संस्कृतप्रतियोगिपरीक्षा
वर्तमानसमयः प्रतियोगिसमयः । सर्वेषु राज्येषु सर्वेषां विषयाणां परीक्षाः स्वीक्रियन्ते । संस्कृतस्य अपेक्षया आधुनिकविषयाणां प्रतियोगिपरीक्षाणां सूचना अन्तर्जाले एवं च जालपत्रेषु अधिका भवति । अन्येषां विषयाणां सदृशं संस्कृत- विषये अपि बहव्यः प्रतियोगिपरीक्षाः सर्वत्र आयोज्यन्ते । परन्तु अन्येषां विषयाणाम् अपेक्षया संस्कृतजगति अधुना यावत् जालपत्रेषु अथवा अन्तर्जाले एषा सुविधा उपलब्धा नास्ति । प्रतियोगिपरीक्षाविषये अस्मिन् परीक्षाविषये सर्वं स्थापनस्य प्रयासः कृतःअस्ति । अस्मिन् समये वृत्तेः अवसराः न्यूनाः । एवं च ये अवसराः अपरिचयकारणेन न लभन्ते चेत् महति हानिः । संस्कृतक्षेत्रे अधुना यावत् एषा सुविधा न अस्ति । भारतस्य कस्मिन् कोणे काऽपि प्रतियोगिपरीक्षा आयोज्यते अस्य ज्ञानकरणमत्यधिकं कठिनं विद्यते । जालपत्रे भारते कस्मिन् कोणे का परीक्षा आयोज्यते अस्य विषये सरलतापूर्वकं ज्ञातुं शक्यते इतोऽपि प्रतियोगितायाः सिद्धताविषये अपि परामर्श अत्र प्रयोज्यन्ते । प्रतियोगिता- परीक्षायाः दिनाङ्कः कदा भविष्यति कुत्र भविष्यति अस्मिन् विषये अपि पुटके सर्वमस्माभिः स्थापनस्य प्रयासः कृतः ।
अस्मिन् sanskritvishvam.com जालपत्रे संस्कृतप्रतियोगितापरीक्षा इति महत्त्वपूर्णस्य स्तम्भस्य सम्पोषकः श्री डॉ० दिनेशभारद्वाजः अस्ति ।