परिचयः
* संस्कृतभाषां व्यवहारभाषां कर्तुं १९८१ तमे वर्षे संस्कृतभारत्या संघटनेन कार्यम् आरब्धम्।
*संघटनस्य आरम्भः कर्नाटक-राज्यस्य बेङ्गलूरु नगरे अभवत्।
* प्रारम्भकर्तारः आदौ त्रयः कार्यकर्तारः आसन्
१. श्रीचमूकृष्णशास्त्री ।
२. श्रीजनार्दनहेगङे ।
३. श्रीसदानन्ददीक्षितः ।
* संस्कृतसम्भाषणशिविर-माध्यमेन तैः समाजे कार्यम् आरब्धम्।
* सम्भाषणशिविरभाग-गृहितृभिः यदा कार्यं कर्तुम् इष्टं तदा तेषां प्रशिक्षणाय (शिविरचालनाभ्यासाय) प्रथमस्य आवासीयवर्गस्य आयोजनं कृतम्।
प्रथमः आवासीय वर्गः। स्थानम्-
सङ्ख्या-
दिनाङ्क-
* एवं क्रमशः कार्यकर्तृणां संख्या वर्धिता।
* अधिकानां आवासीयवर्गाणां तथा च शिक्षकप्रशिक्षकवर्गाणाम् आरम्भः।
* पूर्णकालिकरूपेण कार्यं कर्तुम् इष्टवद्भ्यः संघस्य साहाय्येन विशिष्ट-वर्गाणाम् आयोजनम्।
* भाषासौष्ठववर्धनाय व्याकरणबोधनवर्गस्य आयोजनम्।
* कर्नाटकात् समीपस्थराज्येषु(आन्ध्र,तमिलनाडु,केरल,महाराष्ट्र,उडीसा)कार्यारम्भः।
*१००० शिविराणाम् आयोजनम्।
* उत्तरप्रदेशे कार्यारम्भः। गङ्गातटे समारोपकार्यक्रमः ।
* हिमाचलप्रदेशे १९९९ तमे वर्षे कार्यारम्भः ।
प्रमुखाः कार्यक्रमाः
*संस्कृत सम्भाषण शिविरम् , अवधि- १० दिनानि – प्रतिदिन-2घण्टा , विधि- प्रत्यक्षपद्धतिः
* साप्ताहिकनेलनम्।
* संस्कृत-आवासीयवर्गः – १० दिनानि अखण्डं संस्कृतमयं वातावरणम्।
* सस्कृतशिक्षणकेन्द्रम्।
* बालकेन्द्रम्।
* संस्कृतगृहम्।
* संस्कृतसप्ताहः।
* अल्पावधिविस्तारकयोजना।
* संस्कृतभारती-विस्तारकयोजना।
पत्रसङ्केतः –
संस्कृतभारती
माता मन्दिर गली, झण्डेवाला, नई दिल्ली -110055
दूरभाषा 011-3517689,
Email : samskrit@ndf.vsnl.net.in