम् एशियाटिकसोसाइटी इत्यस्य स्थापना जाता । रायल-एशियाटिक-सोसाइटी इत्यस्य संस्थायाः ग्रन्थसंग्रहस्य प्रथमसूची 1807 ई0शताब्दे लन्दनस्थानात् प्रकाशिता , यां सूचीं सर-विलियम-जोन्सः लेडी-जोन्सः च रचितवन्तौ । संस्कृतस्य मर्मज्ञः विद्वान् हेनरी-टामस-कोलब्रुकः (1765-1837 ई०) अभिरुचीत्वात् 1807 ई० मध्ये एशियाटिक-सोसायटी आफ-बंगालस्य सभापत्यौ नियुक्ते सति सहस्रशः भारतीय-पाण्डुपलिपीनां रक्षां कृतवान् । रायल-एशियाटिक-सोसायटी-आफ-बङ्गालेन प्रथमसप्तभागानां सम्पादनं 1816-1934 ई० मध्ये विभिन्नानां विदुषां साहाय्येन कृतं, येषु पं० हरप्रसादशास्त्रिमहोदयस्य मुख्यकार्यमासीद् । अष्टमं सम्पादनं 1939-1940 ई० मध्ये चिन्ताहरणचक्रवर्तिमहोदयेन दशमं सम्पादनं 1945 मध्ये श्री चन्द्रसेनगुप्तेन च कृतम् । डॉ० बूलरमहोदयेन (1837-1898 ई०) पेरिस-आक्सफोर्ड-लन्दनादिबृहद्-भारतीयानां पाण्डुलिपीनां सङ्ग्रहाणाम् अध्ययनं कृत्वा मैक्समूलरमहोदयस्य प्रेरणया भारतम् आगत्य शिक्षाविभागमुम्बयी- मध्ये सर्वकारपक्षतः संस्कृतस्य पण्डितानां हितार्थं सर्वप्रथमं ‘मुम्बयी-संस्कृत-सीरीज ’ नामकग्रन्थमाला प्रकाशिता । 1866 ई० मध्ये सर्वकारपक्षतः बङ्गाले मुम्बयीमध्ये मद्रासेच-शोधसंस्थानानि स्थापितानि । डॉ० वूलर-महोदयः मुम्बयीशोदरुस्याः तस्याः बूलरमहोदयेन स्वकीये कार्यकाले प्रायशः 2300 महत्त्वपूर्ण-पाण्डुलिपीनाम् अन्वेषणं कृतम् । यासु पाण्डुलिपिसु काश्चिद् बर्लिनविश्वविद्यालयस्य ‘शेष-इण्डिया-आफिस ’ स्थाने सुरक्षिताः सन्ति । डॉ० वेबरः (1825-1901) बर्लिनस्य राजकीयपुस्तकालये संग्रहितानां पाण्डुलिपीनाम् एकं बृहत् सूचीग्रन्थं निर्मितवान् । डॉ० बूलरमहोदयेन बर्लिनपुस्तकालयं प्रेषिताः 500 जैनपाण्डुलिपीनाम् अनुशीलनं कृत्वा डॉ० वेबरः जैनसाहित्यस्य अन्वेषणात्मकं वर्णनं कृतवान् । ब्रिटिशसर्वकारेण 1886 ई० मध्ये संस्कृस्य पाण्डुलिपीनाम् अन्वेषणार्थम् एकस्य प्रथमविभागस्य स्थापना कृता । अस्मिन् एव वर्षे हिटली-स्टोक्स-महोदयेन 2500 रूप्यकाणां निधिः पाण्डुलिपीनाम् अन्वेषणाय स्थापिता । एषः स्टोक्स-महोदयः तस्मिन् समये भारतीय-काउन्सिल इति संस्थायाः मन्त्रिपदे आसीत् । सर्वप्रथमं 1870 ई० मध्ये ए० सी० बर्नेलमहोदयः इण्डिय-ऑफिस-लन्दनस्य संग्रहे सुरक्षितसंस्कृतग्रन्थानां सूच्याः सम्पादनं कृत्वा मुद्रणं कारितवान् । तदनन्तरं द्वयोः भागयोः (लन्दन1887-1896) जूलियस-एगलिंगस्य सूचयः तदन्तरं कीथस्य थोम्सस्य च सूचयः (लन्दन 1935) अन्ते च ओल्डेन वर्गस्य सूचयः प्रकाशिताः । इण्डिया-ऑफिस-लन्दने अद्यापि अस्मिन् क्षेत्रे कार्यं भवति । 1971-1990 ई० मध्ये एकादशखण्डेषु ‘नोटिसेज-आप-मैन्युस्क्रिप्ट्स ’ नाम्ना विवरणानि प्रकाशितानि । सम्भवतः प्रथमनवखण्डानां सम्पादनं राजेन्द्रलालमित्रा कृतवान् , दशमस्य एकादशस्य च खण्डस्य सम्पादनं हरप्रसादशास्त्रिमहोदयः कृतवान् । एफ० कीलहार्नमहोदयेन मध्यभारतस्य संस्कृतग्रन्थानां सूचीं(1874 ई०) नागपुरात् प्रकाशयित्वा महत्त्वपूर्णं कार्यं कृतम् ।। तंजोरस्य राजकीय-सरस्वतीमहले संप्रति 25000 संस्कृतपाण्डुलिपयः सुरक्षिताः सन्ति । संस्कृतग्रन्थानाम् एकं विवरणं पं० काशीनाथकुन्ते-महोदयेन (1880-1889) सङ्ग्रहीतम् । ब्रिटिशम्यूजियम् लन्दनद्वारा ग्रन्थानां बृहद्सूची 1883 मध्ये प्रकाशिता तथैव 1883 ई० मध्ये जोसिल-बेडालेनराइसडेविड्स-महोदयेन च कैब्रिज यूनिवर्सिटी लाइब्रेरी इत्यस्य संस्कृत-पालिभाषाणां ग्रन्थानां सूचीं प्रकाशितवन्तौ । मद्रासस्य गवर्नमैण्ट-ओरियन्टल-मैन्युस्क्रिप्ट-लाइब्रेरीद्वारा प्रथमा सूची 1893 ई० प्रकाशिता । सरस्वती-भवन-पुस्तकालय-वाराणस्यां सम्प्रति प्रायशः सपादलक्षसंस्कृतस्य पाण्डुलिपयः संगृहीताः सन्ति । तासु 1791-1950 पर्यन्तं 16000 ग्रन्थानां सूचयः 1953-1958 पर्यन्तं प्रकाशिताः सन्ति । 1.भारते संस्कृतस्य पाण्डुलिपयः