कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः
रामटेकम् ,नागपुरम् (महाराष्ट्रम्)
स्थापना- ‘भारतस्य प्रतिष्ठे द्वे संस्कृतं
संस्कृतिस्तथा’ इति इमाम् आर्योक्तिं सार्थकीकुर्वता महाराष्ट्रराज्यशासनेन 1997 तमे वर्षे महाराष्ट्रस्य नागपुरजिल्लायाः रामटेकनामके ऐतिहासिके सांस्कृतिके च प्रदेशे कविकुलगुरु-कालिदास-संस्कृत-विश्वविद्यालयः स्थापितः अभवत्। न केवलं महाराष्ट्रे अपि तु संपूर्णभारतवर्षे संस्कृतभाषायाः विज्ञानस्य च प्रचारप्रसारौ अस्य विश्वविद्यालयस्य लक्ष्यीभूतौ। महाकविकालिदासस्य अनुपमकृतेः मेघसंदेशस्य रचनास्थानं खलु रामटेकनगरम्।
अत्र नगरे तन्नाम्ना विश्वविद्यालयस्य स्थापना समुचिता एव। महामहिम्नां श्रीमतां मनोहरजोशीमहोदयानां दृढप्रयत्नेन एषः विश्वविद्यालयः स्थापितः अभवत्। इदानीं ते राज्यसभायाः अध्यक्षाः सन्ति । अस्य विश्वविद्यालयस्य स्थापने मान्यानां पूर्वप्रधानमन्त्रिणां श्रीमतां पी0 वी0 नरसिंहरावमहोदयानाम्, पूर्वविधायकानां मान्यानां डा0 श्रीकान्तजिचकारमहोदयानां च महत्तरं योगदानं वर्तते ।
अस्य संस्कृतविश्वविद्यालयस्य प्रथमकुलगुरुरूपेण माननीयाः डा0 पङ्कजचान्दमहोदयाः महाराष्ट्रराज्यपालैः नियुक्ताः । ते पञ्चवर्षीयात्मकं प्रथमं कार्यकालं समर्थतया निरुह्य स्वकार्यसामर्थ्यस्यकारणेन पुनः पञ्चवर्षीयात्मकं द्वितीयं कार्यकालं महाराष्ट्रराज्यपालानाम् आदेशेन प्राप्तवन्तः । संस्कृतभाषायां लोकभाषायां विधातुं ते बद्धकटयः अहर्निशं प्रयतन्ते । डा0 प्रकाशपुराणिकमहोदयाः अस्य विश्वविद्यालयस्य प्रथमकुलसचिवाः आसन् ।
कार्यक्षेत्रं लक्ष्यं च
महाराष्ट्रराज्ये रामटेकनगरे विद्यमानस्य अस्य संस्कृतविश्वविद्यालयस्य कार्यक्षेत्रं सम्पूर्णविश्वमेव । सम्पूर्णभारते विदेशेषु च संस्कृतविज्ञानप्रचारस्य कृते अयं विश्वविद्यालयः अधिकृतः वर्तते । तदर्थं संलग्नताप्रदानाय विश्वविद्यालयाय महाराष्ट्रराज्यशासनेन विशिष्टः अधिकारः प्रदत्तः । सद्यः महाराष्ट्रे षष्टिसंस्थाः अनेन विश्वविद्यालयेन संलग्निताः वर्तन्ते । तासु मुम्बईनगरस्था क0 जे0 सोमैया भारतीयसंस्कृतिपीठम् इतिनाम्नी प्रसिद्धा । महाराष्ट्रस्य च बहिः उपत्रिंशत्संस्थाः अनेन सम्बद्धाः वर्तन्ते । तासु बेलूररामकृष्णमठस्य विवेकानन्दवेदविद्यालयः, गुजरातस्वामिनारायणस्य दर्शनम्-संस्कृतमहाविद्यालयः , अकाडमी –आफ- संस्कृत रिसर्च-मेलकोटे, इत्यादयः प्रसिद्धाः । अमेरिका , इंगलैड, थायलैंड, कनाडा इत्यादिदेशीयाः च अस्मिन् विश्वविद्यालये शोधकार्यस्य कृते प्राप्तप्रवेशाः सन्ति ।
मुखे मुखे संस्कृतं लसतु इति महल्लक्ष्यं पुरतः निधाय अयं विश्वविद्यालयः प्रवर्तते । अत एव अस्य अभ्यासक्रमाः प्रायः जनबाहुल्यं लक्ष्यीकृत्य निर्मिताः । संस्कृतभाषाज्ञानेन सह संस्कृतशास्त्रविज्ञानस्य च अध्ययनम् अस्य विश्वविद्यालयस्य प्रमुखं लक्ष्यम्। न केवलं संस्कृतम् अपितु संस्कृतेन सह सम्बद्धाः भाषाः विषयाश्च अत्र अध्यापयन्ते । तथाहि पालि –प्राकृत-जर्मनभाषाः वास्तु –ज्यौतिष-पर्यावरण-कीर्तनशास्त्र-योगशास्त्रप्रमुखाः विषयाश्च विश्वविद्यालयेन अनेन अध्याप्यन्ते । भारतदेशस्य गर्वहेतुः कोऽपि विषयः न परित्यक्तः । वेदः, उपनिषदः, पुराणानि, भगवद्गीता, भाषा, व्याकरणम्, तत्त्वज्ञानम्, साहित्यम्, काव्यशास्त्रम्, इत्येतैश्च साधितं लक्ष्यम् ।
कामेश्वरसिंहदरभङ्गा-संस्कृतविश्वविद्यालयः
कामेश्वरसिंहदरभङ्गा – संस्कृतमहाविद्यालयः बिहारराज्यस्य दरभङ्गानगरे अवस्थितोऽस्ति। अस्य स्थापना 26-01-1961 तमेसवीये दिनाङ्केsभूत्। अस्य स्थापना दरभङ्गायास्तात्कालिकमहा- राजाधिराजकामेश्वरसिंहद्वारा दानरूपेण प्रदत्त – भूमिभवनादिभिः राज्यसर्वकारेण कृता। अस्यविश्वविद्यालयस्य प्रथमः कुलपतिः म0 म0 डा0 उमेशमिश्रः आसीत्।
विश्वविद्यालयोऽयं नवदिल्लीस्थित–भारतीयविश्वविद्यालयसंघस्य अन्यतमः सदस्यः अस्ति । विश्वविद्यालयोsयं विश्वविद्यालयानुदानायोगेन वित्तसाहाय्यप्रदानाय पञ्जीकृतोsस्ति।विश्वविद्यालयानुदानायोगेन पञ्चमपञ्चवर्षीययोजनाकालतः विकासानुदानम् अस्मै विश्वविद्यालयाय प्रदातुमारब्धम् । दशमपञ्चवर्षीययोजनाकालतः विकासानुदानम् अस्मै विश्वविद्यालयाय द्विकोटिरूप्यकाणि स्वीकृतानि ।
अनेन विश्वविद्यालयेन ये शैक्षणिकोपाधयः प्रदीयन्ते ते सन्ति – (1) उपशास्त्री (2) शास्त्री (सामान्यम्) (3) शास्त्री (प्रतिष्ठा) (4) आचार्यः (5) आयुर्वेदाचार्यः (6) पाल्याचार्यः (7) विद्यावारिधिः (8) विद्यावाचस्पतिः।
स्नातकोत्तरशिक्षणाय, शोधकार्याय च विश्वविद्यालयस्य मुख्यालये व्याकरण-भाषाविज्ञान-साहित्य-ज्योतिष-भेद-दर्शन-धर्मशास्त्र-नाट्यकला- संगीत-इत्येते सप्त स्नातकोत्तरविभागाः कार्यरताः सन्ति ।
अस्य विश्वविद्यालयस्य 31 अङ्गीभूताः , 31 सम्बद्धाः (वित्त- सहिताः) शास्त्रिस्तरीयाः संस्कृतमहाविद्यालयाः, 15 सम्बद्धा उपशास्त्रिस्तरीयाः संस्कृतमहाविद्यालयाश्च सन्ति । अनेन विश्वविद्यालयेन आयुर्वेदीयपरीक्षार्थमपि कतिपयः महाविद्यालयाः सम्बद्धाः सन्ति ।
विश्वविद्यालयेऽस्मिन् एकः समृद्धः पुस्तकालयो वर्तते, यः विश्वविद्यालयानुदानायोगस्य INFLIBNET संस्थया सम्बद्धोऽस्ति । पुस्तकालयेऽस्मिन् लक्षाधिकानि पुस्तकानि , सार्धपञ्चसहस्राधिकाः पाण्डुलिपयश्च विराजन्ते ।
विश्वविद्यालये एकः संग्रहालयोऽपि विद्यते, यस्मिन् दरभङ्गाराज्यस्य महत्त्वपूर्णानि ऐतिहासिकवस्तूनि संगृहीतानि सन्ति ।
विश्वविद्यालयस्य प्रकाशन – विभागेन अद्य यावत् शताधिकानि दुर्लभानि पुस्तकानि प्रकाशितानि । प्रतिवर्षं पञ्चाङ्गस्यापि प्रकाशनं भवति ।
पाण्डुलिपीनां संग्रहे, संरक्षणे, प्रकाशने चापि अयं विश्वविद्यालयः प्रगतिशीलो वर्तते । संस्कृतिमन्त्रणालयस्य नवदिल्लीस्थित- “राष्ट्रियपाण्डुलिपिमिशन ” संस्थया 2003तमे इसवीये वर्षे राष्ट्रे स्वीकृतासु 23 संस्थासु अन्यतमत्वेनास्यापि विश्वविद्यानुदानायोगस्य वित्तसाहाय्येन संस्कृतशिक्षकाणां कृते पुनश्चर्यापाठ्यक्रमः (रिफ्रेशरकोर्स) आयोज्यते ।
विश्वविद्यालयेऽस्मिन् समये – समये राष्ट्रस्तरीयं, राज्यस्तरीयं च सम्मेलनं , विचारगोष्ठी च आयोज्यते । 2002 वर्षे “शब्दशक्ति-विमर्शः ” इति विषयाश्रिता , 2003 वर्षे व “वेदाङ्गविमर्शः
” इति विषयाश्रिता च राष्ट्रस्तरीया विचारगोष्ठी स्मरणीया वर्तते ।
अस्य विश्वविद्यालयस्य छात्राः प्रायः सर्वेषु राष्ट्रियसंस्कृतविद्यापीठेषु शिक्षकरूपेण प्रतिष्ठिताः सन्ति ।
अनेन विश्वविद्यालयेन संस्कृतभाषायाः विकासक्षेत्रे अष्टाध्याय्याः एकः व्याख्यानग्रन्थो निर्मीयते । अस्य ग्रन्थस्योद्देश्यम् एतद्वर्षान्तं यावत् पारम्परिकग्रन्थरूपेण , संगणकयन्त्रे उपयोगाय च सी0 डी0 रोमरूपेण उपलब्धो भविष्यति ।
विश्वविद्यालयस्य स्वामित्वे दरभङ्गानगरे त्रिपञ्चाशदधिकबीघा – परिमितो भूभागः , शताधिकवर्षप्राचीनः ऐतिहासिकः विशालो राजप्रासादः , चत्वारः छात्रावासाः , अतिथिनिवासः, अनेकानि अन्यानि भवनानि च विराजमानानि सन्ति ।
विश्वविद्यालयोऽयं संस्कृतभाषायाः , संस्कृतवाङ्गमयस्य, भारतीय- संस्कृतेश्च प्रचाराय, प्रसाराय च सततं प्रयत्नशीलो वर्तते ।
छत्तीसगढसंस्कृतविद्यामण्डलम्
सर्वासु भाषासु मुख्या मधुरा दिव्या च भाषा अस्ति संस्कृतम्। अस्य प्रभावेणैव भारतदेशोऽयं विश्वेऽस्मिन् प्रतिष्ठितः जातः अस्ति। अस्माकं संस्कृतिः संस्कृतेनैव सामुन्नत्यं प्राप। अद्यतनीने वातावरणे संस्कृतद्वारा वयं स्वात्मानं स्वकुटुम्बं समाजं राष्ट्रं च सुरक्षितं सम्मानितं च स्थापयितुं शक्नुमः। अतः संस्कृतशिक्षणस्य अतीवावश्यकता अस्ति।
छत्तीसगढस्य संस्कृतिः संस्कृतस्य प्रभावेणैव समृद्धा जाता अस्ति। छत्तीसगढस्य सरगुजा इति जनपदस्य रामगढस्य प्राकृतिकसुषमाया अभिभूतः महाकविः कालिदासः विश्वप्रसिद्धं खण्डकाव्यं मेघदूताख्यं रचयामास। रायपुरजनपदस्थितस्य तुरतुरिया इति नामके स्थाने एव आदिकविः महर्षिः वाल्मीकिः निवासमकरोत्। धमतरीजनपदस्य सिहावानामकं स्थानं महामुनेः ऋष्यशृङ्गस्य वासस्थानमासीत्। छत्तीसगढस्य पावनं स्थानं राजिमाख्यं यत्र च प्रतिवर्षं कुम्भमेला आयोज्यते तत्र लोमशर्षेः अश्रमः अस्ति। सर्वस्मात् गौरवस्य विषयः एषः अस्ति यत् छत्तीसगढं भगवतः श्रीरामस्य मातृकुलम् अस्ति इति। छत्तीसगढं ऋषिमुनीनां पावनभूरस्ति। छत्तीसगढीभाषायां संस्कृतमूलशब्दानां प्रयोगः दरीदृश्यते। एवं च छत्तीसगढे संस्कृतस्य …………. अस्ति।
छत्तीसगढे संस्कृतशिक्षणस्य विस्तारः वेगेन अनवरुद्धया गत्या जायमानः अस्ति। अत्र संस्कृतविद्यालयानां सङ्ख्या वर्धमाना अस्ति। आश्चर्यजनकविषयः एषः अस्ति यत् रायपुरस्थे केन्द्रीयकारागारे संस्कृतविद्यालयः आरब्धः अस्ति इति। संस्कृतविद्यार्थिविद्यार्थिनीनां सङ्ख्या वर्धमाना अस्ति। गौरवस्य विषयः एषः अस्ति यत् छत्तीसगढस्य संस्कृतविद्यालयेषु वनवासीविद्यार्थिविद्यार्थिनीनां सङ्ख्या सर्वाधिका अस्ति इति। एवं छत्तीसगढे संस्कृतशिक्षणं शासनद्वारा सुव्यवस्थितं क्रियमाणं वर्तते। प्राच्यसंस्कृतविद्यालयस्य आरम्भणार्थं प्रतिभूतिराश्यां अपकर्षः (छूट) प्रदत्तः वर्तते। प्राच्यसंस्कृतविद्यालयनिमित्तं संस्कृते स्वालम्बयुक्तपाठ्यक्रमः निर्मितः अस्ति। वर्तमानपरिस्थितौ प्राच्यसंस्कृतस्य शिक्षणं प्रथमातः अर्थात् षष्टकक्षातः आरब्धा भवति। छत्तीसगढे अधुना संस्कृतस्य प्राथमिकस्तरस्य निश्चयः कृतः वर्तते। एतदनुसारं प्रथमकक्षातः पञ्चमकक्षापर्यन्तं प्रवेशिकास्तरीयः पाठ्यक्रमः निर्धारितः अस्ति। सामान्यविद्यालयेषु तृतीयकक्षातः पञ्चमकक्षापर्यन्तं संस्कृतस्य समावेशः कृतः वर्तते। अत्रत्यायां Higher Secondary कक्षायां संस्कृतस्य प्रथमभाषात्वेन स्थानं प्राप्तमस्ति। प्रथमास्तरे अध्ययनवताम् अध्ययनवतीनां च विद्यार्थिविद्यार्थिनीनां कृते छात्रवृत्तिः दीयमाना वर्तते। प्राच्यसंकृतविद्यालयेषु सौविध्यसम्पन्नतायै अनुदानप्रवृत्तिः उपक्रान्तः अस्ति।
छत्तीसगढे संस्कृतशिक्षणाय संस्कृतभारतेः अपि च संस्कृतस्य राष्ट्रीतस्तरस्य विदुषां सहयोगः मार्गदर्शनं च नितरां प्राप्यमाणं वर्तते। संस्कृतभारतीद्वारा संस्कृतशिक्षकप्रशिक्षणं अपि च संस्कृतस्य शैक्षणिकगतिविधीनां सम्पादनं क्रियमाणं वर्तते। संस्कृतशिक्षणं प्रोत्साहयितुं राज्यसर्वकारः कृतसङ्कल्पः अस्ति।
महेन्द्रासंस्कृतविश्वविद्यालयः नेपालदेशे
महेन्द्रासंस्कृतविश्वविद्यालयस्य स्थापना 1986 तमे वर्षे अभवत् । विंशत्याः शताब्दस्य अष्टमे दशके (1980) नेपालस्य सर्वकारः प्रतिविषयं भिन्नस्य विश्वविद्यालयस्य स्थापनायाः योजना स्वीकृता । इतः पूर्वं नेपालदेशे एकः एव विश्वविद्यालयः त्रिभुवनविश्वविद्यालयः नामकः आसीत् । नूतनयोजनानुसारं प्रतिविश्वविद्यालयं विशिष्टां प्रकृतिं विशिष्टं विषयं विशिष्टां संरचनां च स्थापयिष्यति । अस्यां योजनायाम् एव महेन्द्रसंस्कृतविश्वविद्यालयस्य स्थापना जाता । नेपालस्य महेन्द्रसंस्कृतविश्वविद्यालयस्य उद्देश्यम् आसीत् यत् व्यवस्थितं संस्कृशिक्षणं तथा च संस्कृतस्य रक्षणं कुर्यात्, यथाशक्यं संस्कृतभाषायाः प्रोत्साहनं कुर्यात् । एतस्य एतदपि लक्ष्यम् आसीत् यत् संस्कृतानु-सन्धातॄणाम् संरक्षणं कुर्यात् । ये अनुसन्धातारः संस्कृतसंस्कृत्याः रक्षणं कुर्युः तथा च संस्कृतभाषया सहस्रेभ्यः वर्षेभ्यः पूर्वं संस्कृतभाषया लिखितानां ग्रन्थानां विचाराणां च सामजिकेभ्यः अवबोधनं कुर्यः । विश्वविद्यालयात् एषा अपेक्षा कृता यत् एतस्य अनुसन्धातारः आयुर्वेदं, ज्यौतिषं, प्राकृतिकचिकित्सां यौगिकविज्ञानं च विशेषतया जानन्तु अनुसन्धानं च कुर्वन्तु । अपरं किञ्चन उद्देश्यम् एतस्य विश्वविद्यालयस्य एतत् अपि आसीत् यत् विश्वविद्यालयः नेपालवासिनां समाजे विभिन्नेषु अङ्गेषु वर्तमानानायाः संस्कृतभाषायाः ज्ञानस्य अपि पोषणं कुर्यात् । समाजस्य अपेक्षां मनसि निधाय केचन आधुनिकाः विषयाः यथा नेपालीभाषा,आग्ङ्भाषा, गणितम्, अर्थशास्त्रम्, तथा च राजनीतिशास्त्रादयः अपि पाठ्यन्ते । नेपालस्य महेन्द्र संस्कृतविश्वविद्यालयः विभिन्नेषु प्राच्येषु नव्येषु विषयेषु उत्तरमध्यमा समकक्ष द्वादशीकक्षा, शास्त्री समकक्ष स्नातकोपाधिः, आचार्यः समकक्ष स्नातकोत्तरोपाधिं विद्यावारिधि इत्यादीन् पाठ्यक्रमान् अपि चालयति । नृपः ज्ञानेन्द्रवीरविक्रमसाहदेवः एतस्य विश्वविद्यालयस्य कुलपतिः, शिक्षामन्त्री च उपकुलपतिः आस्ताम् । एतस्य विश्वविद्यालयस्य मुख्यः कार्यालयः बेलझुण्डी, दङ्गस्थाने नेपाले वर्तते । यद्यपि एतस्य स्थापना 1986 तमे वर्षे जाता तथापि एतस्य अधीनं द्वादशविद्यापीठानां त्रयोदश परिसराणां स्थापना कृता वर्तते ।
राष्ट्रियसंस्कृतसंस्थानम् नवदेहली
राष्ट्रियसंस्कृतसंस्थानम् नवदेहली
राष्ट्रियसंओस्कृतसंस्थानं भारतसर्वकारेण नवदेहल्यां 1970 ख्रिस्तीयाब्दस्य अक्तूबरमासस्य 15 तारिकायां संस्थापित्, सोसाइटी रजिस्ट्रेशन एक्ट (सं0221) 1860 द्वारा निबन्धितञ्च । स्वायत्तसंस्थानस्यास्या सम्पूर्णव्ययभारः भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयेन निरुह्यते । संस्थानस्य उद्देश्यमस्ति संस्कृतभाषायाः संस्कृतसाहित्यस्य च, विशेषतः पारम्परिकसंस्कृतविद्यायाः संरक्षणं, सम्वर्धनं, सम्प्रसारणञ्च ।
संघटनम्
साधारणसभा संस्थानस्य सर्वश्रेष्ठा नीतिनिर्धारिका समितिरस्ति, शासिपरिषच्च कार्यकारिणी समितिः । उभयोः समित्योरध्यक्षस्य मनोनयनं भारतसर्वकारद्वारा विधीयते । सम्प्रति केन्द्रियमानवसंसाधन-विकासमन्त्री संस्थानस्याध्यक्ष्यं निर्वहति । साधारणसभाद्वारा निर्धारितां नीतिं शासिपरिषत् कृतार्थयति । शासिपरिषदः दायित्वानां निर्वहणे अधो निर्दिष्टाः समितयः साहाय्यमाचरन्ति –
1. अर्थसमितिः (फाइनेन्स कमेटी)
2. विद्यापरिषद् (एकेडमिक काऊंसिल)
3. प्रकाशनसमितिः (पब्लिकेशन कमेटी)
4. शोधसमितिः (रिसर्च -बोर्ड)
5. परीक्षामण्डलम् (एक्जामिनेशन बोर्ड)
निदेशकः- संस्थानस्य प्रधानः प्राशासनिकः शैक्षणिकश्चाधिकारी अस्ति यः भारतसर्वकारद्वारा नियुज्यते । विविधगतिविधीनां निर्वाहे उपनिदेशकाः सहायकनिदेशकाश्चास्य साहाय्यमापादयन्ति ।
संस्थानं शैक्षणिक-शोधप्रकाशन-पत्राचारपाठ्यक्रम-परीक्षा-प्रशासन-वित्तानि इति षण्णां विभागानां माध्यमेन स्वकार्याणि सम्पादयति । प्रतिविभागस्य प्रमुखः उपनिदेशकः भवति ।
गतिविधयः –
निर्धारितोद्देश्यानां पूरणाय संस्थानमधोनिर्दिष्टान् गतिविधीन् आचरति –
1.शिक्षणम्
(अ) संस्थानं प्रथमापूर्वमध्यमोत्तरमध्यमाप्राक्शास्त्रिशास्त्र्याचार्य-पाठ्यक्रमान् (क्रमशः मिडिल-सेकेण्डरी-सीनियरसेकेण्डरी/इण्टरमीडिएट-बी0 ए0-एम0 ए0 समकक्षान्) आधृत्य पारम्परिकपद्धत्या संस्कृतशिक्षणं प्रवर्तयति ।
(आ) शिक्षाशास्त्र्याद्युपाधये प्रशिक्षणपाठ्यक्रमं प्रचाल्य प्रशिक्षार्थिनः शिक्षकाँश्च प्रशिक्षयति ।
2. शोधः –
(अ) संस्कृतवाङ्मयस्य विभिन्नासु शाखासु शोधकार्याणि व्यवस्थापयति, विद्यावारिधिरित्युपाधिं च प्रयच्छति शोधकृद्भ्यः ।
(आ) संस्कृतवाङ्मयस्य विभिन्नेष्वङ्गेषु शोधकार्यक्रमान् स्वीकरोति ।
(इ) दुर्लभसंस्कृतपाण्डुलिपीनां सम्पादनप्रकाशनादिकमाचरति ।
3. प्रकाशनम् –
(अ) अङ्गभूतविद्यापीठद्वारा सम्पादितान् शोधग्रन्थान् दुर्लभपाण्डुलिपींश्च प्रकाशयति ।
(आ) संस्कृतविमर्शः (अर्धवार्षिकः) गङ्गानाथझाकेन्द्रियसंस्कृतविद्यापीठशोधपत्रिका (त्रैमासिकी) चेति शोधपत्रिकाद्वयं प्रकाशयति ।
(इ) मौलिकसंस्कृतग्रन्थानां प्रकाशनाय विद्वद्भ्यः संस्थाभ्यश्च अशीतिप्रतिशतमार्थिकं साहाय्यं प्रयच्छति ।
(ई) प्रकाशकानां माध्यमेन अप्राप्यदुर्लभसंस्कृतग्रन्थानां प्रकाशनायार्थिकं साहाय्यं प्राप्यते ।
4. संस्कृतपाण्डुलिपीनां संग्रहणं संरक्षणञ्च
(अ) संस्कृतपाण्डुलिपीनां संग्रहं संरक्षणञ्च करोति, शुल्कग्रहणपूर्वकं संस्थाभ्यः पाण्डुलिपीनां प्रतिलिपिञ्च वितरति ।
(आ) प्रयागस्थगङ्गानाथझाकेन्द्रियसंस्कृत-विद्यापीठस्य पाण्डुलिपिसंग्रहालये विभिन्नाशास्त्रसम्बद्धाः पञ्चाशत्सहस्त्रमिताः पाण्डुलिपयः वर्तन्ते ।
5. पत्राचारपाठ्यक्रमः –
देशे विदेशे च हिन्दिमाध्यमेन अंग्रेजीमाध्यमेन च प्रारम्भिकसंस्कतशिक्षार्थिनां कृते संस्कृतभाषाशिक्षणार्थं संस्थानं द्विवर्षीयं पत्राचारपाठ्यक्रमं सञ्चालयति ।
6. पारम्परिकसंस्कृतशिक्षणार्थं पाठ्यक्रमस्य निर्धारणम् –
स्वकीयेषु विद्यापीठेषु संबद्धसंस्थासु चादितोऽन्तं यावत् (प्रथमातः आचार्यपर्यन्तं शिक्षाशास्त्रिकक्षान्तं वा) पारम्परिकपद्धत्या संस्कृतशिक्षणार्थं पाठ्यक्रमं निर्धारयति ।
7. परीक्षा-
(अ) संस्थानद्वारा संबद्धसंस्थाद्वारा च सञ्चाल्यमानेषु निखिलेषु पाठ्यक्रमेषु परीक्षाः आयोजयति । प्रथमापूर्वमध्यमोत्तर – मध्यमा/ प्राक्शास्त्रिशास्त्र्याचार्योपाधीन् (क्रमशः मिडिल-सेकेण्डरी-सीनियर-सेकेण्डरी/इण्टरमीडिएट-बी0 ए0-एम0 ए0 समकक्षान्) प्रयच्छति ।
(आ) शिक्षाशास्त्रिपाठ्यक्रमे प्रवेशाय अखिलभारतीयां पूर्वशिक्षा-शास्त्रिप्रवेशपरीक्षाम् ( पी0 एस0 एस0 टी0) आयोजयति ।
(इ) विद्यापीठानां संबद्धसंस्थानां च शोधकर्तृभ्यः शोधप्रबन्धपरीक्षणपूर्वकमौखिकपरी-क्षानन्तरं विद्यावारिधिः (पी-एच0 डी) इत्युपाधिं प्रयच्छति ।
8.केन्द्रियसंस्कृतविद्यापीठानां संस्थापनम् –
पारम्परिकपद्धत्या संस्कृतशिक्षणाय संस्थानं देशस्य विविधेषु प्रान्तेषु केन्द्रियसंस्कृतविद्यापीठानि संस्थापयति, अधिगृह्णाति, सञ्चालयति च ।
9. संस्कृतसंस्थानां सम्बन्धनम्
संस्कृते विभिन्नपाठ्यक्रमसञ्चालनार्थमन्यान्यसंस्कृतसंस्थाभ्यः सम्बद्धतां प्रददाति ।
10. छात्रवृत्तिः –
स्वकीयविद्यापीठेषु देशे विद्यमानास्वन्यासु संस्थासु च संस्कृताध्येतृभ्यः सुयोग्यछात्रेभ्यः संस्थानं छात्रवृत्तीः प्रयच्छति । संस्थाने विविधाच्छात्रवृत्तयः कल्पिताः सन्ति ।
1. उच्चमाध्यमिकोत्तरच्छात्रवृत्तिः (स्नातकोत्तरपर्यन्तम्)
2. शोधच्छात्रवृत्तिश्च ।
10. योजना –
संस्थानं संस्कृतभाषायाः संस्कृतसाहित्यस्य च सम्वर्धनसम्प्रसारणार्थं मानवसंसाधनविका – समन्त्रालयभारतसर्वकारेण प्रवर्तिताः अनेकाः योजनाः सञ्चालयति ।
(अ) शास्त्रचूडामणियोजना
संस्कृतवाङ्मयस्य विभिन्नेषु शास्त्रेषु शिक्षकाणां छात्राणाञ्च गहनशिक्षणार्थं विद्यापीठेषु इतरसंस्कृतसंस्थासु च विख्यातः सेवानिवृत्ताः संस्कृतविद्वांसः अस्यां योजनायां संस्थानेन वर्षद्वयाय (अग्रेऽपि वर्षमेकं यावत्कालः वर्धितुं शक्यते) नियोज्यन्ते ।
(आ) ग्रन्थक्रययोजना
संस्थानम् अस्यां योजनायां लेखकेभ्यः प्रकाशकेभ्यश्च संस्कृतग्रन्थान् क्रीत्वा संस्कृतसंस्थाभ्यः निश्शुल्कं वितरति ।
(इ) संस्कृतशब्दकोशपरियोजना
अत्रैतिहासिकसिद्धान्तानाश्रित्य विश्वकोषात्मकस्य संस्कृतशब्द-कोशस्य निर्माणार्थं प्रकाशनार्थञ्च पुण्यपत्तनस्थितस्य डेकनकोलेजसंस्थायै वार्षिकमनुदानं प्रदीयते । कार्यमिदमन्ताराष्ट्रियं महत्त्वमवधारयति । अद्यावधि अस्य षट् खण्डाः 3048 पृष्ठमिताः प्रकाशिताः ।
(ई) व्यावसायिककप्रशिक्षणयोजना
अत्र ज्योतिष-कर्मकाण्ड-पुरालिपिशास्त्र-पाण्डुलिपिविज्ञान-संस्कृताशुलिपि-संस्कृतटङ्कणादिषु संस्कृतच्छात्राणां कृते स्वल्प-कालिकव्यावसायिकप्रशिक्षणस्य आयोजनार्थं संस्कृतसंस्थाभ्यः आर्थिकं साहाय्यं दीयते ।
(उ) स्वैच्छिकसंस्कृतसङ्घटनेभ्यो वित्तीयसाहाय्यम्
अस्यां योजनायां, संस्कृतस्य विकासार्थं, प्रचारप्रसारार्थञ्च आयोज्यमानानां कार्यक्रमाणामनुवर्तनाय, संवर्द्धनाय च स्वैच्छिकसंस्कृतसङ्घटनेभ्यः 75% यावदार्थिकं साहाय्यं दीयते ।
(ऊ) आदर्शसंस्कृतमहाविद्यालय-/शोधसंस्थानत्वेन
मान्यताप्राप्ताभ्यः संस्थाभ्यः वित्तीयसाहाय्यम्
अस्यां योजनायां, विशिष्टा विद्वांसः (15 संस्कृतविदः, 3 अरबीविदः, 3 फारसी-विदश्च) प्रतिवर्षं स्वतन्त्रतादिवससमारोहावसरे भारतसर्वकारस्य राष्ट्रपतिसम्मानपत्रेण पुरस्कृता भवन्तिः, तेभ्यो विद्वद्भ्य आजीवनं प्रतिवर्षं 50,000/- रूप्यकाणाम् आर्थिकमनुदानं दीयते ।
(ऋ) अखिलभारतीयसंस्कृतवाक्स्पर्धा
अस्यां योजनायां, पारम्परिकसंस्कृतापाठशालाच्छात्राणां कृते प्रतिवर्षं अखिलभारतीयसंस्कृतवाक्स्पर्धा आयोज्यते । यत्र समस्यापूर्तिं, श्लोकान्त्याक्षरीं चातिरिच्य अष्टसु शास्त्रीयविषयेषु स्पर्धा आयोज्यन्ते ।
12. अन्ताराष्ट्रियसहयोगः –
अन्ताराष्ट्रियसंस्कृतसमितिभिः सह संस्थानम् अन्ताराष्ट्रियं संस्कृतसम्मेलनमायोजयति । उल्लेखनीयं यत् 1981 तमे वर्षे वाराणस्यां संस्थानेन पञ्चमं विश्वसंस्कृतसम्मेलनमायोजितम् । दशमविश्वसंस्कृतसम्मेलनम् 1977 वर्षे जनवरीमासे 3-9 दिनाङ्केषु बेंगलूरनगरे समायोजितम् ।
13. अङ्गभूतविद्यापीठानि –
संस्थानं मुख्यालयस्य अष्टसंख्यकानामङ्गभूतकेन्द्रियसंस्कृत-विद्यापीठानां च माध्यमेन कार्यं सम्पादयति ।
1. श्रीसदाशिवकेन्द्रियसंस्कृतविद्यापीठम्,
पुरी (उड़ीसा) 752001 दूरभाषा (06752) 23439
2.गङ्गानाथझाकेन्द्रियसंस्कृतविद्यापीठम्, चन्द्रशेखर- आजाद- पार्क, इलाहबाद, (उ0.प्र0)211002 । दूरभाषः (0532) 600957
3. श्रीरणवीरकेन्द्रियसंस्कृतविद्यापीठम्, कोट-भलवालः, जम्मू, (जम्मू-काश्मीरम्)-181122
4. गुरुवायूरकेन्द्रियसंस्कृतविद्यापीठम्, पुरनाटुकरा, त्रिचूरः, (केरलम्) 680551 । दूरभाषाः (0487) 711208
5. केन्द्रियसंस्कृतविद्यापीठम्, बी-89, बापूनगरम्, गणेशमार्गः, जयपुरम्, (राजस्थानम्)302015 । दूरभाषः (0141)511623
6. केन्द्रियसंस्कृतविद्यापीठम्, विशालखण्डः-4, गोमतीनगरम्, लखनऊ, (उ0प्र0)226010 । दूरभाषः (0522) 393748
7. श्रीरामजीवगान्धिकेन्द्रियसंस्कृतविद्यापीठम्, श्रृङ्गेरी, चिकमंगलूरः, (कर्नाटकः) 577139 । दूरभाषः (08265) 62258
8. केन्द्रियसंस्कृतविद्यापीठम्, बलाहरः, जिला-काँगड़ा (हिमाचल प्रदेश) 177108 । दूरभाषः 01970-45409
अधिकविवरणाय सम्पर्कसंकेतः – ग्रामः संस्थान
निदेशकः, फैक्सः 011-5541948
राष्ट्रियसंस्कृतसंस्थानम् दूरभाषः 551949
56-57,इन्स्टीट्यूशनल एरिया E-PABX: 5540993
जनकपुरी, नई दिल्ली-110058 5540995
प्रकाशकः राष्ट्रियसंस्कृतसंस्थानम्, नयी दिल्ली-110058
मुद्रकः अमर प्रिंटिंग प्रैस, दूरभाषः 7252362, 7135725