संस्कृतपाठ्यक्रमः
आधुनिकपद्धत्यां सर्वं पूर्वमेव निश्चितं भवति । ये महाविद्यालयाः अथवा विश्वविद्यालयाः आधुनिकशिक्षा -पद्धतिम् अनुसरन्ति, तेषां पाठ्यक्रमः निश्चितः भवति । संस्कृते जगति कति महाविद्यालयाः कति विश्वविद्यालयाः सन्ति । तेषां ज्ञानं नास्ति एव । एवं यदि ज्ञानं भवेत् अपि तर्हि तेषां विषये परिचयः नास्ति, वर्तमानकाले सर्वेषां विषयाणाम् अध्ययनं वा कर्तुं छात्राः महाविद्यालयेषु एवं विश्वविद्यालयेषु प्रवेशमिच्छन्ति । एवं पूर्वं तेषां विषये परिचयः आवश्यकः एवं सरलतमं साधनं तु अन्तर्जालं परन्तु संस्कृतजगति एका समस्या आयाति अन्तर्जाले संस्कृत- विश्वविद्यालयानाम् एव विश्वविद्यालये संस्कृतविभागानां पाठ्यक्रमः सर्वत्र न प्राप्यते, अवधानं यतोहि अस्मिन् विषये केनापि न कृतम् । अस्मिन् पुटके अस्माभिः बहूनां विश्वविद्यालयानां पाठ्यक्रमः स्थापितः । येन छात्राणां लाभः भवेत् । अतः पाठ्यक्रमः एवम् अस्ति ।