संस्कृतविश्वविद्यालयाः
भारते संस्कृतम् अन्येषां देशानामपेक्षया अधिकप्रचलनेन अस्ति । अत्र लक्षशः छात्राः नियमितम् अथवा निजीरूपेण संस्कृतस्य अध्ययनं कुर्वन्तः सन्ति । अत्र अधिकाजनाः स्वकीयं भविष्यं संस्कृते उत्तमं भावयन्ति । आधुनिकयुगे शिक्षाभावना जागृता अस्ति । अधुना एकः संस्कृत- छात्रः अपि उत्तमे विश्वविद्यालये गत्वा सम्यग्रूपेण अध्ययनं कर्तुमिच्छति । अधुना विश्वजाले संस्कृतविषये कार्यं कृतवन्तः ते अपि अधिकमस्य विषये चिन्तितवन्तः । अस्मिन् पुटके अस्माभिः ये के अपि संस्कृतविश्वविद्यालयाः सन्ति तेषां विषये सम्पूर्णाः सूचनाः, दूरभाषक्रमाङ्काः पत्रसङ्केता इत्यादिकाः स्थापनस्य प्रयासः कृतः येन छात्राणामधिकाधिका सहायता भवेत् ।